[highlight_content]

श्रीविष्णुपुराणम् Amsa 06 Ady 06-08

श्रीविष्णुपुराणम्

अथ षष्ठांशे षष्ठोऽध्यायः

श्रीपराशर उवाच

स्वाध्यायसंयमाभ्यां स दृश्यते पुरुषोत्तमः ।

तत्प्राप्तिकारणं ब्रह्म तदेतदिति पठ्यते ॥ १ ॥

एवं तावदुपास्यभूतं भगवत्स्वरूपमुक्तम् । इदानीमुपासनपर्यायं सांगोपाङ्गं वक्तुमारभते-स्वाध्यायेति ॥ स्वाध्यायशब्देन वेदान्तद्वादशाक्षरप्रणवादीनां तत्त्वपराणां मीमांसासहितानां वाक्यानां निर्देशः । स इत्युक्तगुण-विभूतिविग्रहादिविशिष्टः पुरुषोत्तमः परामृश्यते । स्वाध्यायसंयमजनितं ब्रह्मविषयत्वाब्रह्मशब्द वाच्यम्, तदेतज्ज्ञानं न केवलं दर्शनसाधनम, अपि तु प्राप्तिसाधनं चोच्यते इत्याह-तत्प्राप्तीति । तत्प्राप्तिकारणं तदेतज्ज्ञानं ब्रह्मेति पठ्यत इति वा योजना ॥ १ ॥

स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमावसेत् ।

स्वाध्याययोगसंपत्त्या परमात्मा प्रकाशते ॥ २ ॥

स्वाध्यायादिति ॥ समीमांसात्स्वाध्यायात् अर्थ परिच्छिद्य योगमासीत । गुणत्रयमयत्वेन मनसः प्रमादसंभवादन्यथोपासनपरिहाराय योगात्स्वाध्यायमावसेत् । योगात्स्वाध्यायमामनेदिति च पाठः । यथा बालो मातृकापत्रिकां वीक्ष्य लिपिविन्यास -मभ्यस्यति तद्वत् । कपिलानुसारिभिहिं केवलयोगावलम्बनाज्जगतः प्रधानपर-माण्वादि -कारणत्वनिरीश्वरत्वादिकं दृष्टम् । वेदानुसारिभिस्तु ब्रह्मकारणत्वब्रह्मात्मकत्वादित्योगो दृष्टः । संपत्ति:- पौष्कल्यम् ॥ २ ॥

तदीक्षणाय स्वाध्यायश्चक्षुर्योगस्तथा परम् ।

न मांस चक्षुषा द्रष्टुं ब्रह्मभूतःस शक्यते ॥ ३ ॥

मैत्रेय उवाच

भगवंस्तमहं योगं ज्ञातुमिच्छामि तं वद ।

ज्ञाते यत्राखिलाधारं पश्येयं परमेश्वरम् ॥ ४ ॥

श्रीपराशर उवाच

यथा केशिध्वजः प्राह खाण्डिक्याय महात्मने ।

नजकाय पुरा योगं तमहं कथयामि ते ॥ ५ ॥

एतदुपपादयति-तदीक्षणाय स्वाध्यायश्चक्षुरिति ॥ योगः परं चक्षुः प्रधानं चक्षुः, अपरोक्षरूपत्वात् ॥ ३-५ ॥

मैत्रेय उवाच

खाण्डिक्यः कोऽभवद्ब्रह्मन्को वा केशिध्वजः कृती ।

कथं तयोश्च संवादो योगसंबन्धकारणात् ॥ ६ ॥

श्रीपराशर उवाच

धर्मध्वजो वै जनकस्तस्य पुत्रोऽमितध्वजः ।

कृतध्वजश्च नाम्नाऽऽसीत्सदाध्यात्मरतिर्नृपः ॥ ७ ॥

कृतध्वजस्य पुत्रोऽभूत्ख्यातः केशिध्वजो नृपः ।

पुत्रोऽमितध्वजस्यापि खाण्डिक्यजनकोऽभवत् ॥ ८ ॥

कर्ममार्गेण खाण्डिक्यः पृथिव्यामभवत्पतिः ।

केशिध्वजोऽप्यतीवासीदात्मविद्याविशारदः ॥ ९ ॥

तावुभावपि चैवास्तां विजिगीषू परस्परम् ।

केशिध्यजेन खाण्डिक्यःस्वराज्यादवरोपितः ॥ १० ॥

पुरोधसा मन्त्रिभिश्च समवेतोऽल्पसाधनः ।

राज्यान्निराकृतःसोऽथ दुर्गारण्यचरोऽभवत् ॥ ११ ॥

खाण्डिक्य इति ॥ योगसंबन्धकारणात्-योगेन संबन्धो योगसंबन्धः । कृती-पंडितः ॥ ६-११ ।।

इयाज सोऽपि सुबहून्यज्ञाञ्ज्ञानव्यपाश्रयः ।

ब्रह्मविद्यामधिष्ठाय तर्त्तुं मृत्युमविद्यया ॥ १२ ॥

स्वाध्यायप्रवचने एव इति श्रुतेः स्वाध्यायस्य विद्याङ्गत्वमुक्तम् । इदानीं यज्ञादिश्रुतेर्यज्ञाङ्गत्वमुच्यते-इयाजेति ॥ सोऽपि-केशिध्वजः ज्ञानव्यपाश्रयः- आत्मज्ञानवान् ब्रह्मविद्यामधिष्ठाय-ब्रह्मोपासननिष्ठ एव इयाज । किमर्थमित्यत आह-तर्तुमिति । मृत्युः परविद्योत्पत्तिविरोधि प्राचीनकर्म । अविद्यया-कर्मणा अविद्या कर्मसंज्ञेति वक्ष्यति ॥ १२ ॥

एकदा वर्त्तमानस्य यागे योगविदां वर ।

घर्मधेनुं जघानोग्रः शार्दुलो विजने वने ॥ १३ ॥

ततो राजा हतां श्रुत्वा धनुं व्याघ्रेण चर्त्विजः ।

प्रायश्चितं स पप्रच्छ किमत्रेति विधीयताम् ॥ १४ ॥

तेऽप्यूचुर्न वयं विद्मः कशेरुः पृच्छतामिति ।

कशेरुरपि तेनोक्तस्तथैव प्राह भार्गवम् ॥ १५ ॥

शुनकं पृच्छ राजैन्द्र नाहं वेद्मि स वेत्स्यति ।

स गत्वा कमपृच्छच्च सोऽप्याह शृणु यन्मुने ॥ १६ ॥

न केशरुर्न चैवाहं न चैकःसांप्रतं भुवि ।

वेत्त्येक एव त्वच्छत्रुः खाण्डिक्यो यो जितस्त्वया ॥ १७ ॥

एकदेति ॥ धर्मः—प्रवर्ग्यहविः तद्दोग्ध्रीति धर्मधेनुः ॥ १३-१७ ॥

स चाह तं व्रजाम्येष प्रष्टुमात्मरिपुं मुने ।

प्राप्त एव महायज्ञो यदि मां स हनिष्यति ॥ १८ ॥

प्रायश्चित्तमशेषेण स चेत्पृष्टो वदिष्यति ।

ततश्चाविकलो योगो मुनिश्रेष्ठ भविष्यति ॥ १९ ॥

श्रीपराशर उवाच

इत्युक्त्वा रथमारुह्य कृष्णाजिनधरो नृपः ।

वनं जगाम यत्रास्ते स खाण्डिक्यो महामतिः ॥ २० ॥

तमापतन्तमालोक्य खाण्डिक्यो रिपुमात्मनः ।

प्रोवाच क्रोधताम्राक्षःसमारोपितकार्मुकः ॥ २१ ॥

स चाहेति ॥ प्राप्त एवेति । धर्मार्थमुद्युक्तस्यान्तरा विपत्तौ सत्यामपि तत्फलसिद्धेः शास्त्रसिद्धत्वात् ॥ १८-२१ ॥

खाण्डिक्य उवाच

कृष्णाजिनं त्वं कवचमाबध्यास्मान्हनिष्यसि ।

कृष्णाजिनधरे वेत्सि न मयि प्रहरिष्यति ॥ २२ ॥

मृगाणां वद पृष्ठेषु मूढ कृष्णाजिनं न किम् ।

येषां मया त्वाय चोग्राः प्रहिताः शितसायकाः ॥ २३ ॥

कृष्णाजिनमिति ॥ मयि न प्रहरिष्यतीति वेत्सीत्यन्वयः । अत्र इतिशब्दोऽध्याहार्यः ॥ २२,२३ ।।

स त्वामहं हनिष्यामि न मे जीवन्विमोक्ष्यसे ।

आतताय्यसि दुर्बुद्धे मम राज्यहरो रिपुः ॥ २४ ॥

केशिध्वज उवाच

खाण्डिक्य संशयं प्रष्टुं भवन्तमहामागतः ।

न त्वां हन्तुं विचार्यैतत्कोपं बाणं विमुञ्च वा ॥ २५ ॥

श्रीपराशर उवाच

ततःस मन्त्रिभिः सार्धमेकान्ते स पुरोहितः ।

मन्त्रयामास खाण्डिक्यःसर्वैरेव महामतिः ॥ २६ ॥

तमूचुर्मत्रिणो वध्यो रिपुरेष वशं गतः ।

हतेऽस्मिन् पृथिवी सर्वा तव वश्या भविष्यति ॥ २७ ॥

खाण्डिक्यश्चाह तान्सर्वानेवमेतन्न संशयः ।

हतेऽस्मिन्पृथिवी सर्वा मम वश्या भविष्यति ॥ २८ ॥

परलोकजयस्तस्य पृथिवी सकला मम ।

न हन्मि चेल्लोकजयो मम तस्य वसुंधरा ॥ २९ ॥

नाहं मन्ये लोकजयादधिका स्याद्वसुंधरा ।

परलोकजयोऽनन्तःस्वल्पकालो महीजयः ॥ ३० ॥

तस्मान्नैनं हनिष्यामि यत्पृच्छति वदामि तत् ॥ ३१ ॥

श्रीपराशर उवाच

ततस्तमभ्युपेत्याह खाण्डिक्यजनको रिपुम् ।

प्रष्टव्यं यत्त्वाय सर्वं तत्पृच्छस्व वदाम्यहम् ॥ ३२ ॥

श्रीपराशर उवाच

ततः सर्वं यथावृत्तं धर्मधेनुवधं द्विज ।

कथयित्वा स पप्रच्छ प्रायश्तित्तं हि तद्गतम् ॥ ३३ ॥

स इति ॥ राज्यहरत्वादाततायी । अतो यज्ञस्थस्यापि ते वधे न पातकम् ॥ २४-३३ ।।

स चाचष्ट यथान्यायं द्विज केशिध्वजाय तत् ।

प्रायश्चित्तमशेषेण यद्वै तत्र विधीयते ॥ ३४ ॥

विदितार्थःस तेनैव ह्यनुज्ञातो महात्मना ।

यागभूमिमुपागम्य चक्रे सर्वाः क्रियाः क्रमात् ॥ ३५ ॥

क्रमेण विधिवद्यागं नीत्वा सोऽवभृथाप्लुतः ।

कृतकृत्यस्ततो भूत्वा चिन्तयामास पार्थिवः ॥ ३६ ॥

पूजिताश्च द्विजाःसर्वे सदस्या मानिता मया ।

तथैवार्थिजनोऽप्यर्थैर्योऽर्जितोऽभिमतैर्मया ॥ ३७ ॥

स चाचष्टेति ॥ यद्वै तत्र विधीयत इत्यत्र प्रायश्चित्तं वाजसनेयोक्तं स्पृणोमिहोमाख्यम् । इयं ह्याख्यायिका वाजसनेयशाखायां केशिगृहपतिना उपसम्राजमनड्डुहां शार्दूलो जघान इत्युपक्रम्य स्पृते हुत्वेत्यादि चोत्तवा पृथिव्यै ते शरीरं स्पृणोमि स्वाहा इत्यन्ता सप्रपञ्चमुक्ता । आपस्तंबेन तु यद्यनड्वाहं घर्मदोग्ध्रीं वा शार्दूलो हन्यादर्कक्षीरमजा -क्षीरमन्यधेनुं वाश्रित्य प्रचरेत् इत्याद्युक्तम् ॥ ३४-३७ ॥

यथार्हमस्य लोकस्य मया सर्वं विचेष्टितम् ।

अनिष्पन्नक्रियं चेतस्तथापि मम किं यथा ॥ ३८ ॥

इत्थं संचिन्तयन्नेव सस्मार स महीपतिः ।

खाण्डिक्याय न दत्तेति मया वै गुरुदक्षिणा ॥ ३९ ॥

स जगाम तदा भूयो रथमारुह्य पार्थिवः ।

मैत्रेय दुर्गगहनं खाण्डिक्यो यत्र संस्थितः ॥ ४० ॥

खाण्डिक्योऽपि पुनर्दृष्ट्वा तमायान्तं धृतायुधः ।

तस्थौ हन्तुं कृतमतिस्तमाह स पुनर्नृपः ॥ ४१ ॥

यथार्हमिति ॥ तथापि ममेदं चेतः अनिष्पन्नक्रियं यथा – अकृतकृत्यमिव भवति । किमिति चिन्ता । यथाशब्दः सादृश्ये ॥ ३८-४१ ।।

भो नाहं तेऽपराधाय प्राप्तः खाण्डिक्य मा क्रुधाः ।

गुरोर्निष्क्रियदानाय मामवेहि त्वमागतम् ॥ ४२ ॥

निष्पादितो मया यागः सम्यक्त्वदुपदेशतः ।

सोऽहं ते दातुमिच्छामि वृणीष्व गुरुदक्षिणाम् ॥ ४३ ॥

श्रीपराशर उवाच

भूयस्य मन्त्रिभिः सार्धं मन्त्रयामास पार्थिवः ।

गुरुनिष्क्रयकामोऽयं किं मया प्रार्थ्यतामिति ॥ ४४ ॥

तमूचुर्मन्त्रिणो राज्यमशेषं प्रार्थ्यतामयम् ।

शत्रिभिः प्रार्थ्यते राज्यमनायासितसैनिकैः ॥ ४५ ॥

प्रहस्य तानाह नृपःस खाण्डिक्यो महामतिः ।

स्वल्पकालं महीपाल्यं मादृशैः प्रार्थ्यते कथम् ॥ ४६ ॥

भो इति ॥ निष्क्रियो दक्षिणा । निष्क्रय इति च पाठः ॥ ४२-४६ ॥

एवमेतद्भवन्तोऽत्र ह्यर्थसाधनमन्त्रिणः ।

परमार्थः कथं कोऽत्र यूयं नात्र विचक्षणाः ॥ ४७ ॥

श्रीपराशर उवाच

इत्युक्त्वा समुपेत्यैनं स तु केशिध्वजं नृपः ।

उवाच किमवश्यं त्वं ददासि गुरुदक्षिणाम् ॥ ४८ ॥

एवमिति ॥ अत्र — राज्यचिन्तायाम् । अत्र-संसारे कः परमार्थस्स च कथमित्यत्रार्थे यूयं न विचक्षणाः ॥ ४७, ४८ ॥

बाढमित्येव तेनोक्तः खाण्डिक्यस्तमथाब्रवीत् ।

भवानध्यात्मविज्ञान परमार्थविचक्षणः ॥ ४९ ॥

बाढमिति ॥ अध्यात्मेति। अध्यात्मविज्ञानस्य परमार्थ:- प्रयोजनं, स च क्लेशनिवृत्तिः ॥ ४९ ॥

यदि चेद्दीयते मह्यं भवता गुरुनिष्क्रयः ।

तत्क्लेशप्रशमायालं यत्कर्म तदुदीरय ॥ ५० ॥

यदीति ॥ तत्–तस्मात् क्लेशप्रशमाय यदलं तदुदीरयेत्यब्रवीत् इत्यन्वयः ॥ ५० ॥

इति श्रीविष्णुमहापुराणे षष्ठांशे षष्ठोध्यायः ।। ६ ।।

अथ षष्ठांशे सप्तमोऽध्यायः

केशिध्वज उवाच

न प्रार्थितं त्वया कस्मादस्मद्राज्यमकण्टकम् ।

राज्यलाभाद्विना नान्यत्क्षत्रियाणा मतिप्रियम् ॥ १ ॥

अथ केशिध्वनः क्लेशं मुमुक्षोः खाण्डिक्यस्य वैराग्यं परीक्षितुमाह-न प्रार्थितमिति ॥ प्रजापालनादे: क्षत्त्रधर्मस्य राज्यमूलत्वात्तदुपेक्षायां दोषात्किं राज्यं न प्रार्थितमिति भावः ॥ १ ॥

खाण्डिक्य उवाच

केशिध्वज निबोध त्वं मया न प्रार्थितं यतः ।

राज्यमेतदशेषं ते यत्र गृध्नन्त्यपण्डिताः ॥ २ ॥

यत: कारणान्न प्रार्थितं तच्छृण्वित्याह-केशिध्वजेति ॥ २ ॥

क्षत्रियाणामयं धर्मो यत्प्रजापरिपालनम् ।

वधश्च धर्मयुद्धेन स्वराज्यपरिपन्थिनाम् ॥ ३ ॥

तदेव कारणमाह-क्षस्त्रियाणमिति सार्धेन-क्षस्त्रियाणामिति ॥ सत्यम्, राज्ये सति प्रजारक्षणादिधर्मः ॥३॥

तत्राशक्तस्य मे दोषो नैवास्त्यपहृते त्वया ।

बन्धायैव भवत्येषा ह्यविद्याऽप्यक्रमोज्झिता ॥ ४ ॥

तत्रेति ॥ मम त्वशक्तस्य असक्तस्य च तत्र राज्ये त्वयाऽपहृते सति तदुपेक्षायां न धर्मलोपदोषः अनधिकारात्, सत्यधिकारे तदुपेक्षायां दोष इत्याह – बन्धायेति । अक्रमोज्झिता-विद्यमानेऽध्यधिकारे व्यक्ता अविद्या-प्रजापालनादिक्रिया बन्धाय-पापाय । हि शब्दो हेतौ ॥ ४ ॥

अल्पोपभोगलिप्सार्थमियं राज्यस्पृहा मम ।

अन्येषां दोषजा सैव धर्मं वै नानुरुध्यते ॥ ५ ॥

असक्तस्येत्येतद्विवृणोति—जन्मेति ॥ अन्येषां दोषजा-रागादिदोषजा राज्यस्पृहा, न धर्मानुरोधिनी । केवलमल्पोपभोगलिप्सार्थं भवति । इयं न ममेत्यन्वयः । जन्मोपभोगेति पाठे अन्येषां संबन्धिनी मम जन्मान्त-रोपभोगलिप्सैव । कुतः! अर्थमनुरुध्यते न धर्ममिति । अस्मिन् जन्मन्युपभोगलिप्सार्थमेवेति वा ॥ ५ ॥

न याच्ञा क्षत्रबन्धूनां धर्मयैतत्सतां मतम् ।

अतो न याचितं राज्यमविद्यान्तर्गतं तव ॥ ६ ॥

तर्हि पालनादिधर्मार्थम् अपहृतस्य राज्यस्य याच्ञा कर्तव्येत्यत्राह-न याच्ञेति ॥ क्षत्त्रबन्धूनां-क्षत्रियश्रेष्ठानाम् । अविद्यान्तर्गतं-पालनादिकर्तव्यान्तर्गतम् ॥ ६ ॥

राज्ये गृध्नन्त्यविद्वांसो ममत्वाहृतचेतसः ।

अहंमानमहापानमदमत्ता न मादृशाः ॥ ७ ॥

श्रीपराशर उवाच

प्रहृष्टःसाध्विति ततः प्राह केशिध्वजो नृपः ।

खाण्डिक्यजनकं प्रीत्या श्रूयतां वचनं मम ॥ ८ ॥

यत्र गृध्नन्त्यपण्डिता इत्येतद्विवृणोति – राज्य इति ॥ ७,८ ॥

केशिध्वज उवाच

अहं ह्यविद्यया कृत्युं तर्तुकामः करोमि वै ।

राज्यं यागांश्च विविधान्भोगैः पुण्यक्षयं तथा ॥ ९ ॥

योगस्वरूपं वक्ष्यन् तदन्तर्भूतम् अध्यात्मयोगाधिगमेनेति श्रुतिविहितं प्रकृतिपुरुष विवेकं विहितं कर्म चाह-अहं हीति ॥ अविद्यया-वर्णाश्रमविहितकर्मणा । मृत्युं-विद्योत्पत्तिविरोधि प्रारब्धकर्म, अन्येषा-मप्येष विनाश: इति श्रुतेः ॥ ९ ॥

तदिदं ते मनो दिष्ट्या विवेकैश्वर्यतां गतम् ।

तच्छ्रूयतामविद्यायाःस्वरूपं कुलनन्दन ॥ १० ॥

तदिदमिति ॥ विवेकाख्यमैश्वर्यं विवेक एव वा ऐश्वर्यं यस्य तद्विवेकैश्वर्यं, तद्भावो विवेकैश्वर्यता । कर्माख्याविद्यायाः स्वरूपमाह-तच्छ्रूयतामिति सार्धेन । १० ।।

अनात्मन्यात्मबुद्धिर्या चास्वे स्वमिति या मतिः ।

संसारतरुसंभूतिबीजमेतद्द्विधा स्थितम् ॥ ११ ॥

अनात्मनीति ॥ अनात्मनि – देहे अहमिति भ्रमः, अस्वे-देहपोषकधारकादौ वस्तुनि स्वमिति । संसारफलकं काम्यकर्माविद्या सैव तरुः तत्संभूतेर्बीजम् ॥ ११ ॥

पञ्चभूतात्मके देहे देही मोहतमोवृतः ।

अहं ममैतदित्युच्चैः कुरुते कुमतिर्मतिम् ॥ १२ ॥

आकाशवाय्वग्निजलपृथिवीभ्यः पृथक्स्थिते ।

आत्मन्यात्ममयं भावं कः करोति कलेवरे ॥ १३ ॥

एतद् द्विविधं च भ्रमं प्रपञ्चयति पञ्चभूतात्मक इत्यादि चतुर्भिः । पञ्चभूतात्मक इति ॥ देहे पश्चभूतात्मके कुमतिर्देही इदं देहाद्यहमेवेति, इदं क्षेत्रादि ममेति च मर्ति कुरुते । मोहतमः- पूर्वकर्मवासना ।। १२,१३ ॥

कलेवरोपभोग्यं हि गृहक्षेत्रादिकं च कः ।

अदेहे ह्यात्मनि प्राज्ञो ममेदमिति मन्यते ॥ १४ ॥

कलेबर इति ॥ अदेहे आत्मनि– देशदन्यस्मिन्नात्मनि सति ॥ १४ ॥

इत्थं च पुत्त्रपौत्त्रेषु तद्देहोत्पादितेषु कः ।

करोति पण्डितःस्वाम्यमनात्मनि कलेवरे ॥ १५ ॥

इत्थं चेति ।। अनात्मनि – आत्मनोऽन्यस्मिन् सति ॥ १५ ॥

सर्वं देहोपभोगाय कुरुते कर्म मानवः ।

देहश्चान्यो यदा पुंसस्तदा बन्धाय तत्परम् ॥ १६ ॥

उक्तेनाज्ञानद्वयेन देहोपभोगार्थं कर्म करोति, तच्च बन्धाय भवतीत्याह- सर्वमिति ॥ देहस्योपभोगाय नात्मनः । बन्धाय-देहान्तरोत्पादनाय ॥ १६ ॥

मृण्मयं हि यथा गेहं लिप्यते वै मृदंभसा ।

पार्थिवोऽयं तथा देहो मृदंब्वालेपनस्थितः ॥ १७ ॥

पञ्जभूतात्मकैर्भोगोः पञ्चभूतात्मकं वपुः ।

आप्यायते यदि ततः पुंसो भोगोऽत्र किं कृतः ॥ १८ ॥

देहोपभोगमेव दर्शयति मृण्मयं हीत्यादिद्वयेन ॥ १७,१८ ॥

अनेकजन्मसाहस्रीं संसारपदवीं व्रजन् ।

मोहश्रमं प्रयातोऽसौ वासनारेणुकुण्ठितः ॥ १९ ॥

प्रक्षाल्यते यदा सोऽस्य रेणुज्ञानोष्णवारिणा ।

तदा संसारपान्थस्य याति मोहश्रमः शमम् ॥ २० ॥

देहस्य पार्थिवत्वपाञ्चभौतिकत्वोक्तिः मतभेदेन । तदिदमुभयविधमज्ञानमध्यात्म -ज्ञानेन निरस्यत इत्याइ-अनेकेति द्वयेन ॥ अनेकेति ॥ वासना-अज्ञानकर्मोभयवासना । मोहश्रमम्-अज्ञानजं दुःखम् ॥ १९,२० ॥

मोहश्रमे शमं याते स्वस्थान्तःकरणः पुमान् ।

अनन्यातिशयाबाधं परं निर्वाणमृच्छति ॥ २१ ॥

मोहेति ॥ अनन्यातिशयम् – अन्यातिशयरहितम् । अबाधम्-अदुःखम् । निर्वाणं-मोक्षसुखम् ॥ २१ ॥

निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः ।

दुःखाज्ञानमया धर्मा प्रकृतेस्ते तु नात्मनः ॥ २२ ॥

निर्माणमात्मनः स्वरूपं न तु कर्मफलवदौपाधिकमित्याह-निर्माणमय इति । निर्वाणमय एवायमात्मा ज्ञानमयोऽमल: –निर्मलसुस्वरूपज्ञानरूप एवायमात्मा । यथोक्तम् यथा न कियते ज्योत्स्ना मलप्रक्षालनान्मणेः । दोषप्रहाणान्न ज्ञानमात्मनः क्रियते तथा ॥ इति । न विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते संपद्याविर्भावः स्वेन” शब्दात्, यावदात्मभावित्वात् इत्यादि । आगन्तुकचैतन्यादिगुणक आत्मेति वादो वेदबाह्यः । प्रकृतेस्ते तु नात्मन इति । प्राप्ताप्राप्त विवेकेन प्रकृतिसंबन्धनिबन्धनत्वात् उक्तं, न त्वचेतनधर्माः । न हि देहस्य कारणानां वा सुखत्वाद्यनुसंधानसंभवः । पुरुषः प्रकृतिस्थो हि भुंक्ते इत्यादिविरोधश्च ॥ २२ ॥

जलस्य नाग्निसंसर्गस्थालीसंगात्तथापि हि ।

शब्दोद्रेकादिकान्धर्मांस्तत्करोति यथा नृप ॥ २३ ॥

तथाऽऽत्मा प्रकृतेःसंगादहंमानादिदूषितः ।

भजते प्राकृतान् धर्मानन्यस्तेभ्यो हि सोऽव्ययः ॥ २४ ॥

अत्र दृष्टान्तमाह -जलस्येति ॥ यथा स्वतः शीतमम्बु शब्दफेनादिरहितम्, एवमात्मा स्वत एव निर्मलानन्तज्ञानानन्दः, प्रकृतेस्सङ्गात्-तस्यास्सङ्गात् आत्माअहंमानादिदूषितः । अग्निसंयुक्तस्थालीस्थानीया तापत्रययुक्ता प्रकृतिः । तथा प्राकृतान् धर्मान्-क्षुत्तृष्णादीन् स्वकीयान् मन्यते । भजते-तेन दुःखादिकं जायते ॥ २३, २४ ॥

तदेतत्कथितं बीजमविद्याया मया तव ।

क्लेशानां च क्षयकरं योगादन्यन्न विद्यते ॥ २५ ॥

खाण्डिक्य उवाच

तं ब्रवीहि महाभाग योगं योगविदुत्तम ।

विज्ञातयोगशास्त्रार्थस्त्वमस्यां निमिसंततौ ॥ २६ ॥

तदेतदिति ॥ तत्क्लेशप्रशमायालमिति प्रश्नस्य प्रतिवचनमाह-क्लेशानामिति । योगात्-भगवद्योगात् ।। २५, २६ ॥

केशिध्वज उवाच

योगस्वरूपं खाण्डिक्य श्रूयतां गदतो मम ।

यत्र स्थितो न च्यवते प्राप्य ब्रह्मलयं मुनिः ॥ २७ ॥

योगस्वरूपमिति ॥ ब्रह्मलयं—ब्रह्मणि लयं, ब्रह्मभावमित्यर्थः । ये कर्मणा देवानपि यन्ति इतिवत् । यद्वा मेने चात्मानमच्युतम् ॥ २७ ॥

मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।

बन्धाय विषयासंगि मुक्त्यै निर्विषयं मनः ॥ २८ ॥

अथ योगस्य स्वरूपं करणं विषयं फलं चाह-मन एवेत्यादिभिः ॥ २८ ॥

विषयेभ्यः समाहृत्य विज्ञानात्मामनो मुनिः ।

चिन्तयेन्मुक्तये तेन ब्रह्मभूतं परेश्वरम् ॥ २९ ॥

विषयेभ्य इति ॥ विज्ञानात्-प्रकृतिपुरुषेश्वरवैलक्षण्यज्ञानात् । तेन-मानसेन चिन्तयेदिति योगस्वरूपम् । परमेश्वरगिति विषयः ॥ २९ ॥

आत्मभावं नयत्येनं तद्बह्म ध्यायिनं मुनिम् ।

विकार्यमात्मनः शक्त्या लोहमाकर्षको यथा ॥ ३० ॥

फलमाह – आत्मभावमित्यादिना । आत्मभावमिति ॥ विकार्यमिति । अनाद्य विद्याकर्मवासनादेहैर्बद्धस्यात्मनो भगवज्ज्ञानेन तदवस्थानाशस्सर्वभावनानाश श्चात्यन्तिकलयशब्दवाच्यं विकार्यत्वम् । एवं विकार्य-मात्मानं चिन्तितं तद्ब्रह्मात्मभावं नयति । आत्मनो भावस्वभावः आत्मभावः सत्यकामत्वादिः, जक्षत् कीडन्नित्या-

दिव्यापारश्च । ब्राह्मण जैमिनिरुपन्यासादिभ्यः इत्यादिसूत्रैर्व्यक्तस्य मुक्तस्य ब्रह्मणः क्रीडादीनामाविर्भाव उक्तः । अत्राप्युक्तं निर्वाणमय एवायमात्मेत्यादि । वक्ष्यति च प्रापणीयस्तथैवात्मा प्रक्षीणाशेषभावनः इति । आकर्षक: – आकर्षको मणिरयस्कान्तः । आकर्षको हि लोहमात्मभावं नयति –स्वस्मिन् तिष्ठति स्थापयति, गच्छति गमयति, भ्रमति भ्रामयति । अनुकृतेस्तस्य च कामरूप्यनुसंचरन् वत्सो वा मातरं छाया वा सत्वम् इत्यादिश्रुतिशतं च । यद्वा दोषाकर्षकत्वादाकर्षक इत्यग्निरुच्यते । यथाऽग्निसङ्गात्कनक -मपदोषं प्रजायते । संक्लिष्टं वासुदेवेन मनुष्याणां तथा मनः ॥ यथाऽग्निरुद्धतशिखः कक्षं दहति सानिलः । तथा चित्तस्थितो विष्णुः प्राणिनां सर्वकिल्बिषम् ॥ यथेषिकातूलमग्नौ प्रोतं प्रदूयेत एवं हास्य सर्वे पाप्मानः प्रदूयन्ते इत्यादिभिर्भगतोऽग्निसाम्यमुक्तम् । अग्निवद्भावो हि कनकस्य दोषविगमाज्जायते । पूर्वं दोषसंस्पृष्टं तिरोहितस्वप्रभं

कनकमग्निर्हि स्वशक्त्या स्वसमानवर्णं करोति ॥ ३० ॥

आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः ।

तस्य ब्रह्मणि संयोगो योग इत्यभिधीयते ॥ ३१ ॥

एवं संक्षिप्योक्तं योगमध्यायशेषेण विस्तरतो दर्शयति-आत्मप्रयत्नेति ॥ विषयेष्वनादिवासनावासितत्वात् परमात्मनोऽत्यन्तापूर्वत्वाच्च दुरारोहत्वादात्म -प्रयत्नसापेक्षा विशिष्टा एका संततिश्चेति वक्ष्यमाणप्रकारा विशदतम-प्रत्यक्षतापन्ना निरस्तातिशयाह्लादरूपा पूर्वोक्तानन्तगुणकषायविशेषविशिष्टा वा या मनोगतिः, तस्या ब्रह्मणि संयोगः योगः । अनेनात्मपरमात्मनोर्योगो योग इति पक्षो निरस्तः ॥ ३१ ॥

एवमत्यन्तवैशिष्ट्ययुक्तधर्मोपलक्षणः ।

यस्य योगःस वै योगी मुमुक्षुरभिधीयते ॥ ३२ ॥

एवमिति ॥ उक्तप्रकारात्यन्तवैशिष्ट्ययुक्तो धर्मरूपो योगो यस्य, स मुमुक्षुर्योगीत्य भिधीयते । अत्र मोक्षसाधनं योगः, स च धर्मरूप इति वदन् वाक्यार्थज्ञानं मोक्षसाधनं, ज्ञानमविधेयमिति च वादिनो निरस्यति ।। ३२ ॥

योगयुक्प्रथमं योगी युञ्जानो ह्यभिधीयते ।

विनिष्पन्नसमाधिस्तु परं ब्रह्मोपलब्धिमान् ॥ ३३ ॥

अथ योगिनोऽवस्थाभेदेन संज्ञाद्वयमाह-योगयुगिति ॥ प्रथमं युञ्जानः – योगे प्रकान्तो योगयुगित्यभिधीयते । साक्षात्कृतपरमात्मस्वरूपो विनिष्पन्न समाधिरित्यभिधीयते । ध्यानपर्यन्तसप्ताङ्गयोगनिष्ठस्य योगयुक्त्तवं

समाधिमतो योगित्वमिति विभागः ॥ ३३ ॥

यद्यन्तरायदोषेण दूष्यते चास्य मानसम् ।

जन्मान्तरैरभ्यसतो मुक्तिः पुर्वस्य जायते ॥ ३४ ॥

विनिष्पन्नसमाधिस्तु मुक्तिं तत्रैव जन्मनि ।

प्राप्नोति योगी योगाग्निदग्धकर्मचयोऽचिरात् ॥ ३५ ॥

तयोः पूर्वस्यानेकजन्मस्वभ्यासान्मुक्तिः, इतरस्य तत्रैवेत्याह-यद्यन्तरायेत्यादिद्वयेन ॥ यद्यन्तरायेति ॥ अन्तरायाः- प्रकान्तयोगानां यावद्वारणम् आलस्यादयो दश, धारणातः परं प्रतिमाद्याः षट् । तथा च वायु-संहितायाम् आलस्यं व्याधयस्तीवाः प्रमादस्स्थानसंशयः । अनवस्थितचित्तत्वमश्रद्धा भ्रान्तिदर्शनम् ॥ दुःखानि दौर्मनस्यं च विषयेषु च लोलता । दशैते युञ्जतां पुंसामन्तरायाः प्रकीर्तिताः ॥ शान्तेष्वेतेषु विघ्नेषु योगसक्तस्य योगिनः । उपसर्गाः प्रवर्तन्ते दिव्याः षट् सिद्धिसूचकाः ॥ प्रतिभा श्रवणं वार्ता दर्शनास्वादवेदनाः । सूक्ष्मे चान्तर्हितेऽतीते विप्रकृष्टे त्वनागते ॥ प्रतिभा कथ्यते योऽर्थे प्रतिभासो यथातथम् । श्रवणं सर्वशब्दानां श्रवणं स्वप्रयत्नतः ॥ वार्ता वार्तासु विज्ञानं सर्वेषामेव देहिनाम् । दर्शनं नाम दिव्यानां दर्शनं चाप्रयत्नतः ॥ तथा स्वादश्च दिव्येषु रसेष्वास्वाद उच्यते । स्पर्शनाधि -गमस्तद्वद्वेदना नाम विश्रुता ॥ गन्धादीनां च दिव्यानामाब्रह्म- भवनावधि ॥ इति ॥ तथा अहिंसादिफलभूताः तत्सन्निधौ वैरत्यागः इत्यादिना पतञ्ज लिनोक्तास्सङ्ग स्यापादिकाः सिद्धयोऽष्टैश्वर्याद्याश्च निष्कामत्यान्तरायाः, प्रतिमादिष्वशुद्धेषु गुणेष्वासक्तचेतसाम् । न सिद्धयेत्परमैश्वर्य मक्षयं सार्वकामिकम् ॥ इति वायूक्तेः ॥ ३४, ३५ ॥

ब्रह्मचर्यमहिंसां च सत्यास्तेयापरिग्रहान् ।

सेवेत योगी निष्कामो योग्यतां स्वमनो नयन् ॥ ३६ ॥

योगाङ्गेषु प्रथमं यमनियमावाह-ब्रह्म वर्यमिति ॥ ब्रह्मचर्य मैथुनत्यागः । निषिद्धद्रव्याणामनादानम-परिग्रहः ।। ३६ ।।

स्वाध्यायशौचसंतोषतपांसि नियतात्मवान् ।

कुर्वीत ब्रह्मणि तथा परस्मिन्प्रवणं मनः ॥ ३७ ॥

स्वाध्यायेति ॥ तपः-उपवासादि । परस्मिन् ब्रह्मणि मनः प्रावण्यमेको गुणः ॥ ३७ ॥

एते यमाःसनियमाः पञ्च पञ्च च कीर्तिताः ।

विशिष्टफलदाः काम्या निष्कामानां विमुक्तिदाः ॥ ३८ ॥

तत इति ॥ विशिष्टफलदाः – सकामानाम् ॥ ३८ ॥

एकं भद्रासनादीनां समास्थाय गुणैर्युतः ।

यमाख्यैर्नियमाख्यैश्च युञ्जीत नियतो यतिः ॥ ३९ ॥

एकमिति ॥ आदिशब्देन स्वस्तिकादीनि गृह्यन्ते । भद्धासनादीनां लक्षणं याज्ञवल्क्येनोक्तम् ॥ ३९ ।।

प्राणाख्यमनिलं वश्यमभ्यासात्कुरुते तु यत् ।

प्राणायामःसविज्ञेयःसबीजोऽबीज एव च ॥ ४० ॥

प्राणेत्यादि । सबीजः – सगर्भः, सालबनः भगवन्मूर्तिध्यानमन्त्रजपयुक्तः । अबीज: तद्विधुरः ॥ ४० ॥

परस्परेणाभिभवं प्राणापानौ यथाऽनिलौ ।

कुरुतःस द्विधा नेन तृतीयःसंयमात्तयोः ॥ ४१ ॥

रेचकादिरूपेण प्राणायामं त्रिधा दर्शयति-परस्परेणेति ॥ प्राणेन- निश्वासेन, अपानस्य-उच्छ्वासस्य, अभिभवः – निरोधः प्रथमः प्राणायामो रेचकः । विपरीतः पूरकाख्यो द्वितीयः । स द्विधा तेनेति । स:-प्राणायाम: तेन–उक्तेन प्रकारद्वयेन द्विधा । स द्विधानेनेति पाठान्तरेऽप्येवमेवार्थः । तयोः- उच्छ्वासनिश्वासयोर्युग- पत्संयमातृतीयः कुम्भकाख्यः । एते त्रयोऽपि प्रत्येकं मात्राभेदास्त्रिधा । यथोक्तम् –मात्राद्वादशको मन्द-

चतुर्विंशतिमात्रकः । मध्यमः प्राणसंरोधः षटूत्रिंशन्मात्र उत्तमः ।। प्रस्वेदकम्पनोत्थान -जनकास्ते यथाक्रमम् जानु प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् ॥ अंगुलीस्फोटनं कुर्यात्सा मात्रेति प्रकीर्तिता । प्राणस्वदेद्दजो वायु-रायामस्तन्निरोधनम् ॥ तद्रेचकः पूरकश्च कुम्भकश्च त्रिधोच्यते । नासिका पुटमङ्गुल्या निपीड्यैकं परेण तु ॥ औदरं रेचमेद्वायुं तदाऽयं रेचकः स्मृतः । बाह्येन वायुना देहं धृतिवत्परिपूरयेत् । नासापुटेनापरेण पूरणात्पूरको मतः ॥ न मुञ्चति न गृह्णाति वायुमन्तर्बहिस्स्थितम्। संपूर्णकुम्भवत्तिष्ठेदचलस्स तु कुम्भकः ॥ रेचकादित्रयाभ्यासो नासाशोधनपूर्वकः । स्वेदोक्रमणपर्यन्तः प्रोक्तो योगानुशासने ॥ अगर्भश्च सगर्भश्च प्राणायामो द्विधा पुनः । जपध्यानं विनाऽगर्भ: सगर्भस्तत्समन्वयात् ।। अगर्भाद्गर्भसंयुक्तः प्राणायामश्शताधिकः ॥ इति ॥ ४१ ॥

तस्य चालंबनवतः स्थूलरूपं द्विजोत्तम ।

आलंबनमनन्तस्य योगिनोऽभ्यसतः स्मृतम् ॥ ४२ ॥

प्राणायाम सबीजनिर्बीज तथा द्विधाऽभिप्रेत्य तत्र सबीजस्यालम्बनमाह-तस्येति ॥ स्थूलरूपं-मूर्तं भगवतो रूपमिति वक्ष्यमाणम् । रूपस्य स्थूलत्वं भगवत्स्वरूपापेक्षया ॥४२॥

शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् ।

कुर्याच्चित्तानुकारीणि प्रत्याहारपरायणः ॥ ४३ ॥

वश्यता परमा तेन जायतेऽतिचलात्मनाम् ।

इन्द्रियाणामवश्यैस्तैर्न योगी योगसाधकः ॥ ४४ ॥

प्रत्याहारमाह- शब्दादिष्विति ॥४३, ४४१॥

प्राणयामेन पवने प्रत्याहारेण चेन्द्रिये ।

वशीकृते ततः कुर्यात्स्थितं चेतः शुभाश्रये ॥ ४५ ॥

प्राणायामेनेति ॥ प्राणायामेन पवने प्रत्याहारेण चेन्द्रिये वशीकृते सति चेतश्शुभाश्रये पूर्वोक्तभगवत्-स्थूलरूपे स्थितं कुर्यात् । बनेन श्लोकेन धारणोक्ता ॥ ४५ ॥

खाडिक्य उवाच

कथ्यतां मे महाभागा चेतसो यः शुभाश्रयः ।

यदाधारमशेषं तद्धन्ति दोषमलोद्भवम् ॥ ४६ ॥

कथ्यतामिति ॥ तच्चेतः दोषमलोद्भवं – दोषमल योरुद्भवम् । दोष:- कल्मषं, मलं-रागादि ॥ ४६ ॥

केशिध्वाज उवाच

आश्रयश्चेतसो ब्रह्म द्विधा तच्च स्वभावतः ।

भूप मूर्तममूर्तं च परं चापरमेव च ॥ ४७ ॥

अथ शुभाश्रयं वक्ष्यन् प्रथमं हेयमशुभाश्रयं दर्शयति आश्रय इति ॥ चेतस आश्रयो ब्रह्म, तच्च स्वरूपतो द्विधा मूर्तममूर्तं च । मूर्त सशरीरं हिरण्यगर्भादिबद्धरूपम् । अमूर्तमशरीरं मुक्तरूपम् । परत्वापरत्वे व्युत्क्रमेण तयोर्विशेषणे । ब्रह्मात्मकत्वात् तयोर्ब्रह्म शब्दनिर्देशः । अनयोरपि भगवद्रूपत्वेन ध्येयत्वप्रसङ्गात्तत्प्रतिषे-ध्याय प्रस्तावः ॥ ४७ ।।

त्रिविधा भावना भूप विश्वमेतन्निबोधताम् ।

ब्रह्माख्या कर्मसंज्ञा च तथा चैवोभयात्मिका ॥ ४८ ॥

त्रिविधेति ।। अनन्तरोक्तं मूर्तामूर्तात्मकमेतद्विश्वं त्रिविधा भावना-भावनात्रयात्मकमित्यर्थः । तां-भावना निबोध । ब्रह्माख्येत्यादि । ब्रह्मकर्मादिविषयतया ब्रह्मादिव्यपदेशः ॥ ४८ ॥

कर्मभावात्मिका ह्येकाब्रह्मभावात्मिका परा ।

उभयात्मिका तथैवान्या त्रिविधा भावभावना ॥ ४९ ॥

एतदेवाह—कर्मभावात्मिकेति ॥ भावभावना – भावो मनोव्यापारः, भावेन भावना भावभावना । भावः पदार्थों वा ॥ ४९ ॥

सनन्दनादयो ये तु ब्रह्मभावनया युताः ।

कर्मभावनया चान्ये देवाद्याः स्थावरावराः ॥ ५० ॥

केषां का भावनेत्यत्राह — सनन्दनादय इति ॥ स्थावरावरा:- स्थावरचरमाः । स्थावराणां हिमवदादीनां हि कर्मस्वधिकारः श्रूयते । बिल्वा मार्दङ्गिका ह्यासन् कीडन्त्योषधयस्सदा ॥ इति च ॥ ५० ॥

हिरण्यगर्भादिषु च ब्रह्मकर्मात्मिकां द्विधा ।

बोधाधिकारयुक्तेषु विद्यते भावभावना ॥ ५१ ॥

हिरण्यगर्भादिष्विति ॥ संसारदशायामधिकारबोधयुक्तेषु भावनात्रयान्वय इत्याह -बोधाधिकारेति ॥ अधिकारो नाम मत्फलसाधनत्वात् मदर्थमिदं कर्मेति कर्मण्यैश्वर्यत्रोधः ॥ ५१ ॥

अक्षीणेषु समस्तेषु विशेषज्ञानकर्मसु ।

विश्वमेतत्परं चान्यद्भेदभिन्नदृशां नृणाम् ॥ ५२ ॥

विश्वमेतदुक्तमर्थरूपं विशेषज्ञानकर्मस्वक्षीणेष्वित्याह-अक्षीणेष्विति ॥ विशेषज्ञानं देवमनुष्यादिभेदभिन्न-तयाऽऽत्मानुसंधानं तत्तदभिमानानुरूपम् । कर्म–विशेषकर्म । अथ पराख्यं मूर्तरूपमाह-परं चान्यदित्यादिना परमात्मन इत्यन्तेन । मेदभिन्नदृशामिति पञ्चम्यर्थे षष्ठी । ये पूर्वश्लोके अक्षीणसमस्त विशेषज्ञानकर्माण उक्ताः तेभ्यो मेदभिन्नदृग्भ्यो ब्रह्मसनकादिभ्योऽन्यत् तत्पराख्यम् ॥ ५२ ॥

प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम् ।

वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्मसंज्ञितम् ॥ ५३ ॥

अन्यत्वमुपपादयति प्रत्यस्तमितेति ॥ प्रयस्तमितभेदम्-अशरीरत्वेन जात्यादिभेद रहितम्, अत एव वचसामगोचरम् । सत्तामात्रम् -अपक्षयादिविकार -पञ्चकरहितम् । आत्मसंवेद्यं-स्वयंप्रकाशम् । ज्ञानं-ज्ञान- गुणैकनिरूपणीयम् । तद्गुणसारत्वादिति ह्युक्तम् । ज्ञानस्वरूपत्वं त्वात्मसंवेद्यमित्यनेन दर्शितं ब्रह्मात्मकत्वात् ब्रह्मसंज्ञितमित्युक्तं यदेवं रूपं ज्ञानं तद्ब्रह्मसंज्ञितमित्यन्वयः ॥ ५३ ॥

तच्च विष्णोः परं रूपमरूपाख्यमनुत्तमम् ।

विश्वस्वरूपवैरूप्यलक्षणं परमात्मनः ॥ ५४ ॥

तच्चेति ॥ अरूपाख्यम् – अमूर्त्ताख्यं पूर्वोक्त विश्वरूपवैरूप्यलक्षणम् । अन्वयलक्षणासंभवेन मूर्तरूपात् व्यतिरेकलक्षणम् । तच्च परमात्मनो विष्णोः परं रूपम् ॥ ५४ ॥

न तद्योगयुजा शक्यं नृप चिन्तयितुं यतः ।

ततःस्थूलं हरे रूपं चिन्तयेद्विश्वगोचरम् ॥ ५५ ॥

नेति ॥ तत् योगयुजा—योगे प्रकान्तेन, चिन्तयितुं न शक्यम् । तेन स्थूलरूपं चिन्त्यमित्याह-तत इति । स्थूलं-पूर्वोकं बद्धरूपम् ॥ ५५ ॥

हिरण्यगर्भो भगवान्वासुदेवः प्रजापतिः ।

मरुतो वसवो रुद्रा भास्करास्तारका ग्रहाः ॥ ५६ ॥

गन्धर्वयक्षदैत्याद्याः सकला देवयोनयः ।

मनुष्याः पशवः शैलाःसमुद्राःसरितो द्रुमाः ॥ ५७ ॥

भूप भूतान्यशेषाणि भूतानां ये च हेतवः ।

प्रधानादिविशेषान्तं चेतनाचेतनात्मकम् ॥ ५८ ॥

विस्तरेण तदेव दर्शयति-हिरण्यगर्भ इत्यादिना मूर्तमेतद्धरे रूपमित्यन्तेन ॥ ५६-५८ ॥

एकपादं द्विपादं च बहुपादमपादकम् ।

मूर्तमेतद्धरे रूपं भावनात्रितयात्मकम् ॥ ५९ ॥

एतत्सर्वमिदं विश्वं जगदेतच्चराचरम् ।

परब्रह्मस्वरूपस्य विष्णोः शक्तिसमन्वितम् ॥ ६० ॥

एकपादमिति श्लोंकद्वयस्यैकान्वयः । भावनात्रितयात्मकमेतत्सर्वमित्युक्तम् । एतत्स्थूलरूपं चिन्तयितुं शक्यमपि भावनात्रितयात्मकम् । अतोऽशुद्धत्वादशुभाश्रय इति भावः । इदं विश्वमिति विश्वमेतन्निबोधतामित्युक्त- स्योपसंहारः । जगदेतच्चराचरम् इत्यादि विष्णेश्शक्ति समन्वितमित्यन्तमेकं वाक्यम् । एवं विधमेतज्जगद्विष्णोः शक्तित्वेन समन्वितम् । शक्तिश्शरीरम् अंश इति पर्याय: । शरीरतया तत्संकल्पशक्त्या व्याप्तमिति च, अस्मच्छरीरवत् । केचित् एतत्सर्वमिति हिरण्यगर्भादि इदं विश्वमिति सनन्दनादि जगदेतदिति सुरनरादि च परामृश्य इदं त्रितयं विष्णोश्शक्तिसमन्वितमिति योजयन्ति । तत्पक्षे भावनात्रितयात्मकमित्यस्य पूर्वेणोत्तरेण वा संबन्धः ॥ ५९, ६० ॥

विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथाऽपरा ।

अविद्याकर्मसंज्ञाऽन्या तृतीया शक्तिरिष्यते ॥ ६१ ॥

तत्र परा विष्णुशक्तिः प्रत्यस्तमितेत्यादिनोक्ता, क्षेत्रज्ञाख्या अपरा हिरण्यगर्म इत्यादिनोक्तेत्याइ-विष्णु- शक्तिरिति ॥ अथ यागादिकर्माख्यमविद्या पर्यायं विष्णोश्शक्त्यन्तरमाह – अविद्येति ॥ ६१ ॥

यया क्षेत्रज्ञशक्तिःसा वेष्टिता नृपसर्वगा ।

संसारतापानखिलानवाप्नोत्यतिसंततान् ॥ ६२ ॥

तत्स्वरूपमाह – ययेति ॥ सर्वगा-कर्मनिमित्तसर्वशरीरगा ॥ ६२ ॥

तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता ।

सर्वभूतेषु भूपाल तारतम्येन लक्ष्यते ॥ ६३ ॥

तयेत्यादि ॥ तारतम्येन ज्ञानानन्दतारतम्येन ॥ ६३ ॥

अप्राणवत्सु स्वल्पा सा स्थावरेषु ततोऽधिका ।

सरीसृपेषु तेभ्योऽपि ह्यतिशक्त्या पतत्त्रिषु ॥ ६४ ॥

तारतम्यमेव दर्शयति — अप्राणवत्स्विति ॥ शिलाकाष्ठादिषु सा-क्षेत्रज्ञशक्तिः स्वल्पा ज्ञानानन्दादिना, न तु स्वरूपेण । सरीरसृपेषु तेभ्योऽप्यधिकेति शेषः । अतिशक्त्या-ज्ञानशक्त्या अधिकेत्यर्थः ॥ ६४ ॥

पतत्त्रिभ्यो मृगास्तेभ्यस्तच्छक्त्या पशवोऽधिकाः ।

पशुभ्यो मनुजाश्चातिशक्त्या पुंसः प्रभाविताः ॥ ६५ ॥

तेभ्योऽपि नागगन्धर्वयक्षाद्या देवता नृप ॥ ६६ ॥

शक्रःसमस्तदेवेभ्यस्ततश्चातिप्रजापतिः ।

हिरण्यगर्भोऽपि ततः पुंसः शक्त्युपलक्षितः ॥ ६७ ॥

पतत्रिभ्य इति ॥ तच्छक्त्या-आत्मनो ज्ञानशक्त्या । प्रभाविता:- प्रभूताः कृताः ॥ ६५-६७ ॥

एतान्यशेषरूपाणि तस्य रूपाणि पार्थिव ।

यतस्तच्छक्तियोगेन युक्तानि नभसा यथा ॥ ६८ ॥

एतान्यप्राणवदादीनि हिरण्यगर्भान्तान्यशेषरूपाण्यविशेषेण तस्य शरीराणीत्याह-एतानीति ॥ तत्र हेतुमाह-यत इति ॥ यथा हि जीवस्य शरीरं जीवसंकल्पव्याप्तम्, एवं चेतनाचेतनात्मकं सर्वं भगवच्छक्तियोगेन व्याप्तं नियाम्यं धार्यं च । अतस्तच्छरीरम् । शक्तियोगेनेति । शक्तिरूपो योगः शक्तियोगः । शक्ति:- सामर्थ्यं, योगः– संकल्पः । नभसा यथेति संकल्पनैरन्तर्यमुक्तम् । महात्मा भूतभावनः यथाकाशः स्थितो नित्यम्

इत्यादि ॥ ६८ ॥

द्वितीयं विष्णुसंज्ञस्य योगिध्येयं महामते ।

अमूर्तं ब्रह्मणो रूपं यत्सदित्युच्यते बुधैः ॥ ६९ ॥

एवं भावनात्रयात्मकं भगवतो मूर्त रूपमुक्तम् । इदानीं मुक्तरूपममूर्त रूपमित्याह-द्वितीयमिति ॥ यत्सदित्युच्यते–सत्तामात्रमित्युच्यते । योगिध्येयं-निष्पन्नयोगेन ध्यातुं शक्यम्, तद्विष्णुसंज्ञस्य ब्रह्मणो मूर्तं द्वितीयं रूपमित्यन्वयः ॥ ६९ ।।

समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्ठिताः ।

तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् ॥ ७० ॥

अथोक्तशक्तित्रयस्यास्त्रभूषणादिरूपेण नित्याश्रयभूतं जगदेककारणतयोक्तं भगवद्रूपम् तस्य शुभाश्रयत्वं वक्तुमाह–समस्ता इति ॥ विश्वरूपवैरूप्यम्-उक्त विश्वरूपवैलक्षण्यं, रूपम्-शरीरम्, अन्यत्-द्रव्यान्तरम् । आदित्यवर्णं तमसः परस्तात्, अमृतो हिरण्मयः विद्यत: पुरुषादधि, महारजतं वासः पुण्डरीक- मेवमक्षिणी रुक्मवर्णम् कर्तारमीशम् रुक्माभम् इत्यादिवचनसिद्धम् । महत्— स्थूलम् । गुणतोऽपि महत्वं विवक्षितम् । एवंविधं रूपमस्यास्तीति सिद्धम् ॥ ७० ॥

समस्तशक्ति रूपाणि तत्करोति जनेश्वर ।

देवतिर्यङ्मनुष्यादिचेष्टावन्ति स्वलीलया ॥ ७१ ॥

समस्तशक्त्याश्रयं तद्रूपं भगवानेव जगदुपकाराय स्वलीलया देवतिर्यङ्मनुष्यादि -चेष्टावन्ति देवाद्यवताररूपाणि करोतीत्याह-समस्तेत्यादिद्वयेन ॥ समस्तेति । समस्त-

शक्तीति पदच्छेदः । समस्ताः शक्तयः यस्मिन् तत्तथोक्तम् । मन्वन्तरेष्वशेषेषु देवत्वेनाधि -तिष्ठति इति । प्रतिकल्पं चतुर्दशदेवावताराः, त्रिमूर्तिमध्यगत विष्ण्वादयश्च, मत्स्यादयस्तिर्यगवताराः, रामादयो मनुष्याषताराः, स्वलीलया न तु प्रयोजनान्तरेण । देवतिर्यङ्मनुष्याख्याचेष्टावन्तीति च पाठः ॥ ७१ ॥

जगतामुपकाराय न सा कर्मनिमित्तजा ।

चेष्टा तस्याप्रमेयस्य व्यापिन्यव्याहतात्मिका ॥ ७२ ॥

किंच, जगतामिति ॥ जगतामुपकाराय, न कर्मफलभोगाय सा-जन्मादिरूपा चेष्टा । तत्र जन्म-रूपा देवमनुष्यादिसर्व जातिव्यापिनी यथाह बहुधा विजायते इति । कर्मरूपा वृन्दावनगोकुलकालिय-हृदादिव्यापिनी । अव्याहतात्मिका-रावणशिशुपालबाणशक्रशर्वा -दिभिरप्रतिहता । न सा कर्मनिमित्तजेत्यनेन त्रिभावनातीतत्वात् अवताराणामपि शुभाश्रयत्वं दर्शितम् ॥ ७२ ॥

तद्रूपं विश्वरूपस्य तस्य योगयुजा नृप ।

चिन्त्यमात्मविशुद्ध्यर्थं सर्वकिल्बिषनाशनम् ॥ ७३ ॥

यथाऽग्निरुद्धतशिखः कक्षं दहति सानिलः ।

तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम् ॥ ७४ ॥

यद्यप्यनन्तस्यानन्तबद्धमुक्तरूपाणि सन्ति । तथापि व्यूहविभवादिरूपेण स्थितं तदेव भगवतो रूपं चिन्त्यमित्याह–तद्रूपमिति ॥ सर्वकिल्विषनाशनं – सर्वकर्मक्षयकरम् ॥ ७३, ७४ ॥

तस्मात्समस्तशक्तीनामाधारे तत्र चेतसः ।

कुर्वीत संस्थितिं सा तु विज्ञेया शुद्धधारणा ॥ ७५ ॥

यत एवं विलक्षणं योगयुजाऽभ्यासवशेन चिन्तयितुं शक्यं च, तस्मात्तत्र रूपे धारणां कुर्यादित्याह-तस्मादिति ॥ आधारशुद्ध्या धारणायाः शुद्धिः ॥ ७५ ॥

शुभाश्रयस्य चित्तस्य सर्वगस्याचलात्मनः ।

त्रिभावभावनातीतो मुक्तये योगिनो नृप ॥ ७६ ॥

शुभाश्रयत्वे त्रिभावभावनातीतत्वं हेतुमाह-शुभाश्रय इति ॥ शुद्धाश्रय इति च पाठः । स्वतस्सवे-गतस्य चञ्चलस्य विलक्षणविषये अचलात्मनस्सर्वविलक्षणत्वात् स शुभाश्रयः । अवताररूपाण्यपि भावनात्रयाती-तत्वेन मुक्तिहेतुतया च शुभाश्रय इति स्मृत्यादिभिरुक्तम् । एवं यो वेत्ति तत्त्वतः यादृशे वा मनस्स्थैर्यं रूपे बध्नाति चक्रिणः । नृसिंहवामनादीनाम् इत्यादिना शौनकः । श्रीसात्वते दशेन्द्रियाननं घोरं यो मनोरजनी- चरम् । विवेकशरजालेन शमं नयति योगिनाम् । ध्येयस्स एव विश्वात्मा सतोयजलदप्रभः । रक्तराजीवनयनो धनुश्शरकराङ्कित: इत्यादिना प्रत्याविर्भावमुक्तम् ॥ ७६ ।।

अन्ये तु पुरुषव्याघ्र चेतसो ये व्यापाश्रयाः ।

अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः ॥ ७७ ॥

एतद्व्यतिरिक्ताः पूर्वोक्ता बद्धमुक्ता ये ते अशुभाश्रया इत्याह–अन्ये त्विति ॥ अत्रापि शौनकः आब्रह्मास्तम्बपर्यन्ता जगदन्तर्व्यवस्थिताः । प्राणिनः कर्मजनितास्संसार -वशवर्त्तिनः ॥ यतस्ततो न ते ध्याने ध्यानिनामुपकारकाः। अविन्द्यान्तर्गता स्सर्वे ते हि संसारगोचराः ।। पश्चादुद्भूतबोधाश्च ध्याने नैवोपकारकाः। नैसर्गिको न वै बोधस्तेषामप्यन्यतो यतः ॥ तस्मात्तदमलं ब्रह्म निसर्गादेव बोधवत् । ध्येयम् इत्यादि ।

महाभारते ब्रह्माणं शितिकण्ठं च इत्यादि । एतदन्तास्तु गतयो ब्रह्माद्यास्समुदाहृताः इत्यादि मनुः । कर्मयोनित्वमशुद्धिहेतुः ॥ ७७ ॥

मूर्तं भगवतो रूपं सर्वापाश्रयनिस्पृहम् ।

एषा वै धारण प्रोक्ता यच्चित्तं तत्र धार्यते ॥ ७८ ॥

यच्च मूर्तं हरे रूपं यादृक्चिन्त्यं नराधिप ।

तच्छ्रूयतामनाधारा धारमा नोपपद्यते ॥ ७९ ॥

प्रसन्नवदनं चारुपद्मपत्रोपमेक्षणम् ।

सुकपोलं सुविस्तीर्णललाटफलकोज्ज्वलम् ॥ ८० ॥

समकर्णान्तविन्यस्तचारुकुण्डलभूषणम् ।

कंबुग्रीवं सुविस्तीर्णश्रीवत्सांकितवक्षसम् ॥ ८१ ॥

अथ धारणाया ध्यानस्य चाश्रयरूपमाह-मूर्तमिति ॥ मूर्ते भगवतो रूप इति च पाठ: । मूर्ते-स्थूले ।। ७८-८१ ।।

वलित्रिभङ्गिना मग्ननाभिना ह्युदरेण च ।

प्रलंबाष्टभुजं विष्णुमथवापि चतुर्भुजम् ॥ ८२ ॥

समस्थितोरुजङ्घं च सुस्थिताङ्घ्रिवरांबुजम् ।

चिन्तयेद्ब्रह्मभूतं तं पीतनिर्मलवाससम् ॥ ८३ ॥

किरीटहारकेयूरकटकादिविभूषितम् ॥ ८४ ॥

वलीति ॥ त्रयो भङ्गा यस्य तत्त्रिभङ्गि । वलिभिस्त्रिभङ्गिना ॥ ८२-८४ ।।

शार्ङ्गशङ्खगदाखड्गचक्राक्षवलयान्वितम् ।

वरदाभयहस्तं च मुद्रिकारत्नभूषितम् ॥ ८५ ॥

चिन्तयेत्तन्मयो योगी समाधायात्ममानसम् ।

तावद्यावद्दृढीभूता तत्रैव नृप धारणा ॥ ८६ ॥

व्रजतस्तिष्ठतोऽन्यद्वा स्वेच्छया कर्म कुर्वतः ।

नापयाति यदा चित्तत्सिद्धां मन्येत तां तदा ॥ ८७ ॥

अथ धारणां विषयभेदेन चतुर्धा दर्शयति-शार्ङ्गेत्यादिना ॥ अष्टभुजत्वपक्षे शार्ङ्गादीनि षट् षण्णां धार्याणि, शिष्टभुजयों: पद्मबाणौ, वराभये वा । चतुर्भुजत्वे शङ्खचक्रगदाब्जानि । तत्र शार्ङ्गेत्यादिना, तां तदेत्यन्तेन अस्त्रभूषणप्रत्यङ्गप्रधानाङ्ग -चतुष्टय विषया प्रथमा धारणोक्ता । अस्त्रप्रधानेयं धारणा ॥ ८५-८७ ॥

ततः शङ्खगदाचक्रशार्ङ्गीदिरहितं बुधः ।

चिन्तयेद्भगवद्रूपं प्रशान्तं साक्षसूत्रकम् ॥ ८८ ॥

तत इति ॥ ततश्शङ्खेत्यादिना साक्षसूत्रकमित्यन्तेन शङ्खाद्यस्ररहितसाक्षसूत्र -किरीटादिभूषणप्रत्यङ्ग-प्रधानाङ्गविषया द्वितीयोक्ता । इयं भूषणप्रधाना ॥ ८८ ॥

सा यदा धारणा तद्वदवस्थानवती ततः ।

किरिटकेयूरमुखैर्भूषणै रहितं स्मरेत् ॥ ८९ ॥

सेति ॥ किरीटेत्यादिना भूषणरहितप्रत्यङ्गप्रधानाङ्गविषया तृतीयोक्ता । इयं प्रत्यङ्गप्रधाना ॥ ८९ ॥

तदेकावयवं देवं चेतसा हि पुनर्बुधः ।

कुर्यात्ततोऽवयविनि प्रणिधानपरो भवेत् ॥ ९० ॥

तदिति ॥ तदेकावयवमित्यादिना प्रधानाङ्गविषया चतुर्थी धारणोक्ता । आयुधभूषणप्रत्यङ्गेषु अभ्यासेन सुदृढं गृहीतेषु पुनस्तदेकावयवं-तेषां प्रत्यङ्गानां प्रधानावयवयुक्तं देवं चेतसा कुर्यात्-चिन्तयेदित्यर्थः । इयमेका-वयवप्रधाना । अथ ध्यानमाह-ततोऽवयविनीति ॥ ततः धारणानन्तरम् । अस्त्र भूषणप्रत्यङ्गप्रधानाङ्गाना -माश्रये गोमुखाकारेऽवयविनि अस्राद्यनुषङ्गेण ध्यानपरों भवेत् ॥ ९० ॥

तद्रूपप्रत्यया चैका संततिश्चान्यनिःस्पृहा ।

तद्ध्यानं प्रथमैरङ्गैः षड्भिर्निष्पाद्यते नृप ॥ ९१ ॥

ध्यानलक्षणमाह—तद्रूपेति ॥ तद्रूपप्रत्यय इति च पाठः । तद्रूपप्रत्यये-धारणासिद्धरूप विषयप्रत्यये । एका-असदृशी । अन्यनिस्पृहा-विजातीयप्रत्ययानन्तरिता या संततिः-प्रवाहः, तद्ध्यानं षड्भिरङ्गैः—यमादिभिः । एवमुपासनसोपानक्रमेणा -रूढदिव्यविषयमिदं ध्यानम् । पूर्वत्र तस्य चालम्बनवत इति प्रस्तुतः सालम्बनो योगः । अस्त्रभूषणाध्याये ह्यस्त्रभूषणमयसर्वशक्त्याश्रय दिव्यविग्रहः सबीजयोगविषय इति स्पष्टमुक्तम् सालम्बनो महायोग-स्सबीज इत्यादिना ॥ ९१ ॥

तस्यैव कल्पनाहीनं स्वरूपग्रहणं हि यत् ।

मनसा ध्याननिष्पाद्यं समाधिःसोऽभिधीयते ॥ ९२ ॥

अथ ध्यानपर्यन्तसप्ताङ्गजन्यं निर्बीजयोगाख्यं भगवत्स्वरूपविषयं समाधिमाह-तस्यैवेति ॥ तस्यैव-विग्रहादिविशिष्टतया ध्यातस्यैव, कल्पनाः- नामरूपवर्णापक्षय -विनाशादयः । अयं समाधिः पूर्वाध्याये परविद्येत्युक्तं विवेकजज्ञानम् । इदं चास्त्र भूषणा दिविशिष्टदिव्य विग्रहवत एव भगवतोऽस्रभूषणाध्यायादिषु बिभर्ति पुण्डरी- काक्षस्सदैव परमेश्वर: कलामुहूर्तादिमयश्च कालः इत्यादिभिः प्रतिपादितत्वात्, अस्त्रादीनां राहित्येनोत्त-रोत्तरध्यानस्य वचनम् अन्यथा तस्याशक्यत्वात्, न तु त्याज्यत्वात् तेषाम् । अस्त्रादिविशिष्ट विग्रहक्त एव प्राप्यत्वात् तत्क्रतुन्यायेन तेषामपि दृढं ध्येयत्ववचनाच्च ॥ ९२ ॥

विज्ञानं प्रापकं प्राप्ये परे ब्रह्मणि पार्थिव ।

प्रापणीयस्तथैवात्मा प्रक्षीणाशेषभावनः ॥ ९३ ॥

उक्तस्य समाधिरूपज्ञानस्य भेषजं भगवत्प्राप्तिरित्युक्तम् परब्रह्मप्राप्तिफलमाह-विज्ञानमिति ॥ इदं विज्ञानं प्राप्ये परे ब्रह्मणि प्रापकम्, तथैव-ब्रह्मवत् प्रक्षीणाशेषभावनः – भावनात्रयरहितो भगवदुपासक आत्मा प्रापणीयः- प्रापयितव्यः । ब्रह्मविदाप्नोति परम् विद्ययाऽमृत (त्व)मश्नुते भक्त्या त्वनन्यया शक्यः, भक्त्या मामभिजानाति, तत्प्राप्तिहेतुर्ज्ञानं च इत्यादि । ९३ ॥

क्षेत्रज्ञः करणी ज्ञानं करणं तस्य तेन तत् ।

निष्पाद्य मुक्तिकार्यं वै कृतकृत्यं निवर्तते ॥ ९४ ॥

इदं ज्ञानं न केवलं ब्रह्मप्रापकमात्रम्, किं तु मुक्तिकारणमपीत्याह-क्षेत्रज्ञ इति ॥ क्षेत्रज्ञः-अनादि-कालक्षेत्ररूपमायागुणत्रपतिरोहितस्वस्वरूपः । करणी-करणवान् । समाधिरूपं ज्ञानं करणम् । तत्-ज्ञानं तेन-करणत्वेन तस्य-क्षेत्रज्ञस्य मुक्तिकार्यं निष्पाद्य कृतकृत्यं निवर्तते-मुतिमकृत्वा न निवर्तत इत्यर्थः ॥ ९४ ॥

तद्भावभावमापन्नस्ततोऽसौ परमात्मना ।

भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ॥ ९५ ॥

मुक्तिस्वरूपमाह–तद्भावभावमिति ॥ तद्भावभावमापन्नः-तस्य परस्य ब्रह्मणो भावाः अपहतपाप्म-स्वादयो धर्माः, तेषां भावम्-आविर्भावम्, आपनः- प्राप्तः, तदाऽसौ परमात्मना अभेदी भवति – ज्ञानानन्दा-चाकारैरेक प्रकारो भवतीत्यर्थः । भेदः-देवादिरूपः, तदन्वयोऽस्य कर्मरूपाज्ञानकृत: ; निरञ्जनः परमं साम्य-मुपैति, ब्रह्मणो महिमानमाप्नोति, परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते, संपद्याविर्भावः स्वेन-शब्दाद, मम साधर्म्यमागताः इत्यादे: । स्वरूपैक्यपक्षे तु द्वितीयो भावशब्दो निरर्थकः । अभेदी भवतीत्यस्य च पुनरुक्ति: अन्यद्रव्यं हि नैति तद्व्यतां यतः इति चोक्तविरोधः ॥ ९५ ॥

विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते ।

आत्मनो ब्रह्मणो भेदमसंतं कः करीष्यति ॥ ९६ ॥

इत्युक्तस्ते मया योगः खाण्डिक्य परिपृच्छतः ।

संक्षेपविस्तराभ्यां तु किमन्यत्क्रियतां तव ॥ ९७ ॥

खाण्डिक्य उवाच

कथिते योगसद्भावे सर्वमेव कृतं मम ।

तवोपदेशेनाशेषो नष्टश्चित्तमलो यतः ॥ ९८ ॥

एतदेव विवृणोति—विभेदजनक इति । विभेदः-देवमनुष्यादिरूपः । आत्मनि ज्ञानैकरूपे देवादि-विविधरूपविविधभेदहेतु भूतकर्माख्याज्ञाने परब्रह्मदर्शनेनाव्यन्तिकनाशं गते सति, परस्माद्ब्रह्मणः आत्मनो भेदं देवादिरूप भेदं कः करिष्यति – न कोऽपि करिष्यतीत्यर्थः । यथाऽऽह शौनकः- चतुर्विधो हि भेदोऽयं मिथ्या- ज्ञाननिबन्धनः इति ।। ९६-९८ ।।

ममेति यन्मया चोक्तमसदेतन्न चान्यथा ।

नरेन्द्र गदितुं शक्यमपि विज्ञेयवेदिभिः ॥ ९९ ॥

कथित इत्यादि श्लोके ममेतिवचनस्याहंकारममकारहेतु भूत चित्तमलनाशवचनेन व्याहतिं परिहरति-ममेति ॥ यद्यप्यहंममत्वहेतुचित्तमलनाशे सत्यहंममत्वनाशादहंममेति -शब्दप्रयोगो न युज्यते । तथापि विज्ञेय वेदिमिः – साक्षात्कृतपरमार्थैरपि तत्प्रयोग विना न गदितुं शक्यम् ॥ ९९ ।।

अहं ममेत्यविद्येयं व्यवहारस्तथाऽनयोः ।

परमार्थस्त्वसंलाप्यो गोचरे वचसां न यः ॥ १०० ॥

तद्गच्छ श्रेयसे सर्वं ममैतद्भवता कृतम् ।

यद्विमुक्तिप्रदो योगः प्रोक्तः केशिध्वजाव्ययः ॥ १०१ ॥

श्रीपराशर उवाच

यथार्हं पूजया तेन खाण्डिक्येन स पूजितः ।

आजगाम पुरं ब्रह्मंस्ततः केशिध्वजो नृपः ॥ १०२ ॥

खाण्डिक्योऽपि सुतं कृत्वा राजानं योगसिद्धये ।

वनं जगाम गोविन्दे विनिवेशितमानसः ॥ १०३ ॥

एतदेव विवृणोति—अहंममेति ॥ अहं ममेति इयं बुद्धिरविधा अन्यथाज्ञानम् । तथा व्यवहारः-पुमान् स्त्री गौरयं वाजीत्यादिव्यवहारोऽपि अनया – अविद्यया । द्वैताद्वैतयोरभेदः भ्रमकृत इत्यर्थः । परमार्थ:-अविनाश्यात्मा, असंलाप्य: – अजमहिषादिविशेषरहिततया तत्तच्छब्दैरनिर्देश्यः । तत्र हेतु: – गोवरे वचसां न यः इति ।। १००-१०३ ।॥

तत्रैकान्तमतिर्भूत्वा यमादिगुणसंयुतः ।

विष्ण्वाख्ये निर्मले ब्रह्मण्यवाप नृपतिर्लयम् ॥ १०४ ॥

तत्रेति ।। लयम् – नामरूप कर्मणामात्यन्तिकनाशम्, यथा नद्यस्स्यन्दमाना -स्समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय, अश्व इव रोमाणि विध्य पापम्, भिद्यते हृदयग्रन्थिः, निरञ्जनः परमं साम्यमुपैति इत्यादे: । न तु स्वरूपैक्यम्, नित्यनैमित्तिकप्राकृतलये प्रदर्शनात् । तथा सतीश्वरस्य वैरम्यनैर्वृण्यादिदोषो जीवानामकृताभ्यागमः कृतविप्रणाशश्च स्यात् । पुनर्देहसंबन्धाभाव एवात्यन्तिके विशेषः ॥ १०४ ।।

केशिध्वजो विमुक्त्यर्थं स्वकर्मक्षपणोन्मुखः ।

बुभुजे विषयान्कर्म चक्रे चानभिसंहितम् ॥ १०५ ॥

केशिध्वज इति ॥ अनभिसंहितम्-अनभिसंहितफलम् ॥ १०५ ॥

अकल्याणोपभोगैश्च क्षीणपापोऽमलस्तथा ।

अवाप सिद्धिमत्यन्तां तापक्षयफलां द्विज ॥ १०६ ॥

अकल्याणेति ॥ अमल: क्षपितप्रारब्धकर्म विशेषः ॥ १०६ ।।

इति श्रीविष्णुमहापुराणे षष्ठांशे सप्तमोऽध्यायः ।। ७ ।।

अथ षष्ठांशे अष्टमोध्यायः

श्रीपराशर उवाच

इत्येष कथितःसम्यक् तृतीयः प्रतिसंचरः ।

आत्यन्तिको विमुक्तिर्या लयो ब्रह्मणि शाश्वते ॥ १ ॥

सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च ।

वंशानुचरितं चैव भवतो गदितं मया ॥ २ ॥

पुराणं वैष्णवं चैतत्सर्वकिल्बिषनाशनम् ।

विशिष्टं सर्वशास्त्रेभ्यः पुरुषार्थोपपादकम् ॥ ३ ॥

इत्येष इति ॥ या विमुक्तिः, एषः ब्रह्मण्यात्यन्तिको लयस्तृतीयः प्रतिसञ्चरः इत्थं कथितः ॥ १-६ ॥

तुभ्यं यथावन्मैत्रेय प्रोक्तं शुश्रुषवेऽव्ययम् ।

यदन्यदपि वक्तव्यं तत्पृच्छाद्य वदामि ते ॥ ४ ॥

मैत्रेय उवाच

भगवन्कथितं सर्वं यत्पृष्टोऽसि मया मुने ।

श्रुतं चैतन्मया भक्त्या नान्यत्प्रष्टव्यमस्ति मे ॥ ५ ॥

विच्छिन्नाःसर्वसंदेहा वैमल्यं मनसः कृतम् ।

त्वत्प्रसादान्मया ज्ञाता उत्पत्तिस्थितिसंक्षयाः ॥ ६ ॥

ज्ञातश्च त्रिविधो राशिः शक्तिश्च त्रिविधा गुरो ।

विज्ञाता सा च कार्त्स्न्येन त्रिविधा भावभावना ॥ ७ ॥

ज्ञात इति ॥ त्रिविधो राशिः सृष्टिपालनप्रलयहेतवो ब्रह्मदक्षादिः, विष्णुमन्वादिः, रुद्रकालान्त-कादिरिति त्रयो राशयः । चतुर्विध इति पाठे भगवता सह पुंप्रधानव्यक्त -कालाख्या हि विष्णुशक्तिः, परेत्याद्युक्ता त्रिविधा शक्तिः ॥ ४-७ ॥

त्वत्प्रसादान्मया ज्ञातं ज्ञेयमन्यैरलं द्विज ।

यदेतदखिलं विष्णोर्जगन्न व्यतिरिच्यते ॥ ८ ॥

कृतार्थोऽहमसंदेहस्त्वत्प्रसादान्महामुने ।

वर्णधर्मादयो धर्मा विदिता यदशेषतः ॥ ९ ॥

प्रवृत्तं च निवृत्तं च ज्ञानं कर्म मयाऽखिलम् ।

प्रसीद विप्रप्रवर नान्यत्प्रष्टव्यमस्ति मे ॥ १० ॥

यदस्य कथनायासैर्योऽर्जितोऽसि मया गुरो ।

तत्क्षम्यतां विशेषोस्ति न सतां पुत्रशिष्ययोः ॥ ११ ॥

त्वत्प्रसादादिति ॥ विष्णोर्न व्यतिरिच्यते तदात्मकत्वेन । पृथक्सिद्ध्यनर्हं ज्ञातमिति शेषः ।। ८-११ ।।

श्रीपराशर उवाच

एतत्ते यन्मयाऽऽख्यातं पुराणं वेदसंमितम् ।

श्रुतेऽस्मिन्सर्वदोषोत्थः पापराशिः प्रणश्यति ॥ १२ ॥

एतदिति ॥ दोषोत्यः– न केवलं बुद्धिकृतः, रागादिकृतोऽपि ॥ १२ ॥

सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च ।

वंशानुचरितं कृत्स्नं मयाऽत्र तव कीर्तितम् ॥ १३ ॥

अत्र देवास्तथा दैत्या गन्धर्वोरगराक्षसाः ।

यक्षविद्याधराःसिद्धाः कथ्यन्तेऽप्सरसस्तथा ॥ १४ ॥

मुनयो भावितात्मानः कथ्यन्ते तपसाऽन्विताः ।

चातुर्वण्यं तथा पुंसा विशिष्टचरितानि च ॥ १५ ॥

पुण्याः प्रदेशा मेदिन्याः पुण्या नद्योऽथ सागराः ।

पर्वताश्च महापुण्याश्चरितानि च धीमताम् ॥ १६ ॥

वर्णधर्मादयो धर्मा वेदशास्त्राणि कृत्स्नशः ।

येषां संस्मरमात्सद्यःसर्वपापैः प्रमुच्यते ॥ १७ ॥

उत्पत्तिस्थितिनाशानां हेतुर्यो जगतोऽव्ययः ।

स सर्वभूतःसर्वात्मा कथ्यते भगवान्हरिः ॥ १८ ॥

अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः ।

पुमान्विमुच्यते सद्यःसिंहत्रस्तैर्मृगैरिव ॥ १९ ॥

यन्नामकीर्तनं भक्त्या विलायनमनुत्तमम् ।

मैत्रेयासेषपापानां धातूनामिव पावकः ॥ २० ॥

कलिकल्मषमत्युग्रं नरकार्त्तिप्रदं नृणाम् ।

प्रयाति विलयं सद्यःसकृद्यत्र च संस्मृते ॥ २१ ॥

हिरण्यगर्भदेवेन्द्ररुद्रादित्याश्विवायुभिः ।

पावकैर्वसुभिः साध्यैर्विश्वेदेवादिभिः सुरैः ॥ २२ ॥

यक्षरक्षोरगैः सिद्धैर्दैत्यगन्धर्वदानवैः ।

अप्सरोभिस्तथा तारा नक्षत्रैः सकलैर्ग्रहैः ॥ २३ ॥

सप्तर्षिभिस्तथा धिष्ण्यैर्धिष्ण्याधिपतिभिस्तथा ।

ब्रह्मणाद्यैर्मनुष्यैश्च तथैव पशुभिर्मृगैः ॥ २४ ॥

सरीसृपैर्विहङ्गैश्च पलाशाद्यैर्महीरुहैः ।

वनाग्निसागरसरित्पातालैः ससुराग्निभिः ॥ २५ ॥

शब्दादिभिश्च सहितं ब्रह्माण्डमखिलं द्विज ।

मेरोरिवाणुर्यस्यैतद्यन्मयं च द्विजोत्तम ॥ २६ ॥

स सर्वः सर्ववित्सर्वस्वरूपो रूपवर्जितः ।

भगवान्कीर्तितो विष्णुरत्र पापप्रणाशनः ॥ २७ ॥

यदश्वमेधावभृथे स्नातः प्राप्नोति वै फलम् ।

मानवस्तदवाप्नोति श्रुत्वैतन्मुनिसत्तम ॥ २८ ॥

प्रयागे पुष्करेचैव कुरुक्षेत्रे तथारऽर्णवे ।

कृतोपवासः प्राप्नोति तदस्य श्रवणान्नरः ॥ २९ ॥

यदग्निहोत्रे सुहुते वर्षेणाप्नोति मानवः ।

महापुण्यफलं विप्र तदस्य श्रवणात्सकृत् ॥ ३० ॥

यज्ज्येष्ठशुक्लद्वादश्यां स्नात्वा वै यमुनाजले ।

मथुरायां हरिं दृष्ट्वा प्राप्नोति पुरुषः फलम् ॥ ३१ ॥

तदाप्नोत्यखिलं सम्यगध्यायं यः शृणोति वै ।

पुराणस्यास्य विप्रर्षे केशवार्पितमानसः ॥ ३२ ॥

यमुनासलिल स्नातः पुरुषो मुनिसत्तम ।

ज्येष्ठामूले सिते पक्षे द्वादश्यां समुपोषितः ॥ ३३ ॥

समभ्यर्च्याच्युतं सम्यङ्मथुरायां समाहितः ।

अश्वमेधस्य यज्ञस्य प्राप्नोत्यविकलं फलम् ॥ ३४ ॥

आलोक्यर्द्धिमथाऽन्येषामुन्नीतानां स्ववंशजैः ।

एतत्किलोचुरप्येषां पितरः सपितामहाः ॥ ३५ ॥

कच्चिदस्मत्कुले जातः कालिन्दीसलिलाप्लुतः ।

अर्चयिष्यति गोविन्दं मथुरायामुपोषितः ॥ ३६ ॥

वैशिष्ट्यप्रदर्शनाय कार्येन पुराणाङ्गान्युक्तानीति ज्ञापनार्थं पुनस्तान्यन्वाह- सर्गश्चेति ।। १३-३६ ।।

ज्येष्ठामूले सिते पक्षे केनैवं वयमप्युत ।

परामृद्धिमवाप्स्यामस्तारिताःस्वकुलोद्भवैः ॥ ३७ ॥

ज्येष्ठामूले सिते पक्षे समभ्यर्च्य जनार्दनम् ।

धन्यानां कुलजः पिण्डान्यमुनायां प्रदास्यति ॥ ३८ ॥

तस्मिन्काले समभ्यर्च्य तत्र कृष्णं समाहितः ।

दत्त्वा पिण्डं पितृभ्यश्च यमुनासलिलाप्लुतः ॥ ३९ ॥

यदाप्नोति नरः पुण्यं तारयन्स्वपितामहान् ।

श्रुत्वाऽध्यायं तदाप्नोति पुराणस्यास्य शक्तितः ॥ ४० ॥

एतत्संसारभीरूणां परित्राणमनुत्तमम् ।

श्राव्याणां परमं श्राव्यं पवित्राणामनुत्तमम् ॥ ४१ ॥

दुःस्वप्ननाशनं नॄणां सर्वदुष्टनिबर्हणम् ।

मङ्गलं मङ्गलानां च पुत्रसंपत्प्रदायकम् ॥ ४२ ॥

इदमार्षं पुरा प्राह ऋभवे कमलोद्भवः ।

ऋभुः प्रियव्रतायाह स च भागुरयेऽब्रवीत् ॥ ४३ ॥

भागुरिस्तंभमित्राय दधीचाय स चोक्तवान् ।

सारस्वताय तेनोक्तं भृगुःसारस्वतेन च ॥ ४४ ॥

भृगुणा पुरुकुत्साय नर्मदायै स चोक्तवान् ।

नर्मदा धृतराष्ट्राय नागायापूरणाय च ॥ ४५ ॥

ताभ्यां च नागराजाय प्रोक्तं वासुकये द्विज ।

वासुकिः प्राह वत्साय वत्सश्चाश्वतराय वै ॥ ४६ ॥

कंबलाय च तेनोक्तमेलापुत्राय तेन वै ॥ ४७ ॥

पातालं समनुप्राप्तः ततो वेदशिरा मुनिः ।

प्राप्तवानेतदखिलं स च प्रमतये ददौ ॥ ४८ ॥

दत्तं प्रमतिना चैतज्जातुकर्णाय धीमते ।

जातुकर्णेन चैवोक्तमन्येषां पुण्यकर्मणाम् ॥ ४९ ॥

ज्येष्ठामूल इति ॥ केनैवं वयमप्युतेति । केन वा पुरुषेण एवं मथुरायां कृतगोविन्दपूजनेन वयं तारिताः परामृद्धिम् – अपवर्गर्धिम अवाप्स्यामः ॥ ३७-४९ ॥

पुलस्त्यवरदानेन ममाप्येतत्स्मृतिं गतम् ।

मयाऽपि तूभ्यं मैत्रेय यथावत्कथितं त्विदम् ॥ ५० ॥

त्वमप्येतच्छिनीकाय कलेरन्ते वदिष्यसि ॥ ५१ ॥

इत्येतत्परमं गुह्यं कलिकल्मषनाशनम् ।

यः शृणोति नरो भक्त्या सर्वपापैः प्रमुच्यते ॥ ५२ ॥

समस्ततीर्थस्नानानि समस्तामरसंस्तुतिः ।

कृता तेन भवेदेतद्यः शृणोतिदिनेदिने ॥ ५३ ॥

कपिलादानजनितं पुण्यमत्यन्तदुर्लभम् ।

श्रुत्वैतस्य दशाध्यायानवाप्नोति न संशयः ॥ ५४ ॥

यस्त्वेतत्सकलं शृणोति पुरुषः कृत्वा मनस्यच्युतं सर्वं सर्वमयं समस्तजगतामाधारमात्मा श्रयम् । ज्ञानज्ञेयमनादिमन्तरहितं सर्वामराणां हितं स प्राप्नोति न संशयोऽस्त्यविकलं यद्वाजिमेधे फलम् ॥ ५५ ॥

यत्रादौ भगवांश्चराचरगुरुर्मध्ये तथान्ते च स ब्रह्मज्ञानमयोऽच्युतोऽखिलजगन्मध्यान्तसर्गप्रभुः । तत्सर्वं पुरुषः पवित्रममलं शृण्वन्पठन्वाचयन्प्राप्नोत्यस्ति न तत्फलं त्रिभुवनेष्वेकान्तसिद्धिर्हरिः ॥ ५६ ॥

पुलस्येति ॥ ममाप्येतत्स्मृतिं गतमिति मह्यं सारस्वतेन चेति पूर्वमुक्तमुपजीव्योच्यते । आद्ये कृतयुगे सर्वपुराणानां संग्रहरूपस्य ब्रह्मसंज्ञस्य कर्तुर्ब्रह्मणो दक्षादिपुरकुत्सान्तः संप्रदायः । पराशरस्य त्रेतायां महद्विष्णु-पुराणं कुर्वतः प्रागुक्तकालदैर्ध्यात्तद्विच्छेदे पुनः पराशरर्षिदृष्टमेव तत्पुराणं ब्रह्मणैव ऋभ्वादिजातुकर्णान्तसंप्रदायान्त-रेण पुनस्त्रैलोक्ये प्रवर्तितम् । इदानीं त्वाविंशतियुगारंमे मैत्रेयपृष्टेन पराशरेण प्राग्जन्मनि सारस्वतमुखा -च्च्युतमिह जन्मनि वसिष्ठपुलस्त्यवरदानेनेदं स्मृतं स्वल्पग्रन्थसंग्रहितं मैत्रेयायोक्तम् । अतः संप्रदायाविच्छेदोक्तिरविरुद्धा । अस्य गर्भस्थस्यैव जन्मान्तर श्रुतवेदस्मरणवत्पुराणार्थ स्मरणमप्युपपन्नम् । षड्वंशे युगे व्यासत्वसिद्ध्या तदाद्यत्य सद्भावाद्यक्ता पुलस्त्यवरात् पुराणसंहिताकर्तृत्वसिद्धिः ॥ ५०-५६ ॥

यस्मिन्न्यस्तमनिर्न याति नरकं स्वर्गोऽपि यच्चिन्तने विघ्नो यत्र निवेशितात्ममनसो ब्राह्मोऽपि लोकोऽल्पकः । मुक्तिं चेतसि यःस्थितो मलधियां पुंसां ददात्यव्ययः किं चित्रं यदघं प्रयाति विलयं तत्राच्युते कीर्तिते ॥ ५७ ॥

यस्मिन्निति ॥ मतिः – श्रवणमननरूपं ज्ञानं, चिन्तनं धारणा, आत्मनि मनोनिवेशनं ध्यानं, भगवति चेतस्स्थितिस्समाधिः ॥ ५७ ॥

यज्ञैर्यज्ञविदो यजन्ति सततं यज्ञेश्वरं कर्मिणो यं वै ब्रह्ममयं परावरमयं ध्यायन्ति च ज्ञानिनः ।

यं संचिन्त्य न जायते न म्रियते नो वर्धते हीयते नैवासन्न च सद्भवत्यति ततः किं वा हरेः श्रूयताम् ॥ ५८ ॥

यज्ञैरिति ॥ न जायते इति । शरीरपरिग्रहो जन्म, तत्त्यागो मरणम् । वृद्धिह्रासौ ज्ञानतः । नैवासन्न च सदिति कारणत्वकार्यत्वनिरासः । ततः हरेः, अति अतिक्रमेण, किं वा श्रूयताम् ? तदधिकं न किंचित् श्रूयत इत्यर्थः ॥ ५८ ॥

कव्यं यः पुतृरूपधृग्विधिहुतं हव्यं च भुंक्ते विभुर्देवत्वे भगवाननादिनिधनः स्वाहास्वधासंज्ञिते । यस्मिन्ब्रह्मणि सर्वशक्तिनिलये मानानि नो मानिनां निष्ठायै प्रभवन्ति हन्ति कलुषं श्रोत्रं स यातो हरिः ॥ ५९ ॥

स्वनामादिद्वारा हरिरेव श्रोतव्य इत्याह – काव्यमिति ॥ मानिनां प्रमाणवतां, मानानि निष्ठायै-परिच्छेदाय न प्रभवन्ति न समर्थानि भवन्ति ॥ ५९ ॥

नान्तोस्ति यस्य न च यस्य समुद्भवोऽस्ति वृद्धिर्न यस्य परिणामविवर्जितस्य ।

नापक्षयं च समुपैत्यविकारि वस्तु यस्तं नतोऽस्मि पुरुषोत्ममीशमीड्यम् ॥ ६० ॥

अथ शास्त्रं समापयिष्यन्नीश्वरपुरुषप्रधानव्यक्तानि मंगलाय प्रणमति–नान्तोऽस्तीत्या दिचतुर्भिः ॥ नान्तोऽस्तीति ॥ तत्रायं प्रथमः श्लोकः शुभाश्रयत्वेनोक्तदिव्य विग्रहविशिष्टेश्वर विषयः। कालोऽपीश्वरेऽन्तर्भूतः ६०

तस्यैव योऽनुगुणभुग्बहुधैक एव सुद्धोऽप्यशुद्ध इव भाति हि मूर्तिभेदैः ।

ज्ञानान्वितःसकल(स)तत्त्वविभूतिकर्ता तस्मै नमोऽस्तु पुरुषाय सदाऽव्ययाय ॥ ६१ ॥

द्वितीयेन श्लोकेन तस्य पुरुषरूपं नमस्करोति – तस्यैवेति ॥ यः पुरुषः, तस्यैवानुगुणभुक् – शेषभूत इत्यर्थः । एकः – देवादिभेदरहितः ज्ञानैक स्वरूपः स्वतश्शुद्धोऽपि प्राकृतदेहेष्वात्मभ्रमात्तद्धर्म युक्ततया भानादशुद्ध इव भाति । ज्ञानान्वितः ज्ञानधर्मकः । तत्त्वादीनां महादादीनां विभूतेः-विस्तरस्य कर्मद्वारा कर्ता । सकलतत्त्वविभूति कर्तेति च पाठः ॥ ६१ ॥

ज्ञानप्रवृत्तिनियमैक्यमयाय पुंसो भोगप्रदानपटवे त्रिगुणात्मकाय ।

अव्याकृताय भवभावनकारणाय वन्दे स्वरूपभवनाय सदाऽजराय ॥ ६२ ॥

प्रधानस्वरूपमाह – ज्ञानेति ॥ ज्ञानप्रवृत्तिनियमाः सत्त्वादीनां कार्याणि नियमः-स्तम्भो ज्ञानसंकोचश्च । एषामैक्यम् एकत्र लयः, तद्रूपाय । गुणसाम्यावस्थायां हि तत्वात् तत्तत्कार्याणि न भवन्ति। अव्याकृताय-अनुद्भूत महादाद्यवम्नाय, प्रधानायेत्यर्थः । भवभावनकारणाय भवः संसारः, तद्भावनस्य कर्मणः कारणाय । स्वरूपभवनाय – स्वरूपेण भवनं यस्य तत् स्वरूपभवन, स्वतस्सिद्धाय; आदिरहितायेत्यर्थः ॥ ६२ ॥

व्योमानिलाग्निजलभूरचनामयाय शब्दादिभोग्यविषयोपनयक्षमाय ।

पुंसःसमस्तकरणैरुपकारकाय व्यक्ताय सूक्ष्मबृहदात्मवते नतोऽस्मि ॥ ६३ ॥

तस्यैव व्यक्ताख्यं रूपमाह–व्योमेति ॥ सूक्ष्मबृहदात्मवते – सूक्ष्मम्— महदादि, बृहत्-पृथिव्यादि, आत्मा । अत्र आत्मशब्दः स्वरूपवचनः ॥ ६३ ॥

इति विविधमजस्य यस्य रूपं प्रकृतिपरात्ममयं सनातनस्य ।

प्रदिशतु भगवानशेषपुंसां हरिरपजन्मजरादिकां सिद्धिम् ॥ ६४ ॥

अथैवमुपपादितात्स्वेतरसमस्त चिदचिद्वस्तुशरीरात्पुरुषोत्तमात् सर्वपुंसां परमपुरुषार्थं मोक्षमाशासानः पुराणं पूरयति- इतीति ॥ इति – उक्तप्रकारेण । प्रकृतिपरात्ममयं प्रकृतिर्व्यक्ता व्यक्तात्मिका, तस्याः परम् अप्राकृतदिव्यशरीरम्, आत्मा- पुरुषः । प्रकृतिपरात्मवत इति च पाठः । अत्र प्रकृतिपुरुषयोः परस्माद्भेदः, तयोर्जगद्ब्रह्मसामाना -धिकरण्यनिबन्धनं तद्रूपत्वम् अशेषपुंसामिति निर्देशात् आत्मनां परस्परभेदः, भगवतः

अपजन्मजरादिकसिद्धिप्रदेष्टृत्ववचनेन स एव मोक्षप्रद इत्याद्युक्तमित्यनुसन्धेयम् ॥ ६४ ॥

इति श्रीभगवद्रामानुजयतीश्वरचरण सरोज चञ्चरीक श्रीविष्णु चित्तार्यप्रसा दिते ।

इति श्रीविष्णुमहापुराणेव्याख्याने षष्ठांशेऽष्टमोऽध्यायः ।। ८ ।।

समाप्तोऽयं षष्ठांशः

तत्वेन यश्चिदचिदीश्वरतत्स्वभाव-भोगापवर्गतदुपायगतीरुदारः ।

संदर्शयन्निरमिमीत पुराणरत्नं तस्मै नमो मुनिवराय पराशराय ।।

इति श्रीविष्णुचित्तार्यवर्यानुगृहीत – व्याख्या सहित

श्रीविष्णुपुरणं समाप्तम् ॥

अस्मद्गुरुपरंपराभ्यो नमः

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.