श्रीविष्णुपुराणम्
अथ पञ्चमांशे एकविंशोऽध्यायः
श्रीपराशर उवाच
तौ समुत्पन्नविज्ञानौ भगवत्कर्मदर्शनात् ।
देवकीवसुदेवौ तु दृष्ट्वा मायां पुनर्हरिः ।
मोहाय यदुचक्रस्य विततान स वैष्णवीम् ॥ १ ॥
ताविति ॥ मायां– योगमायाम् ॥ १ ॥
उवाच चांब हे तात चिरादुत्कण्ठितेन मे ।
भवन्तौ कंसभीतेन दृष्टौ संकर्षणेन च ॥ २ ॥
कुर्वतां याति यः कालो मातापित्रोरपूजनम् ।
तत्खण्डमायुषो व्यर्थमसाधूनां हि जायते ॥ ३ ॥
गुरुदेवद्विजातीनां मातापित्रोश्च पूजनम् ।
कुर्वतां सफलः कालो देहिनां तात जायते ॥ ४ ॥
उवाचेति ॥ मे–मया ॥ २४ ॥
तत्क्षन्तव्यमिदं सर्वमतिक्रमकृतं पितः ।
कंसवीर्यप्रतापाभ्यामावयोः परवश्ययोः ॥ ५ ॥
श्रीपराशर उवाच
इत्युक्त्वाऽथ प्रणम्योभौ यदुवृद्धाननुक्रमात् ।
यथावदभिपूज्याथ चक्रतुः पौरमाननम् ॥ ६ ॥
कंसपत्न्यस्ततः कंसं परिवार्य हतं भुवि ।
विलेपुर्मातरश्चास्य दुःखशोकपरिप्लुताः ॥ ७ ॥
बहुप्रकारमस्वस्थाः पश्चात्तापातुरो हरिः ।
ताःसमाश्वासयामास स्वयमस्राविलेक्षणः ॥ ८ ॥
उग्रसेनं ततो बन्धान्मुमोच मधुसूदनः ।
अभ्यसिंचत्तदैवैनं निजराज्ये हतात्मजम् ॥ ९ ॥
राज्येऽभिषिक्तः कृष्णेन यदुसिंहःसुतस्य सः ।
चकार प्रेतकार्याणि ये चान्ये तत्र घातिताः ॥ १० ॥
कृतौर्ध्वदैहिकं चैनं सिंहासनगतं हरिः ।
उवाचाज्ञापय विभो यत्कार्यमविशङ्कितः ॥ ११ ॥
तदिति ॥ अतिक्रमकृतमिदं सर्व क्षन्तव्यम् । अतिक्रमकारणमाह – कंसवीर्येति ॥ ५ – ११ ॥
ययातिशापाद्वंशोऽयमराज्यार्होऽपि सांप्रतम् ।
मयि भृत्ये स्थिते देवानाज्ञापयतु किं नृपैः ॥ १२ ॥
ययातीति ॥ कि नृपैराज्ञप्तैः ।। १२ ।।
श्रीपराशर उवाच
इत्युक्त्वा सोऽस्मरद्वायुमाजगाम च तत्क्षणात् ।
उवाच चैनं भगवान्केशवः कार्यमानुषः ॥ १३ ॥
गच्छेदं ब्रूहि वायो त्वमलं गर्वोण वासव ।
दीयतामुग्रसेनाय सुधर्मा भवता सभा ॥ १४ ॥
कृष्णो ब्रवीति राजार्हमेतद्रत्नमनुत्तमम् ।
सूधर्माख्यसभा युक्तमस्यां यदुभिरासितुम् ॥ १५ ॥
श्रीपराशर उवाच
इत्युक्तः पवनो गत्वा सर्वमाह शचीपतिम् ।
ददौ सोऽपि सुधर्माख्यां सभां वायोः पुरन्दरः ॥ १६ ॥
वायुना चाहृतां दिव्यां सभां ते यदुपुङ्गवाः ।
बुभुजुःसर्वरत्नाढ्यां गोविन्दभुजसंश्रयाः ॥ १७ ॥
इतीति ॥ कार्यमानुषः ––धर्मसंस्थापनादिकार्येण मानुषः ॥ १३ – १७ ॥
विदिताखिलविज्ञानौ सर्वज्ञानमयावपि ।
शिष्याचार्यक्रमं वीरौ ख्यापयन्तौ सदूत्तमौ ॥ १८ ॥
विदितेति ॥ मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः इत्यमरः । क्रमः – पारंपर्यम् ॥ १८ ॥
ततःसांदीपनिं काश्यमवन्तीपुरवासिनम् ।
विद्यार्थं जग्मतुर्बालौ कृतोपनयनक्रमौ ॥ १९ ॥
वेदाभ्यासकृतप्रीति संकर्षणजनार्दनौ ।
तस्य शिष्यत्वमभ्येत्य गुरुवृत्तिपुरौ हि तौ ।
दर्शयाञ्चक्रतुर्वीरावाचारमखिले जने ॥ २० ॥
तत इति ।। काश्यं—वारणासीजातम् ॥ १९, २० ॥
सरहस्यं धनुर्वेदं ससंग्रहमधीयताम् ।
अहोरात्रचतुःषष्ट्या तदद्भुतमभूद्द्वूज ॥ २१ ॥
सरहस्यमिति ।। रहस्यम् – अस्त्रमन्त्रोपनिषत् । संग्रहः – अनप्रयोगसंस्थानाद्युपदेशः । अधीयताम् – अधीतवन्तौ । आर्षत्वात्साधुः ॥ २१ ॥
सांदीपनिरसंभाव्यं तयोः कर्मातिमानुषम् ।
विचिन्त्य तौ तदा मेने प्राप्तौ चन्द्रदिवाकरौ ॥ २२ ॥
सांगांश्च चतुरो वेदान्सर्वशास्त्राणि चैव हि ।
अस्त्रग्राममशेषं च प्रोक्तमात्रमवाप्य तौ ॥ २३ ॥
ऊचतुर्व्रियतां या ते दातव्या गुरुदक्षिणा ॥ २४ ॥
सांदीपनिरिति ।। असंभाव्यम् अन्येषु । कर्म – शस्त्रास्त्राणां शीघ्रधारणशीघ्रप्रयोगा दिकम् ॥ २२ – २४ ॥
सोऽप्यतीन्द्रियमालोक्य तयोः कर्म महामतिः ।
अयाचत सृतं पुत्रं प्रभासे लवणार्णवे ॥ २५ ॥
गृहीतास्त्रौ ततस्तौ तु सार्घ्यहस्तो महोदधिः ।
उवाच न मया पुत्रो हृतःसांदीपनेरिति ॥ २६ ॥
दैत्यः पञ्चजनो नाम शङ्खरूपः स बालकम् ।
जग्राह योऽस्ति सलिले ममैवासुरसूदन ॥ २७ ॥
श्रीपराशर उवाच
इत्युक्त्वोन्तर्जलं गत्वा हत्वा पञ्चजनं च तम् ।
कृष्णो जग्राह तस्यास्थिप्रभवं शङ्खमुत्तमम् ॥ २८ ॥
यस्य नादेन दैत्यानां बलहानिरजायत ।
देवानां ववृधे तेजो यात्यधर्मश्च संक्षयम् ॥ २९ ॥
तं पाञ्चजन्यमापूर्य गत्वा यमपुरं हरिः ।
बलदेवश्च बलवाञ्जित्वा वैवस्वतं यमम् ॥ ३० ॥
स इति ॥ अतीन्द्रियं – दिव्यम् ।। २५ – ३० ।।
तं बालं यातनासंस्थ यथापूर्वशरीरिणम् ।
पित्रे प्रदत्तवान्कृष्णो बलश्च बलिनां वरः ॥ ३१ ॥
मथुरां च पुनः प्राप्तावुग्रसेनेन पालिताम् ।
प्रहृष्टपुरुषस्त्रीकामुभौ रामजनार्दनौ ॥ ३२ ॥
तमिति ॥ यथापूर्वशरीरिणं कृत्वेति शेषः ॥ ३१ – ३२ ॥
इति श्रीविष्णुमहापुराणे पञ्चमांश एकविंशोध्यायः ।। २१ ।।
अथ पञ्चमांशे द्वाविंशोऽध्यायः
श्रीपराशर उवाच
जरासंधसुते कंस उपयेमे महाबलः ।
अस्तिं प्राप्तिं च मैत्रेय तयोर्भर्तृहणं हरिम् ॥ १ ॥
महा बलपरीवारो मगधाधिपतिर्बली ।
हन्तुमभ्याययौ कोपाज्जरासंधःसयादवम् ॥ २ ॥
॥ १, २ ॥
उपेत्य मथुरां सोऽथ रुरोध मगधेश्वरः ।
अक्षौहिणीभिः सैन्यस्य त्रयोविंशतिभिर्वृतः ॥ ३ ॥
निष्क्रम्याल्पपरीवारावुभौ रामजनार्दनौ ।
युयुधाते समं तस्य बलिनौ बलिसैनिकैः ॥ ४ ॥
उपेत्येति ॥ त्रयोविंशतिभिः – त्रयोविंशत्या ॥ ३, ४ ॥
ततो रामश्च कृष्णश्च मतिं चक्रतुरञ्जसा ।
आयुधानां पुराणानामादाने मुनिसत्तम ॥ ५ ॥
अनन्तरं हरेः शार्ङ्गं तूणी चाक्षयसायकौ ।
आकाशादागतौ विप्र तथा कौमोदकी गदा ॥ ६ ॥
हलं च बलभद्रस्य गगनादागतं महत् ।
मनसोऽभिमतं विप्र सानन्दं मुसलं तथा ॥ ७ ॥
ततो युद्धे पराजित्य ससैन्यं मगधाधिपम् ।
पुरीं विविशतुर्वीरावुभौ रामजनार्दनौ ॥ ८ ॥
तत इति ॥ अञ्जसा – शीघ्रम् ॥ ५ – ८॥
जिते तस्मिन्सुदुर्वृत्ते जरासंधे महा मुने ।
जीवमाने गते कृष्णस्तेनामन्यत नाजितम् ॥ ९ ॥
पुनरप्याजगामाथ जरासंधो बलान्वितः ।
जितश्च रामकृष्णाभ्यामपक्रान्तो द्विजोत्तम ॥ १० ॥
दश चाष्टौ च संग्रमानेवमत्यन्तदुर्मदः ।
यदुभिर्मागधो राजा चक्रे कृष्णपुरोगमैः ॥ ११ ॥
सर्वेष्वेतेषु युद्धेषु यादवैस्स पराजितः ।
अपक्राञ्चो जरासंधःस्वल्पसैन्यैर्बलाधिकः ॥ १२ ॥
जित इति ॥ तेन – जरासंधेन आत्मानमजितं न मेने – जितमित्येत्र मेने ॥ ९ – १२ ॥
न तद्बलं यादवानां विजितं यदनेकशः ।
तत्तु संनिधिमाहात्म्यं विष्णोरंशस्य चक्रिणः ॥ १३ ॥
मनुष्यधर्मशीलस्य लीला सा जगतीपतेः ।
अस्त्राण्यनेकरूपाणि यदरातिषु मुञ्चति ॥ १४ ॥
मनसैव जगत्सृष्टिं संहारं च करोति यः ।
तस्यापिपक्षक्षपणे कियानुद्यमविस्तरः ॥ १५ ॥
तथाऽपि यो मनुष्याणां धर्मस्तमनुवर्तते ।
कुर्वन्बलवता संधिं हीनैर्युद्धं करोत्यसौ ॥ १६ ॥
न तदित्यादि ।। जरासंधेन न जितमिति यत् तद्यादवानां न सामर्थ्यम् ॥ १३ – १६ ।।
साम चोपप्रदानं च तथा भेदं च दर्शयन् ।
करोति दण्डपातं च क्वचिदेव पलायनम् ॥ १७ ॥
मनुष्यदेहिनां चेष्टामित्येवमनुवर्तते ।
लीला जगत्पतेस्तस्य च्छन्दतः परिवर्तते ॥ १८ ॥
साम चेति ॥ क्वचित् – यवनादी ॥ १७, १८ ॥
इति श्रीविष्णुमहापुराणे पञ्चमाशे द्वाविंशोऽध्यायः ।। २२ ।।
अथ पञ्चमांशे त्रयोविंशोऽध्यायः
श्रीपराशर उवाच
गार्ग्यं गोष्ठ्यां द्विजं श्यालष्षण्ड इत्युक्तवान्द्विज ।
यदूनां सन्निधौ सर्वे जहसुर्यादवास्तदा ॥ १ ॥
गार्ग्यमिति ।। षण्ड इत्यपहासोऽनपत्यत्वात् ॥ १ ॥
ततः कोपपरीतात्मा दक्षिणापथमेत्य सः ।
सुतमिच्छंस्तपस्तेपे यदुचक्रभयावहम् ॥ २ ॥
आराधयन्महादेवं लोहचूर्णमभक्षयत् ।
ददौ वरं च तुष्टोऽस्मै वर्षे तु द्वादशे हरः ॥ ३ ॥
संतोषयामास च तं यवनेशो ह्यनात्मजः ।
तद्योषित्संगमाच्चास्य पुत्रोऽभूदलिसन्निभः ॥ ४ ॥
तं कालयवनं नाम राज्ये स्वे यवनेश्वरः ।
अभिषिच्य वनं यातो वज्रग्रकठिनोरसम् ॥ ५ ॥
स तु वीर्यमदोन्मत्तः पृथिव्यां बलिनो नृपान् ।
अपृच्छन्नारदस्तस्मै कथयामास यादवान् ॥ ६ ॥
म्लेच्छकोटिसहस्राणां सहस्रैः सोऽभिसंवृतः ।
गजाश्वरथसंपन्नैश्चकार परमोद्यमम् ॥ ७ ॥
तत इति ॥ दक्षिणापथं – विन्ध्याद्दक्षिणदेशम् ॥ २ – ७ ॥
प्रययौ स व्यवच्छिन्नं छिन्नयानो दिनेदिने ।
यादवान्प्रति सामर्षो मैत्रेय मथुरां पुरीम् ॥ ८ ॥
प्रययाविति ॥ छिन्नयान: – त्यक्तयानः । दिनेदिने श्रान्तं श्रान्तं यानं त्यक्त्वा अन्येना श्रान्तेन प्रययावित्यर्थः ॥ ८ ॥
कृष्णोऽपि चिन्तयामास क्षपितं यादवं बलम् ।
यवनेन रणे गम्यं मागधस्य भविष्यति ॥ ९ ॥
मागधस्य बलं क्षीणं स कालयवनो बली ।
हन्तैतदेवमायातं यदूनां व्यसनं द्विधा ॥ १० ॥
तस्माद्दुर्गं करिष्यामि यदूनामरिदुर्जयम् ।
स्त्रियोऽपि यत्र युद्धेयुः किं पुनर्वृष्णिपुङ्गवाः ॥ ११ ॥
कृष्णोऽपीत्यादि ॥ प्रागेव क्षीणं मागधस्य बलं स कालयवनों बलिवाद्वन्ता । अतोऽस्य बलं गदवैर्दुर्धर्षम् । यादवबलं चानेन क्षपितं चेत् मागधस्य गम्यं साध्यं भविष्यति । अतो द्विधा व्यसनमायातमिति चिन्तयामासेत्यन्वयः । अथवा यवनेन क्षपितं यादववलं मागधस्य गम्यं च भविष्यति । यद्यपि मागघस्य बलं प्रागेव क्षीणम, तथापि तत्सहायो यवनो बली हन्तैतदिति । एतत् एतस्मात् कारणात् द्विविधं व्यसनमायातमिति चिन्तयामासेति । हन्तेति विषादे ॥ ९ – ११ ॥
मयि मत्ते प्रमत्ते वा सुप्ते प्रवसितेऽपि वा ।
यादवाभिभवं दुष्टा मा कुर्वन्त्वरयोऽधिकाः ॥ १२ ॥
इति संचिन्त्य गोविन्दो योजनानां महोदधिम् ।
ययाचे द्वादश पुरीं द्वारकां तत्र निर्ममे ॥ १३ ॥
मयीति ॥ प्रमत्ते—अनवहिते । प्रवसिते – प्रोषिते ॥ १२, १३ ॥
महोद्यानां महावप्रां तटाकशतशोभिताम् ।
प्रासादगृहसंबाधामिन्द्रस्येवामरावतीम् ॥ १४ ॥
मथुरावासिनं लोकं तत्रानीय जनार्दनः ।
आसन्ने कालयवने मथुरां च स्वयं ययौ ॥ १५ ॥
महोद्यानामिति ॥ वप्रः – प्राकारमूलधिष्ण्यम् ॥ १४, १५ ॥
बहिरावासिते सैन्ये मथुराया निरायुधः ।
निर्जगाम च गोविन्दो ददर्श यवनश्च तम् ॥ १६ ॥
बहिरिति ।। बहिरावासिते सैन्ये । कालयवनेनेति शेषः ॥ १६ ॥
स ज्ञात्वा वासुदेवं तं बाहुप्रहरणं नृपः ।
अनुयातो महायोगी चेतोभिः प्राप्यते न यः ॥ १७ ॥
तेनानुयातः कृष्णोऽपि प्रविवेश महागुहाम् ।
यत्र शेते महावीर्यो मुचुकुन्दो नरेश्वरः ॥ १८ ॥
सोऽपि प्रविष्टो यवनो दृष्ट्वा शय्यागतं नृपम् ।
पादेन ताडयामास मत्वा कृष्णं सुदुर्मतिः ॥ १९ ॥
उत्थाय मुचुकुन्दोऽपि ददर्श यवनं नृपः ॥ २० ॥
दृष्टमात्रश्च तेनासौ जज्वाल यवनोऽग्निना ।
तत्क्रोधजेन मैत्रेय भस्मीभूतश्च तत्क्षणात् ॥ २१ ॥
स हि देवासुरे युद्धे गतो हत्वा महासुरान् ।
निद्रार्तःसुमहाकालं निद्रां वव्रे वरं सुरान् ॥ २२ ॥
प्रोक्तश्च देवैः संसुप्तं यस्त्वामुत्थापयिष्यति ।
देहजेनाग्निना सद्यःस तु भस्मीभविष्यति ॥ २३ ॥
एवं दग्ध्वा स तं पापं दृष्ट्वा च मधुसूदनम् ।
कस्त्वमित्याह सोऽप्याह जातोऽहं शशिनः कुले ।
वसुदेवस्य तनयो यदोर्वंशसमुद्भवः ॥ २४ ॥
स इति ॥ सः ज्ञात्वा –नारदोक्तलक्षणैः ॥ १७ – २४॥
मुचुकुन्दोऽपि तत्रासौ वृद्धगर्ग्यावचोऽस्मरत् ॥ २५ ॥
संस्मृत्य प्रणिपत्यैनं सर्वं सर्वेश्वरं हरिम् ।
प्राह ज्ञातो भवान् विष्णोरंशस्त्वं परमेश्वर ॥ २६ ॥
पुरा गार्ग्येण कथितमष्टाविंशतिमे युगे ।
द्वापरान्ते हरेर्जन्म यदुवंशे भविष्यति ॥ २७ ॥
स त्वं प्राप्तो न संदेहो मर्त्यानामुपकारकृत् ॥ २८ ॥
तथाहि सुमहत्तेजो नालं सोढुमहं तव ।
तथाहि सजलांभोदनादधीरतरं तव ।
वाक्यं नमति चैवोर्वी युष्मत्पादप्रपीडिता ॥ २९ ॥
देवासुरमहायुद्धे दैत्यसैन्यमहाभटाः ।
न सेहुर्मम तेजस्ते त्वत्तेजो न सहाम्यहम् ॥ ३० ॥
संसारपतितस्यैको जन्तोस्त्वं शरणं परम् ।
प्रसीद त्वं प्रपन्नार्तिहर नाशय मेऽशुभम् ॥ ३१ ॥
त्वं पयो निधयः शैलसरितस्त्वं वनानि च ।
मेदिनी गगनं वायुरापोऽग्निस्त्वं तथा मनः ॥ ३२ ॥
मुचुकुंद इति ॥ वृद्धगार्ग्यत्रच: वधार्यंत द्वापरस्यान्ते समुतत्स्यति केशव: इत्यादि ॥ २५ – ३२ ॥
बुद्धिरव्याकृतप्राणाः प्राणेशस्त्वं तथा पुमान् ।
पुंसः परतरं यच्च व्याप्यजन्मविकारवत् ॥ ३३ ॥
शब्दादिहीनमजरममेयं क्षयवर्जितम् ।
अवृद्धिनाशं तद्ब्रह्म त्वमाद्यन्तविवर्जितम् ॥ ३४ ॥
त्वत्तोऽमरास्सपितरो यक्षगन्धर्वकिन्नराः ।
सिद्धाश्चाप्सरसस्त्वत्तो मनुष्याः पशवः खगाः ॥ ३५ ॥
सरीसृपा मृगास्सर्वे त्वत्तस्सर्वे महीरुहाः ।
यच्च भूतं भविष्यं च किञ्चिदत्र चराचरम् ॥ ३६ ॥
मूर्तामूर्तं तथा चापि स्थूलं सूक्ष्मतरं तथा ।
तत्सर्वं त्वं जगत्कर्ता नास्ति किञ्चित्त्वया विना ॥ ३७ ॥
मया संसारचक्रेऽस्मिन्भ्रमता भगवंस्तदा ।
तापत्रयाभिभूतेन न प्राप्ता निर्वृतिः क्विचित् ॥ ३८ ॥
दुःखान्येव सुखानीति मृगतृष्णाजलाशयाः ।
मया नाथ गृहीतानि तानि तापाय मेऽभवन् ॥ ३९ ॥
राज्यमुर्वी बलं कोशो मित्रपक्षस्तथात्मजाः ।
भार्या भृत्यजनो ये च शब्दाद्या विषयाः प्रभो ॥ ४० ॥
सुखबुद्ध्या मया सर्वं गृहीतमिदमव्ययम् ।
परिणामे तदेवेश तापात्मकमभून्मम ॥ ४१ ॥
देवलोकगतिं प्राप्तो नाथ देवगणोऽपि हि ।
मत्तस्साहाय्यकामोऽभूच्छाश्वती कुत्र निर्वृतिः ॥ ४२ ॥
त्वामनाराध्य जगतां सर्वेषां प्रभवास्पदम् ।
शाश्वती प्राप्यते केन परमेश्वर निर्वृतिः ॥ ४३ ॥
त्वन्मायामूढमनसो जन्ममृत्युजरादिकान् ।
अवाप्य तापान्पश्यन्ति प्रेतराजमनन्तरम् ॥ ४४ ॥
बुद्धिरिति ॥ प्राणेशः – व्यष्टिवर्ग: । पुमान् – समष्टिपुरुषः । पुंसः परतरमिति परस्वरूपमाह ॥ ३३ – ४४ ॥
ततो निजक्रियासूतिनरकेष्वतिदारुणम् ।
प्राप्नुवन्ति नरा दुःखमस्वरूपविदस्तव ॥ ४५ ॥
अहमत्यन्तविषयी मोहितस्तव मायया ।
ममत्वगर्वगर्तान्तर्भ्रमामि परमेश्वर ॥ ४६ ॥
तत इति । निजक्रियासूति – स्वकर्मजम् ॥ ४५, ४६ ॥
सोऽहं त्वां शरणमपारमप्रमेयं संप्राप्तः परमपदं यतो न किञ्चित् ।
संसारभ्रमपरितापतप्तचेता निर्वाणे परिणतधाम्नि साभिलाषः ॥ ४७ ॥
सोऽहमिति ॥ परमपदं परमप्राप्यम् । यतः परमपदं न किंचित, तं त्वामित्यन्वयः । परिणत – धाम्नि – निरतिशयतेजसि ॥ ४७ ।।
इति श्रीविष्णुमहापुराणेच पञ्चमांशे त्रयोविंशोऽध्यायः ।। २३ ।।
अथ पञ्चमांशे चतुर्विंशोऽध्यायः
श्रीपराशर उवाच
इत्थं स्तुतस्तदा तेन मुचुकुन्देन धीमता ।
प्राहेशः सर्वभूतानामनादिनिधनो हरिः ॥ १ ॥
श्रीभगवानुवाच
यथाभिवाञ्छितान्दिव्यान्गच्छ लोकान्नराधिप ।
अव्याहतपरैश्वर्यो मत्प्रसादोपबृंहितः ॥ २ ॥
भुक्त्वा दिव्यन्महाभोगान्भविष्यसि महाकुले ।
जातिस्मरो मत्प्रसादात्ततो मोक्षमवाप्स्यसि ॥ ३ ॥
श्रीपराशर उवाच
इत्युक्तः प्रणिपत्येशं जगतामच्युतं नृपः ।
गुहामुखाद्विनिष्क्रान्तस्स ददर्शाल्पकान्नरान् ॥ ४ ॥
।। १ – ४ ॥
ततः कलियुगं मत्वा प्राप्तं तप्तुं नृपस्तपः ।
नरनारायणस्थानं प्रययौ गन्धमादनम् ॥ ५ ॥
कृष्णोऽपि घातयित्वाऽरिमुपायेन हि तद्वलम् ।
जग्राह मथुरामेत्य हस्त्यश्वस्यन्दनोज्ज्वलम् ॥ ६ ॥
आनीय चोग्रसेनाय द्वारवत्वां न्यवेदयत् ।
पराभिभवनिः शङ्कं बभूव च यदोः कुलम् ॥ ७ ॥
बलदेवोऽपि मैत्रेय प्रशान्ताखिलविग्रहः ।
ज्ञातिदर्शनसोत्कण्ठः प्रययौ नन्दगोकुलम् ॥ ८ ॥
ततो गोपाश्च गोप्यश्च यथा पूर्वममित्रजित् ।
तथैवाभ्यवदत्प्रेम्णा बहुमानपुरःसरम् ॥ ९ ॥
तत इति ॥ प्राप्तम् – आसन्नम् ॥ ५ – ९ ॥
स कैश्चित्संपरिष्वक्तः कांश्चिच्च परिषस्वजे ।
हास्यं चक्रे समं कैश्चिद्गोपैर्गोपीजनैस्तथा ॥ १० ॥
स इति ॥ कैश्चित् — वृद्धैः, कांश्चित् – यवीयसः, कैश्चित् – समैः ॥ १० ॥
प्रियाण्यनेकान्यवदन् गोपास्तत्र हलायुधम् ।
गोप्यश्च प्रेमकुपिताः प्रोचुस्सेर्ष्यमथापराः ॥ ११ ॥
प्रियाणीति ॥ गोप्यश्च मध्यस्थाः । अपरा रामकान्ताः ॥ ११ ॥
गोप्यः पप्रच्छुरपरा नागरीजनवल्लभम् ।
कच्चिदास्ते सुखं कृष्णश्चलप्रेमलवात्मकः ॥ १२ ॥
गोप्य इति ॥ अपराः— कृष्णकान्ता गोप्य: पप्रच्छुः ॥ १२॥
अस्मच्चेष्टामपहसन्न कच्चित्पुरयोषिताम् ।
सौभाग्यमानमधिकं करोति क्षणसौहृदः ॥ १३ ॥
अस्मदिति ॥ सौभाग्यमेव मानम् । अस्मच्चेष्टामपहसन्निति नागरीगर्वहेतुः । चेष्टापहसन मिति पाठेऽप्यमहसनं गर्वहेतुः ॥ १३ ॥
कच्चित्स्मरति नः कृष्णो गीतानुगमनं कलम् ।
अप्यसौ मातरं द्रष्टुं सकृदप्यागमिष्यति ॥ १४ ॥
कच्चिदिति ॥ गीतानुगमनं— गीतस्यानुगमनम् । अप्यसावित्युत्कण्ठा, चकारोऽध्याहार्यः ॥ १४ ॥
अथवा किं तदालापैः क्रियन्तामपराः कथाः ।
यस्यास्मभिर्विना तेन विनाऽस्माकं भविष्यति ॥ १५ ॥
अथवेति ।। अथवेति निर्वेदः । भविष्यति – जीवनं कालयात्रा वा । इदं चित्तसमाधानम् । विनेति स्नेहानुतापौ ॥ १५ ॥
पिता माता तथा भ्राता भर्ता बन्धुजनश्च किम् ।
संत्यक्तस्तत्कृतेऽस्माभिरकृतज्ञध्वजो हि सः ॥ १६ ॥
पितेति ॥ किं – किमर्थं संत्यक्तः ! अकृतज्ञानां ध्वजः – प्रधानः ॥ १६ ॥
तथापि कच्चिदालापमिहागमनसंश्रयम् ।
करोति कृष्णो वक्तव्यं भवता राम नानृतम् ॥ १७ ॥
तथापीति ॥ तथापीति प्रत्याशा ।। १७ ।।
दामोदरोऽसौ गोविन्दः पुरस्त्रीसक्तमानसः ।
अपेतप्रीतिरस्मासु दुर्दर्शः प्रतिभाति नः ॥ १८ ॥
दामोदर इति ॥ दुर्दर्श इति नैराश्योक्तिः ॥ १८ ॥
आमन्त्रितश्च कृष्णेति पुनर्दामोदरेति च ।
जहसुस्सस्वरं गोप्यो हरिणा हृतचेतसः ॥ १९ ॥
संदेशैस्साममधुरैः प्रेमगर्भैरगर्वितैः ।
रामेणाश्वासिता गोप्यः कृष्णस्यातिमनोहरैः ॥ २० ॥
गोपैश्च पूर्ववद्रामः परिहासमनोहराः ।
कथाश्चकार रेमे च सह तैर्व्रजभूमिषु ॥ २१ ॥
आमन्त्रितश्चेति ॥ अत्र भावसंकरस्य बीज हरिणा हृतचेतस्त्वम् । अत्र कृष्णरतिरूपस्थायीभावः । तत्संचारीभावस्तु निर्वेदादिः ।। १९ – २१ ।।
इति श्रीविष्णुमहापुराणे पञ्चमांशे चतुर्विंशोध्यायः ।। २४ ।।
अथ पञ्चमांशे पञ्चविंशोऽध्यायः
श्रीपराशर उवाच
वने विचरतस्तस्य सह गोपैर्महात्मनः ।
मानुषच्छद्मरूपस्य शेषस्य धरणीधृतः ॥ १ ॥
॥ १ ॥
निष्पादितोरुकार्यस्य कार्येणोर्वीप्रचारिणः ।
उपभोगार्थमत्यर्थं वरुणः प्राह वारुणीम् ॥ २ ॥
अभीष्टा सर्वदा यस्य मदिरे त्वं महौजसः ।
अनन्तस्योपभोगाय तस्य गच्छ मुदे शुभे ॥ ३ ॥
इत्युक्ता वारुणी तेन सन्निधानमथाकरेत् ।
वृन्दावनसमुत्पन्नकदं बतरुकोटरे ॥ ४ ॥
निष्पादितेति ॥ कार्येण – देवानाम् ॥ २ – ४ ॥
विचरन् बलदेवोऽपि मदिरागन्धमुत्तमम् ।
आघ्राय मदिरातर्षमवापाथ वराननः ॥ ५ ॥
ततः कदंबात्सहसा मद्यधारां स लाङ्गली ।
पतन्तीं वीक्ष्य मैत्रेय प्रययौ परमां मुदम् ॥ ६ ॥
पपौ च गोपगोपीभिः समुपेतो मुदाऽन्वितः ।
प्रगीयमानो ललितं गीतवाद्यविशारदैः ॥ ७ ॥
स मत्तोऽत्यन्तघर्मांभःकणिकामौक्तिकोज्ज्वलः ।
आगच्छ यमुने स्नातुमिच्छामीत्याह विह्वलः ॥ ८ ॥
तस्य वाचं नदी सा तु मत्तोक्तामवमत्य वै ।
नाजगाम ततः क्त्रुद्धो हलं जग्राह लाङ्गली ॥ ९ ॥
विचरन्निति ।। तर्षं – तृष्णाम् ।। ५ – ९ ।।
गृहीत्वा तां हलान्तेन चकर्ष मदविह्वलः ।
पापे नायासि नायासि गम्यतामिच्छयाऽन्यतः ॥ १० ॥
साकृष्टा सहसा तेन मार्गं संत्यज्य निम्नगा ।
यत्रास्ते बलभद्रोऽसौ प्लावयामास तद्वनम् ॥ ११ ॥
शरीरिणी तदाऽभ्येत्य त्रासविह्वललोचना ।
प्रसीदेत्यब्रवीद्रामं मुञ्च मां मुसलायुध ॥ १२ ॥
ततस्तस्याः सुवचनमाकर्ण्य स हलायुधः ।
सोऽब्रवीदवजानासि मम शौर्यबले नदि ।
सोऽहं त्वां हलपातेन नयिष्यामि सहस्रधा ॥ १३ ॥
श्रीपराशर उवाच
इत्युक्तयाऽतिसंत्रासात्तया नद्य प्रसादितः ।
भूभागे प्लाविते तस्मिन्मुमोच यमुनां बलः ॥ १४ ॥
ततः स्नातस्य वै कान्तिरजायत महात्मनः ॥ १५ ॥
गृहीत्वेति ॥ नायासि नायासीति कोपाद्वीप्सा । गम्यतां शक्तिरस्ति चेत् ॥ १० – १५ ।।
अवतंसोत्पलं चारु गृहीत्वैकं च कुण्डलम् ।
वरुणप्रहितां चास्मै मालामम्लानपङ्कजाम् ।
समुद्राभे तथा वस्त्रे नीले लक्ष्मीरयच्छत ॥ १६ ॥
कृतावतंसः स तदा चारुकुंडलभूषितः ।
नीलांबरधरःस्रग्वी शुशुभे कान्तिसंयुतः ॥ १७ ॥
इत्थं विभूषितो रेमे तत्र रामस्तथा व्रजे ।
मासद्वयेन यातश्च स पुनर्द्वारकां पुरीम् ॥ १८ ॥
रेवतीं नाम तनयां रैवतस्य महीपतेः ।
उपयेमे बलस्तस्यां जज्ञाते निशितोल्मुकौ ॥ १९ ॥
अवतंसेति ॥ अवतंसेत्यादि अयच्छतेत्यन्तमेकं वाक्यम् ॥ उत्पलं – महोत्पलम् । यथा हरिवंशे मीवचनम् जातरूपमयं चैकं कुण्डलं वज्रभूषणम् । आदिपद्मं च पद्माक्ष दिव्यं श्रवणभूषणम् ॥ धेहीमा प्रतिगृह्णीष्व पौराणीं भूषणक्रियाम् । संगृह्य तमलङ्कारं ताश्च तिस्रः स्त्रियो वभौ ॥ इति । तदेवमंत्र वारुणी – कान्तिलक्ष्म्यस्तिस्रश्शक्तयो रामस्य देव्य इत्युक्तम् ।। १६ – १९ ।।
इति श्रीविष्णुमहापुराणे पञ्चमांशे पञ्चविंशोध्यायः ।। २५ ।।
अथ पञ्चमांशे षड्विंशोऽध्यायः
श्रीपराशर उवाच
भीष्मकः कुण्डिने राजा विदर्भविषयेऽभवत् ।
रुक्मी तस्यभवत्पुत्रो रुक्मिणी च वरानना ॥ १ ॥
रुक्मिणीं चकमे कृष्णःसा च तं चारुहीसिनि ।
न ददौ याचते चैनां रुक्मिद्वेषेण चक्रिणे ॥ २ ॥
॥ १,२ ॥
ददौ च शिशुपालाय जरासन्धप्रचोदितः ।
भीष्मको रुक्मिणा सार्ध रुक्मिणीमुरुविक्रमः ॥ ३ ॥
विवाहार्यं ततः सर्वे जरासंधमुखा नृपाः ।
भीष्मकस्य पुरं जग्मुश्शिशुपालप्रियैषिणः ॥ ४ ॥
कृष्णोऽपि बलभद्राद्यैर्यदुभिः परिवारितः ।
प्रययौ कुण्डिनं द्रष्टुं विवाहं चैद्यभूभृतः ॥ ५ ॥
ददौ चेति ॥ जरासंधप्रचोदित इति ॥ शिशुपालो हि जरासन्यस्य दत्तपुत्रः, कृष्णस्तु
द्वेष्यः; अतस्तत्प्रीत्यै शिशुपालाय ददौ – वाचा ददौ ॥ ३ – ५ ॥
श्वो भाविनि विवाहे तु तां कन्यां हृतवान्हरिः ।
विपक्षभारमासज्य रामादिष्वथ बन्धुषु ॥ ६ ॥
ततश्च पैण्ड्रकश्र्श्रीमान्दन्तवक्रो विदूरथः ।
शिशुपालजरासंधसाल्वाद्याश्च महीभृतः ॥ ७ ॥
कुपितास्ते हरिं हन्तुं चक्रुरुद्योगमुत्तमम् ।
निर्जिताश्च समागम्य रामाद्यैर्यदुपुङ्गवैः ॥ ८ ॥
कुण्डिनं न प्रवेक्ष्यामि ह्यहत्वा युधि केशवम् ।
कृत्वा प्रतिज्ञां रुक्मी च हन्तुं कृष्णमनुद्रुतः ॥ ९ ॥
हत्वा बलं सनागाश्वं पत्तिस्यन्दनसंकुलम् ।
निर्जितः पातितश्चोर्व्यां लीलयैव स चक्रिणा ॥ १० ॥
निर्जित्य रुक्मिणं सम्यगुपयेमे च रुक्मिणीम् ।
राक्षसेन विवाहेन संप्राप्तां मधुसुदनः ॥ ११ ॥
तस्यां जज्ञे च प्रद्युम्नो मदनांशस्सवीर्यवान् ।
जहार शंबरो यं वै यो जघान च शंबरम् ॥ १२ ॥
वं इति ॥ विपक्षभारं– विपक्षयुद्धकृत्यम् ॥ ६ – १२ ।।
इति श्रिविष्णुमहापुराणे पञ्चमांशे षड्विशोध्यायः ।। २६ ।।
अथ पञ्चमांशे सप्तविंशोऽध्यायः
श्रीमैत्रेय उवाच
संबरेण हृतो वीरः प्रद्युम्नः स कथं मुने ।
शंबरः स महावीर्यः प्रद्युम्नेन कथं हतः ॥ १ ॥
यस्तेनापहृतः पूर्वं स कथं विजघान तम् ।
एतद्विस्तरतः श्रोतुमिच्छामि सरलं गुरो ॥ २ ॥
॥ १, २ ॥
श्रीपराशर उवाच
षष्ठेऽह्नि जातमात्रं तु प्रद्युम्नं सूतिकागृहात् ।
ममैष हन्तेति मुने हृतवान्कालशंबरः ॥ ३ ॥
हृत्वा चिक्षेप चैवैनं ग्राहोग्रे लवणार्णवे ।
कल्लोलजनितावर्ते सुघोरे मकारालये ॥ ४ ॥
पातितं तत्र चैवैको मत्स्यो जग्राह बालकम् ।
न ममार च तस्यापि जठराग्निप्रदीपितः ॥ ५ ॥
मत्स्यबन्धैश्च मत्स्योऽसौ मत्स्यैरन्यैः सह द्वज ।
घातितोऽसूरवर्याय शंबराय निवेदितः ॥ ६ ॥
तस्य मायावती नाम पत्नी सर्वगृहेश्वरी ।
कारयामास सूदानामाधिपत्यमनिन्दिता ॥ ७ ॥
दारिते मत्स्यजठरे सा ददर्शातिशोभनम् ।
कुमारं मन्मथतरोर्दग्धस्य प्रथमाङ्कुरम् ॥ ८ ॥
कोऽयं कथमयं मत्स्यजठरे प्रविवेशितः ।
इत्येवं कौतुकाविष्टां तन्वीं प्राहाथ नारदः ॥ ९ ॥
अयं समस्तजगतः स्थितिसंहारकारिणः ।
शंबरेण हृतो विष्णोस्तनयः सूतिकागृहात् ॥ १० ॥
क्षिप्तःसमुद्रे मत्स्येन निगीर्णस्ते गृहं गतः ।
नररत्नमिदं सुभ्रु विस्रब्धा परिपालय ॥ ११ ॥
श्रीपराशर उवाच
नारदेनैवमुक्ता सा पालयामास तं शिशुम् ।
बाल्यादेवातिरागेण रूपातिशयमोहिता ॥ १२ ॥
स यदा यौवनाभोगभूषितोऽभून्महामते ।
साभिलाषा तदा साऽपि बभूव गजगामीनि ॥ १३ ॥
षष्ठेऽहीति ॥ कालशंबर: – कालः कृष्णः, कालश्वासौ शंबरश्च ॥ ३ – १३ ।।
मायावती ददौ तस्मै मायाः सर्वा महामुने ।
प्रद्युम्नायानुरागान्धा तन्न्यस्तहृदयेक्षणा ॥ १४ ॥
मायावतीति ॥ माया: – मोहनविद्याः ॥ १४ ॥
प्रसज्जन्तीं तु तां प्राह स कार्ष्णिः कमलेक्षणाम् ।
मातृत्वमपहायाद्य किमेवं वर्तसेऽन्यथा ॥ १५ ॥
सा तस्मै कथयामास न पुत्रस्त्वं ममेति वै ।
तनयं त्वामयं विष्णोर्हृतवान्कालशंबरः ॥ १६ ॥
क्षिप्तः समुद्रे मत्स्यस्य संप्राप्तो जठरान्मया ।
सा हि रोदितिते माता कान्ताद्याप्यतिवत्सला ॥ १७ ॥
श्रीपराशर उवाच
इत्युक्तः शंबरं युद्धे प्रद्युम्नः स समाह्वयत् ।
क्रोधाकुलीकृतमना युयुधे च महाबलः ॥ १८ ॥
प्रसज्जन्तीमिति ॥ प्रसज्जन्ती – प्रवर्षेणानुरज्जन्तीम् ॥ १५ – १८ ॥
हत्वा सैन्यमशेषं तु तस्य दैत्यस्य यादवः ।
सप्तमाया व्यतिक्रम्य मायां प्रयुयुजेऽष्टमीम् ॥ १९ ॥
तया जघान तं दैत्यं मायया कालशंबरम् ।
उत्पत्त्य च तया सार्धमाजगाम पितुः पुरम् ॥ २० ॥
हत्वेति ॥ सप्त मायाः व्यतिक्रम्य –– शंबरप्रयुक्ताः व्यतिक्रम्य । प्रयुयुजे – प्रयुक्तवान् ॥ १९ – २० ॥
अन्तःपुरे निपतितं मायावत्या समन्वितम् ।
तं दृष्ट्वा कृष्ण संकल्पा बभूवुः कृष्णयोषितः ॥ २१ ॥
रुक्मिणी साऽभवत्प्रेम्णा सास्रदृष्टिरनिन्दिता ।
धन्यायाः खल्वयं पुत्रो वर्तते नवयौवने ॥ २२ ॥
अन्तःपुर इति ॥ कृष्णसंकल्पाः – – कृष्णोऽयमिति भ्रान्ताः ॥ २१, २२ ॥
अस्मिन्वयसि पुत्रो मे प्रद्युम्नो यदि जीवति ।
सभाग्या जननी वत्स सा त्वया का विभूषिता ॥ २३ ॥
अथवा यादृसः स्नेहो मम यादृग्वपुस्तव ।
हरेरपत्यं सुव्यक्तं भवान्वत्स भविष्यति ॥ २४ ॥
श्रीपराशर उवाच
एतस्मिन्नन्तरे प्राप्तःसह कृष्णेन नारदः ।
अन्तःपुरचरां देवीं रुक्मिणीं प्राह हर्षयन् ॥ २५ ॥
एष ते तनयः सुभ्रु हत्वा शंबरमागतः ।
हृतो येनाभवद्बालो भवत्याःसूतिकागृहात् ॥ २६ ॥
इयं मायावती भार्या तनयस्यास्य ते सती ।
शंबरस्य न भार्येयं श्रूयतामत्र कारणम् ॥ २७ ॥
मन्मथे तु गते नाशं तदुद्भवपरायणा ।
शंबरं मोहयामास मायारूपेण रूपिणी ॥ २८ ॥
विहाराद्युपभोगेषु रूपं मायामयं शुभम् ।
दर्शयामास दैत्यस्य तस्येयं मदिरेक्षणा ॥ २९ ॥
कामोऽवतीर्णः पुत्रस्ते तस्येयं दयिता रतिः ।
विशङ्का नात्र कर्तव्या स्नुषेयं तव शोभने ॥ ३० ॥
ततो हर्षसमाविष्टौ रुक्मिणी केशवौतदा ।
नगरी च समस्ता सा साधुसाध्वित्यभाषत ॥ ३१ ॥
चिरं नष्टेन पुत्रेण संगतां प्रेक्ष्य रुक्मिणीम् ।
अवाप विस्मयं सर्वो द्वारवत्यां तदा जनः ॥ ३२ ॥
अस्मिन्निति ।। प्रद्युम्नः—प्रद्युम्न इति चिकीर्षितसंज्ञः, अस्मिन् वयसि वर्तेतेति शेषः ॥ २३ – ३२ ॥
इति श्रीविष्णुमहापुराणे पञ्चसांशे सप्तविंशोध्यायः ।। २७ ।।
अथ पञ्चमांशेऽष्टाविंशोऽध्यायः
श्रीपराशर उवाच
चारुदेष्णं सुदेष्णं च चारुदेहं च वीर्यवान् ।
सुषेणं चारुगुप्तं च भद्रचारुं तथा परम् ॥ १ ॥
चारुविन्दं सुचारुं च चारुं च बलिनां वरम् ।
रुक्मिण्यजनयत्पुत्रान्कन्यां चारुमतीं तथा ॥ २ ॥
॥ १,२ ॥
अन्याश्च भार्याः कृष्णस्य बभूवुः सप्त शोभनाः ।
कालिन्दी मित्रविन्दा च सत्या चाग्नजिती तथा ॥ ३ ॥
देवी जाम्बवती चापि रोहिणी कामरूपिणी ।
मद्रराजसुता चान्या सुशीला शीलमण्डना ॥ ४ ॥
सत्राजिती सत्यभामा लक्ष्मणा चारुहासिनी ।
षोडशासन् सहस्राणि स्त्रीणामन्यानि चक्रिणः ॥ ५ ॥
प्रद्युम्नोऽपि महावीर्यो रुक्मिणस्तनयां शुभाम् ।
स्वयंवरे तां जग्राह सा च तं तनयं हरेः ॥ ६ ॥
तस्यामस्याभवत्पुत्रो महाबलपराक्रमः ।
अनिरुद्धो रणेऽरुद्धवीर्योदधिररिन्दमः ॥ ७ ॥
तस्यापि रुक्मिणः पौत्रीं वरयामास केशवः ।
दौहित्राय ददौ रक्मी तां स्पर्धन्नपि चक्रिणा ॥ ८ ॥
तस्या विवाहे रामाद्या यादवा हरिणा सह ।
कल्याणार्थं ततःसर्वे ये चान्ये भूभृतस्तथा ।
रुक्मिणी नगरं जग्मुर्नाम्ना भोजकटं द्विज ॥ ९ ॥
विवाहे तत्र निर्वृत्ते प्रद्युम्नस्य महात्मनः ।
कलिङ्गराजप्रमुखा रुक्मिणं वाक्यमब्रुवन् ॥ १० ॥
अन्या इति ॥ मित्रविन्दा – सत्या – जांबवती – रोहिणी – सुशीला – सत्यभामा – लक्ष्मणाख्यास्सत प्रधानाः। आसां कालिन्द्यादीनि क्रमाद्विशेषणानि । इयं लक्ष्मणा चतुर्थेंशे चारुहासिनीत्युक्ता ॥ ३ – १० ॥
अनक्षज्ञो हली द्युते तथाऽस्य व्यसनं महत् ।
तज्जयामो बलं कस्माद्द्युते नैनं महाबलम् ॥ ११ ॥
श्रीपराशर उवाच
तथेति तानाह नृपान्रुक्मी बलमदान्वितः ।
सभायां सह रामेण चक्रे द्यूतं च वै तदा ॥ १२ ॥
सहस्रमेकं निष्काणां रुक्मिणा विजितो बलः ।
द्वितीयेऽपि पणे चान्यत्सहस्रं रुक्मिणा जितः ॥ १३ ॥
ततो दशसहस्राणि निष्काणां पणमाददे ।
बलभद्रोऽजयत्तानि रुक्मी द्युतविदां वरः ॥ १४ ॥
ततो जहास स्वनवत्कलिङ्गाधिपतिर्द्विज ।
दन्तान् विदर्शयन्मूढो रुक्मी चाह मदोद्धतः ॥ १५ ॥
अविद्योऽयं मया द्यूते बलभद्रः पराजितः ।
भुधैवाक्षावलेपान्धो योऽवमेनेऽक्षकोविदान् ॥ १६ ॥
दृष्ट्वा कलिङ्गराजानं प्रकाशदशनाननम् ।
रुक्मिणं चापि दुर्वाक्यं कोपं चक्रे हलायुधः ॥ १७ ॥
अनक्षज्ञ इति ॥ तथा – तथाऽपि । व्यसनम् – आसङ्गः ॥ ११ – १७ ॥
ततः कोपपरीतात्मा निष्ककोटिं समाददे ।
ग्लहं जग्राह रुक्मी च तदर्थेऽक्षानपातयत् ॥ १८ ॥
अजयद्बलदेवस्तं प्राहोच्चैर्विजितं मया ।
मयेति रुक्मी प्राहोच्चैरलीकोक्तेरलं बल ॥ १९ ॥
तत इति ॥ ग्लहं–पणम् । तदर्थे – कोटिग्लहार्थे तथेत्यनुक्त्तवाऽक्षानपातयत् ॥ १८, १९ ॥
त्वयोक्तोऽयं ग्लहःसत्यं न मयैषोऽनुमोदितः ।
एवं त्वया चेद्विजितं विजितं न मया कथम् ॥ २० ॥
श्रीपराशर उवाच
अथान्तरिक्षे वागुच्चैः प्राह गंभीरनादिनी ।
बलदेवस्य तं कोपं वर्धयन्ती महात्मनः ॥ २१ ॥
त्वयेति ।। त्वयोक्तस्य पणबन्धस्योभयानुमत्या भाव्यतया तथा विनाऽप्यन्यतरजय श्वेदितरस्यापि स एवं जयः किं न स्यादिति भावः ॥ २०,२१ ॥
जितं बलेन धर्मेण रुक्मिणा भाषितं मृषा ।
अनुक्त्वाऽपि वचः किञ्चित्कृतं भवति कर्मणा ॥ २२ ॥
जितमिति ॥ अनुक्त्या – ग्लहानुज्ञावचनमकृत्वाऽप्यक्षपातनादिना कर्मणा तद्वचनं कृतं भवति अनुमतिमूल क्रियानुष्ठान दर्शनात् अनुमतिस्सिद्वैवेति भावः ॥ २२ ॥
ततो बलः समुत्थाय कोपसंरक्तलोचनः ।
जघानाष्टापदेनैव रुक्मिणं स महाबलः ॥ २३ ॥
कलिङ्गराजं चादाय विस्फुरन्तं बलाद्बलः ।
बभञ्ज दन्तान्कुपितो यैः प्रकाशैर्जहास सः ॥ २४ ॥
तत इति ॥ अष्टापदेन – द्यूतफलकेन ॥ २३, २४ ॥
आकृष्य च महास्तंभं जातरूपमयं बलः ।
जघान तान्ये तत्पक्षे भूभृतः कुपितो भृशम् ॥ २५ ॥
ततो हाहाकृतं सर्वं पलायनपरं द्विज ।
तद्राजमण्डलं भीतं बभूव कुपिते बले ॥ २६ ॥
बलेन निहतं दृष्ट्वा रुक्मिणं मधुसूदनः ।
नोवाच किञ्चिन्मैत्रेय रुक्मिणीबलयोर्भयात् ॥ २७ ॥
ततोऽनिरुद्धमादाय कृतदारं द्विजोत्तम ।
द्वारकामाजगामाथ यदुचक्रं च केशवः ॥ २८ ॥
आकृष्येति ॥ पश्चरूपं–पश्चवर्णम् । विचित्रिनमिति च पाठः ॥ २५ – २८ ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशेऽष्टाविंशोध्यायः ।। २८ ।।
अथ पञ्चमांशे एकोनत्रिंशोऽध्यायः
श्रीपराशर उवाच
द्वारवत्यां स्थिते कृष्णे शक्रस्त्रिभुवनेश्वरः ।
आजगामाथ मैत्रेय मत्तैरावतपृष्ठगः ॥ १ ॥
प्रविश्य द्वारकां सोऽथ समेत्य हरिणा ततः ।
कथयामास दैत्यस्य नरकस्य विचोष्टितम् ॥ २ ॥
त्वया नाथेन देवानां मनष्यत्वेऽपि तिष्ठता ।
प्रशमं सर्वदुःखानि नीतानि मधुसूदन ॥ ३ ॥
तपस्विव्यमनार्थाय सोऽरिष्टो धेनुकस्तथा ।
प्रवृत्तो यस्तथा केशी ते सर्वे निहतास्त्वया ॥ ४ ॥
कंसः कुवलयापीडः पूतना बालघातिनी ।
नाशं नीतास्त्वया सर्वे येऽन्ये जगदुपद्रवाः ॥ ५ ॥
इदानीं भौमवधप्रसंगेन हरे महश्रमार्या नभं यक्तृमिन्द्रगमाद्यादिकमाह द्वारवत्यामिति ॥ १ – ५॥
युष्मद्दोर्दडसंभूतिपरित्राते जगत्त्रये ।
यज्वयज्ञांशसंप्राप्त्या तृप्तिं यान्ति दिवौकसः ॥ ६ ॥
सोऽहं सांप्रतमायातो यन्निमित्तं जनार्दन ।
तच्छुत्वा तत्प्रतीकारप्रयत्नं कर्तुमर्हसि ॥ ७ ॥
भौमोऽयं नरको नाम प्राग्ज्योतिषपुरेश्वरः ।
करोति सर्वभूतानामुपघातमरिन्दम ॥ ८ ॥
देवसिद्दसुरादीनां नृपाणां च नजार्दन ।
हृत्वा तु सोऽसुरः कन्या रुरुधे निजमन्दिरे ॥ ९ ॥
छत्रं यत्सलिलस्रावि तज्जहार प्रचेतसः ।
मदंरस्य तथा शृङ्गं हृतवान्मणिपर्वतम् ॥ १० ॥
अमृतस्त्राविणी दिव्ये मन्मातुः कृष्णकुञ्जले ।
जहार सोऽसुरोऽदित्या वाञ्छत्यैरावतं गजम् ॥ ११ ॥
दुर्नीतमेतद्गोविन्द मया तस्य निवेदितम् ।
यदत्र प्रतिकर्तव्यं तत्स्वयं परिमृश्यताम् ॥ १२ ॥
श्रीपराशर उवाच
इति श्रुत्वा स्मितं कृत्वा भगवान्देवकीसुतः ।
गृहीत्वा वासवं हस्ते समुत्तस्थौ वरासनात् ॥ १३ ॥
युष्मदिति ॥ संभूतिः – सत्ता ॥ ६ – १३ ।।
संचिन्त्यागतमारुह्य गरुडं गगनेचरम् ।
सत्यभामां समारोप्य ययौ प्राग्ज्योतिषं पुरम् ॥ १४ ॥
आरुह्यैरावतं नागं शक्रोऽपि त्रिदिवं ययौ ।
ततौ जगाम कृष्णश्च पश्यतां द्वारकौकसाम् ॥ १५ ॥
संचिन्त्येति ॥ सत्यभामा समारोपणं तस्याः भूम्यंशत्वात् त्वःपुत्रं त्वदनुज्ञया हनिष्यामीति वरदानात्त – दनुज्ञया भौमं हन्तुम्, तथा नारददत्तपारिजातपुष्पप्रीतरुक्मिणीर्ष्यया कुद्धसत्यभामासांत्वने तुभ्यं तं तरुमेव दास्यामीति हरिवंशोक्तां प्रतिज्ञां च कर्तुम् ॥ १४, १५ ॥
प्राग्ज्योतिषपुरस्यापि समन्ताच्छतयोजनम् ।
आचिता मौरवैः पाशैः क्षुरान्तैर्भूर्द्विजोत्तम ॥ १६ ॥
ताञ्चिच्छेद हरिः पाशान्क्षिप्त्वा चक्रं सुदर्शनम् ।
ततो मुरःसमुत्तस्थौ तं जघान च केशवः ॥ १७ ॥
मुरस्य तनयान्सप्त सहस्रांस्तांस्ततो हरिः ।
चक्रधाराग्निनिर्दग्धांश्चकार शलभानिव ॥ १८ ॥
हत्वासुरं हयग्रीवं तथा पञ्चजनं द्विज ।
प्राग्ज्योतिषपुरं धीमांस्त्वरावान्समुपाद्रवत् ॥ १९ ॥
नरकेनास्य तत्राभून्महासैन्येन संयुगम् ।
कृष्णस्य यत्र गोविन्दो जघ्ने दैत्यान्सहस्रशः ॥ २० ॥
शस्त्रास्त्रवर्षं मुञ्चन्तं तं भौमं नरकं बली ।
क्षिप्त्वा चक्रं द्विधा चक्रे चक्री दैतेयचक्रहा ॥ २१ ॥
हते तु नरके भूमिर्गृहीत्वाऽदितिकुण्डले ।
उपतस्थे जगन्नाथं वाक्यं चेदमथाब्रवीत् ॥ २२ ॥
पृथ्व्युवाच
यदाऽहमुद्धृता नाथ त्वया सूकरमूर्तिना ।
त्वत्स्पर्शसंभवः पुत्रस्तदाऽयं मय्यजायत ॥ २३ ॥
सोऽयं त्वयैव दत्तो मे त्वयैव विनिपातितः ।
गृहाण कुण्डले चेमे पालयास्य च संततिम् ॥ २४ ॥
भारावतरणार्थाय ममैव भगवानिमम् ।
अंशेन लोकमायातः प्रसादसुमुखः प्रभो ॥ २५ ॥
प्राग्ज्योतिषपुरस्येति ॥ मौरवैः – मुरसंज्ञरक्षः कृतैः ॥ १६ – २५ ॥
त्वं कर्ता च विकर्ता च संहर्ता प्रभवोऽप्ययः ।
जगतान्त्वं जगद्रूपःस्तूयतेऽच्युत किं तव ॥ २६ ॥
व्यापी व्याप्यं क्रियाकर्ता कार्यं च भगवान्यथा ।
सर्वभूतात्मभूतस्य स्तूयते तव किं तथा ॥ २७ ॥
परमात्मा च भूतात्मा त्वमात्मा चाव्ययो भवान् ।
यथातथा स्तुतिर्नाथ किमर्थं ते प्रवर्तते ॥ २८ ॥
त्वमिति ॥ कर्ता—निमित्तकारणम् । विकार्ता–विशेषेण कर्ता, पोषकः । प्रभवोद्भवः प्रभवस्य जन्मनः उपादानम् । तव संबंधि किं स्तूयते ॥ २६ – २८ ॥
प्रसीद सर्वभूतात्मन्नरकेण तु यत्कृतम् ।
तत्क्षम्यतामदोषाय त्वत्सुतस्त्वन्निपातितः ॥ २९ ॥
श्रीपराशर उवाच
तथेति चोक्त्वा धरणीं भगवान् भूतभावनः ।
रत्नानि नरकावासाज्जग्राह मुनिसत्तम ॥ ३० ॥
कन्यापुरे स कन्यानां षोडशातुलविक्रमः ।
शताधिकानि ददृशे सहस्राणि महामुने ॥ ३१ ॥
चतुर्दंष्ट्रान्गजांश्चाग्र्यान् षट्सहस्रांश्च दृष्टवान् ।
कांभोजानां तथाऽश्वानां नियुतान्येकविंशतिम् ॥ ३२ ॥
ताः कन्यास्तांस्तथा नागांस्तानश्वान् द्वारकां पुरीम् ।
प्रापयामास गोविन्दःसद्यो नरककिङ्करैः ॥ ३३ ॥
ददृशे वारुणं च्छत्रं तथैव मणिपर्वतम् ।
आरोपयामास हरिर्गरुडे पतगेश्वरे ॥ ३४ ॥
आरुह्य च स्वयं कृष्णः सत्यभामासहायवान् ।
अदित्याः कुण्डले दातुं जगाम त्रिदशालयम् ॥ ३५ ।।
प्रसीदेति ॥ अदोषाय – धर्मस्थापनाय ॥ २९ – ३५ ।।
इति श्रीविष्णुमहापुराणे पञ्चमांश एकोनत्रिंशोऽध्यायःयः ।। २९ ।।
अथ पञ्चमांशे त्रिंशोऽध्यायः
श्रीपराशर उवाच
गरुडो वारुणं छत्रं तथैव मणिपर्वतम् ।
सभार्यं च हृषीकेशं लीलयैव वहन्ययौ ॥ १ ॥
ततश्शंखमुपाध्मासीत्स्वर्गद्वारगतो हरिः ।
उपतस्थुस्तथा देवाःसार्घ्यहस्ता जनार्दनम् ॥ २ ॥
स देवैरर्चितः कृष्णो देवमातुर्निवेशनम् ।
सिताभ्रशिखराकारं प्रविश्य ददृशेऽदितिम् ॥ ३ ॥
स तां प्रणम्य शक्रेण सह ते कुण्डलोत्तमे ।
ददौ नरकनाशं च शशंसास्यै जनार्दनः ॥ ४ ॥
ततः प्रीताजगन्माता धातारं जगतां हरिम् ।
तुष्टावादितिरव्यग्रा कृत्वा तत्प्रवणं मनः ॥ ५ ॥
अदितिरुवाच
नमस्ते पुण्डरीकाक्ष भक्तानामभयङ्कर ।
सनातनात्मन् सर्वात्मन् भूतात्मन् भूतभावन ॥ ६ ॥
॥ १ – ६ ॥
प्रणेतर्मनसो बुद्धेरिन्द्रियाणां गुणात्मक ।
त्रिगुणातीत निर्द्वद्व शुद्धसत्त्व हृदि स्थित ॥ ७ ॥
सितदीर्घादिनिः शेषकल्पनापरिवर्जित ।
जन्मादिभिरसंस्पृष्ट स्वप्नादिपरिवर्जित ॥ ८ ॥
संध्यारात्रिरहो भूमिर्गगनं वायुरंबु च ।
हुताशनो मनो बुद्धिर्भूतादिस्त्वं तथाऽच्युत ॥ ९ ॥
प्रणेतरिति ॥ गुणात्मक – कल्याणगुणात्मक ॥ ७ – ९ ॥
सर्गस्थितिविनाशानां कर्ता कर्तृपतिर्भवान् ।
ब्रह्मविष्णुशिवाख्याभिरात्ममूर्तिभिरीश्वर ॥ १० ॥
सर्गेति ॥ कर्तृपतिः––कर्तॄणां ब्रह्मादीनां पतिः ॥ १० ॥
देवा दैत्यास्तथा यक्षा राक्षसाः सिद्धपन्नगाः ।
कूष्माण्डाश्च पिशाचाश्च गन्धर्वा मनुजास्तथा ॥ ११ ॥
पशवश्च मृगाश्चैव पतङ्गाश्च सरीसृपाः ।
वृक्षगुल्मलता बह्व्यःसमस्तास्तृणजातयः ॥ १२ ॥
देवा इति ॥ देवा इत्यादिना तृणजातय इत्यन्तेन भगवतो देवतिर्यगादिचतुर्विध चेतनात्मत्वमुच्यते ॥ ११,१२ ।।
स्थूला मध्यास्तथा सूक्ष्माःसूक्ष्मात्सूक्ष्मतराश्च ये ।
देहभेदा भवान् सर्वे ये केचित्पुर्गलाश्रयाः ॥ १३ ॥
स्थूला इति ।। स्थूला इत्यादिना पुर्गलाश्रया इत्यन्तेन तस्यैव तद्देहात्मकत्वमुच्यते । ये केचित्पुर्ण – आश्रयाः देहमेदाः ते सर्वे भवानित्यन्वयः । पुर्गलो जीवः । यया कौर्मे – अहंकारोऽमिमानश्च कर्ता मन्ता च स्मृतः । आत्मा च पुर्गलो जीवो यतस्सर्वाः प्रसूतयः ॥ इति ॥ पूरणाद्गलनांद्देहे पुर्गलाः परमाणव: प्राहताः ॥ १३ ॥
माया तवेयमज्ञातपरमार्थाऽतिमोहिनी ।
अनात्मन्यात्मविज्ञानं यया मूढो निरुद्ध्यते ॥ १४ ॥
मायेति ॥ अज्ञातपरमार्था – अज्ञातः परमार्यो ब्रह्म यस्या हेतोस्सा अज्ञातपरमार्था । अतिमोहिनी इयं गुणात्मिका माया तब – त्वदीया । मायाकार्यमाह – अनात्मनीति । अस्यास्य पूर्वेणान्वयः ॥ १४ ॥
अस्वे स्वमिति भावोऽत्र यत्पुंसामुपजायते ।
अहं ममेति भावो यत्प्रायेणैवाभिजायते ।
संसारमातुर्मायायास्तवैतन्नाथ चेष्टितम् ॥ १५ ॥
यैः स्वधर्मपरैर्नाथ नरैराराधितो भवान् ।
ते तरन्त्यखिलामेतां मायामात्मविमुक्तये ॥ १६ ॥
अस्वे स्वमिति ॥ अस्त्रे स्वमिति भावः – ज्ञाननुपजायत इति यत् एतत्तव त्वदीयायाः संसार – र्मायायाः चेष्टितम् ॥ १५,१६ ॥
ब्रह्माद्याःसकला देवा मनुष्याः पशवस्तथा ।
विष्णुमाया महावर्तमोहान्धतमसाऽऽवृताः ॥ १७ ॥
ब्रह्माद्या इति ॥ मायैव महावर्तः, तत्कृतो मोह एवा धतमसं, तेनावृताः ॥ १७ ॥
आराध्य त्वामभीप्संते कामानात्मभवक्षयम् ।
यदेते पुरुषा माया सैवेयं भगवंस्तव ॥ १८ ॥
मया त्वं पुत्रकामिन्या वैरिपक्षजयाय च ।
आराधितो न मोक्षाय मायाविलसितं हि तत् ॥ १९ ॥
आराध्येति ॥ कामानमीप्सन्त इति यत, तत्तव मायैव – मायाचेष्टितमित्यर्थः ॥ १८, १९ ॥
कौपीनाच्छादनप्राया वाञ्छा कल्पद्रुमादपि ।
जायते यदपुण्यानां सोऽपराधः स्वदोषजः ॥ २० ॥
कौपीनेति ॥ कौपीनाच्छादनप्राया – तद्बहला, तद्विषयेत्यर्थः । स्वदोषो – दुष्कर्म ॥ २० ॥
तत्प्रसीदाखिलजगन्मायामोहकराव्यय ।
अज्ञानं ज्ञानसद्भावभूतं भूतेश नाशय ॥ २१ ॥
नमस्ते चक्रहस्ताय शार्ङ्गहस्ताय ते नमः ।
नन्दहस्ताय ते विष्णो शङ्खहस्ताय ते नमः ॥ २२ ॥
एतत्पश्यामि ते रूपं स्थूलचिह्नोपलक्षितम् ।
न जानामि परं यत्ते प्रसीद परमेश्वर ॥ २३ ॥
तदिति ॥ मायया मोहो—मायामोहः । ज्ञानसद्भावभूत – सम्यग्ज्ञानवरूप । ज्ञानसद्भावभूतमिति पाठे ज्ञानमपि विज्ञानतयाऽवभासमानमज्ञानमिति ॥ २१ – २३ ।।
श्रीपराशर उवाच
अदित्यैवं स्तुतो विष्णुः प्रहस्याह सुरारणिम् ।
माता देवि त्वमस्माकं प्रसीद वरदा भव ॥ २४ ॥
अदिदिरुवाच
एवमस्तु यथेच्छा ते त्वमशेषैः सुरासुरैः ।
अजेयः पुरुषव्याघ्र सर्त्यलोके भविष्यसि ॥ २५ ॥
श्रीपराशर उवाच
ततः कृष्णस्य पत्नी च शक्रेण सहिताऽदितिम् ।
सत्यभामा प्रणम्याह प्रसीदेति पुनः पुनः ॥ २६ ॥
अदित्येति ।। प्रहस्य–हासेन गोहयित्वा, अरणि: – जन्मभूः ॥ २४ – २६ ॥
अदितिरुवाच
मत्प्रसादान्न ते सुभ्रु जरा वैरूप्यमेव वा ।
भविष्यत्यनवद्याङ्गि सुस्थिरं नवयौवनम् ॥ २७ ॥
श्रीपराशर उवाच
अदित्या तु कृतानुज्ञो देवराजो जनार्दनम् ।
यथावत्पूजयामास बहुमानपुरःसरम् ॥ २८ ॥
शची च सत्यभामायै पारिजातस्य पुष्पकम् ।
न ददौ मानुषीं मत्वा स्वयं पुष्पैरलङ्कृता ॥ २९ ॥
ततो ददर्श कृष्णोऽपि सत्यभामासहायवान् ।
दवोद्यानानि हृद्यानि नन्दनादीनि सत्तम ॥ ३० ॥
ददर्श च सुगन्धाढ्यं मञ्जरीपुञ्जधारिणम् ।
नित्याह्लादकरं ताम्रबालपल्लवशोभितम् ॥ ३१ ॥
मथ्यमानेऽमृते जातं जातरूपोपमत्वचम् ।
पारिजातं जगन्नाथः केशवः केशिसूदनः ॥ ३२ ॥
तुतोष परमप्रीत्या तरुराजमनुत्तमम् ।
तं दृष्ट्वा प्राह गोविन्दं सत्यभामा द्विजोत्तम ।
कस्मान्न द्वारकामेष नीयते कृष्ण पादपः ॥ ३३ ॥
मत्प्रसादादिति ।। सर्वकालमनवद्याङ्गी भविष्यति ।। २७ – ३३ ।।
यदि चेत्त्वद्वचः सत्यं त्वमत्यर्थं प्रियेति मे ।
मद्गेहनिष्कुटार्थाय तदयं नीयतां तरुः ॥ ३४ ॥
न मे जांबवती तादृगभीष्टा न च रुक्मिणी ।
सत्ये यथा त्वभित्युक्तं त्वया कृष्णासकृत्प्रियम् ॥ ३५ ॥
सत्यं तद्यदि गोविन्द नोपचारकृतं मम ।
तदस्तु पारिजातोऽयं मम गेहविभूषणम् ॥ ३६ ॥
बिभ्रती पारिजातस्य केशपक्षेण मञ्जरीम् ।
सपत्नीनामहं मध्ये शोभेयमिति कामये ॥ ३७ ॥
श्रीपराशर उवाच
इत्युक्तस्स प्रहस्यैनां पारिजातं गरुत्मति ।
आरोपयामास हरिस्तमूचुर्वनरक्षिणः ॥ ३८ ॥
भो शची देवराजस्य महिषी तत्परीग्रहम् ।
पारिजातं न गोविन्द हर्तुमर्हसि पादपम् ॥ ३९ ॥
उत्पन्नो देवराजाय दत्तःसोऽपि ददौ पुनः ।
महिष्यै सुमहाभाग देव्यै शच्यै कुरूहलात् ॥ ४० ॥
शचीविभूषणार्थाय देवैरमृतमन्थने ।
उत्पादितोऽयं न क्षेमी गृहीत्वैनं गमिष्यसि ॥ ४१ ॥
देवराजो मुखप्रेक्षी यस्यास्तस्याः परिग्रहम् ।
मैढ्यात्प्रार्थयसे क्षेमी गृहीत्वैनं हि को व्रजेत् ॥ ४२ ॥
यदीति ।। निष्कुटः –गृहोद्यानग ॥ ३४ – ४२ ॥
अवश्यमस्य देवेन्द्रो निष्कृतिं कृष्ण यास्यति ।
वज्रोद्यतकरं शक्रमनुयास्यन्ति चामराः ॥ ४३ ॥
तदलं सकलैर्देवैर्विग्रहेण तवाच्युत ।
विपाककटु यत्कर्म तन्न शंसंति पण्डिताः ॥ ४४ ॥
श्रीपराशर उवाच
इत्युक्ते तैरुवाचैतान् सत्यभामाऽतिकोपिनी ।
का शची पारिजातस्य को वा शक्रःसुराधिपः ॥ ४५ ॥
सामान्यःसर्वलोकस्य यद्येषोऽमृतमन्थने ।
समुत्पन्नस्तरुः कस्मादेको गृह्णाति वासवः ॥ ४६ ॥
यथा सुरा यथैवेन्दुर्यथा श्रीर्वनरक्षिणः ।
सामान्यःसर्वलोकस्य पारिजातस्तथा द्रुमः ॥ ४७ ॥
भर्तृ बहुमहागर्वाद्रुणद्ध्येनमथो शची ।
तत्कथ्यतामलं क्षान्त्या सत्वा हारयति द्रुमम् ॥ ४८ ॥
कथ्यतां च द्रुतं गत्वा पौलोम्या वचनं मम ।
सत्यभामा वदत्येतदितिगर्वोद्धताक्षरम् ॥ ४९ ॥
यदि त्वं दयिता भर्तुर्यदि वश्यः पतिस्तव ।
मद्भर्तुर्हरतो वृक्षं तत्कारय निवारणम् ॥ ५० ॥
जानामि ते पतिं शक्रं जानामि त्रिदशेश्वरम् ।
पारिजातं तथाऽप्येनं मानुषी हारयामि ते ॥ ५१ ॥
श्रीपराशर उवाच
इत्युक्ता रक्षिणो गत्वा शच्याः प्रोचुर्यथोदितम् ।
श्रुत्वा चोत्साहयामास शची चक्रं सुराधिपम् ॥ ५२ ॥
ततःसमस्तदेवानां सैन्यैः परिवृतो हरिम् ।
प्रययौ पारिजातार्थमिन्द्रो योद्धुं द्विजोत्तम ॥ ५३ ॥
ततः परिघनिस्त्रिंशगदाशूलवरायुधाः ।
बभूवुस्त्रिदसाःसज्जाः शक्रे वज्रकरे स्थिते ॥ ५४ ॥
ततो निरिक्ष्य गोविन्दो नागराजोपरि स्थितम् ।
शक्रं देवपरिवारं युद्धाय समुपस्थितम् ॥ ५५ ॥
चकार शङ्खनिर्घोषं दिशश्शब्देन पूरयन् ।
मुमोच शरसंघातान् सहस्रायुतशः शितान् ॥ ५६ ॥
ततो दिशो नभश्चैव दृष्ट्वा शरशतैश्चितम् ।
मुमुचुस्त्रिदशाःसर्वे ह्यस्त्रशस्त्राम्यनेकशः ॥ ५७ ॥
एकैकमस्त्रं शस्त्रं च दैवैर्मुक्तं सहस्रशः ।
चिच्छेद लीलयैवेशो जगतां मधुसूदनः ॥ ५८ ॥
पाशं सलिलराजस्य समाकृष्योरगाशनः ।
चकार खण्डशश्चञ्च्वा बालपन्नगदेहवत् ॥ ५९ ॥
यमेन प्रहितं दण्डं गदाविक्षेपखण्डितम् ।
पृथिव्यां पातयामास भगवान् देवकीसुतः ॥ ६० ॥
अवश्यमिति ॥ यास्यति — करिष्यति ॥ ४३ – ६० ॥
शिबिकां च धनेशस्य चक्रेण तिलशो विभुः ।
चकार शौरिरर्कं च दृष्टिदृष्टहतौजसम् ॥ ६१ ॥
नीतोऽग्निः शीततां बाणैर्द्राविता वसवो दिशः ।
चक्रविच्छिन्नशुलाग्रा रुद्रा भुवि निपातिताः ॥ ६२ ॥
शिबिकां चेति ॥ दृष्टहतौजसं दृष्टत्वादेव हतौजसम् ॥ ६१, ६२ ॥
साध्या विश्वेऽथ मरुतो गन्धर्वाश्चैव सायकैः ।
शार्ङ्गिणा प्रेरितैरस्ता व्योम्नि शाल्मलितूलवत् ॥ ६३ ॥
गरुत्मानपि तुण्डेन पक्षाभ्यां च नखाङ्कुरैः ।
भक्षयंस्ताडयन् देवान् दारयंश्च चचार वै ॥ ६४ ॥
ततः शतसहस्रेण देवेन्द्रमधुसूदनौ ।
परस्परं ववर्षाते धाराभिरिव तोयदौ ॥ ६५ ॥
ऐरावतेन गरुडो युयुधे तत्र संकुले ।
देवैः समस्तैर्युयुधे शक्रेण च जनार्दनः ॥ ६६ ॥
भिन्नेष्वशेषबाणेषु शस्त्रेष्वस्त्रेषु च त्वरन् ।
जग्राह वासवो वज्रं कृष्णश्चक्रं सुदर्शनम् ॥ ६७ ॥
ततो हाहाकृतं सर्वं त्रैलोक्यं द्विजसत्तम ।
वज्रचक्रकरौ दृष्ट्वा देवाराज जनार्दनौ ॥ ६८ ॥
क्षिप्तं वज्रमथेन्द्रेण जग्राह भगवान्हरिः ।
न मुमोच तदा चक्रं शक्रं तिष्ठेति चाब्रवीत् ॥ ६९ ॥
प्रणष्टवज्रं देवेन्द्रं गरुडक्षतवाहनम् ।
सत्यभामाऽब्रवीद्वीरं पलायनपरायणम् ॥ ७० ॥
साध्येति ॥ अस्ताः – निरस्ता इत्यर्थः ॥ ६३ – ७० ॥
त्रैलोक्येश न ते युक्तं शचीभर्तुः पलायनम् ।
पारिजातस्रगाभोगा त्वामुपस्थास्यते शची ॥ ७१ ॥
कीदृशं देवराज्यं ते पारिजातिस्रगुज्ज्वलाम् ।
अपश्यतो यथापूर्वं प्रणयाभ्यागतां शचीम् ॥ ७२ ॥
अलं शक्र प्रयासेन न व्रीडां गन्तुमर्हसि ।
नीयतां पारिजातोऽयं देवाःसंतु गतव्यथाः ॥ ७३ ॥
परिगर्वावलेपेन बहुमानपुरःसरम् ।
न ददर्श गृहं यातामुपचारेण मां शची ॥ ७४ ॥
स्त्रीत्वादगुरुचित्ताऽहं स्वभर्तृश्लाघनापरा ।
ततः कृतवती शक्र भवता सह विग्रहम् ॥ ७५ ॥
तदलं पारीजातेन परस्वेन हृतेन मे ।
रूपेण गर्विता सा तु भर्त्रा का स्त्री न गर्विता ॥ ७६ ॥
त्रैलोक्येति ॥ स्रगाभोगा – आभुज्यत इत्या – भोगः स्रक् आभोगों यस्यास्सा स्रगाभोगा ॥ ७१ – ७६ ।।
श्रीपराशर उवाच
इत्युक्तो वै निववृते देवराजस्तया द्विज ।
प्राह चैनामलं चण्डि सख्युः खेदोक्तिविस्तरैः ॥ ७७ ॥
न चापि सर्गसंहारस्थितिकर्ताऽखिलस्य यः ।
जितस्य तेन मे व्रीडा जायते विश्वरूपिणा ॥ ७८ ॥
इतीति ॥ हे चण्डि–उग्रे । खेदोक्तिविस्तरैः – मत्खेद विषयैरुक्तिविस्तरैः, अलम् ॥ ७७, ७८ ॥
यस्माज्जगत्सकलमेतदनादिमध्याद्यस्मिन्यतश्च न भविष्यति सर्वभूतात् ।
तेनोद्भवप्रलयपालनकारणेन व्रीडा कथं भवति देवि निराकृतस्य ॥ ७९ ॥
यस्मादिति ॥ सकलं जगत् यस्माद्भवति, यस्मिन् भवति, यतो न भविष्यति, इत्यमुद्भवादिकारणेन तेन ॥ ७९ ॥
सकलभुवनसूतिर्मूर्तिरल्पाल्पसूक्ष्मा विदितसकलवेद्यैर्ज्ञायते यस्य नान्यैः ।
तमजमकृतमीशं शाश्वतं स्वेच्छयैनं जगदुपकृतिमर्त्यं को विजेतुं समर्थः ॥ ८० ॥
सकलभुवनेति ॥ मूर्तिः–रूपम् । अल्पाल्पसूक्ष्मा अतिसूक्ष्मतरा ॥ ८० ॥
इति श्रीपिष्णुमहापुराणे पञ्चमांसे त्रिंशोध्यायः ।। ३० ।।