|| श्रीः ।।
।।परतत्त्वनिर्णयः।।
।। वत्सकुलतिलकेन वरदाचार्येण कृतः ।।
श्रीमद्रामानुजमुनिवरैर्याममुनाद्यैर्मुनीन्द्रै–
रप्याचार्यैर्बहुभिरपरैविस्तरेणाभ्यधायि।
विष्णुस्तत्त्वं परमिति परन्यायमन्वादिवाक्यै–
र्व्यक्तार्थाभिः श्रुतिविततिभिस्तद्वयं संक्षिपामः ।।
अत्रेदं साध्यते “नारायणः परं ब्रह्मे” ति। तत्र पूर्वपक्षी मन्यते-रुद्र एव
सर्वस्मात्पर इति। तथाहि यतो वा इमानी त्यादिना जगत्कारणमेव परं तत्त्वमित्यवगम्यते।
तच्च कारणं किमित्यपेक्षायां, छान्दोग्ये ‘सदेव सोम्येदमग्र आसीदि’ त्यनेन जगत्कारणं
सच्छब्दवाच्यमिति प्रतीयते । वाजसनेयके च ‘ब्रह्म वा इदमेकमेवाग्र आसीत्’ इति
ब्रह्मशब्देन कारणं प्रतिपाद्यते। तत्र “सर्वशाखाप्रत्यय’ न्यायेन कारणवाक्यानां
सर्वेषामेकविषयत्वात्, सच्छब्दस्य च बृहदबृहत्साधारणतया सामान्यशब्दत्वात्, ब्रह्मशब्दस्य
बृहदर्थतया विशेषशब्दत्वात्, सामान्यशब्दस्य च सति विशेषोपस्थापके ‘छागो वा
मन्त्रवर्णात्’ इति (पू मी. ६, ८. ३१) न्यायेन विशेषे पर्यवसानस्य युक्तत्वाच्च
सच्छब्दावाच्यमेव कारणं ब्रह्मशब्देन विशेष्यत इति निश्चीयते । तथा चैतरेयके ‘आत्मा
वा इदमेक एवाग्र आसीत्’ इत्यनेन चेतनाचेतन- साधारणब्रह्मशब्दनिर्दिष्ट वस्तु
स्वतश्चेतनैकान्तेन आत्मशब्देन विशेष्यते । आत्मशब्दस्य सर्वचेतन-साधरणत्वात्
विशेषाकांक्षायां श्वेताश्वतरोपनिषदि यदा तमस्तन्न दिवा न रात्रिर्न सन्न चाससच्छिव
एव केवलः। तदक्षरन्तत्सवितुवरेण्य’ प्रज्ञा च तस्मात्प्रसृता पुराणी’ इत्येनन स
विशेषश्शिव एवेत्यवगम्यते ।।
ननु महोपनिषदि ‘एको ह वै नारायण आसीत्’ इत्येतद्वाक्योपस्थपितो
नारायण एव स विशेषोऽस्तु ।। मैवम्, अस्य वाक्यस्य अनुवादत्वेन स्वयं
विशेषोपस्थापनासामर्थ्यात् । अनुवादकत्वञ्च ‘हवा’ इति प्रसिद्धवन्निर्देशादवगम्यते।
यथा छान्दोग्ये ‘सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं
यन्ति’ ‘सर्वाणि हवा इमानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते’ इत्यनयोर्वाक्ययोः
‘हवा’ इति प्रसिद्धवन्निर्देशादनुवादत्वम् । ततश्च नारायणशब्दोपि आकाशप्राणशब्द-
वदनुवादलिङ्गसहितैवकाराद्युपादेयत्व-लिङ्ग युक्तवाक्यान्तरोपस्थापितशिवपर एव
भवितुमर्हति। अतो रुद्र एव जगत्कारणमिति निश्चीयते। अतो’ मोक्षप्रदत्वमपि
तस्यार्थसिद्धम् । यतो या इमानीत्यादिषु जगत्कारणस्यैव मोक्षप्रदत्वप्रतिपादनात्।।
किञ्च, रुद्रस्य नारायणात्परत्वं मोक्षप्रदत्वं च श्वेताश्वतरोपनिषद्येव साक्षात्
श्रूयते। ‘वेदाहमेतं पुरुषं महान्तम्। आदित्यवर्णन्तमसः परस्तात् । तमेव
विदित्वाऽतिमृत्मेति। नान्यः पन्था विद्यतेऽयनाय।। यस्मात्परन्नापरमरित किञ्चि-
द्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकरतेनेदं पूर्णं
पुरुषेण सर्वम्।। ततो यदुत्तरतरं तदरूपमनामयम्। य एतद्विदुर्भवन्ति अथेतरे
दुःखमेवापियन्ति ।। सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः। सर्वव्यापी च भगवान्
तस्मात्सर्वगतश्शिव:’ इति । अत्र हिते नेदं पूर्णं पुरुषेण सर्वामित्यन्तेन सूक्तोदितपरमपुरुषं
प्रतिपाद्य ततो यदुत्तरतरमिति तस्मात्परतरं किञ्चिद्वस्तु निर्दिश्य य एतद्विदुरमृतास्ते
भवन्ति’ इति तस्यैव मोक्षप्रदत्वं नान्यस्येत्यभिधाय, “तस्मात्सर्वगतश्शिवः’ इति
विशेषोपस्थापनं क्रियते।।
तथा छान्दोग्ये दहरविद्यायां ‘अथ यदिमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म
दहरोऽस्मिन्नन्तर आकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यम् तद्वाव विजिज्ञासितव्यम्’
इत्यनेन हृदयपुण्डरीकमध्यवर्तित्वेन आकाशशब्दवाच्यं किञ्चिद्वस्तु निर्दिश्य तदन्तर्वर्तिन:
कस्यचित्तत्त्वस्य मुमुक्षुभिरन्वेष्टव्यत्वं प्रतिपाद्यते। अत्र आकाशशब्दनिर्दिष्टस्य
एतत्प्रकरणोपसंहारे ‘आकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्मे‘ ति
नामरूपनिवोढृत्वश्रवणात् ; पुरुषसूक्ते ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन्
यदास्ते’ इति परमपुरुषस्य नामरूपकर्तृत्वदर्शनाच्च आकाशशब्दाभिहितः परमपुरुष
इत्यवगम्यते। अतोऽस्मिन् वाक्ये परमपुरुषादन्यत्तदन्तर्वति किञ्चिद्धस्तु
मुमुक्षुभिरुपास्यतयोक्तमिति प्रतीयते । तैत्तिरीयदहरविद्यायाञ्च ‘दहरं विपाप्मं परवेश्मभूतं
यत्पुण्डरीकं पुरमध्यसँस्थम् । तत्राऽपि दरं गगनं विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम्।
यद्वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः’
इति विशेषनिर्णयः क्रियते।।
तथा बृहदारण्यके च ‘य, एषोऽन्तर्हृदय आकाशः तस्मिञ्छेते सर्वस्य वशी
सर्वस्येशान’ इति हृदयमध्यस्थाकाशशब्देन छान्दोग्यवत् परमपुरुषमभिधाय, तदन्तर्वर्तितया
ईशानः प्रतिपाद्यते।।
तथा अथर्वशिखायां कारणं तु ध्येयः सर्वैश्वर्यसंपन्नः सर्वेश्वरश्शम्भुराकाशमध्ये
ध्येयः इति हृदमध्यस्थाकाशवर्तितयोपास्यः शम्भुशब्देन विशेष्यते । ‘शिव एको ध्येयः
शिवकरः सर्वमन्यत्परित्यजेति तमेव शिवशब्देन निगमयति ।।
तथा तैत्तिरीयकेऽपि ‘सत्यं ज्ञानमनन्तं ब्रह्म। यो वेद निहितं गुहायां परमे
व्योमन्’ इति गुहाशब्दनिर्दिष्टहृदयान्तर्वर्तितया उपास्यब्रह्माधारतया च
प्रसिद्धाकाशव्यावर्तकं परमशब्दविशेषितं व्योमशब्दाभिहितपुरुषोत्तमाधेयतया उपास्यं
ब्रह्मशब्दनिर्दिष्टं वस्तु पूर्वोदाहृतबहुश्रुत्यन्तरैकार्थ्यात् शिव एवेति ज्ञायते । तदेव
नारायणात्परं तदन्तर्वर्तितया च उपास्यश्शिवएव प्रतिपाद्यते इति निश्चीयते ।।
तथा अथर्वशिरसि प्रथमे खण्डे ‘देवा ह वै स्वर्गं लोकमगमन् । ते देवा
रुद्रमपृच्छन् । को भवानिति । सोऽब्रवीत् । अहमेकः प्रथममासम् वर्तामि च भविष्यामि
च। नान्यःकश्चिन्मत्तोध्यतिरिक्तः’ इत्यादिना देवैः पृष्टो रुद्रः स्वस्य सर्वैश्वर्य
प्रपञ्चयति । तथा द्वितीयखण्डे च ततो देवा ऊर्ध्वबाहवो रुद्रमस्तुवन्नित्ति प्रक्रम्य ‘यो
वै रुद्रस्स भगवान् यश्च ब्रह्मा तस्मै वै नमो नमः । यो वै रुद्रस्स भगवान् यश्च
विष्णुस्तस्मै वै नमो नमः । यो वैरुद्रः स भगवान् यश्च रुद्रस्तस्मै वै नमो नमः ।
इत्यादिना देववाक्येन रुद्रस्य सर्वैश्वर्यं सुव्यक्तमुपपादितम् । तथा तृतीयचतुर्थखण्डयोः
‘स एको रुद्रः स ईशानस्स भगवान् स महेश्वरः स महादेव’ इति तदसाधारणतया
अनेकनामनिर्देशतन्निर्चनमुखेन तस्यैश्वर्यं प्रतिपाद्यते। तथा पञ्चमे खण्डे तदेतद्रुद्रचरितं ।
एष हि देवः प्रदिशोऽनु सर्वाः पूर्वो हि जातस्स उ गर्भे अन्तः। स विजायमानः स
जनिष्यमाणः प्रत्यङ्मुखास्तिष्ठति सर्वतोमुखः । तदेतदुपासितव्यम् । इत्यारभ्य, वालाग्रमात्रं
हृदयमध्यवर्तिनो मध्ये विश्वं देवं जातवेदं वरेण्यम्। तमात्मस्थं येऽनुपश्यन्ति
धीरास्तेषां शान्तिश्शाश्वती नेतरेषाम् इति हृदयमध्यवर्तिनो रुद्रस्योपासनात्
मोक्षफलमभिधाय, व्रतमेतत्पाशुपतमित्युपक्रम्य, अग्निरित्यादिना भस्स्म गृहीत्वा
विमृज्याङ्गनि संस्पृशेत । तस्माद्व्रतमेतत्पाशुपतं पशुपाशविमोक्षायेति तदङ्गत्वेन च
समन्त्रकसर्वाङ्गभस्मसंस्पर्शलक्षणं पाशुपतव्रतमुक्तम् । श्रीरुद्रादयश्च रुद्रवैभवपराः
प्रसिद्वाः। तस्मात् जगत्कारणत्वेन च मोक्षप्रदत्वेन च सर्ववेदान्तवेद्यो भगवान्
पशुपतिरेवेति सिद्वम्।
तदेवं रुद्रस्य सर्वस्मात्परत्वे प्रत्यक्षश्रुतिसिद्वे पौरुषेयवचसां तदानुगुण्येन
प्रामाण्यात् तदनुरोधीनि शैवानि इतिहासपुराणानि तन्त्राणि च तदुपबृंहणपदवीमधिरोहन्ति
अन्यानि तु प्राजापत्यानि वैष्णवानि च पुराणादीनि प्रत्यक्षश्रुतिविरुद्धतया “विरोधे
त्वनपेक्ष्यं स्यादि” ति न्यायेनानादरणीयानि । उक्तञ्च मनुना ‘या वेदबाह्याः स्मृतयो
याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः, प्रेत्य तमोनिष्ठा हि तास्समृताः । इति।।
अतः शिवस्सर्वस्मात्परत्वेन सोपबृंहणश्रुतिशतसिद्व इति निरवद्यम् ।।
अत्रापरः प्रत्यवतिष्ठते-हिरण्यगर्भ एव सर्वस्मात्परो भवितुमर्हति । तथाहि
कारण वाक्यगताः सत्ब्रह्मादिसामान्यशब्दास्साधारणतया चेतनविशेषे पर्यवसानमपेक्षमाणाः
‘हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्’ इति तुल्यप्रकरणस्थेन
हिरण्यगर्भशब्देन विशेषतस्तस्मिन्नेव विशेष पर्यवस्यन्ति । तथा अम्भस्यपारे इत्यस्मिन्ननुवाके
यस्मिन्निदं संच विचैति सर्वम् । “यतः प्रसूता जगतः प्रसूती। न तस्येशे कश्चन तस्य
नाम महद्यशः । न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चवनैनम् । हृदा
मनीषा मनसाभिकॢप्तो य एनं विदुरमृतास्ते भवन्ति’ इति जगत्कारणत्वेन मोक्षप्रदत्वेन
च कञ्चित्पुरुषमभिधाय अनन्तरं ‘अद्भ्यस्संभूतो हिरण्यगर्भ, इत्यादिना पूर्वोक्तेनैकवाक्यतया
‘हिरण्यगर्भस्समवर्तताग्रे इत्यादि ऋगष्टकमुदाहरद्वाक्यं जगत्कारणत्वेन अनन्येश्वरत्वेन
मोक्षप्रदत्वेन च पूर्वोक्तः पुरुषो हिरण्यगर्भ एवेति स्पष्टयति।।
ननु ‘अद्भ्यस्सम्भूत’ इत्यनुवाकश्चात्र पूर्वोक्तेनैकवाक्यतया उदाहृतः । स च
“हीश्च ते लक्ष्मीश्च पत्न्यौ”’ इति लामीपतित्वलिङ्गात् नारायणपर इति निश्चीयते ।
लिङ्गाच्च श्रुतेर्बलीयस्त्वात्। ‘हिरण्यगर्भस्समवर्तताग्रे’ इति हिरण्यगर्भशब्द एव
निरपेक्षो विशेषमुपस्थापयति । “एकपदसामर्थ्य। श्रुतिः, वस्तुसामर्थ्यं लिङ्गमिति
मीमांसका:। तथा उत्तरत्रापि ‘सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् इति जगत्कारणं
हिरण्यगर्भपर्यायतया प्रसिद्धेन धातृशब्देन निर्दिशति। ‘प्रजापतिः प्रजा असृजते’
त्याद्याश्च काश्चन कारणविषयाः श्रुतयः प्रजापतिमेव कारणमुपदिशन्ति । तथा
छान्दोग्ये दहरविद्यायां प्रजापतेस्सभां वेश्म प्रपये इति मुक्तप्राप्यः प्रजापतिरभिधीयते।
ननु ‘न सन्न चासच्छिव एव केवलः शम्भुराकाशमध्ये ध्येय’ यः परस्स
महेश्वरः, इत्यादिषु शिवशम्भुहेश्वरादिशब्दोपस्थापितविशेषपर्यवसायित्विं सदब्रह्मात्म-
दिसामान्यशब्दानामुक्तम् ।। सत्यमुक्तम्, दुरुक्तन्तु तत्।सद्ब्रह्मत्म-
शिवादिशब्दानामपि साधारणत्वात्। हिरण्यगर्भशब्दस्यासाधारणत्वात्। तथाहि-
शिवशब्दस्तावत् ‘शिवोऽस्तु सर्वजगताम् ।’शिवास्ते सन्तु पन्थान:’। शिवं कर्मास्तु
शिवा नस्सुमना भव’ । शिवश्शिवानामशिवोऽशिवानाम् । यो वश्शिवतमो रसः । इति
लोकवेदयोः शुद्विमाङ्गल्यादिगुणयोगेन अनेकार्थसाधारणतया प्रयुज्यमानो दृश्यते ।
शम्भुशब्दस्यापि ‘शम्भुस्स्वयम्भूर्द्रुहिणः’ इत्यादिषु द्रुहिणविषयतया प्रयोगो दृष्टचरः।
महेश्वरशब्दो महानीश्वरः इत्यवयवशक्तया राजादिषु प्रयुज्यते । रुद्रशब्दोऽपि रुद्रो वा
एष यदग्निः’ ‘हविष्मन्तो नमसा विधेम ते’ इत्यादिक गुणयोगात् अग्न्यादिषु प्रयुक्तो हि
दृष्टः। न चैवं हिरण्यगर्भशब्दस्य चतुर्मुखादन्यत्र प्रयोगो दृष्टचरः । येन शिवादिशब्दवत्
साधारण्यं स्यात्। एको ह वै नारायण:” इत्यादिवाक्यन्तु प्रसिद्धवनिर्देशादनुवादकत्वात्
न विशेषोपस्थापकमित्युक्तम् । अतो हिरण्यगर्भ एव मुमुक्षुभिर्जिज्ञास्यं परं ब्रह्मेति
वेदान्ताः प्रतिपादयन्तीति सिद्धम्।
तदुपबृंहणनि चतुर्मुखपुराणादीनि । इतराणि तु श्रुतिविरोधादुपेक्षणीयानि ।
अत एव भगवान् मनुः ‘ततः स्वयंभूर्भगवानि ति स्वयम्भुशब्देन जगत्कारणनिर्दिशति ।
स्वयंभुशब्दश्च चतुर्मुख पर्यायतया प्रसिद्धः । तस्मात् चतुर्मुख एव ब्रह्मतया सोपबृंहण
श्रुतिशतसिद्ध इति स्थितम्।
अत्र प्रतिविधीयते। नारायणः परं ब्रह्मेति कारणवाक्येषु तस्यैव
परमकारणत्वश्रवणात् तेषु प्रकरणेषु मुक्तप्राप्यत्वश्रवणाच्च। तथाहि; कारणवाक्ये
सद्ब्रहमादिशब्दाः साधारणाः विशेषपर्यवसानसाकांक्षाः ‘एको ह वै नारायण आसीन्न
ब्रह्मा नेशानो नेमे द्यावापृथिवी, न नक्षत्राणि नापो नाग्निर्न सोमो, न सूर्यः, स एकाकी
न रमेत, तस्य ध्यानान्तस्थस्य एका कन्या दशेन्द्रियाणि’ इत्यारभ्य-अथ पुनरेव
नारायणोऽन्यं कामं मनसाध्यायत, तस्य ध्यानान्तस्थस्य ललाटात् स्वेदोऽपतत्,
स्वेदाद्बुबुदमभवत्, बुद्बुदात् त्र्यक्षश्शूलपाणिः पुरुषोऽजायत’ इत्यादिमहोपनिष-
दुपस्थापितनारायण एव पर्यवस्यन्ति ।
ननु इदं वाक्यं अनुवादकमित्युक्तम्। सत्यम् तदेवायुक्तमिति ब्रूमः ।
शास्त्रस्य अप्राप्तप्रापकत्वस्वाभवात् नारायणकारणत्वस्य प्रमाणान्तराप्राप्तत्वाच्च । नच
सर्वाणि हवा इमानि भूतानी’ त्यादिषु प्रसिद्धवन्निर्देशमात्रादनुवादकत्वम्,
यदाग्नेयोऽष्टाकपालः, उपरि हि देवेभ्यो धारयति’ इत्यादिष्वपि अनुवादकत्वप्रसङ्गात् ।
नच तत्रापि अनुवादकत्वम् । ‘वचनानित्वपूर्वत्वात्’ विधिस्तु धारणेऽपूर्वसर्वत्वा’ दिति
कर्मकाण्डसूत्राभ्यां तेषामपि विधित्वसमर्थनात् । ‘सर्वाणि ह वा इमानि’ इत्यादौ तु
प्रमाणान्तरेण कार्यतया हेयतया चावगतस्य आकाशादेः परम कारणत्वपरमप्राप्यत्वतदनुगुण
कल्याणगुणाकरत्वादिप्रतिपादनानुपपत्तेः । अस्य लोकस्य का गति रित्युपक्रमादिना
विधेयान्तरप्रतीतेश्च । ‘आकाशस्तल्लिङ्गात्’ ‘अत एव प्राणः’ इति
सूत्राभ्यामनुवादकत्वमुक्तम्। प्रसिद्धवन्निर्देशस्तु अनुवादकत्वसाधक-
प्रमाणान्तरानुग्राहकत्वमात्रम्। तावता तत्र प्रसिद्ववन्निर्देशस्यानुवादक-वहेतुतयोक्तिः ।
‘एको ह वै नारायणः’ इत्यत्र तु न विधेयान्तरप्रतीतिः। प्रत्युत नारायणस्यैव
परमकारणत्वं विधेयतया प्रतीयते। नारायणव्यतिरिक्तस्य ब्रह्मरुद्रादेः कृत्स्नस्य
जगतः तस्मिन्नेव प्रलयाभिधनात्. तस्मादेवोत्पत्तिवचनाच्च ।।
न च नारायणस्य प्रमाणान्तरेण कार्यत्वमवगतम् । येनाकाशादेरिव परमकारणत्वं
विरुध्येत। ‘ब्रह्मविष्णुरुद्रेन्द्रास्ते सर्वे संप्रसूयन्ते’ इतिवचनन्तु विष्णोः न
कार्यत्वप्रतिपादनपरमिति वक्ष्यते । अतो नानुवादकत्वमस्य वाक्यस्येति तदुपस्थापिते
विशेषे सदादिशब्दाः पर्यवस्यन्ति। अस्तु वानुवादकत्वमस्य वाक्यस्य।
तथाप्यनुवादलिङ्गरहितसमानरूपानेकश्रुत्यन्तरसिद्धं नारायणकारणत्वम् अनुवदतु न
विरूपवाक्यार्थम्।
सन्ति बहून्यौपनिषदानि वचांसि तदेककारणत्वप्रतिपादनपराणि ।
सुबालोपनिषदि तावत् तदाहु किन्तदासीन्नेवेह किञ्चनाग्र आसीत् । अमूलमनाधाराइमाः
प्रजाः प्रजायन्ते दिव्यो देव एको नारायण’ इत्यादि। पुरुषसूक्ते च तस्माद्विराडजायत,
विराजो अधिपूरुषः’ इत्यादि। नारायणानुवाककठवल्ल्यादिषु च तस्यैव
मोक्षप्रदत्वमुक्तप्राप्यवादिवचनेन जगत्कारणत्वमपि अर्थसिद्वम् । यतो वा इमानि भूतानि
जायन्ते. ‘असद्वा इदमग्र आसीत्’ ततो वँसदजायतात्दात्मानं स्वयमकुरुत। तस्मा
स्तत् सुकृतमुच्यत इति। यद्वै तत् सुकृतांसोवैसः रसं ह्मे वायंलब्ध्वानन्दी भवती
त्यादिषु जगत्कारणस्यैव मोक्षप्रदत्वमुक्तप्राप्यत्वप्रतिपादनात्
तस्मान्नेहोपनिषद्वाक्यानुवादकत्वेऽपि देवतान्तरकारेणत्वानुवादकत्वप्रसङ्गः ।
प्रसिद्धवन्निर्देशेप्यपूर्वार्थप्रतिपादनान्नानुवादकत्वमित्युक्तम् । श्रुत्यन्तराणि चैवं
दृश्यन्ते । यथा नारायणोपनिषदि ‘अथ पुरुषो ह वै नारायणोऽकामयत प्रजास्सृजेयेति.
नारायणाद्ब्रह्मा जायते. नारायणाद्रुद्रो जायते, तथा नारायणादिन्द्रो जायते.
नारायणात्प्रजापतिः प्रजायते, नरायणात् द्वादश रुद्राः। महोपनिषदि च ‘सर्वस्य वशिनं
देवं सर्वस्यायतनं हरि मित्यारभ्य यत्राभिपाशादभवन्महात्मा प्रजापतिर्विश्वसृग्विश्वरूपः ।
तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेयनायैति । अतः कारणवाक्येषु नारायण
एव परमकारणतया प्रतिपाद्यत इति निश्चीयते।
‘न सन्न चासच्छिव एव केवल’ इत्यत्र कारणविषयः शिवशब्दोऽपि
सद्ब्रह्मादिशब्दवत् नारायणमेवाभिधत्ते । उक्तरीत्या नारायणस्यैव कारणवाक्यविषयत्वात् ।
‘शाश्वतं शिवमच्युत, मित्यादिषु शिवशब्दस्य तस्मिन्नपि दृष्टप्रयोगत्वाच्च । अस्य च
रुद्रव्यतिरेकेणानेकार्थेषु लोकवेदयोः प्रयोगो दर्शितः । नचैवं नारायणशब्दस्य अर्थान्तरे
प्रयोगो दृष्टचरः। अतः शिवशब्दस्य साधरणतया सावकाशत्वात्, नारायणशब्दस्य
तद्विपर्य यात्, नारायण कारणत्वस्य बहू पनिषत् प्रतिपादितत्वात्
शिववशब्दोपेतकारणवाक्यस्य चैकत्वात् नारायणशब्दस्य एकैकस्यामुपनिषदि
बहुशोऽभ्यस्यमानत्वात्, शिवशब्दस्य तदभावात्, ‘न ब्रह्मा नेशानः, बुद्बुदात्
त्र्यक्षश्शूलपाणिः पुरुषोऽजायत’, ‘नारायणाद्रुदो जायते, स्थाणुरव्यक्तादभवन्महेशः’ ।
ऋग्वेदे यतो जज्ञे उग्रस्त्वेष नृम्ण’ इत्याद्यनन्यपरानेकश्रुत्यन्तरेषु कार्यतया प्रतिपन्नस्य
तद्भावाच्च, सर्वेषु कारणवाक्येषु स एव परमकारण्तया प्रतिपादनमर्हति। ‘अस्य
देवस्य मीढुषो वाव विष्णोरेतस्य हविर्भिः । विधेहि रुद्रिय महिचत्व’ मिति बह्वृचश्रुत्या
रुद्रस्य भगवत्समाराधनलब्धमहिमत्वं प्रतीयते । तस्मान्नारायण एव परमकारणं, न रुद्र
इति निरवद्यम्।
यत्तु ‘हिरण्यगर्भस्समवर्तताग्रे’ इति हिरण्यगर्भस्य कारणत्वं प्रतीयते इति,
तदसत् । आकाशादिवत् प्रमाणान्तरेण कार्यतयावगतस्य परमकारणत्वासम्भवादेव।
दृश्यन्ते हि तस्य कार्यत्वप्रतिपादनपराण्यौपनिषदानि वाक्यानि । श्वेताश्वतरोपनिषदि
‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै’ इति । श्रुत्यन्तरेषु च तत्र ब्रह्मा
चतुर्मुखोऽजायत, नारायणद्ब्रह्मा जायते ।’ यजुषि च ‘स प्रजापतिरेकः पुष्करपर्णे
समभवत्, ब्रह्म वै ब्रह्माणं पुष्करपर्णेऽसृजत्। ‘विराजो अधिपूरुषः’ इत्यादीनि । अतः
कारणविषयो हिरण्यगर्भशब्दोपि आकाशादिशब्दवदवयवशक्त्या अपर्यवसानवृत्त्या वा
नारायणे एव वर्तते।
किंच, ‘अम्भस्यपारे’ इत्यस्मिन्ननुवाके ‘यमन्तस्समुद्रे कवयोवयन्ति’ ‘सर्वे
निमेषा जज्ञिरे विद्युतः पुरुषादधि’ इत्याद्यवगताधिकत्व समुद्रशायित्व विद्युद्वर्णत्व
पुरुषत्वादि लिङ्गविशेषावधारित पुरुषं जगत्कारणतया अभिधाय, न तस्येशे कश्चन
तस्य नाम महद्यशः य एनं विदुरमृतास्ते भवन्ति’ इति तस्यैवानन्येश्वरत्वं मोक्षप्रदत्वे
चोक्त्वा, ‘अद्भ्यस्सम्भूतो हिरण्यगर्भ इत्यव्टा’ विति पूर्वोक्तेनैकवाक्यतया
‘हिरण्यगर्भस्समवर्तताग्र’ इति ऋगष्टकमुदाहरद्वाक्यं हिरण्यगर्भशब्दस्य नारायणविषयता’
मवगमयति।
अपि च, ‘हिरण्यगर्भः’ इत्यादेः ‘अद्भ्यस्सम्भूत’ इत्यनुवाकेनैकवाक्यत्वावगमात्,
तस्य ‘ह्रीश्च ते लक्ष्मीश्च पल्या’ विति लक्ष्मीपतित्वलिङ्गात् पुरुषसूक्तप्रकरणाच्च
नारायणपरत्वनिर्णयात् हिरण्यगर्भशब्दस्य कार्यभूतचतुर्मुखगोचरत्वासंभवेन श्रुतेरसिद्धत्वात् ।
एकपदसामर्थ्या हि श्रुतिः । तच्चाग्निना सिञ्चेदितिवदयोगयार्थत्वे न सम्भवति ।
ननुच पुरुषसूक्तस्य नारायणपरत्वे एव किं प्रमाणम्? उच्यते,
नाराणानुवाकोक्त-सहस्त्रशीर्षत्व-विश्वाक्षत्व-पुरुषत्वादि लक्षणः, पुरुषसूक्ते
प्रत्यभिज्ञायमानो नारायण एव भवितुमर्हति। सुबालोपनिषदि चक्षुश्च द्रष्टव्यञ्च
नारायण’ इत्यारभ्य नारायणस्य सर्वात्मत्वं प्रतिपाद्य पुरुष एवेदं सर्व मिति
पुरुषशब्देन निगमनात् पुरुषसूक्त नारायणपरमिति विज्ञायते। आथर्वणे च अष्टा
दशमहाशान्तिप्रकरणे तत्तदेवताविषयकमहाशान्तौ तत्तद्देवताकमन्त्रविनियोगावसरे, वैष्णव्या
पुरुषसूक्त मिति वैष्णवमहाशान्तिमन्त्रत्वेनास्य विनियोगात् विष्णुविषयत्वं प्रतीयते ।
एतदेकवाक्योत्तरानुवाकोक्त। लक्ष्मीपतित्वलिङ्गाच्चास्य तद्विषयत्वनिश्चयः ।
कल्पसूत्रकारश्च “सहस्रशीर्षा पुरुषः’ इत्युपहितां पुरुषेण नारायणेन’
‘नारायणाभ्यामुपस्थानम् उत्तरेण नारायणेनादित्यमुपतिष्ठते’ इति चास्य सूक्तस्य
नारायणविषयता दर्शयति । पुरुषस्य हरेस्सूक्तं स्वर्ग्यं धन्यं यशस्कर’ मिति स्मृतेश्च
नारायणपरत्वमवासीयते। उक्तेनैव न्यायेन धाता यथापूर्वमकल्पयत्’ इत्यत्र धातृशब्दः
परमकारणपरत्वेन नारायणपरो द्रष्टव्यः । अवान्तरसृष्टिकारणपरत्वे तु चतुर्मुखपरत्वेऽपि
न विरोधः । प्रजापतिः प्रजा असृजते’ त्यत्र अपि तथैव प्रजापतिशब्दोऽपि ।
यत्तु प्रजापतेः सभां वेश्मप्रपद्य’ इति मुक्तप्राप्यत्वेनोक्तश्चतुर्मुख इति
तदयुक्तम्। नारायणानुवाककठवल्लयादिषु नारायणस्यैव मुक्तप्राप्यत्वश्रवणात् ।
दहरविद्यायाश्च तत्परत्वस्य वक्ष्यमाणत्वेनास्य तदुपसंहरावगतस्य तद्विषयत्वस्यैव
युक्तत्वात् प्रजापतिशब्दस्य अवयवशक्तया चतुर्मुखसृष्टदक्षादिष्वपि प्रयुक्तस्य ‘पतिं
विश्वस्यात्मेश्वर’ मित्याद्युक्त नारायणवाचित्वसम्भवात् । तदेतत्सूत्रकारेण ‘नच कार्ये
प्रत्यभिसन्धिरिति प्रत्यपादि। ततस्स्वयम्भूभंगवा नित्यत्र स्वयम्भूशब्दो नारायणपरः |
उक्तरीत्या नारायणस्यैव कारण्त्वनिर्णयात्, वासुदेवैकवाचकभगवच्छब्द
सामानाधिकरण्याच्च। तेन नारायणः स्मृतः । तद्विसृष्टस्स पुरुषो लोके ब्रह्मे ति
नारायणचतुर्मुखयोस्सस्सृज्यभावेन निर्देशाच्च नारायण एव कारणम्, न चतुर्मुखादिः ।
किञ्च ‘सहस्रशीर्षन्देवं विश्वाक्षं विश्वशंभुव’ मित्यारभ्य ‘स ब्रह्मा स
शिवस्सेन्द्रस्सोक्षरः परमस्वराडि’ त्यन्तेन नारायणानुवाकः सर्वशाखासु
परतत्त्वप्रतिपादनपराणां शंभ्वक्षरब्रह्मादिशब्दानां नारायणविषयत्वं न्यायनिरपेक्षं
कण्ठोक्त्यानिर्णयेन परत्वेन शडितयोः ब्रह्मशिवयोरपि इन्द्रादितुल्यतया तद्विभूतित्वं
प्रतिपादयति । अयञ्चानुवाकः सर्ववेदान्तोदितसर्वपरविद्योपास्यविशेषनिर्धारणविधि परः,
नतु प्रकृतदहरविद्यामात्रोपास्यविशेषनिर्धारणपर इति लिङ्गभूयस्त्वादित्यस्मिन्नधिकरणे
निरणायि। नच ‘नारायण परं ब्रह्म, नारायणपरं ज्योति’ रिति वाक्ययोः
पञ्चमीसमासश्शङ्कनीयः विश्वन्नारायणं हरि मित्यारभ्य आत्मा नारायणः परः’
‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः, स ब्रह्मा स शिवस्सेन्द्र, इत्यादिभिर्नारायणस्यैव
सर्वस्मात्परत्वेन निर्णीयमानत्वात्, तस्मादन्यस्य परत्वासम्भवात् । अतस्सुपां सुलुगिति
लुप्तप्रथमाविभक्तिकोऽयन्निर्देशः । महोपनिषच्चेमं संशयं व्युदस्यति । नारायणः परं ब्रह्म
तत्त्वं नारायण पर नारायण: परो ज्योतिरात्मा नारायण: पर’ इति सविभक्तिकं
ब्रवीति । समासत्वेऽपि निषादस्थपतिन्यायेन पञ्चीसमासात् समानाधिकरणो न्याय्य:।
तस्माच्चास्मन्नवाके सर्ववेदान्तेषु मुमुक्षुभिरुपास्यत्वेन मोक्षप्रदत्वेन जगत्कारणत्वेन
जगदन्तरात्मत्वेन च प्रसिद्ध परब्रह्मादिसामान्यशब्दनिर्दिष्टं वस्तु तत्प्रत्यभिज्ञापकैस्तैरेव
शब्दैरनूद्य तस्य नारायणत्वं विधीयते । यथा जुह्य जुहोती. ति होमसाधनतया विहितां
जुहूं यस्य पर्णमयी जुहूर्भवती ती वाक्येन तत्प्रज्ञापकजुहूशब्देनानूद्य तस्याः पर्णमयत्वं
विधीयते । मैत्रायणीयोपनिषदि च तत्सवितुर्वरेण्य’ धुवमचलममृतं विष्णुसंझं सर्वाधारं
धामे ति ध्रुवत्वाचलत्वामृतत्वसर्वाधारत्वविशिष्टतया सर्ववेदान्तप्रसिद्ध परं ब्रह्म
विष्णुसंज्ञमिति गीयते। कठवल्लीषु चायमर्थ स्पष्टतया प्रतीयते। सर्वे वेदा
यत्पदमामनन्ति तते पदं संग्रहेण ब्रवीमो त्यारभ्य सोध्वनः पारमाप्नोति तद्विष्णोः परमं
पद मित्यन्तेनात्र सर्ववेदान्तप्रतिपाद्यं परमप्राप्यं यद्वस्तु तद्वैष्णवं कण्ठोक्तया निर्णीयते।
ईदृशानि वेदान्तवाक्यानि परश्शतानि, विस्तरभयान्न लिख्यन्ते। अतो नारायण एवं पर
ब्रह्म।
यदुक्तम्-श्वेताश्वतरोपनिषदि ततो यदुत्तरतर मित्यादिना रुद्रस्य नारायणात्
परत्वं मोक्षप्रदत्वं च प्रतिपाद्यते-इति। तदयुक्तम्। उपक्रमविरोधात्। उपक्रमे हि
‘वेदाहमेतं पुरुषं महान्त मिति महापुरुषमभिधाय तमेव विदित्वातिमृत्युमेति नान्य:
पन्था विद्यतेऽयनाय इति, तद्वेदनस्यैव मोक्षप्रदत्वं नान्यस्येत्यर्थद्वयं प्रतिज्ञातम्।
अनन्तरञ्च तदुपपादनाय यस्मात्परं नापरमस्ति किञ्चिदित्यादिना स एव सर्वस्मात्परो
नान्य इति प्रतिपादितम्। यस्मादपरं किञ्चिदपि परन्नास्तीत्यन्वयः।
निरस्तसमाभ्यधिकसम्भावन इत्यर्थः । अन्यथा हि प्रतिज्ञानुगुण्यं न स्यात् । तथा च
श्रुति न तत्समश्चाभ्यधिकश्च दृश्यते इति । अत: ततो यदुत्तरतरमिति तस्मादन्यस्य
परत्वप्रतिपादनं विरुध्येत । उपक्रमस्यैव उपसंहाराद्वलीयस्त्वमुपक्रमाधिकरणसिद्धम्।
तथा हि उच्यैर् ऋचा क्रियते, उपांशु यजुषा उच्चैस्साम्ना इत्यत्र उच्चैस्त्वादिः
किमृगादिमन्त्रन्मात्रधर्म:? उत तत्तन्मन्त्रप्रायवेदधर्म:? इति संशय्य
मन्त्रवाचकऋगादिशब्दस्वारस्यनुरोधेन मन्त्रधर्मत्वमेव युक्तम् । उपक्रमगतवेदशब्दस्तु
वेदयतीति व्युत्पत्त्या अनुष्ठेयार्थप्रकाशकमन्त्रमात्रपरो भवितुमर्हति । वेदशब्दस्वारस्यानुरोधेन
वेदधर्मत्वे लाक्षणिकत्वमेव ऋगादिपदानां स्यात् । अतो मन्त्रधर्म उच्चैस्त्वादिरिति
पूर्वपक्षिते मन्त्रब्राह्मणसमुदायरूपेवदर्धमत्वरूपक्रमस्वारस्यात्। उपक्रमो
ह्यसञ्जातविरोधितया चरमभाविन उपसंहाराद्वलीयान् । यथा वन्ड्यौष्ण्यग्राहिप्रत्यक्षं
तद्धिरोध्यनुमानात्। यथा च श्रुतिलिङ्गादिषु। पूर्वपूर्वमुत्तरोत्तरात्। अतो
बलवदुपक्रमस्वारस्यानुरोधेन दुर्बलोपसंहारगतऋगादिपदलक्षणा युक्तेति वेदधर्मत्वमेव
उच्चैस्त्वादेरिति सिद्धान्तितम् । अत उपक्रमविरोधात् ततो यदुत्तरतर मिति वाक्यं
परमपुरुषादन्यस्य परत्वं न प्रतिपादयति।
यदुच्यते सामान्यशब्दो हि विशेषसन्निधौ संकुचितार्थो दृष्टः । यथा गामानय
बलीवदंचेति। इह च ततो यदुत्तरतर’ मित्यादिना परमपुरुषव्यतिरिक्तस्य
कस्यचित्परत्ववचनैः नान्यः पन्थाः यस्मात्परन्नापरमस्ति किञ्चिदिति
परमपुरुषव्यतिरिक्तविषयतया प्रतीयमानपरत्वनिषेध: तद्व्यतिरिक्तविषयो भवितुमर्हतीति।
तन्न, न गोबलीवर्दन्यायः क्रमते । शब्दान्तरवैयर्थ्यपरिहाराय पदान्तरार्थसंकोचो हि
गोबलीवर्दन्यायः । नान्य पन्थाः यस्मात्परन्नापरमस्तिकिच्चिदित्यनयोः ततो यदुत्तरतर’
मित्यस्य न वैयर्थ्यप्रसंगः। प्रतिज्ञातस्यैव सहेतुकनिगमनेनार्थन्तरपरत्वसम्भवात्।
तस्मात्सर्वगतश्शिव:’ इत्युक्त्वा महान् प्रभुर्वै पुरुषस्सत्त्वस्यैष प्रवर्तकः इति
मोक्षोपयोगिसत्त्वप्रवर्तकत्वेन महापुरुषमेव वेदाहमेतं पुरुषमित्युपक्रान्तं प्रत्यभिज्ञापयति ।
तथा च मैत्रेयोपनिषदि सवप्रवर्तकत्वं विष्णोरसाधारणधर्मतया श्रूयते, अथ यो ह खलु
वा अस्य सात्त्विकोंऽशोऽसौ ब्रह्मचारिणो योऽयं विष्णुः, अथ यो ह खलु वा अस्य
तामसोशस्सोऽसौ ब्रह्मचारिणो योऽयं रुद्र इति’। इह च पूर्वस्मिन् वाक्ये
‘सर्वाननशिरोग्रीवस्सर्वभूतगुहाशयः । सर्वव्यापी च भगवान् तस्मात्सर्वगतश्शिवः’ इति
पुरुषसूक्तनारायणानुवाकादिषु परमपुरुषासाधारणधर्मत्वेन प्रसिद्धसर्वानन-
शिरोग्रीवत्वादिदर्शनात्स एवेति प्रत्यभिज्ञायते । ततश्चास्मिन्प्रकरणे परमपुरुष एव
प्रतिपाद्यत इति तस्मात्सर्वगताश्शिवः’ इति शिवशब्दोऽपि शुचिगुणयोगेन तस्मिन्नेव
वर्तते । दृष्टश्चान्यत्रापि शाश्वतं शिवमच्युत’ मिति तस्मिन्न्नेव शिवशब्दप्रयोगः ।
यच्चोक्तं छान्दोग्ये दहरविद्यायां अथ यदिदमस्मिन् ब्रह्मपुरे दहरे पुण्डरीकं
वेश्म इत्यादिना नामरूपनिर्वोढृत्वेन विशेषिताकाशशब्देन परमपुरुषन्निर्दिश्य तदन्तर्वर्तिनः
कस्यचित् तत्त्वान्तरस्य उपास्यत्वमुक्तमिति । तदप्यश्रोत्रियाणां श्रद्धामात्रविजृम्भितम् ।
यतः श्रुतिरेव तत् प्रश्नपूर्वकं परिहरति। तथाहि, ‘दहरोऽस्मिन्नन्तर आकाशः तस्मिन्
यदन्तः तदन्वेष्टव्यम्; तद्वाव विजिज्ञासितव्यमित्यभिधाय किन्तदत्र विद्यते यदन्वेष्टव्यम्,
यद्वाव विजिज्ञावितव्यमि’ ति परिचोद्य, तत्परिजिहीर्षया ‘यावान्वा
अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः । उभे चास्मिन् द्यावापृथिवी अन्तरेव समाहिते।
उभावाग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ । विद्युन्नक्षत्राणि, यच्चेहास्ति यच्च नास्ति
सर्वन्तदस्मिन् समाहितम्, नास्य जरयैतज्जीर्यति न वधेनास्य हन्यते, एतत्सत्यं
ब्रह्मपुर’ मिति प्रकृतस्य दहराकाशस्यातिमहत्त्वसर्वाधारत्वदिकमभिधाय
‘अस्मिन्कामास्समाहिता:’ इति तदन्तर्वर्तित्वेनोपास्यतयोक्ताः कामा इति परिहृत्य,
कोऽयन्दहराकाशः? के च तदाश्रयाः कामा? इत्यपेक्षायां “एष आत्माऽहतपाप्मा विजरो
विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्प’ इति दहराकाशशब्दनिर्दिष्ट:
परमात्मा तदाश्रयाश्च काम्यतया कामशब्दनिर्दिष्टा अपहतपाप्मत्वादयः
सत्यसङ्कल्पत्वपर्यन्तास्तद्गुणा इति स्पष्टीकृत्य, अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च
सत्यकामान् तेषां सर्वेषु लोकेषु कामचारो भवति’
इत्यपहतपाप्मत्वादिगुणाष्टकविशिष्टपरमात्मविदां सत्यकाम्योपलक्षितमोक्षसिद्धिं दर्शयति ।
तदेतद्वाक्यकारेणच सुव्यक्तमुक्तं तस्मिन् यदन्तरिति कामव्यपदेश’ इत्यादिना।
कथन्तर्हि तस्मिन् यदन्तः तदन्वेष्टव्यम् इति उपक्रमे दहराकाशान्तर्वर्तिमात्रो-
पासनमुपपद्यते? उच्यते । नात्र तदन्तर्वर्तिमात्रोपासनं विधीयते । किन्तु उभयोपासनम्।
‘अथ य इहात्मानमनु विद्ये’ त्यादिना उभयो पससननिगमनात् । किं
पुनरत्रोभयोपस्थापकपदम्? “तदन्वेष्टव्यमिति तच्छब्द इति ब्रूमः । कथं तर्हि तस्मिन्
यदन्तरिति तदतर्वर्तिमावगोचरपदम्। यच्छब्दनिर्दिष्टपरामर्शिनस्तच्छब्दस्यो
पस्थापकत्वस्तदुच्यते। यच्छब्दोऽप्युभयविषय एव । तस्मिन् यदन्तरिति वाक्यस्यायमर्थ:-
हृदयपुण्डरीकमध्यवर्ती यो दहराकाशः यच्च तदन्तर्वर्तिगुणजातमिति। कथं एकेन
यच्छब्देनोभयपरामर्श:? लिङ्गद्वयविषयस्य वा कथमेकवचनत्वम् एतत्सर्वं भगवान्
पाणिनिः परिहरति; त्यदादीनि सर्वर्नित्यम्’ ‘नपुंसकमनपुंसनकेनैकवच्चास्याम्’ इति.
सर्वनामशब्दैस्समभिव्यावहारे त्यदादीनि नित्यमेकशेषत्वं, नपुंसकशब्दद्वयसन्निपाते
नपुंसकैकशेषत्वं विकल्पेनैकवद्भावं ब्रुवाणः । तदन्तर्वर्तिगुणविषयस्य यच्छब्दस्य
एकवचनान्तत्वं जात्यभिप्रायम् । अस्मिन् कामास्समाहिताः’ इत्यर्थ बहुत्वावगमात् ।
ननु प्रथमश्रुतैकवचनस्वारस्यानुरोधेन ‘अस्मिन् कामाः’ इति बहुवचनस्य
‘अदितिः पाशानितिवद्विक्षास्तु।। मैवम् तस्मिन्, यदन्तरित्येकवचनस्योद्देश्यत्वेन
अस्मिन् कामाः इति बहुवचनस्योपादेयत्वाच्च । उपादेयगतयोः तल्लिङ्गवचनयोर्विवक्षि-
तत्वं, उद्देश्यगतयोश्चाविवक्षितत्वमिति नचोपक्रमस्वारस्यावगतगुणमात्रोपासनविध्यनु-
रोधेनोपसंहारवगतगुण्युपासनविधिभङ्गश्शङ्कनीयः । उपक्रमावगतगुणोपासनविध्यबाधेन
गुण्युपासनोपसंहारात् । उपक्रमाधिकरणे हि उपक्रमावगतस्य उपसंहारेण बाधो न युक्त
इत्युक्तम् । अतोऽस्मिन्वाक्ये परमपुरुषस्यैवापहतपाप्मत्वादिगुणाष्टकविशिष्टस्यो-
पास्यत्वप्रतिपाादनान्नान्यस्य कस्यचिदुपास्यत्वप्रतीतिरिति स्थितम् ।
यदप्युक्तम्, तैत्तिरीयकदहराविद्यायां ‘दहरं विपाप्म’ मित्यादिना
परमपुरुषान्तर्वर्तिनः कस्यचित्तत्त्वस्योपास्यत्वादिकमुक्त्वा, तद्विशेषजिज्ञासायां यः
परस्स महेश्वरः’ इति विशेषनिर्णयश्च क्रियत इति तदप्ययुक्तम् । सर्ववेदान्तप्रत्ययन्या-
ये नास्य दहरविद्यावाक्यस्य छान्दोग्यदहरविद्यावाक्ये नै कार्थ्यात्, तस्य
चापहतपाप्मत्वादिगुणाष्टकविशिष्टपरमपुरूषयविषयत्वनिर्णयादस्यापि गुणाष्टकविशष्टि
परमात्मोपासन विषयात् । अत एव यः परस्स महेश्वरः’ इति सर्ववाचकजातप्रकृति-
भूताकारवच्यतया प्रसिद्धं यच्छब्देनानूद्य तस्य महेश्वरत्वम् प्रतिपाद्यते । अकारवाच्यतया
प्रसिद्धश्च “अकारो विष्णुवाचकः’ इत्यादिभिर्विष्णुरेव। अकारो वै सर्वावागिति’
चाकारस्य सर्ववाचकजातप्रकृतिभूतत्वं ज्ञायते। “अ इति ब्रह्मेति श्रुत्या
ब्रह्मणोऽकारवाच्यात्वावगमादनन्यपरकारणवाक्यनारयणानुवाकादिभिर्नारायणस्यैव
परब्रह्मत्वनिर्णयाच्च स एवाकाशवाच्य इति निश्चीयते । अतश्चाकाशवाच्यतया प्रसिद्धो
नारायण एवात्र महेश्वरशब्देनापि प्रतीयते। अनन्तरञ्च नारायणनुवाके तस्यैव
सर्वेश्वरत्वं, ब्रह्मशिवयोस्तद्विभूतित्वञ्च प्रतिपाद्यते।
यच्च-बृहदारण्यके य एषोऽन्तर्हृदय आकाशः इत्यादिना आकाशशब्देन
भगवन्तमुक्त्वा तदर्न्वर्तितया ईशानशब्देन रुद्रः प्रतिपाद्यते इत्युक्तम्, तदपि न
साधीय: । अत्राकाशशब्दस्य परमपुरुषवाचित्वाभावात्। तदभावश्चाकाशशब्दस्य
भूताकाशप्रसिद्धिप्राचुर्येण तस्यैव प्रतीतेः । तदपवादहेतोश्च ‘तस्यान्ते सुषिरं सूक्ष्म’
मिति हृदयान्तरवच्छिन्नसुषिरशब्दवाच्यभूताकाशस्यापि संभवति, परमपुरुषधर्मान्वयात्
‘दहरोऽस्मिन्नन्तर आकाशः; इत्यत्राकाशशब्दस्य तद्वाचित्वनिश्चयः । आकाशे
वशित्वादिगुणश्रवणात्स एव परमपुरुषो न तदाश्रय आकाशशब्दनिर्दिष्ट इत्यवसीयते।
तत्रापि दहरं गगनं विशोकं तदन्तस्तुदुपासितव्यम् इत्यत्रापि अपहतपाणत्वविशोकत्वश्रवणेन
गगनशब्दस्य परमपुरुषपरत्वावगमात् । अतो नात्रापि देवतान्तरपरत्वप्रत्ययः ।
यच्चोक्तम् अथर्वशिखायां कारणन्तु ध्येयः सर्वैश्वर्यसम्पन्नः स शम्भुराकाशमध्ये ।
इत्यादिना आकाशाख्यपरमपुरुषान्तर्वर्तिनः शम्भ्वात्मनो रुद्रस्योपास्यत्वं तदप्युक्तरीत्या
आकाशशब्दस्य हृदयाकाशवाचित्वेन परमपुरुषपरत्वाभावात्तदन्तर्वर्तिनश्च
कारणत्वादिभगवदसाधारणाश्रयत्वश्रवणात, शम्भुशिवशब्दयोश्च रुद्रादन्यत्राऽपि
लोकवेदयोश्च प्रयोगदर्शनात्, विश्वाक्षं विश्वशम्भुवं ‘शाश्वतं शिवमच्युत’ मिति
नारायणेऽपि दृष्टप्रयोगत्वाच्च नारायणस्यैवात्र ध्येयत्वावगमादयुक्तम् । किञ्चाऽस्मिन्वाक्ये-
कश्चध्येयः?” इत्युपक्रम्य ‘कारणन्तु ध्येय’ इति कारणत्वानुवादेन तस्य
ध्येयत्वविधानावगमात्, अनुवादस्य च प्राप्तिसापेक्षत्वात्तत्प्रापकमहोपनिषदादिषु च
नारायणस्यैव कारणत्वनिर्णयात् स एवात्र ध्येयतया विधीयत इति निश्चीयते। अत
एवात्र “ध्यायीतेशान” मिति ध्येयतयोक्त ईशानः, पतिं विश्वस्ये त्यादिप्रसिद्धो नारायण
एव । यत् पुनः ब्रह्मविष्णु रुद्रेन्द्रास्ते सर्वे संप्रसूयन्ते’ इति विष्णोः कार्यमध्ये निवेशः,
स चास्य वाक्यस्य उक्तरीत्या ध्येययत्वविधिपरतया ‘संप्रसूयन्ते’ इति
श्रुत्यन्तरप्रसिद्धवस्त्वनुवादः श्रुत्यन्तरेच ब्रह्मादीनां कर्मनिमित्तसृज्यत्वलक्षणोत्पत्तिप्रसिद्धेः,
भगवतश्च ‘अजायमानो बहुधा विजायते’ इत्यादिषु जगदुपकारार्थं स्वेच्छावताररूप-
जन्मावगमात्, इन्द्रानुजरामकृष्णादिवत् ब्रह्मरुद्रमध्यवर्तिविष्णुत्वेनावतार इत्यवगन्तव्यम् ।
तथा च महाभारते पञ्चमवेदे रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवानि’ ति। अत्र
ध्येयत्वविधिपरे वाक्ये विष्णूक्तिः ध्येयत्वोपयोगिसौलभ्यप्रदर्शनाय ।
यत्तु ‘सत्यं ज्ञानमनन्तं ब्रह्मे’ त्यत्र परमव्योमशब्देन भगवन्तं निर्दिश्य
तदाधेयतयोपास्यं ब्रह्म प्रतिपाद्यत इति । तदप्यसारम् । अत्राऽपि ब्रह्मण एव ध्येयस्य
‘तस्माद्वा एतास्मादात्मन आकाशस्संभूतः, ‘तस्माद्वा एतास्माद्विज्ञानमयादन्योन्तर
आत्मानन्दमय’ स यश्चायं पुरुषे । यश्वासावादित्ये। इत्यादिषु जगत्कारणत्वजगदन्त-
रात्मत्वादित्यमण्डलान्तर्वर्तित्वादिभगवदसाधारणधर्मसम्बन्धश्रवणात्, आधारस्य च
परमव्योम्नस्तदभोवेनैवोपास्यत्वप्रतीतेः । अतः परमव्योमशब्दः ‘तदक्षरे परमे व्योमन्’
‘तद्विष्णोः परमं पदं सदा पश्यन्ति सूरय’ ‘हिरण्मयः परे लोके विरजं ब्रह्म निष्कळ’
मित्यादिश्रुत्यन्तरप्रसिद्धदिव्यलोकपरः ।
यत्त्वथर्वशिरसि प्रथमखण्डे रुद्रेण स्वस्य सर्वैश्वर्यं घोषितं, तत् सोन्तरादन्तरं
प्राविशदि ति परमात्मानुप्रवेशादुक्तमिति व्यक्तम् सोन्तरादन्तरं प्राविश दिति रुद्रवाक्ये
स इति परौक्षनिर्देशस्वारस्यात्, प्राविशदि ति प्रथमपुरुषनिर्देशाच्च अन्य परमात्मा
रुद्रस्य अन्येषञ्चान्तरात्मतया स्थित इति प्रतीयते । न च वाच्यं नान्य कश्चिन्मत्तो
व्यतिरिक्त इतीति शब्देन रुद्रवाक्यसमात्यवगमात् रुद्रव्यतिरिक्तस्य
परमात्मनोऽप्रस्तुतत्वेन स इति तच्छब्देन परामर्शसम्भवात् सोन्तरादन्तरं । इति वाक्यं
न रुद्रवाक्यं, अपि तु वेदवाक्यमेव, तत्र रुद्रः सर्वात्मतया प्रविष्ट: परमात्मेति
प्रतिपाद्यते. न रुद्रव्यतिरिक्त कश्चिदिति। सोहमित्यादिप्रपञ्चे रुद्रवाक्यासमाप्तिप्रतीतेः
इतिशब्दस्य हेतुप्रकारयोरन्यतरार्थत्वावगमात्, सोऽन्तरादिति वाक्यस्य रुद्रवाक्यत्वावगमात्,
अहमेवैक: प्रथममास मित्यादीनां सर्वात्ममभूतपरमात्मनस्स्वात्मतया रुदेण प्रस्तुतत्वात्
स इति तच्छब्देन परामर्शसम्भवाच्च, सोन्तरादितिवाक्येन रुद्रव्यातरिक्तस्यैव परमात्मनो
रुद्रान्तरात्मत्वेन प्रवेशनिश्चयात् । अतो रुद्रादन्यस्तदन्तरात्मा नारायण एव इतिवाक्ये
अहंशब्देन सर्वामत्वेन निर्दिश्यत इति निश्चीयते। सोऽन्तरादिति वाक्यस्य श्रुतिवाक्यत्वेऽपि
पूर्वोक्तानन्यपरानेकश्रुत्यन्तरानुरोधात् प्राविशदित्यस्य हि, यो भावस्तेन तेन हि तन्नरम्।
अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेदि त्यादिवद्बुद्धयनुप्रवेशपरत्वसम्भवाच्चानेन
वाक्येन रुद्र एव सर्वान्तरात्मानं भगवन्तं समाधिना प्राविशत्-साक्षात्कृतवानित्युच्यत
इत्यर्थोऽवसीयते। अतोऽस्मिन्चाक्ये स्वान्तरात्मा नारायण एव रुद्रेणाहमिति निर्दिश्यते।
यथा कौषीतकिब्राह्मणे प्रतर्दनविद्यायां प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं
धमोपजगामे त्यादौ त्वमेव मे वरं वृणीष्व यं त्वंमनुष्याय हिततमं मन्यसे इति
मोक्षोपायं पृच्छते प्रतर्दनाय ‘मामेव विजानीहि प्राणोऽस्मि प्रज्ञात्मा
तन्मामायुरमृतमित्युपास्स्वे’ ति वदन्निन्द्रस्सर्वान्तरात्मपरमात्मोपासनं
मोक्षासाधनमित्युपदिशति । यथा च श्रुत्यन्तरे-तद्वैतत्पश्यन् ऋषिर्वामदेवः प्रतिपेदे
अहं मनुरभवं सूर्यश्चाहं कक्षीवानृषिरस्मि विप्रः’ इत्यादिना ब्रह्मणस्सर्वान्तरात्मत्वं
सर्वशब्दानां तत्पर्यवसायित्वं च यस्यात्मा शरीरम् । एष सर्वभूतान्तरात्मापहतपाप्मा
दिव्यो देव एको नारायण, तदैक्षत बहु स्यां प्रजायेये त्यारभ्य अनेन जीवनात्मनानुप्रविश्य
नामरूमे व्याकरवाणि सोऽकामयत बहु स्यामित्युपक्रम्य तदनुप्रविश्य, सच्च
त्यच्चाभवदित्यादिश्रुतिप्रसिद्ध समाधिना साक्षात्कुर्वन्चामदेव:, अहंशब्देन स्वान्तरात्मानं
परमात्मानं निर्दिश्य तत्सामानाधिकरण्येन मनुसूर्यादीन् व्यपदिशति।
तथा च प्रह्यद-
“सर्वगत्वादनन्तस्य स एवाहमवस्थितः।
मत्तः सर्वमहं सर्वं मयि सर्वं सनातने‘।
इत्यादि। एतत्सर्वं शास्त्रदृष्ट्या तूपदेशो वामदेववदि’ त्यास्मिन्नधिकरणे
सूत्रकारेणैव निरणायि।
महाभारते च–
‘विष्णुरात्मा भगवतो भवस्यामिततेजसः ।
तस्माद्धनुर्ज्यासंस्पर्शं स विषेहे महेश्वरः ।।
इति रुद्रान्तरात्मत्वं विष्णोः प्रतिपाद्यते । तथा तत्रैव ब्रह्मरुद्रसंवादे ब्रह्मा रुदं
प्रत्याह-
‘तवान्तरात्मा मम च ये चान्ये देहिसंज्ञिताः ।
सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित् क्वचित्।। इति ।
तथा तत्रैव ब्रह्मरुद्री प्रस्तुत्य,
‘एतौ द्वौ विबुधश्रेष्ठाँ प्रसादक्रोधजौ स्मृतौ।
तदादर्शितपन्थानँ सृष्टिसंहारकारकौ।।
इत्युक्तम्।
यच्च द्वितीये खण्डे ‘यो वै रुद्रस्स भगवानित्यादि देववचनं तच्च
रुद्रवाक्यानु रो धित्वेन तदैकाथ्यावगमात्, रुद्र वाक्यस्य चोक्तरीत्या
तदन्तर्याम्म्याधारत्वनिर्णयात्, अनन्यपरानेकश्रुत्यन्तरानुगुण्याच्च न रुद्रस्य
सर्वैश्वर्यपरमित्यवसीयते।
यच्च तृतीयचतुर्थयोः रुद्रनामनिर्देश-तन्निर्वचनमुखेन तदैश्वर्यपरत्वमुक्तम्,
तदपि तयोः ‘स ओङ्कारस्स प्रणवो य प्रणवः’ इत्यारभ्य ओङ्कारादि महादैवान्तं
प्रणवनामनिर्देशनिर्वचनपरतया प्रसिद्धरुद्रपरत्वप्रसङ्गाभावादयुक्तम् । रुद्रादिशब्दानां
प्रणववाच्यपरमात्मपरत्वेप्युक्तरीत्या भगवत एव परमात्मत्वनिर्णयात्, अस्मिन्वाक्ये
भगवच्छब्दसाममानाधिकरण्याच्च भगवत्परत्वमेव न्याय्यम्।
यच्च पञ्चमे खण्डे रुद्रोपासनस्य मोक्षोपायतया विधानम्, तदप्युक्तेन
न्यायेन तदन्तर्यामिपरमात्मपरमित्यवसीयते। यथा छान्दोग्ये मधुविद्यायां ‘असौ वा
आदित्यो देवमध्वि’ त्युपक्रम्य वस्वादिदेवतोपसनं मोक्षोपायतया विधीयमानं
तदन्तर्यामिपरमात्मोपासनपरमिति ‘मध्वादिष्वसम्भवादि’ त्यधिकरणे निर्णीतम्।
यच्च तत्र तदङ्गतया भस्मसंस्पर्श विधनाम् तच्च न तस्य
सर्वोपासनशेषतामवागमयति। यथा सौत्रामणिशेषतया विहितस्य सुराग्रहस्य न
सर्वक्रतुशेषत्वप्रसङ्ग:।
ननु ‘अणोरणीयानि’ त्यनुवाके ‘यो देवानां प्रथमं पुरस्ताद्विश्वाधिको रुद्रो
महर्षिः । हिरण्यगर्भ पश्यति जायमानं सनो देवश्शुभया स्मृत्या संयुनक्तु’ इति रुद्रस्य
हिरण्यगर्भोत्पत्तेः प्रागवस्थानश्रवणेन सर्वकारणत्वं प्रतीयते इतिचेत् नैवम् । न ह्यत्र
हिरण्यगर्भोत्पत्तेः प्रागवस्थितत्वं श्रूयते । किन्तु हिरण्यगर्भोत्पत्तिदर्शित्वम् । नच तावता
रुद्रस्य ततः पूर्वभावित्वसिद्धिः। ‘विश्वाधिको महार्षि, रिति योगप्रभावेन
कालत्रयवर्ति सर्ववस्तुसाक्षात्कारित्वेन विश्वेभ्यो योगिभ्योऽधिकतयावगतस्य
पश्चाद्भाविनोऽपि अतीतहिरण्यगर्भजन्मदर्शित्वसम्भवात् । हिरण्यगर्भोत्पत्ते पश्चाद्भावित्वेन
रुद्रजननस्य महोपनिषदादिषु प्रसिद्धत्वात् । स नो देवश्शुभया स्मृत्या संयुनक्त्विति
भगवदुपासनोपयोगितया रुद्रानुग्रहस्य मुमुक्षोस्तदपेक्षत्ववचनम्। तथाच महाभारते
उमामहेश्वरसंवादे रुद्रवचनं उपास्योऽहं सदा वित्रा उपायोऽस्मि हरेः स्मृता विति।
अत्र शुभया स्मृत्ये ति भगवत्स्मृत्या संयोजयतीत्युच्यते । अथवा ‘यो देवानां प्रथम
मिति यच्छब्देन हिरण्यगर्भकारणतया श्रुत्यन्तरप्रसिद्धानुवादात् नारायणमेवाभिधत्त
इत्यवसीयते।
श्रीरुद्रश्च न रुद्रस्य सर्वैश्वर्य प्रतिपादनपरः।अत्र
जगत्कारणत्वमोक्षप्रदत्वादिसर्वेश्वरासाधारणधर्मप्रतिपादनादर्शनात्। अग्निचयने
चार्थान्तरपरतया तद्विनियोगात्। पूर्वोक्तानन्यपरानेकश्रुत्युन्तरविरोधाच्च । अत एव
त्वरितरुद्रपञ्चब्रह्ममन्त्राश्च न रुद्रवैभवपराः। ‘सर्वो वै रुद्र:’ इत्यादिनिर्देशस्तु
‘ब्राह्मणो वै सर्वा देवता’ आपो वा इदं सर्वमित्यादिवद्द्रष्टव्यः । ब्रह्माधिपतिर्ब्रह्मणोऽ-
धिपतिः-वेदप्रवर्तकस्तन्मुखेन ब्रह्मणोनिर्वाहकश्च ज्ञानोपयोगी शिवो सदास्त्विन्वयः ।
उक्तेनैव न्यायेन एक एव रुद्रो न द्वितीयाय तस्थे इत्याद्यपि स्याख्येयम्।
ननु ‘अथ यो ह खलु वा अस्य राजसोशः इत्यादि मैत्रायणीश्रुत्या
त्रिमूर्तीनामंशत्वावगमात् अंशी परमात्मा इति प्रतीयते । नैवम्, उक्तरीत्या विष्णोरेव
परमात्मत्वनिर्णयात्. तद्विषयो यच्छब्दस्तदवतारमात्रपरः, तस्यांशिनः
सर्वभूतब्रह्मादिविजातीयतयावतारः औपचारिको वा।
एतेन ब्रह्मविष्णुशिवा ब्रह्मन् प्रधाना ब्रह्मशक्तय इत्याद्यपि व्याख्यातम्।
नच ‘स ब्रह्मा स शिव:’ इत्याद्यभेदोपदेशात् ब्रह्मादीनां नारायणेन स्वरूपैक्यमाशकनीयम्
स्रष्टुत्वसृज्यत्वार्च्यत्वार्चकत्वादिभेदव्यपदेशात् । अभेदव्यपदेशस्तु तदन्तरात्मत्वनिबन्धन
इति प्रागेवोक्तम्। श्रुत्यन्तराण्येवमुक्तरीत्या नेतव्यानि। अतस्सर्ववेदेषु वेदान्तेषु च
सर्वस्मात्परत्वेन प्रतीतं परं ब्रह्म नारायण एव, न ब्रह्मरुद्रादिरिति सिद्धम्।
तदेवं प्रत्यक्षश्रुतिमिः नारायणस्यैव परत्यागमात् पौरुषैयवचसां तदनुरोधेनैव
प्रामाण्यात् तदनुरोधीन्येव पुराणादीनि श्रुत्युपबृहणतयोपादेयानि।
किञ्च नारायणपराणां पुराणना सत्त्वमूलितया प्रामाण्यं इतरेषां
रजस्तमोमूलतया अप्रामाण्यं च पुरुषनिर्णये सुव्यक्तमुक्तम्। तस्मान्नारायण एव
मुमुक्षुभिर्जिज्ञास्यं परंब्रह्मेतिनिरवद्यम्।
वात्स्य श्रीदेवराजार्य नयनानन्ददायिना।
वरदेन कृतस्तत्वनिर्णयः श्रुतिसंमतः ।।
इति श्रीवात्स्यवरदार्यविरचित: परतत्वनिर्णयः।।