श्री:
श्रीप्रणतार्तिहरवरदपरब्रह्मणे नमः .
श्रीमते रामानुजाय नमः
श्रीमते वात्स्य वरदार्यमहागुरवे नमः
वन्देऽहं वरदार्यं तं वत्साभिजनभूषणम् ।
भाष्यामृतप्रदानात् यः सञ्जीवयति मामपि ।।
प्रपन्नपारिजातः
(1) आचार्यार्यमपादेभ्यो नमस्यासन्ततिं दधे ।
यदासङ्गवशात् पुंसां मन:पद्मं प्रबुध्यते ।।
(2) अभङ्गुरकलादानस्थूललक्षत्वमीयुषे ।
तुङ्गाय महसे (ते) तस्मै तुरङ्गाय मुखे नमः ।।
(3) लक्ष्मीचक्षुरनुध्यानात् तत्सारूप्यमुपेयुषे ।
नमोऽस्तु मीनवपुषे वेदवेदिविपन्मुषे ।।
(4) रजो रजःप्रशमनं प्रपद्य पदयोः सताम् ।
प्रपन्नपारिजाताख्यप्रबन्धाय यतामहे ।।
(5) प्रपत्तेर्मानसौभाग्यम् , स्वरूपम् , अधिकार्यपि ।
प्रपन्नानां गुरौ वृत्तिः, श्रीशे, सूरिपु, सत्सु च ।
विहितेषु व्यवस्थानम् , वर्जनीयम् , फलं तथा ।
एते दशार्थाः कथ्यन्ते त्रय्यन्ताद्यर्थसंग्रहात् ।।
(6) श्रुतार्थमननस्थेम्ने मम, नेतरथा, श्रमः ।
सोढव्यमत्र स्खलितं सद्भिर्विषयगौरवात् ।।
प्रमाण पद्धतिः
(7) प्रपत्तिस्तैतिरीयाणां वेदे तावत् (1) विधीयते ।
न्यासाख्या सप्रयोगाऽसौ(हि) वसुरण्येति मन्त्रतः ।।
(8) तत्रोपास्यं यथा ब्रह्म सर्वकारणमुच्यते ।
प्रपत्तव्यं तथैवेति विभुर्विश्वसृगित्यपि।
सूर्यादीनां यथापूर्व तेज:कल्पयिताऽपिच ।
वसुवत् रमणीयोऽसीत्येवं ब्रह्म गुणैः स्तुतम् ।।
(9) जीवात्मानं हविः कृत्वा तच्छरीरे महीयसि ।।
ब्रह्माग्नौ जुहुयादोमित्यनेन द्वय (नाम्नाय) रूपिणा ।।
इति प्रपत्तेराम्नातः प्रयोगः प्रणवात्मना ।
(10) तस्यैवं विदुषो यज्ञः शरीरे तत्र कल्पितः।
प्रपत्तिं तपसामेषां न्यासाख्यामाहुरुत्तमाम् ।
(11) आम्नातं (2) कठवल्लीषु प्रपत्तेर्वाचकं द्वयम् ॥ (13)
(12) प्रमाणं सुभगं प्राहुः (3) श्वेताश्वतरसंज्ञितम् ।
प्राह चोपनिषत् न्यासे यथाऽनुष्ठानदर्शिनी-
ब्रह्माणं विदधात्यग्रे यस्तस्मै दिशति श्रुतीः ।
आत्मज्ञानप्रकाशं तं मुमुक्षुः शरणं व्रजे॥’
(13) अपि वध्यं प्रपन्न न प्रयच्छन्त्येवमादिकाः ।
बहवः (4) श्रुतयो मानम् (5) श्रीशास्त्रे भगवानपि ।
श्रीमन्नारायणेत्यादि ब्रह्मणे द्वयमुक्तवान् ।
(14) लक्ष्मीतन्त्र (6) कमलया शक्रायेयं प्रपञ्चिता ।। (17)
(15) तथा सनत्कुमारस्य (7) संहिता वक्ति सादरम् ।
पपत्तिं सर्वफलदां सर्वोपायानपेक्षिणीम्-
” प्रपत्तेः कचिदप्येवं परापेक्षा न विद्यते ।
सा हि सर्वत्र सर्वेषां सर्वकामफलप्रदा ।।
सकृदुच्चारिता येन, तस्य संसारनाशिनी (तारिणी)।
राक्षसानामविसम्भात् आञ्जनेयस्य वन्धने।
यथा विगलिता सद्यस्त्वमोघाऽप्यस्त्रबन्धना।
तथा पुंसामविसम्भात् प्रपत्तिः प्रच्युता भवेत् ।।
तस्माद् विस्रम्भयुक्तानां मुक्तिं दास्यति साऽचिरात् ।”
(16) साधनान्तरयुक्ता वा प्रपत्तिः स्वयमेव का।
साधयेन्मुक्तिकामानां विमुक्तिं प्रणवो यथा ।
(17) यथाऽऽह (8) भगवान् व्यक्तं विष्वक्सेनाय शृण्वते-
” इतरोपायदौष्कर्यात् अधिकारादिहानितः ।
उपायमिह वक्ष्यामि साम्प्रतं सार्वलौकिकम् ।।
कालदोषात् मनुष्याणां मनश्चाञ्चल्ययोगतः ।
विषयेन्द्रियसंयोगात् निषिद्धकरणादपि ।
विहिताकरणान्नापि जेतुं शक्यं गणाधिप ।
इन्द्रियाणीन्द्रियार्थाश्च नृणां कालस्वभावतः ।। (26)
तस्मान्न कर्मयोगेऽस्मिन् अधिकारो हि विद्यते ।
विहितेषु च सर्वेषु तदभावान्महामते !।
ज्ञानयोगेऽप्यभिरतिः (धिकृतिः) कस्यचिद्विद्यते न च ।
तदभावान्मयि प्रीतिर्न च भक्तिश्च जायते ।
तस्मान्मत्पादयुगलम् ऐकान्त्याच्छरणं व्रजेत् ।
आत्मनो दुर्दशापत्तिं विमृश्य च गुणान्मम ।
मदेकोपायसंवित्तिः मां प्रपन्नो विमुच्यते ।।
आनुकूल्यस्य संकल्पः प्रातिकूल्यस्य वर्जनम् ।
रक्षिप्यतीति विश्वासो गोप्तृत्ववरण तथा ।
आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः
अनया च प्रपत्त्यैवमाकिञ्चन्यैकपूर्वकम् ।
मां माधव इति ज्ञात्वा मां गच्छेच्छरणं नरः ।
एवं हि शरणं गच्छन् कृतकृत्यो भविष्यति ।”
(18) रामायणे च (9) भगवान् भारते च(10) यथोक्तवान्
“सकृदेव प्रपन्नाय तवास्मीति च याचते।
अभयं सर्वभूतेम्यो ददाम्येतद् व्रतं मम ।।
“सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षषिष्यामि मा शुचः ।। “(35)
(19) वरदानात् वसिष्ठस्य देवतापारमार्थवित्।
पराशरः (11) प्रणिजगौ पुराणे वैष्णवे तथा –
” तावदार्तिस्तथा वाञ्छा तावन्मोहः तथाऽसुखम् ।
यावन्न याति शरणं त्वामशेषाघनाशनम् ॥”
कमलनयन वासुदेव विष्णो धरणिधराच्युत शङ्खचक्रपाणे ।
भव शरणमितीरयन्ति ये वै त्यज भट दूरतरेण तान् अपापान् ।।
(20) मनुरप्याह (12) भगवान् गूढं सन्यासवैभवम् ।
अर्चा नारायणस्येति ब्रुवन् वर्णाश्रम क्रियाः-
” यमो वैवस्वतो राजा यस्तवैष हृदि स्थितः ।
तेन चेदविवादस्ते मा गङ्गां मा कुरून् गमः।” (40)
(21) दक्षिणाशापतेरत्र न मुख्या हृदयस्थितिः ।
अन्तः प्रविष्टः शास्ता यो जनानाम् ,’ ‘यमयत्यपि ।
आत्मानमन्तरः’, तस्य मृत्युमृत्योः हृदि स्थितिः ।
तेन सर्वाधिराजेन विवस्वद्विम्बवर्तिना।
अविवादस्तु – तस्यैव पादयोरात्मनोऽर्पणम् । ।
” योऽन्यथा सन्तमात्मा नमन्यथा प्रतिपद्यते।
किं तेन न कृतं पापं चोरेणात्मापहारिणा।
तस्मात् सर्वनियन्तारं सर्वेषां च हृदि स्थितम् ।
भगवन्तं प्रपन्ना ये तीर्थादिस्तैर्विशुद्ध्यति ।
(22) अर्थोऽयं बहुशः प्रोक्तः शौनकाद्यैर्महर्षिभिः
तावद्गच्छेत्तु तीर्थानि सरितश्च सरांसि च ।
यावन्नाभूच्च भूपाल ! विष्णुभक्तिपरं मनः “
” भवद्विधा भागवताः तीर्थभूताः स्वयं प्रभो!
तीर्थीकुर्वन्ति तीर्थानि स्वान्तःस्थेन गदाभृता “(भागवते)
- प्रमाणमियदेवालं प्रपत्तेः व्यासशौनकौ।
प्रोक्तवन्तौ यथा (13) श्रीमद्विष्णुधर्मे (14) च भारते
” वृथैव भक्तो याता भूयसी जन्मसन्ततिः ।
तस्यामन्यतमं जन्म संचिन्त्य शरणं व्रज ।”
“अथ पातकमीतस्त्वं सर्वभावेन भारत !
विमुक्तान्यसमाम्भो नारायणपरो भव ।” (वि.ध. 66-72)
इति श्री गुरुवरवात्स्यवरदार्यविरचिते प्रपन्नपारिजाते
प्रमाणपद्धतिः प्रथमा ॥ श्लोकसंख्या. 50.
- स्वरूपपद्धतिः द्वितीया
- बुद्धिरध्यवसायात्मा याच्ञापर्यवसायिनी ।
प्राप्येच्छोरनुपायस्य प्रपत्ते रूपमिष्यते ॥
- “अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम् ।
तदेकोपायतायाच्ञा प्रपत्तिः शरणागतिः” || (भरतमुनि)
- शरणागतिशब्देन प्रपत्तिस्तु विशेषिता ।
“प्रपत्तिं संश्रयेद्भक्त्या शरणागतिल्क्षणाम् ” (वि. सं)
इति ह्युक्तं भगवता विष्वक्सेनाय सादरम् (शृण्वते)
- आर्तप्रपत्तिरित्युक्ता सैषा पञ्चाङ्गसंयुता । (4)
अहमस्यपराधानामालयोऽकिञ्चनोऽगतिः ।(अ.बु-सं37-30)
त्वमेवोपायभूतो मे भवेति प्रार्थना मतिः ।
शरणागतिरित्युक्ता सा देवेऽस्मिन् प्रयुज्यताम् । “
“आत्मनो दुर्दशापत्तिं विमृश्य च हरेर्गुणान् ।
तदेकोपायसंवित्तिः तं प्रपन्नो विमुच्यते “।
वाक्येप्वेतेषु पञ्चाङ्गा प्रपत्तिलक्ष्यते यथा- (7)
- “निक्षेपापरपर्यायो न्यासः पञ्चाङ्गसंयुतः ।
संन्यासस्त्याग इत्युक्तः शरणागतिरित्यपि” || (ल. तं. 17.75)
अङ्गानां लक्ष्यते रूपं लक्ष्मीतन्त्रे प्रकारतः ।
तेषामङ्गिफलत्वं च तद्रूपं च विभागशः-
आनुकूल्यमिति प्रोक्तं सर्वभूतानुकूलता । (ल. तं. 17.66)
अन्त:स्थिताऽहं सर्वेषां भावानामिति निश्चयात् ।”
एतेन व्याप्तिविज्ञानात् प्रपत्तव्यस्य सर्वशः ।
आनुकूल्यस्य संकल्पात् प्रातिकूल्यस्य वर्जनम् ।
हिंसाद्यपायविरतिः उक्ता सर्वेषु जन्तुषु ।।
” अङ्गसामग्र्यसम्पत्तेः अशक्तेश्चापि कर्मणाम् ।
अधिकारस्य चासिद्धेः देशकालगुणक्षयात् ।।
उपाया नैव सिध्यन्ति ह्यपायाः बहुलास्तथा ।
इति या गर्वहानिस्तत् दैन्यं कार्पण्यमुच्यते ” (ल.तं. 17.69)
उपायान्तरदौष्कर्यात् तन्निवृत्तिर्हि सूचिता । (14)
अकिंचनाधिकारित्वं प्रपत्तेरपि सूचितम् ।।
” शक्तेः सूपसदत्वाच्च कृपायोगाच्च शाश्वतात् ।
ईशेशितव्यसम्बन्धात् अनिदंप्रथमादपि ।
रक्षिष्यत्यनुकूलान् नः इति या सुदृढा मतिः ।
स विश्वासो भवेच्छक! सर्वदुष्कृतनाशनः ।। ” (ल.त. 17.71)
स्वरक्षायोग्यतां ज्ञात्वा प्रपत्तव्यस्य युक्तितः ।
रक्षिप्यतीति विश्वासात् अभीष्टोपायकल्पनम् ।।
“करुणावानपि व्यक्तं शक्त: खाम्यपि देहिनाम् ।
अप्रार्थितो न गोपायेत् इति तत्प्रार्थना मतिः ।
गोपायिता भवेत्येवं गोप्तृत्ववरण स्मृतम् “। (ल.तं. 17.73)
याच्ञापर्यवसायित्वं प्रपत्तेरत इष्यते ।।
प्रपत्तेस्तु प्रपत्तव्यप्रसादद्वारता तथा । (20)
- ” तेन संरक्ष्यमाणस्य फले स्वाम्यवियुक्तता।
केशवार्पणपर्यन्ता ह्यात्मनिक्षेप उच्यते “। (ल. ते. 17.74)
उपाये च फले चैवं स्वप्रयत्ननिवर्तनम् ।
स्वाम्यायत्तमिति व्यक्तम् ; निक्षेपस्याङ्गिता तथा ।
आर्तप्रपत्तावित्येषाम् अङ्गानां सन्निधिः तथा ।
दृप्तप्रपत्तावेतानि भविष्यन्त्युत्तरोत्तरम् ।।
- आर्तदृप्तविभागस्तु श्रीमद्रामायणोदित:-
“आतों वा यदि वा दृप्तः परेषां शरणागतः ।
अरिः प्राणान् परित्यज्य रक्षितव्यः कृतात्मना” (रा.यु.)
- यस्य देहान्तरकृते शोको दृप्तः स उच्यते । (25)
यस्तु प्रारब्धदेहेऽपि शोचत्यार्तः स उच्यते।
आर्तदृप्तविभागेन प्रपत्तिरियमुच्यते ॥
- साधनं भगवत्प्राप्तौ स एवेति स्थितिः दृढा ।
साध्यभक्तिः स्मृता सैव प्रपत्तिरिति गीयते ॥ (27)
इमं चार्थमभिप्रेत्य वचो भागवते यथा-
“प्रपन्नश्चातको यद्वत् प्रपत्तव्यः कपोतवत् ।”
रक्ष्यरक्षकयोरेतत् लक्षणं लक्ष्यमेतयोः ।
- प्रपतिरपि सामान्यात् शास्त्रेऽन्यत्र प्रपञ्चिता ।
“यत् येन कामकामेन न साध्यं साधनान्तरैः ।
मुमुक्षुणा यत् सांख्येन योगेन (कर्मणा) न च भक्तितः । (30)
प्राप्यते परमं धाम यतो नावर्तते पुनः ।।
तेन तेनाप्यते तत्तत् न्यासेनैव महामुने ! ।”
- साधनान्तरदुस्साधं प्राप्य यल्लोकवेदयोः ।
सुखेन प्राप्यते (साध्यते) येन सा प्रपतिरिति स्थितिः ।। (32)
इति श्रीगुरुवरवात्स्यवरदाचार्य विरचिते
प्रपन्नपारिजाते स्वरूपपद्धतिः द्वितीया
- अधिकारिपद्धतिः तृतीया
- अनन्योपायशक्तस्य प्राप्येच्छोरधिकारिता।
प्रपत्तौ सर्ववर्णस्य सात्त्विकत्वादियोगतः (गिनः) ।
“सा हि सर्वत्र सर्वेषां सर्वकामफलप्रदा” (सन. सं)
इति सर्वफलप्राप्तौ सर्वेषां विहिता यतः ।।
- प्रपत्तेर्वाचको मन्त्रः कठवल्ल्यादिषु श्रुतः ।
अर्थ पुराणे पाद्मे तु पराशरवसिष्ठयोः
संवादे प्रणवैकार्थः पञ्चविंशतिवर्णकः।।
ऋष्यादिसहितः साङ्गः भूयोभूयः प्रपञ्च्यते ।। ४ ॥
- तत्र सर्वधिकारत्वं सकृदुच्चार्यता तथा।
विधीयते तथाऽन्यत्र शास्त्रे भगवताऽपि च ।
त्रैवर्णिकेतरस्यापि ये तस्मादधिक्रिया।
धर्मिग्राहकमानेन सिद्धेयं लोकवेदयोः ।
यथा हि रथकारादे: अग्न्याधानादिवैदिके ।
यथाऽऽज्यावेक्षणादौ तु मन्त्रे पत्न्याः प्रमाणतः ।
- यद्वाऽऽधीतक्रमापायात् खरादेर्वा विलोपतः ।
द्वयस्य सर्वाधिकृतिः ; सर्वेषां तान्त्रिकं तु वा ॥ ८ ॥
- अज्ञ-सर्वज्ञ-भक्तानां प्रपत्तावधिकारिता ।।
उपायान्तरविज्ञानाशक्तेरज्ञस्य युज्यते
सदृशोपायवैधुर्यं साक्षाद्भगवतो विदन् ।
सर्वज्ञः शरणं याति योगमार्गपराङ्मुखः ।
सर्वकालं प्रेमवशात् भजन् भक्तोऽप्यनन्यधीः ।
उपायं वाऽप्युपेयं वा क्षमोऽन्यं नावलम्बितुम् ।
- जितन्तामन्त्रविवृतौ शौनकेन यदीरितम् ।
अज्ञसर्वजभक्तानां गतिर्गम्यो भवेद्धरिः”
- “इदं शरणमज्ञानाम् इदमेव विजानताम् । (ल. तं- 17.100)
इदं तितीर्षतां पारम् इदमानन्त्यमिच्छताम् “
इति लक्ष्म्या खतन्त्रेऽपि प्रपत्तावनुवर्णितम् ।
- आस्तिक्यादिगुणोपेतं शास्त्रं वक्त्यधिकारिणम् ।। १४ ।।
यथाऽऽह भगवान् शास्त्रे विष्वक्सेनाय शृण्वते ।
य एवं शरणं गच्छेत् कृतकृत्यो भविष्यति ।
एतद्रहस्यं वेदानां पुराणानां च सम्मतम् ।
गुह्याद्गुह्यं मया प्रोक्तं निगमान्तेषु कीर्तितम्
नादीक्षिताय वक्तव्यं नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं नास्तिकाय कदाच न ।
गुरुभक्तिर्न यस्यास्ति, बीजपिण्डपदादिषु
नोपदेशस्तु यस्यास्ति, न वक्तव्य हितार्थिना ।
इत्युक्तवान् जगन्नाथो द्विरदानन ! मां प्रति ।
मयाऽपि तव भक्तस्य कथितं यच्छ्रुतं पुरा” ॥ १९ ।।
इति श्रीगुरुवरवात्स्यवरदाचार्यविरचिते
प्रपन्नपारिजाते अधिकारिपद्धतिः तृतीया
- गुरूपासनपद्धतिः चतुर्थी
- संसारोद्विग्नमनसा तापत्रितयभीरुणा।
विरक्तेनेह चामुत्र फले गम्यो गुरुर्महान् ॥ १ ॥
परीक्ष्य लोकान् कर्माप्यान् विप्रो निर्विष्णमानसः ।
कृतेन मोक्षो नास्तीति तज्ज्ञानार्थे गुरुं व्रजेत् ।
श्रोत्रियं ब्रह्मनिष्ठं तं प्रीणयद्वस्तुभिः प्रियैः ।
तस्मै प्रशान्तचित्ताय शिष्याय प्रणताय च
दद्यादष्टाक्षरं सत्यं ब्रह्म नारायणं परम् ।
तां ब्रह्मयिद्यां प्रवदेदित्येवं श्रुतिराह हि ॥ ४ ॥
- गुरोश्शिष्यस्य विद्याया लक्षण कालमेव च ।
सामान्यतो विशेषाच्च भगवान् शास्त्र उक्तवान् ।
“त्रिषु वर्णेषु सम्भूतो मामेव शरणं गतः । (सा. तं)
नित्यनैमित्तिकपरो मदीयाराधने रतः ॥
आत्मीयपरकीयेषु समो देशिक उच्यते।
आस्तिको धर्मशीलश्च शीलवान् वैष्णवार्चकः ।।
गम्भीरश्चतुरो धीरः शिष्य इत्यभिधीयते।
नानुकूल्यं न नक्षत्रं न तीर्थादिनिषेवणम् ।। ८ ।।
न पुरश्चरणं नित्यं जपं वाऽपेक्षते ह्ययम् ।
नमस्कृत्य गुरून् दीर्धै: प्रणामै स्त्रिभिरादृतः ।।
- – – – – – – – – – – – – – – – – – –
गृह्णीयात् मन्त्रराजानं (राजं तं) निधिकांक्षीव निर्धनः ।
- परम्परामुपदिशेत् गुरूणां प्रथमं गुरुः ।।
वाचयित्वा द्वयं साङ्गां प्रपत्ति मानसीं दिशेत् ।।
- अनुकांक्षन् सदा शिष्यं गुरुरौरसपुत्रवत् ॥ ११ ।।
विद्वान् (विद्यां) समाहितो भूत्वा ग्राहयेदुपधिं विना ।
- तथौपनिषदीं विद्यां विश्वासज्ञानवर्धिनीम् ।।
अन्यामाध्यात्मिकीं विद्यां शिष्यावस्थानुरूप्यतः ।
तस्मै प्रशान्तचित्ताय कृपया निस्पृहो वदेत् ।। १३ ।।
- दत्त्वा तु दक्षिणां तस्मै यथाशक्ति यथाविधि ।
तमर्चयेद्यथाकालं हितं (प्राध्वं) चास्य समाचरेत् ” ॥ १४ ॥
गुरोर्वैभवमाख्याति जयाख्या(तथान्या ?)ऽपि च संहिता-
“गुरुरेव परं ब्रह्म गुरुरेव परं धनम् ।।
गुरुरेव परा विद्या गुरुरेव परायणम् ।
गुरुरेव परः कामो गुरुरेव परा गतिः ।।
यस्मात्तदुपदेष्टाऽसौ तस्माद् गुरुतरो गुरुः ।
अर्चनीयश्च वन्द्यश्च कीर्तनीयश्च सर्वदा ।।
ध्यायेजपेन्नमेद्भक्त्या भजेदभ्यर्चयेन्मुदा ।
उपायोपेयभावेन तमेव शरणं व्रजेत् ।।
इति सर्वेषु वेदेषु सर्वशास्त्रेषु सम्मतम् ।
एवं द्वयोपदेष्टारं भावयेद् बुद्धिमान् धिया ।।
शरीरं वसु विज्ञानं वासः कर्म गुणानसून् ।
गुर्वर्थं धारयेत् यस्तु स शिष्यो नेतरः स्मृतः ॥ २० ॥
नारायणोऽपि विकृतिं याति गुरोः प्रच्युतस्य दुर्बुद्धेः ।
कमलं जलादपेतं शोषयति रविर्न तोषयति ॥ २१ ॥
यो विष्णोः प्रतिमाकारे लोहभावं करोति च ।
यो गुरौ मानुषं भावं उभौ नरकपातिनौ ॥ २२ ।।
सामान्यतो विशेषाच्च यस्मात् (यस्तु) धर्मान् सनातनान् ।
आचिनोति स आचार्यः तस्मै द्रुह्येन्न किंचन ॥ २३ ॥
‘गु’ शब्दस्त्वन्धकाराख्यो ‘रु’ शब्दस्तन्निरोधकः ।
अन्धकारनिरोधित्वात् गुरुरित्यभिधीयते” ॥ २४ ॥
- मनुरप्याह भगवान् ‘वन्द्यो बालोऽपि मन्त्रदः’ ।
ज्यैष्ठ्यं वेदार्थविज्ञानात् विप्राणामिति चोदितम् ।।
“अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः ।
पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् ।। (म. 2. 151)
ते तमर्थमपृच्छन्त देवान् आगतमन्यवः ।
देवाश्चैतान् समेत्योचुः, न्याय्यं वश्शिशुरुक्तवान् ।
बालोऽपि विप्रो वृद्धस्य पिता भवति मन्त्रदः ।
अज्ञं हि बालमित्याहुः पितेत्येव च मन्त्रदम् ।।
न हायनैर्न पलितैः न च वित्तैः (न वित्तेन) न बन्धुभिः ।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ।।
विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः ।
वैश्यानां धनतो ज्यैष्ठ्यं शुदाणामेव जन्मतः ” ॥ ३ ॥
गुरोश्च गुरवः सर्वे पूजनीया विशेषतः ।
गुरुदारसुतादौ तु गुरुववृत्तिमाचरेत् ॥ ३१ ॥
- धर्मव्यतिक्रमः (नियमातिक्रमः) स्याच्चेत् गुरुर्बोध्यो रहस्यपि ।
पतनीयं गुरोः कर्म य यद्यशवपमपोहितुम्
बोधनाद्दैवभजनात् सत्संगपरिषेवणात्
सद्गुरुनुपसेवेत हित्वा तदनुवर्तनम् ।।
तस्यापि हितमाकांक्षन मुच्यते नात्र संशयः ।
- यदि शिष्यः पतेन्मार्गात् तं प्रयत्नेन वारयेत् ॥
श्रिय: पत्युः पदाम्भोजे गुरुर्याचेत तद्धितम् ।
प्रसादयेद्भागवतान् आत्मनापि तमुद्धरेत् ।।
तेन सम्भाषणादीनि वर्जयेदनिवर्तने ।
- न निश्वासमपि व्यक्तं विसृजेद्गुरुसन्निधौ ।। ३६ ।।
‘गुरोर्यत्र परीवादो निन्दा वाऽपि प्रवर्तते । (मनु. 2 201)
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः” ।। ३७ ।।
आचार्यस्य प्रसादेन मम सर्वमभीप्सितम् ।
प्राप्नुयामिति विश्वासो यस्यास्ति स सुखी भवेत् ॥ ३८ ॥
- येनैव गुरुणा यस्य न्यासविद्या प्रदीयते ।
तस्य वैकुण्ठदुग्धाब्धिद्वारकाः सर्व एव सः ॥ ३९ ॥
ऐहिकामुष्मिकं सर्वं गुरुरष्टाक्षरप्रदः ।
इत्येवं ये न मन्यन्ते त्यक्तव्यास्ते मनीषिभिः ॥ ४० ॥
“एकाक्षरप्रदातारमाचार्यं योऽवमन्यते । (अत्रि सं.)
श्वानयोनिशतं प्राप्य चण्डालेष्वभिजायते ” ॥ ४१ ॥
- महावराहो भगवानाह जन्माब्धितारणे ।
नावं नृतनुम् , आत्मानं अनुकूलानिलं, गुरुम् ।
कर्णधारम् ; अतो देही गुरुणा संसृति तरेत् ॥ ४३ ।।
नृदेहमाद्यं प्रतिलभ्य दुर्लभं प्लवं सुकल्यं गुरुकर्णधारकम् ।
मयाऽनुकूलेन नभस्वतेरितं पुमान् भवाब्धि न तरेत् , स
हात्महा ॥”
इति श्रीगुरुवरवात्स्यवरदाचार्यविरचिते
प्रपन्नपारिजाते गुरूपासनपद्धतिः चतुर्थी
- भगवत्परिचर्यापद्धतिः पञ्चमी
- एवं गुरुप्रसादेन शेषत्वज्ञानपूर्वकम् ।
देवतान्तरवन्नित्यं शब्दादीनपि कुत्सयन् ॥
विष्णुप्राप्तिफलाकांक्षी भक्त्युपायो हि (ऽपि?) वैष्णवः ।
- एकान्ती तु विनिश्चित्य देवताविषयान्तरैः ॥ २॥
भक्त्युपायं समं कृष्णप्राप्तौ कृष्णैकसाधनः ।
- देवतान्तरशब्दादिभक्तिकृष्णाख्यहेतुषु ।
साम्यकृत् परमैकान्ती हरौ स्वामीति बुद्धिमान् ।
किं कुर्वाणः सदाकालं भगवत्पादपद्मयोः ।।
शेषत्वमात्मनो जानन् सार्थयन् कालमाक्षिपेत् ।
- विज्ञाय मूलमन्त्रार्थं द्वयैकार्थतया गुरोः ।।
तदेकशरणो भूत्वा हरिं तेन समर्चयेत् ।
- “त्रैकाल्यमर्चनं कुर्यात् मूलमन्त्रेण श(भ)क्तितः ॥ ६ ॥
सर्ववेदान्तसारार्थः संसारार्णवतारणः ।
मन्त्राणां परमो मन्त्रो गुद्यानां गुह्यमुत्तमम् ।।
पवित्राणां पवित्रं च मूलमन्त्रः सनातनः ।
मुमुक्षूणां सदा जप्यं भुक्तिमुक्तिफलप्रदम् ।।
वैष्णवानां सदा जप्यं भक्तिज्ञानविवर्धनम् ।
मन्त्राणामाश्रयं दिव्यं सर्वपापप्रणाशनम् ।।
समाहितमना भूत्वा जपं कुर्यादतन्द्रितः” ।
इत्थं गजाननादीनां श्रीमत्सेनेशशासनात् ।।
अनेन वैष्णवः कुर्यात् हरेरर्चादिकं सदा ।
- द्वयेन वार्चनं कुर्यात् गुरुवन्दनपूर्वकम् ॥ ११ ॥
- कृतलक्षण एवायं अर्चयेद्वैष्णवो हरिम् ।
व्यासस्तु भगवानाह “वर्णैस्तु कृतलक्षणैः ।।
अर्चनीयश्च सेव्यश्च पूजनीयश्च माधवः ।”
लक्षणं द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा ॥ १३ ॥
शङ्खचक्रादिकं बाह्यं अन्यद्रागाद्यपेतता ।
- तथा च सर्वोपनिषत्सिद्धं चक्रादिधारणम् ।।
अथर्वोपनिषद्व्यक्तं विदधाति विपश्चिताम् ।
” दक्षिणे तु भुजे विप्रो विभृयाद्वै. सुदर्शनम् ।। १५ ।।
सव्ये तु शङ्ख बिभृयात् इति ब्रह्म(वेद)विदो विदुः ।”
तत्र (अत्र) श्रुतित्वसन्देहे खिलमन्त्रोऽपि तत्समः ।।
महत्परिग्रहान्नास्ति सन्देह इति चेत्-समम् ।
- तथा पुराणमाग्नेयं क्रोशत्युद्बाहु चाप्युत(?) ।
“पञ्चायुधानि धार्याणि भक्तिश्रद्धोपबृंहितैः ।
ललाटे मूर्ध्नि हृद्बाह्वो: एकत्रैकं पृथक् पृथक् ।।
ललाटे तु गदा धार्या मूर्ध्नि चापं ततः परम् ।
नन्दकं चैव हृन्मध्ये शङ्खचक्रे भुजद्वये ।। १९ ।।
- लोहैरनलसंतप्तैः तत्तन्मन्त्राधिवासितैः ।
अङ्कयेत् ,” वृद्धमनुरप्येतदाहाऽऽदराद्यथा ।।
“ऊर्ध्वपुण्ड्रं तथा चक्र नित्यं धारयते नरः ।
शुभानि तस्य वर्धन्ते त्वशुभं तु प्रणश्यति” ।। २१ ।।
- काल उक्तो भगवता शास्त्रे चक्रादिधारणे ।
उत्तमः षोडशादर्वाक् पञ्चविंशात् तु मध्यमः ||
अतः परं वै ह्यधम इति कालव्यवस्थितिः ।
विना तु वार्षिकान् मासान् सर्वे मासाः शुभावहाः ॥ २३ ।।
- स्थान प्रमाणं द्रव्यं च पाञ्चरात्रे विशेषतः ।
विहितं तत्प्रकारेण धारयेदूर्ध्वपुण्ड्रकम् ॥
प्रशस्ते पर्वतापादौ जातया श्वेतमृत्स्नया ।
ऊर्ध्वपुण्ड्रं द्विजैः कार्यं वैष्णवैस्तु विशेषतः ॥ २५ ॥
विमलान्यूर्ध्वपुण्ड्राणि सान्तरालानि यो नरः ।
करोति विमलं तेषु मन्दिरं मे करोति सः ॥ २६ ॥
- रागाद्यपेतं हृदयं वागदुष्टाऽनृतादिना ।
हिंसादिरहितः कायः केशवाराधनं त्रयम् ।।
“अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः ।
सर्वभूतदया पुष्पं क्षमा पुष्पं विशेषतः ।।
ज्ञानं पुष्पं तपः पुष्पं ध्यानं पुष्पं तथैव च ।
सत्यमष्टविधं पुष्पं विष्णोः प्रीतिकरं भवेत् ” ॥ २९ ।।
- एवमाभ्यन्तरैर्बाद्यैः चिह्नैर्भूषितविग्रहः ।
स्नातस्तीर्थेषु विधिवत् कृतदेवादितर्पणः ।।
अष्टोत्तरशतं जप्त्वा मूलमन्त्रमतन्द्रितः ।
सांस्पर्शिकं द्रव्यजातं तथैवाऽऽभ्यवहारिकम् ॥
अप्यौपचारिक कृत्वा यागभूमेरलंकृतिम् ।
यतीन्द्रोदितनित्योक्तक्रमेणैव यजेद्धरिम् ॥ ३२ ॥
- प्रदक्षिणनमस्कारै: स्तोत्रैरेकान्तिसम्मतै:।
यथा मृत्यो महाराज प्रीणयेत् प्रेमविह्वल.,
तथाऽऽत्मस्वामिनं देवं प्रीणयेदुपधिं विना।
- महावराहो भगवान् अगस्त्याय यदुक्तवान्
भक्त्यङ्गजातं तत् कुर्यात् यथाकालं समाहितः-
“ मद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् । (गारु, पु. 219)
स्वयमभ्यर्चनं चैव मदर्थे दम्भवर्जनम् ।
मत्कथाश्रवणे भक्तिः स्वरनेत्राङ्गविक्रिया
ममानुस्मरणं नित्यं यच्च मां नोपजीवति
भक्तिरष्टविधा ह्येषा यस्मिन् म्लेच्छेऽपि वर्तते ।
स विप्रेन्द्रो मुनिः श्रीमान् स यतिः स च पण्डितः ।
तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् ॥ ३८ ॥
- एबमर्चावतारं तु यजेच्छौनकवाक्यतः-,
“ सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणाम् । (वि. ध. 103)
कृत्वाऽऽत्मनः प्रीतिकरीं सुवर्णरजतादिभिः ।
तस्यां ब्रह्म समारोप्य मनसा तन्मयो भवेत् ।
तामर्चयेत् तां प्रणमेत् तां यजेत् तां विचिन्तयेत् ।
विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम् ॥” (41)
- न किञ्चिदप्य (यत्किञ्चिदपि) कुर्वाणो विष्णोरायतने वसेत् ।
विष्ण्वालये वसेन्नित्यं कुर्यात्तत्कर्म भक्तितः (शक्तितः) ।
यद्बलं (कर्म) मन्दिरं (रे ?) विष्णोः यदलङ्कारकं प्रियम् ।
भोगोपयुक्तं वा किञ्चित् कुर्यान्नोपायबुद्धितः ॥ ४३ ।।
- “ यन्मुहूर्त क्षणं वाऽपि वासुदेवो न चित्यते । (व. पु.)
सा हानिः तन्महच्छिद्रं सा भ्रान्तिः सा च विक्रिया” ॥४४॥
” एकस्मिन्नप्यतिक्रान्ते मुहूर्ते ध्यानवर्जिते ।
दस्युभिर्मुषितेनेव युक्तमाक्रन्दितुं भृशम् ” ॥ ४५ ॥
“आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः। (भा.अनु.185-178)
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा” ॥ ४६ ॥
इति श्रीगुरुवरवात्स्यवरदाचार्यविरचिते
प्रपन्नपारिजाते भगवत्परिचर्यापद्धतिः पञ्चमी
- भगवत्परिजनोपासनापद्धतिः षष्ठी
- अथ लक्ष्मीः समभ्यर्च्या भूमिनीलादिभिस्सह ।
सूत्रवत्यादिभिश्चैव प्रपन्नेन विशेषतः ।।
गुरूणां विश्रमस्थानं ईशानां जगतोऽस्य च ।
महिषी देवदेवस्य दिव्या नित्यानपायिनी ॥ २ ॥
- यथाऽऽह भगवांच्छास्त्रे विष्वक्सेनाय शृण्वते-
“ लक्ष्म्यां मयि च युष्मासु भक्तो यो भुवि दुर्लभः ” ॥ ३ ॥
- अनन्तरं हरेः सर्वैः उपचारैः समाहितः ।
तद्वत् समर्चयेत् देवीं देवदेवस्य वल्लभाम् || ४ ।।
- अस्या वैभवमाख्याति तत्त्वतो हि (रत्ने) यथा हरिः ।
परव्यूहादिकान् पञ्च प्रकारान् आत्मनो वदन्-
” तथा लक्ष्म्याः स्वरूपं व वक्ष्ये शृणु समाहितः । (वि. सं.)
गुणतश्च स्वरूपेण व्याप्तिस्साधारणी मता ॥
मया यथा जगत् व्याप्तं खरूपेण स्वभावतः ।
तया व्याप्तमिदं सर्वं नियन्त्री च तथेश्वरी ।।
मया व्याप्ता तथा साऽपि तया व्याप्तोऽहमीश्वरः ।
मम तस्याश्च सेनेश ! वैलक्षण्यमिदं शृणु ।।
मच्छेषभूता सर्वेषामीश्वरी वल्लभा मम ।
तस्याश्च जगतश्चाहमीश्वरो वेदविश्रुतः ।।
अस्या मम च शेषं हि विभूतिरुभयात्मिका ।
इति श्रुतिशिरस्सिद्धं मच्छास्त्रेष्वपि मानद ।।
तथा भूमिश्च नीला च शेषभूते मते मम ।
तथाऽऽत्मनां च सर्वेषां ज्ञानतो व्याप्तिरिष्यते ॥
खरूपतस्तु न तयोः व्याप्तिर्वेदान्तपारग!”।
- अस्मिन् शास्त्रे यथाऽन्यत्र तथा लक्ष्मीरपि स्वयम् ।
स्वस्य नाथस्य सम्बन्धं व्याप्तिमैश्वर्यमाह च-
“ अपृथग्भूतशक्तित्वात् ब्रह्माद्वैतं तदुच्यते ॥ (ल. त. 2. 11.)
तस्य या परमा शक्ति: ज्योत्स्नेव हिमदीधितेः ।
सर्वावस्थागता देवी स्वात्मभूताऽनपायिनी ।।
अहन्ता ब्रह्मणस्तस्य साऽहमस्मि सनातनी।
आत्माऽस्मि सर्वभूतानां अहम्भूतो हरिः स्मृतः।। (ल. तं. 17.)
अहन्ता सर्वभूतानां साऽहमस्मि सनातनी।
येन भावेन भवति वासुदेवः सनातनः ।।
भवतस्तस्य देवस्य स भावोऽहमितीरिता ।
भवद्भावात्मकं ब्रह्म ततस्तच्छाश्वतं पदम् ।।
भवन् नारायणो देवो भावो लक्ष्मीरहं परा ।
लक्ष्मीनारायणाख्यं तत् ततो ब्रह्म सनातनम् ।।
अहंतया समायुक्तो (क्रान्तो) ह्यहमर्थः प्रसिद्ध्यति ।
अहमर्थसमुत्था च साऽहन्ता परिकीर्तिता ।।
अन्योन्यस्या(नेना)विनाभावात् अन्योन्येन समन्वयात् ।
तादात्म्यं विद्धि संबन्धं मम नाथस्य चोभयोः” ॥ २०॥
- पराशरस्तु भगवान् आहैनां ब्रह्मरूपिणीम्-
“ नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनीय
यथा सर्वगतो विष्णुः तथैवेयं द्विजोत्तम ! ।
देवतिर्यङ्मनुष्येषु पुन्नामा भगवान् हरिः ।।
स्त्रीनाम्नी लक्ष्मीमैत्रेय ! नानयोर्विद्यते परम्”।
- अपराधैकसक्तानां अनर्हाणां चिरं नृणाम् ।।
भर्तुराश्रयणे पूर्वं स्वयं पुरुषकारताम् ।
वाल्लभ्येनानुतिष्ठन्तीं वात्सल्याद्युपबृंहिणीम् ॥
उपायसमये भर्तुः ज्ञानशक्त्यादिवर्धिनीम् ।
मुक्तानां भोगवृद्ध्यर्थं सौन्दर्यादिविवर्धिनीम् ॥
आकारत्रयसम्पन्नां अरविन्दनिवासिनीम् ।।
अशेषजगदीशित्रीं वन्दे (अर्चेत् ?) वरदवल्लभाम् “
83, तथा भूमि च नीलां च देवीश्चान्याः सहस्रशः ।
नित्यसूरिप्रधानांश्च तत्तन्मन्त्रैः समर्चयेत् ॥ २७ ॥
- यद्धस्तवेत्रवगं जगत् चिदचिदात्मकम् ।
विष्णेरमात्यं सेनेशं परिवरैस्समर्चयेत् ।।२८।।
ये नित्यसूरयोऽनन्तगरुडाद्या:। सहस्रश: ।
परिवारै: सहैतांश्च चक्रादीन्यायुधानि च ।। १९ ।।
85, देव्यश्च सूत्रवत्याद्या: या लक्ष्म्या: परिचारिका: ।
ताश्च तत्परिवारं च पूजयेत् तदनु क्रमात् ।। ३० ।।
86, भजन्तो (न्ते) ये तथा विष्णोरागता मन्दिरे पुरा ।
विनाऽभिधानं नित्येषु नोपास्यास्ते मुमुक्षुभि: ।।
- ब्रह्मरुद्रार्जुनव्याससहस्रकरमार्गवाः ।
ककुत्स्थात्रेयकपिलबुद्धाद्या ये सहस्रशः ।।
शक्त्यावेशावतारास्ते विष्णोस्तत्कालविग्रहाः ।
अनुपास्याः मुमुक्षूणां यथेन्द्राग्न्यादिदेवताः ॥ १३ ॥
- यथा भगवतैवोक्तं विष्वक्सेनाय शृण्यते ।
अधिकृत्य मुमुक्षूणामनुपास्यान् विशेषतः-
“अनर्च्यानपि वक्ष्यामि प्रादुर्भावान् यथाक्रमम् ।
चतुर्मुखस्तु भगवान् सृष्टिकार्ये नियोजितः ।
शङ्कराख्यो महान् देवः संहारे विनियोजितः ।
मोहनार्थे तथा बुद्धः व्यासश्चैव महान् ऋषिः ।
वेदानां व्यसने तत्र देवेन विनियोजितः ।
अर्जुनो धन्विनां श्रेष्ठो जामदग्न्यः प्रतापवान् ।
वसूनां पावकश्चापि वित्तेशश्च तथैव च ।
- यद्यद्विभूतिमत् सत्त्वं श्रिया जुष्टं विशेषतः
रागद्वेषविहीनं तु स्वतो बलवदुल्बणम् ।
तत्तत् अंशं विजानीयात् मम कार्यार्थमादरात् ।।
एवमाद्यास्तु सेनेश ! प्रादुर्भावैरधिष्ठिताः ।
जीवात्मानः सर्व एते नोपास्या वै मुमुक्षुभिः ।।
आविष्टमात्रास्ते सर्वे कार्यार्थममितद्युते ।
अनर्च्या: सर्व एवैते विरुद्धत्वान्महामते ! ।
अहंकृत्युिताश्चैते जीवमिश्रा ह्यधिष्ठिताः
- प्रादुर्भावास्तु मुख्या ये मदंशत्वाद्विशेषतः ।
अजहत्स्वस्वभावा हि दिव्याप्राकृतविग्रहाः ।
दीपाद्दीपा इवोत्पन्ना जगतो रक्षणाय ते ।
अर्च्या एव हि सेनेश ! संसृत्युत्तरणाय वै ।”
- यथाह भगवान् व्यासः पुराणे च पराशर:-
” ब्रह्माणं शितिकण्ठं च याश्चान्या देवतास्तु ताः ॥
प्रतिबुद्धा न सेवन्ते यस्मात् परिमितं फलम् ” ।। (भा. शा. 350)
‘अन्ये तु पुरुषव्याघ्र ! चेतसो ये व्यपाश्रयाः ।
अशुद्धास्ते समस्तास्तु देवाद्याः कर्म योनयः ” ॥ 46 ।।(वि. पु. 6.7.77)
इति श्रीगुरुवरवात्स्यवरदाचार्यविरचिते
प्रपन्नपारिजाते भगवत्परिजनोपासनापद्धतिः षष्ठी
- भगवदुपासनापद्धतिः सप्तमी
- श्रुतार्थसंशयोच्छित्यै बोधनाय परस्परम् ।
साधवस्त्वभिगन्तव्याः सन्तः सङ्गस्य भेषजम् ॥ १ ॥
- यथाह भगवान् व्यासो विषयत्यागभेषजम्-
‘सङ्गः सर्वात्मना त्याज्यः स चेत् त्यक्तुं न शक्यते ।।
साधवस्त्वभिगन्तव्याः सन्तः सङ्गस्य भेषजम् ।
- विचिकित्सा यदा तु स्यादात्मनः कर्मवृत्तयोः ।
तत्र सम्मर्शिनो युक्ताः ये विप्राः सत्पथे स्थिताः ।
तेषां समीपं विनयात् उपेत्यार्थं तु शिक्षयेत् ।।
[यदि नाम ततः शिक्षां तत्र लब्धुं न शक्नुयात् । ?]
यथा ते तत्र वर्तेरन् तथा वर्तत सात्त्विकः ॥ ५ ॥
- अभिगन्तव्याः सन्तो यद्यपि कुर्वन्ति नैकमुपदेशम् ।
यास्तेषां स्वैरकथाः ता एव भवन्ति शास्त्राणि ॥ ६ ॥
- शौनकस्तु यथा प्राह साधूनां दर्शने फलम् –
“ सुदूरमपि गन्तव्यं यत्र भागवताः (त:) स्थिताः (तः) ।
प्रयत्नेनापि द्रष्टव्याः (न्यः) तत्र सन्निहितो हरिः।”
- इममेवार्थमाह स्म नारद: शौनकाय वै–
“पापावसानमिच्छद्भिः नित्यं विष्णुपरायणैः ।
सुदूरमपि गत्वा च द्रष्टव्या लोकपावनाः ॥ ९ ॥
साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः ।
कालेन फलते तीर्थं सद्यः साधुसमागमः” ॥१०॥ (वि.ध।
- शुकोऽपि भगवानाह ” सतां तु गुणकीर्तनम् ।
चिरकालार्जितस्यैतत् श्रुतस्यैव फलं यथा—–
श्रुतस्य पुंसां सुचिरश्रमस्य नन्वञ्जसा सूरिभिरीरितोऽर्थः ।
यत् तद्गुणानुस्मरणं मुकुन्दपादारविन्दं हृदयेषु येषाम्।। (श्रीभाग)
- सद्भिर्गृहागताः सन्तः पूजनीया विशेषतः ।
प्रियवाक्यैः तथाऽर्ध्याद्यै: भोगैरिष्टैर्यथोचितैः ॥ १३ ॥
“ न कांस्ये धावयेत् पादौ” (मनु) इति स्मृत्याऽन्यभाजने ।
मृण्मयादौ क्षालयेत यथाह भगवान् शुकः-
“ ‘व्यालालयद्रुमा ह्येते ऽप्यरिक्ताखिलसम्पदः ।
ये गृहास्तीर्थपादीयपादतीर्थ (पादोदक) विवर्जिताः ॥ १५ ॥
सर्वेषामेव पापानां प्रायश्चित्तं मनीषिभिः ।
निर्णीतं भगवद्भक्तपादोदकनिषेवणम् ॥ १६ ॥
तत्तीर्थं शिरसा धार्यं तथाङ्गैश्चक्षुरादिभिः ।
पेयमन्तर्यथा सोमे तत्र नाचमनक्रिया ।।
“ पीते पादोदके (पिबेत् पादोदकं) विष्णो: वैष्णवानां विशेषतः ।
तत्र नाचमनं कुर्यात् यथा सोमे द्विजोत्तमः ॥” (व. पु. 45)
नारदस्या तिथेः पादौ सर्वासां मन्दिरे स्वयम् ।
कृष्णः प्रक्षाल्य पाणिभ्यां पपौ पादोदकं मुनेः ॥ १९ ।।
- भोगैरिटैश्च शास्त्रीयैः तोषयेद्वैष्णवान् गृहे ।
त्रिविधज्ञान (त्याग) पूर्वं तु शेषत्वज्ञानवृद्धये ॥ २० ॥
भुक्तवत्सु तथा तेषु शेषं भुञ्जीत सात्त्विकः ।
यदुच्छि (यज्ञशि) ष्टाशिनस्सन्तो मुच्यन्ते सर्वकिल्बिषैः ।।
‘ते त्वधं भुञ्जते पापा: ये पचन्त्यात्मकारणात् ।’
- तैश्च सम्भाषणादीनि भगवान् शास्त्र उक्तवान् –
” वेदशास्त्ररथारूढाः ज्ञानखड्गधरा द्विजाः ।
कीडार्थमपि यद्ब्रूयु: स धर्म: परमो मत:”
वासुदेव प्रपन्नानां यान्येव चरितान्यपि ।
तान्येव धर्मशास्त्राणीत्येवं वेदविदो विदुः ।। २४ ।।
वीक्षणादेव शुद्ध्यन्ति वैष्णवानां हि मानवाः ।
तथा न तीर्थैश्शुध्यन्ति शौनकस्तु यथोक्तवान्-
“ न शुध्यति तथा जन्तु: तीर्थवारिशतैरपि । (वि. ध ?)
लीलयैव यथा भूप ! वैष्णवानां हि वीक्षणैः ॥”
” वरं हुतवहज्वालापञ्जरान्तर्व्यवस्थितिः ।
न शौरिचिन्ताविमुखजनसंवासवैशसम् ।।” (वि. ध.)
” ये तु भागवतान् अङ्गै: स्पृशन्त्युपविशन्ति च ।
पश्यन्त्यपि च शृण्वन्ति दासस्तेषां महामुने ! ॥”
” सद्भिरेव सहासीत सद्भिः कुर्वीत सङ्गमम् ।
सद्भिर्विवादं मैत्री च नासद्भिः किंचिदाचरेत् ” (वि. ध. 2-8)
यथा पतित्वा सन्मध्ये ययाति: पुनराप्तवान् ।
स्वपदं तत् तथा सत्यु पतितो न विमुह्यति ॥ ३० ॥
इति श्रीगुरुवरवात्स्यवरदाचार्यविरचिते
प्रपन्नपारिजाते सदुपासनपद्धतिः सप्तमी
- विहितव्यवस्थानपद्धतिः अष्टमी
- विहितेषु व्यवस्थानं प्रपन्नानां प्रपञ्च्यते ।
103, शृतिस्मृत्यादिविहितमनुष्ठेयं तु नैत्य(ष्ठि)कम् ।।
” श्रुतिस्मृतिर्ममैवाज्ञे “त्याह लक्ष्मीपतिर्यतः ।
- प्रपन्नस्तु विशेषेण शास्त्रेषु विहितान्यपि ।।
कुर्यात् स्रग्बन्धनादीनि कर्माणि श्रीपतेः सदा ।
105, यथा लक्ष्म्या स्वतन्त्रेऽपि शक्रायोक्ताऽनुपृच्छते ।
न्यासविद्यकनिष्ठस्य विहितेषु व्यवस्थितिः ।
“ उपायापायसन्यासी (त्यागी) मध्यमां वृत्तिमाश्रितः ।।
रक्षिप्यतीति निश्चित्य निक्षिप्तस्व-स्वगोचरः ।
बुध्येत देवदेवं तं गोप्तारं पुरुषोत्तमम् ।। (ल. सं. 17. 82.)
शक्रः-उपायापाययोर्मध्ये कीदृशी स्थितिरम्बिके ।
उपायापायतामेव क्रिया सर्वाऽवलम्बते ।।
स्वीकारे व्यतिरेके या निषेधविधिशास्त्रयोः ।
दृश्यते कर्मणो व्यक्तमुपायापायरूपता ॥
श्री:-त्रिविधां पश्य देवेश! कर्मणो गहनां गतिम् ।
निषेधविधिशास्त्रेभ्यः तां (त्रि) विधां च निबोध मे ।।
अनर्थसाधनं किंचित् किंचिच्चाप्यर्थसाधनम् ।
अनर्थपरिहाराय किंचित् कर्मोपदिश्यते ॥
त्रैराश्यं कर्मणामेवं विज्ञेयं शास्त्रचक्षुषा ।
उपायोपायसंज्ञौ तु पूर्वराशी परित्यजेत् ।।
तृतीयो द्विविधो राशिः अनर्थपरिहारकः ।
प्रायश्चित्तात्मकः कश्चित् उत्पन्नानर्थनाशनः ।।
तमंशं नैव कुर्वीत मनीषी पूर्वराशिवत् ।
क्रियमाणं न कस्मैचित् यत् अर्थाय प्रकल्पते ।
अक्रियावत् अनर्थाय तत्तु कर्म समाचरेत् ।
एषा सा वैदिकी निष्ठा ह्युपायापायमध्यमा ।
अस्यां स्थितो जगन्नाथं प्रपद्येत जनार्दनम् । (ल. तं. 17.91
- एतदुक्तं भवत्यत्र हिंसास्तेयादिकं च यत् ॥
अनर्थसाधकं कर्म काम्यं त्वर्थस्य साधकम् ।
चित्रादिकं त (य) था कर्म सांख्ययोगादिकं तथा ॥
प्रायश्चित्तं तथा द्वेधा कृतपापप्रणाशनम् ।
चान्द्रायणादिकं त्वेकम् अन्यत् सन्ध्यार्चनादिकम् ॥ १६ ॥
तत्र हिंसाद्यपायं च काम्यं चित्रादिकं तथा ।
उपायं कर्म सांख्यादि प्रायश्चित्तादिकं तथा ।
चान्द्रायणादिकं कर्म न कुर्याच्च कदाचन ।
भाव्यनर्थस्य यत् कर्म परिहारेण (हाराय) कीर्तितम् ॥
सन्ध्यार्चापञ्चयज्ञादि तन्मुमुक्षुभिरादृतम् ।
नैमित्तिकं चाग्रयणं सीमन्तोन्नयनादिकम् ॥
अग्न्याधानादिकं कार्यमधिकारे सति द्विजैः ।
निषिद्धकाम्योपायाख्यकर्माण्यन्यानि नाचरेत् ॥ २० ॥
- प्रायश्चित्तं प्रपन्नस्य विशेषेण यदुच्यते ।
लक्ष्मीतन्त्रे कमलया निमित्ते तु तदाचरेत् ॥ २१ ॥
“ श्री:–सकृदेव हि शास्त्रार्थः कृतोऽयं तारयेन्नरम् । (ल.तं. 17.92
उपायापायसंयोगे निष्ठया हीयतेऽनया ।।
अपायसम्प्लवे सद्यः प्रायश्चित्तं समाचरेत् ।
प्रायश्चित्तिरिय साऽत्र यत् पुनश्शरणं व्रजेत् ॥
उपायानामुपायत्वस्वीकारेऽप्येतदेव हि ।”
“प्रायश्चित्तप्रसङ्गे तु सर्वपापसमुद्भवे ।
मामेकां देवदेवस्य महिषीं शरणं व्रजेत्”। (ल. तं 17-102)
तस्मात् प्रमादात् बुद्धया वा यत् प्रपन्नस्य दुष्कृतम् ।
तत् सर्वं शमयत्याशु शरणागतिरेव सा ।
शक्तौ प्रतिपदोक्तं स्यात् अशक्तौ शरणागतिः ।
“अनन्यसाध्ये स्वाभीष्टे” इति न्यासस्य लक्षणात् ।
अन्यथाऽतिप्रसङ्गः स्यात् अवैष्णवगृहाशने ।
शरणागतहन्तुः स्यात् प्रपत्त्यैव परिग्रहः ।।
- ज्ञात्वाऽप्यपाये पातित्यं यः करोति विमूढधीः ।
भोग एव हि तत्र स्यात् निष्कृतिर्नानयाऽपि हि ।
प्रपन्न इति गर्वेण न कुर्यात् पुरु दुष्कृतम् ॥ २९ ।।
ज्ञात्वाऽप्यपायकर्माणि कुर्वन् मूढः पतत्यधः ।
- ज्ञानिनो न च कुर्वन्ति ; यद्यज्ञानात् प्रमादतः ।
तच्च ज्ञानाग्निना सर्व दहन्ति विमलाशयाः ।
अत्राह कृष्णो भगवान् अर्जुनाय तु शृण्वते.
” यथैधांसि समिद्धोऽग्निः भस्मसात् कुरुतेऽर्जुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ” ॥ ३२ ॥
भगवज्ञानविस्रम्भविशुद्धमनसां सताम् ।
शास्त्रोक्तं भगवज्ज्ञानं प्रायश्चित्तं कृतैनसाम् ॥ ३३ ।।
“ यस्य यावांश्च विश्वासः तस्य सिद्धिश्च तावती ।
(नारदी. अ. ब्र. वि. 1-14)
नैतावानिति विश्वासप्रभावः परिमीयते” ॥ ३४ ॥
- वेदोदितं सदाचारमाद्रियेत सदा सुधीः ।
लक्ष्मीतन्त्रे यथोक्तं तु वैदिकाचारलङ्घने-
” अविप्लवाय धर्माणां पालनाय कुलस्य च । (ल. तं. 17-94)
संग्रहाय च लोकस्य मर्यादास्थापनाय च ।।
प्रियाय मम विष्णोश्च देवदेवस्य शार्ङ्गिणः ।
मनीषी वैदिकाचारं मनसाऽपि न लङ्घयेत् ।।
यथा हि वल्लभो राज्ञो नदीं राज्ञा प्रवर्तिताम् ।
लोकोपयोगिनीं रम्यां बहुसस्यविवर्धिनीम् ।।
लङ्घयन् शूलमारोहेदनपेक्षोऽपि तां प्रति ।
एवं विलङ्घयन् मर्त्यो मर्यादां वेदनिर्मिताम् ।।
प्रियोऽपि न प्रियोऽसौ मे मदाज्ञाव्यतिवर्तनात् ।
उपायत्वग्रहं तत्र वर्जयेन्मनसा सुधीः ” ॥ ४० ॥
- स्ववर्णाश्रमयुक्तं तु देशकालानुरूपतः ।
विशेषविहितं यच्च तत् कुर्याच्छ्रीपतेः प्रियम् ॥ ११ ॥
इति श्रीगुरुवरवात्स्यवरदाचार्यविरचिते
प्रपन्नपारिजाते विहितव्यवस्थानपद्धतिः अष्टमी
9.अथ वर्जनीयपद्धतिः नवमी
- वर्जनीयं प्रपन्नानां वर्ण्यते लोकवेदयोः ।
स्वावस्थादेशकालानां विरुद्धं वर्जयेत् सदा (सुधी:) ॥ १॥
- वर्णाश्रमविरुद्धं यत् मन्वाद्युक्तं विशेषतः ।
स्वाधिकारविरुद्धं च शास्त्रोक्तं न समाचरेत् ॥ २ ॥
- सामान्यशास्त्रानुज्ञातं विरुद्धं यद् विशेषतः ।
चतुष्पथवनस्पत्योः मङ्गलार्थप्रदक्षिणम् ॥
प्रदोषे शङ्करारचादि पापहानिफलप्रदम् ।
न कुर्यात् परमैकान्ती काम्यं लोकद्वयप्रदम् ।।
सामान्यशास्त्रविहितं विरुद्धं चाङ्कनादिकम् ।
- गीतनृत्तादिकं यत्तु विशेषागमचोदितम् ।।
तत् सर्वं वैष्णवः कुर्यात् यथोक्तौ यमशौनकौ-
“हरिकीर्तिं (गीतिं) विनैवान्यत् ब्राह्मणेन नरोत्तम ! ॥ ६ ॥
भाषागानं न गातव्यं तस्मात् पापं त्वया कृतम् ।” (मत्स्य पु)
“विष्णोर्गानं च नृतं च नटनं च विशेषतः ।
ब्रह्मन् ! ब्राह्मणजातीनां कर्तव्यं नित्यकर्मवत् ।
नृत्यतां श्रीपतेरग्रे करसंस्फोटनादिभिः ।
उड्डीयन्ते शरीरस्थाः महापातकपक्षिणः” ।
- एवं विशेषशास्त्रोक्तं विष्णुचक्राङ्कनादिकम् ।
विशेषशास्त्रप्राबल्यात् वैष्णवस्तु न वर्जयेत् ।
- लोकेऽनुष्ठानसंकोचात् लाघवात् फलगौरवात् ।
विमुक्तिसाधनत्वं हि प्रपत्तेरवजानते ।
अन्यथा योजनाच्चापि प्रमाणानां कुतर्कतः ॥
ते तु दुष्कृतिनो मूढाः नराणामधमाः स्मृताः ।
माययाऽपहृतज्ञानाः आसुरं भावमाश्रिताः ।। १२ ।।
यान्न पश्येज्जायमानान् पापिनो मधुसूदनः ।
- ब्रह्मा रुद्रोऽथवा पश्येत् रजसा तमसा वृतान् ।
तैरालापं न कुर्वीत, “ नासद्भिः किंचिदाचरेत् ” ।
कौतस्कुतानां शास्त्राणि तामसानि वदन्मनुः ।
वाङ्मात्रेणापि संसर्गं तैस्साकं तु निषेधति ।।
“या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः। (मनु.)
सर्वास्ताः निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः” ।
“पाषण्डिनो विकर्मस्थान् बैडालवतिकांञ्छठान् ।
हैतुकान् बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत्” । (मनु.)
- प्रपत्तेः प्रतिबन्धस्तु जायते यैर्हि कर्मभिः ।
प्रपन्नो न निषेवेत तादृशानि न किंचन ।
देवतान्तरसंभक्तिर्नित्यकर्मविधिं विना ।
उपायान्तरनिष्ठा च द्रोहो भागवतेष्वपि ।
विश्वासमान्द्यं विषयेष्वतिप्रावण्यमेव च ।
श्रीश्रीशयोः परिजने निन्दनादीनि सर्वशः ।
देहावध्यनुवृत्तानि नानुतापयुतानि च ।
प्रायश्चित्तविहीनानि पातकानि महान्ति च ।।
बन्धकानि ; प्रपन्नस्तु न कुर्यात्तादृशान्यपि ॥ २१ ॥
- तेष्वन्वये सति सतामनुतापो भवेत् ; यदि ।
प्रायश्चित्तं ततः कुर्याद्रहस्यं च प्रकाशकम् ॥ २२ ॥
- प्रपन्नस्यानुतप्तस्य रहस्ये त्वधिकारिता ।
प्रायश्चिते ; यथेन्द्राय कमलोवाच पृच्छते ।
रहस्यं तु (तत् ?) प्रपन्नस्य दर्शितं पूर्वपद्धतौ ।
एतदर्थमभिप्रेत्य पराशरवचो यथा-(वि. पु.)
“ कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते । (.-6-40)
प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम् ॥”
” पापे गुरूणि गुरुणि स्वल्पान्यल्पे च तद्विदः। (2-6-78)
प्रायश्चित्तानि मैत्रेय ! जगुः स्वायम्भुवादयः ।।”
” प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै ।
यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥” (2-6-39)
- प्रमादात् क्रियते कर्म प्रच्यवेताध्वरेषु यत् ।
स्मरणादेव तद् विष्णोः सम्पूर्ण स्यादिति श्रुतिः ॥ २८ ॥
भगवद्ध्यानयुक्तस्य तद्ध्यानावधिकाः क्रियाः ।
नास्तिकस्य तु मूर्खस्य युक्तं द्वादशवार्षिकम् ।।
एवं विषयभेदेन गुरुलघ्वोर्न संकरः ।
क्षेत्रज्ञस्येश्वरज्ञानात् विशुद्धिः परमा मता” ।
इत्येवं याज्ञवल्क्येन ब्रुवताऽऽत्मेशयोरपि ।
शेषशेषित्वविज्ञानात् शुद्धिर्जीवस्य वर्णिता ॥ ३१ ॥
“ अतिपापप्रवृत्तोऽपि ध्यायन्निमिषमच्युतम् ।
भूयस्तपस्वी भवति पङ्क्तिपावनपावनः । (वि.ध.)
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरश्शुचिः ॥”
इत्यादिशौनकायुक्तेः भगवज्ज्ञानिनां नृणाम् ।
कृते पापेऽनुतप्तानां तद्ध्यानावधिकाः क्रियाः ॥ ३४ ॥
- देवतान्तरसंसक्तैः सङ्गं त्यक्त्वैव वैष्णवः ।
उपायान्तरसक्तैश्च, प्रपन्नैस्सह संवसेत् ॥ ३५ ॥
- न मूर्खमाश्रयेत् साधुः न मूर्खाय गुरुर्वदेत् ।
य आश्रयेदविद्वांसं तमसस्तु तमो विशेत् ॥ ३६ ।।
मूर्ख (र्खे ?) दत्तं तु यज्ज्ञानं उप्तं बीजमिवोषरे ।
अन्योन्यस्मै गुरुच्छात्रौ न द्रुह्येतां कदाचन ।।
यो द्रुद्यत्यनयोः, सोऽयं दृश्यते मुक्तिमार्गतः ।।
अनादिष्टेन गुरुणा मन्त्रेण न हरिं श्रयेत् ॥ ३८ ॥
गुरुं न गर्हयेच्छिप्यो धार्मिकं त्वर्थलोभतः ।
अनिवेद्य गुरोः किंचित् नोपयुञ्जीत बुद्धिमान् ॥ ३९ ॥
गुरुविद्वेषिणः सर्वान् वजयेद्वैष्णवोत्तमः ।
- विष्ण्वालये न कुर्यात्तु निष्ठीवनमलादिकम् ।। १० ॥
पादौन क्षालयेत्तत्र नान्तरा देवपीठयोः ।
गच्छेत् प्रपन्नो नाद्वारात् संविशेद्धरिमन्दिरम् ।। ४१ ।।
कृष्णकम्बलसंवीतो न विशेज्जातु वैष्णवः ।
विना जपादिकं कर्म तन्मालाबन्धनादिकम् ।।
अन्यत् कार्यं न कुर्वीत वैष्णवो विष्णुमन्दिरे ।
नान्यं देवं नमस्कुर्यात् नान्यं देवं निरीक्षयेत् ॥ ४३ ।।
नान्यं प्रासादमारोहेत् नान्यदायतनं विशेत् ।
उद्देशतस्तु द्वात्रिंशदपचारा हरेः स्मृताः ॥ ४४ ॥
पुराणे खलु वाराहे, वर्जयेद्वैष्णवस्तु तान् ।
- गन्धं पुष्पं तथा वासो भूषणानि पशून् गृहान् ॥
तथा भोज्या (ग्या)नि चान्यानि नात्मार्थे वैष्णवो हरेत् ।
कर्तव्या शेषताबुद्धिः नात्मनस्तनयादिषु ।।
विष्णोविभूतिभूतेषु ममतां वर्जयेत् सुधीः ।
- ” एकान्ती व्यपदेष्टव्यो नैव ग्रामकुलादिभिः। (वि. सं.)
विष्णुना व्यपदेष्टव्यः तस्य सर्वे स एव हि ।”
नद्यास्तस्यैव नामानि प्रविष्टाया यथाऽर्णवम् ।
सर्वात्मना प्रपन्नस्य विष्णुमेकान्तिनस्तथा ।
- छायाविलंघनादीनि न कुर्याच्च सतां सदा ॥ ४९॥
सद्भिश्च सह वर्तेत विवादं तेषु वर्जयेत् ।
- प्रपन्नान् अनुशास्तीत्थं श्रीमत्सेनेशसंहिता-
” नावैष्णवग्रन्थरुचिः नासच्छास्त्ररतो भवेत् ।
नानृतं शपथं कुर्यात् न च पृच्छेच्छुभाशुभे ।
विषनिर्हरणं चापि पिशाचादिविमोचनम् ।
समस्तव्याधिहरणं क्षुद्रमन्त्रैर्न साधयेत् ॥ ५२ ।।
न धारयेज्जटाभारं भस्म चैव न धारयेत् ।
बाह्यलिंगानि सर्वाणि संत्यजेद्यावदायुषम् ॥ ५३ ॥
यत्र यत्र हि नीतिः स्यात् वैष्णवी शिष्टसंमता ।
तत्र तत्र वसेन्नित्यं नान्यत्रेति मतिर्मम ।। ५४ ॥
न लोकवृत्तिं वर्तेत वृत्तिहेतोः कथञ्चन ।
सत्संमता तु या वृत्तिः देशकालानुरूपिणी ।
तामास्थितो न लोभेन हीनां वृत्ति समाश्रयेत् ” ।
- व्यासस्तु भगवानाह वर्जनीयं सतामिह-
“न शब्दशास्त्राभिरतस्य मोक्षो न चापि रम्यावसथप्रियस्य ।
(इति. स. 2-10)
न भोजनाच्छादनतत्परस्य न लोकचित्तग्रहणे रतस्य ” ॥५७||
“ एकान्तशीलस्य दृढव्रतस्य पञ्चेन्द्रियप्रीतिनिवर्तकस्य ।
अध्यात्मविद्यारतमानसस्य मोक्षो ध्रुवो नित्यमहिंसकस्य ” ॥५८॥
” नाभिनन्देत मरणं नाभिनन्देत जीवितम् ।
कालमेव प्रतीक्षेत निर्वेशं भृतको यथा” ||५९।। (मनु. 6-45)
प्रायेणाऽकृतकृत्यत्वात् मृत्योरुद्विजते जनः ।
कृतकृत्याः प्रतीक्षन्ते मृत्यु प्रियमिवातिथिम् ।। ६० ।।
- तत्पादभक्तिज्ञानाभ्यां फलमन्यत् कदाचन ।
न याचेत् पुरुषो विष्णुं याचनान्नश्यति ध्रुवम् ॥ ६॥
- प्रमादादबुद्धितो वाऽपि यदागः क्रियते सताम् ।
अनुतप्तस्तु तानेव क्षामयेन्नान्यथा शमः ॥ ६२ ॥
भगवत्यपचारेऽपि सैषा शान्तिरनुत्तमा ।
- स्त्रीणां स्त्रीसङ्गिनां चैव संसर्गं वर्जयेत् सुधीः ॥ ६३ ॥
तस्मात् सर्वात्मना विद्वान् विषयान् विषवत् त्यजेत् ।
– आविद्यः प्राकृतः प्रोक्तो वैद्यो वैष्णव उच्यते ।।
आविद्येन न केनापि वैद्यः किंचित् समाचरेत् । (सा. तं)
इति ह्युक्तं भगवता शास्त्रे ; मन्वादिभिस्तथा ॥ ६५ ॥
तस्मात् प्राकृतसंसर्गं वर्जयेद्वैष्णवोत्तमः ।
- एका शय्याऽऽसनं पंक्तिर्भाण्डं पक्वान्नमिश्रणम् ।।
याजनाध्यापने यानं तथैव सहभोजनम् ।
नवधा संकरः प्रोक्तो न कर्तव्योऽधमैस्सह ।।
संल्लापस्पर्शनस्वापविधानशयनासनात् ।
याजनाध्यापनात् यौनात् पापं संक्रमते नृणाम् ।।
संवत्सरेण पतति पतितेन सहाऽऽचरन् ।
याजनाध्यापनात् यौनात् सद्यो न शयनासनात् (बोधा) ॥ ६९
बृहस्पतिमनुभ्यां तु संकरस्यानुवर्णितम् ।
वैविध्यं याजनादीनां सद्यः पातित्यहेतुता ॥ ७० ।।
- न्यासविद्यैकनिष्ठानां वैष्णवानां महात्मनाम् ।
प्राकृताभिष्टुतिर्निन्दा निन्दा स्तुतिरिति स्मृता ॥ ७१ ।।
“ अद्यप्रभृति हे लोकाः ! यूयं यूयं वयं वयम् ।
अर्थकामपरा यूयं नारायणपरा वयम् ॥
नास्ति संगतिरस्माकं युष्माकं च परस्परम् ।
वयं तु किंकरा विष्णो: यूयमिन्द्रियकिंकराः” ॥ ८३ ।।
इति श्रीगुरुवरवात्स्यवरदाचार्यविरचिते
प्रपन्नपारिजाते वर्जनीयपद्धतिः नवमी।
- फलोदयपद्धतिः दशमी
- एवं प्रपन्ना विष्णोस्तु पादौ तत्प्राणसंज्ञितान् (ताः ?)
अनुव्रजति तान् विष्णुः अत्यर्थप्रेमविह्वलः ॥ १ ॥
- एतद् गीतं भगवता, “ज्ञानी त्वात्मैव मे मतम् ” ।
बहुजन्मसहस्रान्ते दिष्टया यस्तु प्रपद्यते ॥
वासुदेवः सर्वमिति, स महात्मा सुदुर्लभः ।
- उक्ता शास्त्रे भगवता प्रपन्ने कृतकृत्यता ।।
तस्मिंश्चानुत्तमा प्रीतिः तस्याऽशेषविशिष्टता ।
“ विष्णूपायो योऽन्यफल: सोऽधमः परिकीर्तितः
अन्योपायो विष्णुफल: मध्यमः परिकीर्तितः ।
माधवांघ्रिद्वयोपायो माधवांघ्रिप्रयोजनः ।।
स उत्तमाधिकारी स्यात् कृतकृत्योऽद्य जन्मनि । (सा. तं.)
139.’याः क्रियाः सम्प्रयुक्ताः स्युः एकान्तगतबुद्धिभिः ।।
ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम् । (भा. शां.358)
“भक्तैरण्वप्युपानीतं प्रेम्णा भूर्येव मे भवेत् ॥
भूर्यप्यभक्तोपहृतं न मे तोषाय कल्पते “। (भाग. 10, 81-3)
- भक्तशब्दस्तु मुख्योक्त्या प्रपन्ने पर्यवस्यति ॥
आत्मीयसंहितायां तु यथा सेनेश उक्तवान्-
“ सेवा तु प्रोच्यते सद्भिः भक्तिशब्देन भूयसी” ॥ ९॥
सेवा चात्यन्तनीचत्वापत्तिर्हि स्वामिनं प्रति ।
तस्मात् परस्य दास्यैकरसता भक्तिरुच्यते ॥ १० ॥
- “ आकिंचन्यैकशरणाः केचिद्भाग्याधिकाः पुनः । (वि. सं.)
लक्ष्मी पुरुषकारेण वृतवन्तो नरोत्तमाः ।।
श्रिया समेतं मामेव शरणं प्राप्तुमिच्छवः ।
मामेकं शरणं प्राप्य मामेकं प्राप्नुवन्ति ते” ॥ १२ ॥
“ एवं मां शरणं प्राप्य वीतशोकभयक्लमः । (ल. सं. 17-60)
निरारम्भो निराशश्च निर्ममो निरहंकृतिः ।।
मामेव शरणं प्राप्य तरेत् संसारसागरम् ।
सत्कर्मनिरताः शुद्धाः सांख्ययोगविदनस्तथा ।।
नार्हन्ति शरणस्थस्य कलां कोटितमीमपि”।
- उपायाधिकृतस्यापि भवेदुत्तरपूर्वयोः ।।
अश्लेषश्च विनाशश्च पुण्यपापमयाघयोः ।
प्रारब्धदेहभोग्यं तु विना दृप्तस्य नश्यति ॥ १६ ॥
पूर्वाघमुत्तराधं तु मतिपूर्वं महत्तरम् ।
आदेहपतनावृत्तम् अनुतापविवर्जितम् ।।
यत् , तद्विनैवाश्लेषः स्यात् अन्यस्याघस्य युक्तितः ।
- अयमर्थो भगवता सविशेषमुदीरितः-
” उपायभक्तिः प्रारब्धव्यतिरिक्ताघनाशिनी ॥ (सा. त!)
साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी” ॥ १९
- उपायभक्तिरित्युक्तो भक्तियोगो हि साङ्गकः ।
बहुदेहनिमित्तं हि प्रारब्धं न स नाशयेत् ॥ २० ॥
साध्यभक्तिरिति प्रोक्ता प्रपत्तिर्मोक्षरूपिणी ।
आर्तानां भूयसी सा तु प्रारब्धमपि नाशयेत् ॥ २१ ॥
प्रारब्धदेहभोग्यं तु दृप्तस्याघं न नाशयेत् ।
- एतदुक्तं भवत्यत्र-भक्तियोगाद्विमुच्यते।
प्रारब्धकर्मनिर्मोके बहुजन्मोपभोगतः ।
कर्मणः शोकहेतोस्त्वां “मोक्षयिष्यामि मा शुचः” ।
एवं भगवतोक्तत्वादेतदेहेऽपि शोचनात् ।
आर्तस्य सद्यो मुक्तिः स्यात् प्रपत्तिर्भूयसी यतः ।
दृप्तः प्रारब्धदेहात्तु न शोचति यतः, ततः ।
देहान्ते मुच्यते ; सैषा मोक्षकालव्यवस्थितिः ॥ २५ ॥
- सोऽयं श्रियःपत्युरन्तर्हृदयाम्भोजवासिनः ।
प्रसादेनैव सुसुखं नाडीं भित्त्वा शताधिकाम् ।।
सद्यस्तयोर्ध्वमुत्क्रम्य गत्वा तान् आतिवाहिकान् ।
अर्चिरादीन् स (दींश्च ?) तैर्नीत: प्रीतियुक्तैः पदेपदे ।।
अमानवकरस्पर्शात् सूक्ष्मदेहं विसृज्य च ।
विरजां मनसा तीर्त्वा ब्रह्मगन्धादिलाञ्छितः ॥
सालोक्यमथ सारूप्यं सामीप्यं च क्रमाद्व्रजेत् ।
सायुज्यं चाधिगच्छेत् स ब्रह्मणा सह सर्वशः ||
अधिक पा०–अनुसञ्चरन्निमान् लोकान् कामान्नी कामरूप्यपि ।
(?) इमान् लोकांश्च कामानी कामरूप्यनुसञ्चरन् ।
साम गायन् किंकुरुते सूरिभिस्सह सर्वदा ।
- यद्वाऽचिरादिमार्गादिविलम्बमसहन्निव ।।
प्रपन्नं हरति क्षिप्रं यथेष्टमिति च (अपि च) श्रुतम् ।
महावराहो भगवानेतत्संवादकं वचः ।।
यदाह देव्यां शृण्वन्त्यां भूम्यां प्रवदतां वरः-
“ स्थिते मनसि सुस्वस्थे शरीरे सति यो नरः ।
धातुसाम्ये स्थिते स्मर्ता विश्वरूपं च मामजम् ।
ततस्तं म्रियमाणं तु काष्ठपाषाणसन्निभम् ।
अहं स्मरामि मद्भक्तं नयामि परमां गतिम् ।”
- यदा कदाचित् वातादिधातुसाम्यादरोगतः ।
मनस्थितिः सम्भवति, यः कश्चित्तु तदा नरः ।
स्मरेत् स्वामित्व-सौशील्य-वात्सल्यादिमहोदधिम् ।।
अवतीर्णं वराहं मां श्रिया दीप्तगुणैर्युतम् ।
नारायणं विश्वरूपमजमिच्छात्तविग्रहम् ।। ३६ ॥
” श्रीमन्नारायण ! स्वामिन् ! अनन्यशरणस्तव ।
चरणौ शरणं यातः” इति मां यः स्मरेत् सकृत् ॥
ततस्तमितरोपायव्यवधानविवर्जितम् ।
तदवस्थं मृतिप्राप्तौ काष्ठपाषाणसन्निभम् ।।
काष्ठवत्तु स्वतो देहे मनश्चेष्टाविवर्जितम् ।
परप्रबोधासंज्ञं तु विलुप्तहृदयं ततः ॥
अश्मवत् स्वयमन्यैश्च हितस्मरणवर्जितम् ।
आश्रितेषु प्रसुप्तेषु पुरुषो यो व्यवस्थितः ।।
कामं कामं निर्मिमाणः तेषां जागर्ति सिद्धये ।
सोऽहमाश्रिततन्त्रात्मा स्मरामि च तदा स्वयम् ।।
इमं मद्भोगयोग्यं तु कृपापूरप्रकाशनात् ।
नयामि परमं स्थानम् अर्चिरादिगतिं विना ।
गरुडस्कन्धमारोप्य यथेष्टमनिवारितः ।
- एतत्प्रभावयुक्तस्य प्रपन्नस्य तु पार्श्वतः ।।
अपयान्ति द्रुतं भीताः पाशिनो यमकिंकराः ।।
अयं न कस्यचिद् भृत्यः पराशरशुकौ यथा ॥ ४४ ॥
“ स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले ।।
परिहर मधुसूदनप्रपन्नान् प्रभुरहमन्यनृणां न वैष्णवानाम् ।
(वि. पु. 3-7-14
“
” देवर्षिभूतात्मनृणां पितॄणां न किंकरो नायमृणी च राजन् ।
सर्वात्मना यः शरणं शरण्यं नारायणं लोकगुरुं प्रपन्नः ॥१६॥
(भाग. 11-5-41)
- त्रय्यन्त-स्मृतिमुख्यसन्मुनिवचः-श्रीपांचरात्राचल-
क्षोदैः संघटितः प्रपन्नचरितक्षीराब्धि (द्धि ?) (?) सेतुर्महान्
ये वाञ्छन्त्यमुना पथाऽऽप्तुमचिरात् पारं भवाम्भोनिधेः
ते पूर्वोत्तरपापकर्मनिचयैः मुक्ताः विमुक्ताः ध्रुवम् ॥ ४७॥
कार्पण्याततबद्धमूलफलका विश्वासकीलाचिता
याच्चाबन्धनरज्जुकृष्टिवशगा निक्षेपसत्क्षेपणिः ।
संसारार्णवतारिणी तनुभृतां न्यासात्मनौः ; तामिमाम्
अच्छिद्रामथ पारयिष्णुमभयाः सद्योऽधिरूढा जनाः ॥४८॥
अशेषापेक्षितं यत्र परितो जायते सताम् ।
प्रपन्नपारिजाताख्यः प्रबन्धः क(प्र?)थितो भुवि ।। ४९ ॥
इति श्रीगुरुवरवात्स्यवरदाचार्यविरचिते
प्रपन्नपारिजाते फलोदयपद्धतिः दशमी
। प्रपन्नपारिजातः संपूर्णः ।।
श्रीमते वात्स्यवरदार्यमहागुरवे नमः
‘गुरवे वरदार्याय कुर्वीमहि नमस्क्रियाम् ।
यत्पदाम्भोजसेवा नः सूते वेदान्तसंपदम् ।।“
॥ शुभमस्तु ।