[highlight_content]

मनुस्मृतिः अष्टमोऽध्यायः (Part 02)

मनुस्मृतिः

अष्टमोऽध्यायः (Part 02)

(व्यवहारदर्शनम्)

8.201 विक्रयाद् यो धनं किं चिद् गृह्णीयत् कुलसंनिधौ । क्रयेण स विशुद्धं हि न्यायतो लभते धनम् ।।

8.202 अथ मूलम् अनाहार्यं प्रकाशक्रयशोधितः । अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम् ।।

8.203 नान्यद् अन्येन संसृष्टरूपं विक्रयम् अर्हति । न चा सारम् न च न्यूनं न दूरेण तिरोहितम् ।। एष न सावद्यं न च न्यूनं न दूरे न तिरोहितम्

8.204 अन्यां चेद् दर्शयित्वा अन्या वोढुः कन्या प्रदीयते । उभे त एकशुल्केन वहेद् इत्य् अब्रवीन् मनुः ।।

8.205 नोन्मत्ताया न कुष्ठिन्या न च या स्पृष्ट मैथुना । पूर्वं दोषान् अभिख्याप्य प्रदाता दण्डम् अर्हति ।।

8.206 ऋत्विग् यदि वृतो यज्ञे स्वकर्म परिहापयेत् । तस्य कर्मानुरूपेण देयो ‘अंशः सहकर्तृभिः ।।

8.207 दक्षिणासु च दत्तासु स्वकर्म परिहापयन् । कृत्स्नम् एव लभेत अंशम् अन्येनैव च कारयेत् ।।

8.208 यस्मिन् कर्मणि यास् तु स्युर् उक्ताः प्रत्यङ्गदक्षिणाः । स एव ता आदिदीत भजेरन् सर्व एव वा ।।

8.209 रथं हरेत् चाध्वर्युर् ब्रह्माधाने च वाजिनम् । होता वापि हरेद् अश्वम् उद्गाता चाप्य् अनः क्रये ।।

8.210 सर्वेषाम् अर्धिनो मुख्यास् तदर्धेनार्धिनो ‘अपरे । तृतीयिनस् तृतीयांशाश् चतुर्थांशाश् च पादिनः ।।

8.211 संभूय स्वानि कर्माणि कुर्वद्भिर् इह मानवैः । अनेन विधियोगेन कर्तव्या अंशप्रकल्पना ।।

8.212 धर्मार्थं येन दत्तं स्यात् कस्मै चिद् याचते धनम् । पश्चाच् च न तथा तत् स्यान् न देयं तस्य तद् भवेत् ।।

8.213 यदि संसाधयेत् तत् तु दर्पाल्लोभेन वा पुनः । राज्ञा दाप्यः सुवर्णं स्यात् तस्य स्तेयस्य निष्कृतिः ।।

8.214 दत्तस्य एषोदिता धर्म्या यथावद् अनपक्रिया । अत ऊर्ध्वं प्रवक्ष्यामि वेतनस्यानपक्रियाम् ।।

8.215 भृतो नार्तो न कुर्याद् यो दर्पात् कर्म यथाओदितम् । म् अनार्तो स दण्ड्यः कृष्णलान्य् अष्टौ न देयं चास्य वेतनम् ।।

8.216 आर्तस् तु कुर्यात् स्वस्थः सन् यथाभाषितम् आदितः । स दीर्घस्यापि कालस्य तल्लभेत एव वेतनम् ।।

8.217 यथोक्तम् आर्तः सुस्थो वा यस् तत् कर्म न कारयेत् । न तस्य वेतनं देयम् अल्पोनस्यापि कर्मणः ।।

8.218 एष धर्मो ‘अखिलेनोक्तो वेतनादानकर्मणः । अत ऊर्ध्वं प्रवक्ष्यामि धर्मं समयभेदिनाम् ।।

8.219 यो ग्राम देश संघानाम् कृत्वा सत्येन संविदम् । विसंवदेन् नरो लोभात् तं राष्ट्राद् विप्रवासयेत् ।।

8.220 निगृह्य दापयेच् चैनम् समयव्यभिचारिणम् । चतुःसुवर्णान् षण्निष्कामेष शतमानं च राजकम् ।।

8.221 एतद् दण्डविधिं कुर्याद् धार्मिकः पृथिवीपतिः । ग्राम जाति समूहेषु समयव्यभिचारिणाम् ।।

8.222 क्रीत्वा विक्रीय वा किं चिद् यस्येहानुशयो भवेत् । सो ‘अन्तर् दशाहात् तद् द्रव्यं दद्याच् चैवाददीत वा ।।

8.223 परेण तु दशाहस्य न दद्यान् नापि दापयेत् । आददानो ददत् चैव राज्ञा दण्ड्यौ शतानि षट् ।।

8.224 यस् तु दोषवतीं कन्याम् अनाख्याय प्रयच्छति । तस्य कुर्यान् नृपो दण्डं स्वयं षण्णवतिं पणान् ।।

8.225 अकन्येति तु यः कन्यां ब्रूयाद् द्वेषेण मानवः । स शतं प्राप्नुयाद् दण्डं तस्या दोषम् अदर्शयन् ।।

8.226 पाणिग्रहणिका मन्त्राः कन्यास्व् एव प्रतिष्ठिताः । नाकन्यासु क्व चिन् न्qणां लुप्त धर्मक्रिया हि ताः ।।

8.227 पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् । तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ।।

8.228 यस्मिन् यस्मिन् कृते कार्ये यस्येहानुशयो भवेत् । तम् अनेन विधानेन धर्म्ये पथि निवेशयेत् ।।

8.229 पशुषु स्वामिनां चैव पालानां च व्यतिक्रमे । विवादं संप्रवक्ष्यामि यथावद् धर्मतत्त्वतः ।।

8.230 दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे । योगक्षेमे ‘अन्यथा चेत् तु पालो वक्तव्यताम् इयात् ।।

8.231 गोपः क्षीरभृतो यस् तु स दुह्याद् दशतो वराम् । गोस्वाम्यनुमते भृत्यः सा स्यात् पाले ‘अभृते भृतिः ।।

8.232 नष्टं विनष्टं कृमिभिः श्वहतं विषमे मृतम् । हीनं पुरुषकारेण प्रदद्यात् पाल एव तु ।।

8.233 विघुष्य तु हृतं चौरैर् न पालो दातुम् अर्हति । यदि देशे च काले च स्वामिनः स्वस्य शंसति ।।

8.234 कर्णौ चर्म च वालांश् च बस्तिं स्नायुं च रोचनाम् । पशुषु स्वामिनां दद्यान् मृतेष्व् अङ्कानि दर्शयेत् ।। म् अङ्काम्श् च दर्शयेत्

8.235 अजाविके तु संरुद्धे वृकैः पाले त्व् अन् आयति । यां प्रसह्य वृको हन्यात् पाले तत् किल्बिषं भवेत् ।।

8.236 तासां चेद् अवरुद्धानां चरन्तीनां मिथो वने । याम् उत्प्लुत्य वृको हन्यान् न पालस् तत्र किल्बिषी ।।

8.237 धनुःशतं परीहारो ग्रामस्य स्यात् समन्ततः । शम्यापातास् त्रयो वापि त्रिगुणो नगरस्य तु ।।

8.238 तत्रापरिवृतम् धान्यं विहिंस्युः पशवो यदि । न तत्र प्रणयेद् दण्डं नृपतिः पशुरक्षिणाम् ।।

8.239 वृतिं तत्र प्रकुर्वीत याम् उष्त्रो न विलोकयेत् । छिद्रं च वारयेत् सर्वं श्व सूकरमुखानुगम् ।।

8.240 पथि क्षेत्रे परिवृते ग्रामान्तीये ‘अथ वा पुनः । स पालः शतदण्डार्हो विपालान् वारयेत् पशून् ।।

8.241 क्षेत्रेष्व् अन्येषु तु पशुः स पादम् पणम् अर्हति । सर्वत्र तु सदो देयः क्षेत्रिकस्येति धारणा ।।

8.242 अ निर्दशाहाम् गां सूतां वृषान् देवपशूंस् तथा । स पालान् वा वि पालान् वा न दण्ड्यान् मनुर् अब्रवीत् ।।

8.243 क्षेत्रियस्यात्यये दण्डो भागाद् दशगुणो भवेत् । म्क्षेत्रिकस्यात्यये ततो ‘अर्धदण्डो भृत्यानाम् अज्ञानात् क्षेत्रिकस्य तु ।।

8.244 एतद् विधानम् आतिष्ठेद् धार्मिकः पृथिवीपतिः । स्वामिनां च पशूनां च पालानां च व्यतिक्रमे ।।

8.245 सीमां प्रति समुत्पन्ने विवादे ग्रामयोर् द्वयोः । ज्येष्ठे मासि नयेत् सीमां सु प्रकाशेषु सेतुषु ।।

8.246 सींआवृक्षांश् च कुर्वीत न्यग्रोधाश्वत्थ किम्शुकान् । शाल्मलीन् सालतालांश् च क्षीरिणश् चैव पादपान् ।।

8.247 गुल्मान् वेणूंश् च विविधान् शमी वल्ली स्थलानि च । शरान् कुब्जकगुल्मांश् च तथा सीमा न नश्यति ।।

8.248 तडागान्य् उदपानानि वाप्यः प्रस्रवणानि च । सीमासंधिषु कार्याणि देवतायतनानि च ।।

8.249 उपछन्नानि चान्यानि सीमालिङ्गानि कारयेत् । सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम् ।।

8.250 अश्मनो ‘अस्थीनि गोवालांस् तुषान् भस्म कपालिकाः । करीषम् इष्टकाङ्गाराम्श् शर्करा वालुकास् तथा ।।

8.251 यानि चैवंप्रकाराणि कालाद् भूमिर् न भक्षयेत् । तानि संधिषु सीमायाम् अ प्रकाशानि कारयेत् ।। म्सीमाया

8.252 एतैर् लिङ्गैर् नयेत् सीमां राजा विवदमानयोः । पूर्वभुक्त्या च सततम् उदकस्यागमेन च ।।

8.253 यदि संशय एव स्यात् लिङ्गानाम् अपि दर्शने । साक्षिप्रत्यय एव स्यात् सीमावादविनिर्णयः ।। म्सीमावादविनिश्चयः

8.254 ग्रामीयक कुलानाम् च समक्षं सीम्नि साक्षिणः । एष ग्रामेयक प्रष्टव्याः सीमलिङ्गानि तयोश् चैव विवादिनोः ।। म्सीमालिङ्गानि

8.255 ते पृष्तास् तु यथा ब्रूयुः समस्ताः सीम्नि निश्चयम् । निबध्नीयात् तथा सीमां सर्वांस् तांश् चैव नामतः ।।

8.256 शिरोभिस् ते गृहीत्वा उर्वीम् स्रग्विणो रक्त वाससः । सुकृतैः शापिथाः स्वैः स्वैर् नयेयुस् ते समञ्जसम् ।।

8.257 यथोक्तेन नयन्तस् ते पूयन्ते सत्यसाक्षिणः । विपरीतं नयन्तस् तु दाप्याः स्युर् द्विशतं दमम् ।।

8.258 साक्ष्यभावे तु चत्वारो ग्रामाः सामन्तवासिनः । म्ग्रामसीमान्तवासिनः सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ ।।

8.259 सामन्तानाम् अभावे तु मौलानां सीम्नि साक्षिणाम् । इमान् अप्य् अनुयुञ्जीत पुरुषान् वन गोचरान् ।।

8.260 व्याधाञ् शाकुनिकान् गोपान् कैवर्तान् मूलखानकान् । व्यालग्राहान् उञ्छवृत्तीन् अन्यांश् च वनचारिणः ।।

8.261 ते पृष्टास् तु यथा ब्रूयुः सीमासंधिषु लक्षणम् । तत् तथा स्थापयेद् राजा धर्मेण ग्रामयोर् द्वयोः ।।

8.262 क्षेत्र कूप तडागानाम् आरामस्य गृहस्य च । सामन्तप्रत्ययो ज्ञेयः सीमासेतुविनिर्णयः ।।

8.263 सामन्ताश् चेएष मृषा ब्रूयुः सेतौ विवादतां नृणाम् । सर्वे पृथक् पृथग् दण्ड्या राज्ञा मध्यमसाहसम् ।।

8.264 गृहं तडागम् आरामं क्षेत्रं वा भीषया हरन् । शतानि पञ्च दण्ड्यः स्याद् अज्ञानाद् द्विशतो दमः ।।

8.265 सीमायाम् अ विषह्यायाम् स्वयं राजैव धर्मवित् । प्रदिशेद् भूमिम् एकेषाम् उपकाराद् इति स्थितिः ।।

8.266 एषो ‘अखिलेनाभिहितो धर्मः सीमाविनिर्णये । अत ऊर्ध्वं प्रवक्ष्यामि वाक्पारुष्यविनिर्णयम् ।।

8.267 शतं ब्राह्मणम् आक्रुश्य क्षत्रियो दण्डम् अर्हति । वैश्यो ‘अप्य् अर्धशतं द्वे वा शूद्रस् तु वधम् अर्हति ।।

8.268 पञ्चाशद् ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने । वैश्ये स्याद् अर्धपञ्चाशच् शूद्रे द्वादशको दमः ।।

8.269 समवर्णे द्विजातीनां द्वादशैव व्यतिक्रमे । वादेष्व् अ वचनीयेषु तद् एव द्विगुणं भवेत् ।।

8.270 एकजातिर् द्विजातींस् तु वाचा दारुणया क्षिपन् । जिह्वायाः प्राप्नुयाच् छेदं जघन्य प्रभवो हि सः ।।

8.271 नाम जातिग्रहम् त्व् एषाम् अभिद्रोहेण कुर्वतः । निक्षेप्यो ‘अयोमयः शङ्कुर् ज्वलन्न् आस्ये दशाङ्गुलः ।।

8.272 धर्मोपदेशम् दर्पेण विप्राणाम् अस्य कुर्वतः । तप्तम् आसेचयेत् तैलं वक्त्रे श्रोत्रे च पार्थिवः ।। म्श्रौत्रे

8.273 श्रुतं देशं च जातिं च कर्म शरीरम् एव च । वितथेन ब्रुवन् दर्पाद् दाप्यः स्याद् द्विशतं दमम् ।।

8.274 काणं वाप्य् अथ वा खञ्जम् अन्यं वापि तथाविधम् । तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम् ।।

8.275 मातरं पितरं जायां भ्रातरं तनयं गुरुम् । आक्षारयन् शतम् दाप्यः पन्थानं चाददद् गुरोः ।।

8.276 ब्राह्मण क्षत्रियाभ्याम् तु दण्डः कार्यो विजानता । ब्राह्मणे साहसः पूर्वः क्षत्रिये त्व् एव मध्यमः ।।

8.277 विश् शूद्रयोर् एवम् एव स्वजातिं प्रति तत्त्वतः । छेद वर्जम् प्रणयनं दण्डस्येति विनिश्चयः ।।

8.278 एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः । अत ऊर्ध्वं प्रवक्ष्यामि दण्डपारुष्यनिर्णयम् ।।

8.279 येन केन चिद् अङ्गेन हिंस्याच् चेच् श्रेष्ठम् अन्त्यजः । छेत्तव्यं तद् तद् एवास्य तन् मनोर् अनुशासनम् ।।

8.280 पाणिम् उद्यम्य दण्डं वा पाणिच्छेदनम् अर्हति । पादेन प्रहरन् कोपात् पादच्छेदनम् अर्हति ।।

8.281 सहासनम् अभिप्रेप्सुर् उत्कृष्टस्यापकृष्टजः । कट्यां कृताङ्को निर्वास्यः स्फिचं वास्यावकर्तयेत् ।।

8.282 अवनिष्ठीवतो दर्पाद् द्वाव् ओष्ठौ छेदयेन् नृपः । अवमूत्रयतो मेढ्रम् अवशर्धयतो गुदम् ।।

8.283 केशेषु गृह्णतो हस्तौ छेदयेद् अविचारयन् । पादयोर् दाढिकायां च ग्रीवायां वृषणेषु च ।।

8.284 त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः । मांसभेत्ता तु षट् णिष्कान् प्रवास्यस् त्व् अस्थिभेदकः ।।

8.285 वनस्पतीनां सर्वेषाम् उपभोगो यथा यथा । यथा तथा दमः कार्यो हिंसायाम् इति धारणा ।।

8.286 मनुष्याणां पशूनां च दुःखाय प्रहृते सति । यथा यथा महद् दुःखं दण्डं कुर्यात् तथा तथा ।।

8.287 अङ्गावपीडनायां च व्रण शोनितयोस् तथा । म्प्राण शोनितयोस् समुत्थानव्ययं दाप्यः सर्वदण्डम् अथापि वा ।।

8.288 द्रव्याणि हिंस्याद् यो यस्य ज्ञानतो ‘अज्ञानतो ‘अपि वा । स तस्योत्पादयेत् तुष्टिं राज्ञे दद्याच् च तत्समम् ।।

8.289 चर्म चार्मिकभाण्डेषु काष्ठ लोष्टमयेषु । मूल्यात् पञ्चगुणो दण्डः पुष्प मूल फलेषु च ।।

8.290 यानस्य चैव यातुश् च यानस्वामिन एव च । दशातिवर्तनान्य् आहुः शेषे दण्डो विधीयते ।।

8.291 छिन्न नास्ये भग्न युगे तिर्यक् प्रतिमुखागते । अक्ष भङ्गे च यानस्य चक्र भङ्गे तथैव च

8.292 छेदने चैव यन्त्राणां योक्त्र रश्म्योस् तथैव च । आक्रन्दे चाप्य् अपैहि इति न दण्डं मनुर् अब्रवीत् ।।

8.293 यत्रापवर्तते युग्यं वैगुण्यात् प्राजकस्य तु । तत्र स्वामी भवेद् दण्ड्यो हिंसायां द्विशतं दमम् ।।

8.294 प्राजकश् चेद् भवेद् आप्तः प्राजको दण्डम् अर्हति । युग्यस्थाः प्राजके ‘अनाप्ते सर्वे दण्ड्याः शतं शतम् ।।

8.295 स चेत् तु पथि संरुद्धः पशुभिर् वा रथेन वा । प्रमापयेत् प्राणभृतस् तत्र दण्डो ‘अविचारितः ।।

8.296 मनुष्यमारणे क्षिप्रं चौरवत् किल्बिषं भवेत् । प्राणभृत्सु महत्स्व् अर्धं गो गजोष्ट्र हयादिषु ।।

8.297 क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः । पञ्चाशत् तु भवेद् दण्डः शुभेषु मृगपक्षिषु ।।

8.298 गर्धभाजाविकानाम् तु दण्डः स्यात् पञ्चमाषिकः । म्पाञ्चमाषिकः माषिकस् तु भवेद् दण्डः श्व सूकरनिपातने ।।

8.299 भार्या पुत्रश् च दासश् च प्रेष्यो भ्रात्रा च सोदरः । प्राप्तापराधास् ताड्याः स्यू रज्ज्वा वेणुदलेन वा ।।

8.300 पृष्ठतस् तु शरीरस्य नोत्तमाङ्गे कथं चन । अतो ‘अन्यथा तु प्रहरन् प्राप्तः स्याच् चौरकिल्बिषम् ।।

8.301 एषो ‘अखिलेनाभिहितो दण्डपारुष्यनिर्णयः । स्तेनस्यातः प्रवक्ष्यामि विधिं दण्डविनिर्णये ।।

8.302 परमं यत्नम् आतिष्ठेत् स्तेनानां निग्रहे नृपः । स्तेनानां निग्रहाद् अस्य यशो राष्ट्रं च वर्धते ।।

8.303 अभयस्य हि यो दाता स पूज्यः सततं नृपः । सत्त्रं हि वर्धते तस्य सदैवाभय दक्षिणम् ।।

8.304 सर्वतो धर्मषड्भागो राज्ञो भवति रक्षतः । अधर्माद् अपि षड्भागो भवत्य् अस्य ह्य् अ रक्षतः ।।

8.305 यद् अधीते यद् यजते यद् ददाति यद् अर्चति । तस्य षड्भागभाग् राजा सम्यग् भवति रक्षणात् ।।

8.306 रक्षन् धर्मेण भूतानि राजा वध्यांश् च घातयन् । यजते ‘अहर् अहर् यज्ञैः सहस्रशत दक्षिणैः ।।

8.307 यो ‘अ रक्षन् बलिम् आदत्ते करं शुल्कं च पार्थिवः । प्रतिभागं च दण्डं च स सद्यो नरकं व्रजेत् ।।

8.308 अरक्षितारम् राजानं बलिषड्भाग हारिणम् । K: अरक्षितारं अत्तारं तम् आहुः सर्वलोकस्य समग्रमल हारकम् ।।

8.309 अनपेक्षित मर्यादम् नास्तिकं विप्रलुंपकम् । म् अनवेक्षित मर्यादम् अरक्षितारम् अत्तारं नृपं विद्याद् अधो गतिम् ।।

8.310 अधार्मिकं त्रिभिर् न्यायैर् निगृह्णीयात् प्रयत्नतः । निरोधनेन बन्धेन विविधेन वधेन च ।।

8.311 निग्रहेण हि पापानां साधूनां संग्रहेण च । द्विजातय इवेज्याभिः पूयन्ते सततं नृपाः ।।

8.312 क्षन्तव्यं प्रभुणा नित्यं क्षिपतां कार्यिणां नृणाम् । बाल वृद्धातुराणाम् च कुर्वता हितम् आत्मनः ।।

8.313 यः क्षिप्तो मर्षयत्य् आर्तैस् तेन स्वर्गे महीयते । यस् त्व् ऐश्वर्यान् न क्षमते नरकं तेन गच्छति ।।

8.314 राजा स्तेनेन गन्तव्यो मुक्त केशेन धावता । एष धीमता आचक्षाणेन तत् स्तेयम् एवंकर्मास्मि शाधि माम् ।।

8.315 स्कन्धेनादाय मुसलं लगुडं वापि खादिरम् । म्मुशलम् शक्तिं चोभयतस् तीक्ष्णाम् आयसं दण्डम् एव वा ।।

8.316 शासनाद् वा विमोक्षाद् वा स्तेनः स्तेयाद् विमुच्यते । अ शासित्वा तु तं राजा स्तेनस्याप्नोति किल्बिषम् ।।

8.317 अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्यापचारिणी । गुरौ शिष्यश् च याज्यश् च स्तेनो राजनि किल्बिषम् ।।

8.318 राजभिः कृतदण्डास् तु कृत्वा पापानि मानवाः । म्राजभिर् धृतदण्डास् तु निर्मलाः स्वर्गम् आयान्ति सन्तः सुकृतिनो यथा ।।

8.319 यस् तु रज्जुं घटं कूपाद्द् हरेद् भिन्द्याच् च यः प्रपाम् । स दण्डं प्राप्नुयान् माषं तच् च तस्मिन् समाहरेत् ।।

8.320 धान्यं दशभ्यः कुम्भेभ्यो हरतो ‘अभ्यधिकं वधः । शेषे ‘अप्य् एकादशगुणं दाप्यस् तस्य च तद् धनम् ।।

8.321 तथा धरिममेयानां शताद् अभ्यधिके वधः । सुवर्ण रजतादीनाम् उत्तमानां च वाससाम् ।।

8.322 पञ्चाशतस् त्व् अभ्यधिके हस्तच्छेदनम् इष्यते । शेषे त्व् एकादशगुणं मूल्याद् दण्डं प्रकल्पयेत् ।।

8.323 पुरुषाणां कुलीनानां नारीणां च विशेषतः । मुख्यानां चैव रत्नानां हरणे वधम् अर्हति ।।

8.324 महापशूनां हरणे शस्त्राणाम् औषधस्य च । कालम् आसाद्य कार्यं च दण्डं राजा प्रकल्पयेत् ।।

8.325 गोषु ब्राह्मणसंस्थासु छुरिकायाश् च भेदने । म्खरिकायाश् च पशूनां हरणे चैव सद्यः कार्यो ‘अर्धपादिकः ।।

8.326 सूत्र कार्पास किण्वानाम् गोमयस्य गुडस्य च । दध्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च ।।

8.327 वेणुवैदलभाण्डानां लवणानां तथैव च । मृण्मयानां च हरणे मृदो भस्मन एव च ।।

8.328 मत्स्यानां पक्षिणां चैव तैलस्य च घृतस्य च । मांसस्य मधुनश् चैव यच् चान्यत् पशु संभवम् ।।

8.329 अन्येषां चैवम् आदीनाम् मद्यानाम् ओदनस्य च । म्चैवमादीनाम् अद्यानाम् पक्वान्नानां च सर्वेषां तन्मुल्याद् द्विगुणो दमः ।।

8.330 पुष्पेषु हरिते धान्ये गुल्म वल्ली नगेषु च । अन्येष्व् अ परिपूतेषु दण्डः स्यात् पञ्चकृष्णलः ।।

8.331 परिपूतेषु धान्येषु शाक मूल फलेषु च । निरन्वये शतं दण्डः सान्वये ‘अर्धशतं दमः ।।

8.332 स्यात् साहसं त्व् अन्वयवत् प्रसभं कर्म यत् कृतम् । निरन्वयं भवेत् स्तेयं हृत्वा अपव्ययते च यत् ।।

8.333 यस् त्व् एतान्य् उपकऌप्तानि द्रव्याणि स्तेनयेन् नरः । तम् आद्यं दण्डयेद् राजा यश् चाग्निं चोरयेद् गृहात् ।। म्तम् शतं

8.334 येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते । तत् तद् एव हरेत् तस्य प्रत्यादेशाय पार्थिवः ।।

8.335 पिताचार्यः सुहृत् माता भार्या पुत्रः पुरोहितः । नादण्ड्यो नाम राज्ञो ‘अस्ति यः स्वधर्मे न तिष्ठति ।।

8.336 कार्षापणं भवेद् दण्ड्यो यत्रान्यः प्राकृतो जनः । तत्र राजा भवेद् दण्ड्यः सहस्रम् इति धारणा ।।

8.337 अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् । षोडशैव तु वैश्यस्य द्वात्रिंशत् क्षत्रियस्य च ।।

8.338 ब्राह्मणस्य चतुःषष्टिः पूर्णं वापि शतं भवेत् ।

8.338 द्विगुणा वा चतुःषष्टिस् तद्दोषगुणविद्द् हि सः ।।

8.339 वानस्पत्यं मूल फलम् दार्वग्न्य् अर्थम् तथैव च । तृणं च गोभ्यो ग्रासार्थम् अस्तेयं मनुर् अब्रवीत् ।।

8.340 यो ‘अदत्तादायिनो हस्ताएष लिप्सेत ब्राह्मणो धनम् । याजनाध्यापनेनापि यथा स्तेनस् तथैव सः ।।

8.341 द्विजो ‘अध्वगः क्षीण वृत्तिर् द्वाव् इक्षू द्वे च मूलके । आददानः परक्षेत्रात् न दण्डं दातुम् अर्हति ।।

8.342 अ संदितानाम् संदाता संदितानां च मोक्षकः । दासाश्व रथहर्ता च प्राप्तः स्याच् चोरकिल्बिषम् ।।

8.343 अनेन विधिना राजा कुर्वाणः स्तेननिग्रहम् । यशो ‘अस्मिन् प्राप्नुयात् लोके प्रेत्य चानुत्तमम् सुखम् ।।

8.344 ऐन्द्रं स्थानम् अभिप्रेप्सुर् यशश् चाक्षयम् अव्ययम् । नोपेक्षेत क्षणम् अपि राजा साहसिकं नरम् ।।

8.345 वाग्दुष्टात् तस्कराच् चैव दण्डेनैव च हिंसतः । साहसस्य नरः कर्ता विज्ञेयः पापकृत्तमः ।।

8.346 साहसे वर्तमानं तु यो मर्षयति पार्थिवः । स विनाशं व्रजत्य् आशु विद्वेषं चाधिगच्छति ।।

8.347 न मित्रकारणाद् राजा विपुलाद् वा धनागमात् । समुत्सृजेत् साहसिकान् सर्वभूतभयावहान् ।।

8.348 शस्त्रं द्विजातिभिर् ग्राह्यं धर्मो यत्रोपरुध्यते । द्विजातीनां च वर्णानां विप्लवे कालकारिते ।।

8.349 आत्मनश् च परित्राणे दक्षिणानां च संगरे । स्त्री विप्राभ्युपपत्तौ च घ्नन् धर्मेण न दुष्यति ।।

8.350 गुरुं वा बाल वृद्धौ वा ब्राह्मणं वा बहु श्रुतम् । आततायिनम् आयान्तं हन्याद् एवा विचारयन् ।।

8.351 नाततायिवधे दोषो हन्तुर् भवति कश् चन । प्रकाशं वाप्रकाशम् वा मन्युस् तं मन्युम् ऋच्छति ।।

8.352 परदाराभिमर्शेषु प्रवृत्तान् न्qन् महीपतिः । उद्वेजनकरैर् दण्डैश् छिन्नयित्वा प्रवासयेत् ।। म्चिह्नयित्वा

8.353 तत् समुत्थो हि लोकस्य जायते वर्णसंकरः । येन मूलहरो ‘अधर्मः सर्वनाशाय कल्पते ।।

8.354 परस्य पत्न्या पुरुषः संभाषां योजयन् रहः । पूर्वम् आक्षारितो दोषैः प्राप्नुयात् पूर्वसाहसम् ।।

8.355 यस् त्व् अन् आक्षारितः पूर्वम् अभिभाषते कारणात् । न दोषं प्राप्नुयात् किं चिन् न हि तस्य व्यतिक्रमः ।।

8.356 परस्त्रियं यो ‘अभिवदेत् तीर्थे ‘अरण्ये वने ‘अपि वा । नदीनां वापि संभेदे स संग्रहणम् आप्नुयात् ।।

8.357 उपचारक्रिया केलिः स्पर्शो भूषण वाससाम् । म् उपकारक्रिया सह खट्वासनम् चैव सर्वं संग्रहणं स्मृतम् ।।

8.358 स्त्रियं स्पृशेद् अदेशे यः स्पृष्टो वा मर्षयेत् तया । परस्परस्यानुमते सर्वं संग्रहणं स्मृतम् ।।

8.359 अब्राह्मणः संग्रहणे प्राणान्तं दण्डम् अर्हति । चतुर्णाम् अपि वर्णानां दारा रक्ष्यतमाः सदा ।।

8.360 भिक्षुका बन्दिनश् चैव दीक्षिताः कारवस् तथा । संभाषनं सह स्त्रीभिः कुर्युर् अ प्रतिवारिताः ।।

8.361 न संभाषां परस्त्रीभिः प्रतिषिद्धः समाचरेत् । निषिद्धो भाषमाणस् तु सुवर्णं दण्डम् अर्हति ।।

8.362 नैष चारणदारेषु विधिर् नात्मोपजीविषु । सज्जयन्ति हि ते नारीर् निगूढाश् चारयन्ति च ।।

8.363 किं चिद् एव तु दाप्यः स्यात् संभाषां ताभिर् आचरन् । प्रैष्यासु चैकभक्तासु रहः प्रव्रजितासु च ।। म्प्रेष्यासु

8.364 यो ‘अ कामाम् दूषयेत् कन्यां स सद्यो वधम् अर्हति । स कामाम् दूषयंस् तुल्यो न वधं प्राप्नुयान् नरः ।।

8.365 कन्याम् भजन्तीम् उत्कृष्टं न किं चिद् अपि दापयेत् । जघन्यं सेवमानां तु संयतां वासयेद् गृहे ।।

8.366 उत्तमां सेवमानस् तु जघन्यो वधम् अर्हति । शुल्कं दद्यात् सेवमानः समाम् इच्छेत् पिता यदि ।।

8.367 अभिषह्य तु यः कन्यां कुर्याद् दर्पेण मानवः । तस्याशु कर्त्ये अङ्गुल्यौ दण्डं चार्हति षट्शतम् ।। म्कर्त्या अङ्गुल्यो

8.368 स कामाम् दूषयंस् तुल्यो नाङ्गुलिछेदम् आप्नुयात् । द्विशतं तु दमम् दाप्यः प्रसङ्गविनिवृत्तये ।।

8.369 कन्यैव कन्यां या कुर्यात् तस्याः स्याद् द्विशतो दमः । शुल्कं च द्विगुणं दद्यात् शिफाश् चैवाप्नुयाद् दश ।।

8.370 या तु कन्यां प्रकुर्यात् स्त्री सा सद्यो मौण्ड्यम् अर्हति । अङ्गुल्योर् एव वा छेदं खरेणोद्वहनम् तथा ।।

8.371 भर्तारं लङ्घयेद् या तु स्त्री ज्ञाति गुणदर्पिता । तां श्वभिः खादयेद् राजा संस्थाने बहुसंस्थिते ।।

8.372 पुमांसं दाहयेत् पापं शयने तप्त आयसे । अभ्यादध्युश् च काष्ठानि तत्र दह्येत पापकृत् ।।

8.373 संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः । म्संवत्सरे ‘अभिशस्तस्य व्रात्यया सह संवासे चाण्डाल्या तावद् एव तु ।।

8.374 शूद्रो गुप्तम् अगुप्तं वा द्वैजातं वर्णम् आवसन् । अगुप्तम् अङ्ग सर्वस्वैर् गुप्तं सर्वेण हीयते ।। म् अङ्ग सर्वस्वी

8.375 वैश्यः सर्वस्व दण्डः स्यात् संवत्सरनिरोधतः । सहस्रं क्षत्रियो दण्ड्यो मौण्ड्यं मूत्रेण चार्हति ।।

8.376 ब्राह्मणीं यद्य् अगुप्तां तु गच्छेतां वैश्य पार्थिवौ । वैश्यं पञ्चशतं कुर्यात् क्षत्रियं तु सहस्रिणम् ।।

8.377 उभाव् अपि तु ताव् एव ब्राह्मण्या गुप्तया सह । विप्लुतौ शूद्रवद् दण्ड्यौ दग्धव्यौ वा कटाग्निना ।।

8.378 सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद् व्रजन् । शतानि पञ्च दण्ड्यः स्याद् इच्छन्त्या सह संगतः ।।

8.379 मौण्ड्यं प्राणान्तिकं दण्डो ब्राह्मणस्य विधीयते । म्प्राणान्तको म्’स् चोम् रेfएर्स् तो थे रेअदिन्ग् ओf “प्राणान्तिक ” इतरेषां तु वर्णानां दण्डः प्राणान्तिको भवेत् ।। म्प्राणान्तको

8.380 न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अपि स्थितम् । राष्ट्राद् एनं बहिः कुर्यात् समग्र धनम् अ क्षतम् ।।

8.381 न ब्राह्मणवधाद् भूयान् अधर्मो विद्यते भुवि । तस्माद् अस्य वधं राजा मनसापि न चिन्तयेत् ।।

8.382 वैश्यश् चेत् क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् । यो ब्राह्मण्याम् अगुप्तायां ताव् उभौ दण्डम् अर्हतः ।।

8.383 सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् । शूद्रायां क्षत्रिय विशोः साहस्रो वै भवेद् दमः ।। म्शूद्राया

8.384 क्षत्रियायाम् अगुप्तायां वैश्ये पञ्चशतं दमः । मूत्रेण मौण्ड्यम् इच्छेत् तु क्षत्रियो दण्डम् एव वा ।। म् ऋच्छेत् तु

8.385 अगुप्ते क्षत्रिया वैश्ये शूद्रां वा ब्राह्मणो व्रजन् । शतानि पञ्च दण्ड्यः स्यात् सहस्रं त्व् अन्त्यजस्त्रियम् ।।

8.386 यस्य स्तेनः पुरे नास्ति नान्यस्त्रीगो न दुष्ट वाक््् न साहसिक दण्डघ्नो स राजा शक्रलोकभाक् ््

8.387 एतेषां निग्रहो राज्ञः पञ्चानां विषये स्वके । सांराज्यकृत् सजात्येषु लोके चैव यशस्करः ।।

8.388 ऋत्विजं यस् त्यजेद् याज्यो याज्यं च र्त्विक् त्यजेद् यदि । शक्तं कर्मण्य् अदुष्टं च तयोर् दण्डः शतं शतम् ।।

8.389 न माता न पिता न स्त्री न पुत्रस् त्यागम् अर्हति । त्यजन्न् अपतितान् एतान् राज्ञा दण्ड्यः शतानि षट् ।।

8.390 आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः । न विब्रूयान् नृपो धर्मं चिकीर्षन् हितम् आत्मनः ।।

8.391 यथार्हम् एतान् अभ्यर्च्य ब्राह्मणैः सह पार्थिवः । सान्त्वेन प्रशमय्य आदौ स्वधर्मं प्रतिपादयेत् ।।

8.392 प्रतिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे । अर्हाव् अ भोजयन् विप्रो दण्डम् अर्हति माषकम् ।।

8.393 श्रोत्रियः श्रोत्रियं साधुं भूतिकृत्येष्व् अ भोजयन् । तद् अन्नम् द्विगुणं दाप्यो हिरण्यं चैव माषकम् ।। म्हैरण्यम्

8.394 अन्धो जडः पीठसर्पी सप्तत्या स्थविरश् च यः । श्रोत्रियेषूपकुर्वंश् च न दाप्याः केन चित् करम् ।।

8.395 श्रोत्रियं व्याधितार्तौ च बाल वृद्धाव् अ किम्चनम् । महाकुलीनम् आर्यं च राजा संपूजयेत् सदा ।।

8.396 शाल्मलीफलके श्लक्ष्णे नेनिज्यान् नेजकः शनैः । न च वासांसि वासोभिर् निर्हरेन् न च वासयेत् ।।

8.397 तन्तुवायो दशपलं दद्याद् एकपलाधिकम् । अतो ‘अन्यथा वर्तमानो दाप्यो द्वादशकं दमम् ।।

8.398 शुल्कस्थानेषु कुशलाः सर्वपण्य विचक्षणाः । कुर्युर् अर्घं यथापण्यं ततो विंशं नृपो हरेत् ।।

8.399 राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च । ताणि निर्हरतो लोभात् सर्वहारं हरेन् नृपः ।।

8.400 शुल्कस्थानं परिहरन्न् अकाले क्रय विक्रयी । मिथ्यावादी च संख्याने दाप्यो ‘अष्टगुणम् अत्ययम् ।।

8.401 आगमं निर्गमं स्थानं तथा वृद्धि क्षयाव् उभौ । विचार्य सर्वपण्यानां कारयेत् क्रय विक्रयौ ।।

8.402 पञ्चरात्रे पञ्चरात्रे पक्षे पक्षे ‘अथ वा गते । कुर्वीत चैषाम् प्रत्यक्षम् अर्घसंस्थापनं नृपः ।।

8.403 तुलामानं प्रतीमानं सर्वं च स्यात् सुलक्षितम् । षट्सु षट्सु च मासेषु पुनर् एव परीक्षयेत् ।।

8.404 पणं यानं तरे दाप्यं पौरुषो ‘अर्धपणं तरे । पादं पशुश् च योषिच् च पादार्धं रिक्तकः पुमान् ।। म्पादे

8.405 भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः । रिक्तभाण्डानि यत् किं चित् पुमांसश् जपरिच्छदाः ।।

8.406 दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत् । नदीतीरेषु तद् विद्यात् समुद्रे नास्ति लक्षणम् ।।

8.407 गर्भिणी तु द्विमासादिस् तथा प्रव्रजितो मुनिः । ब्राह्मणा लिङ्गिनश् चैव न दाप्यास् तारिकं तरे ।।

8.408 यन् नावि किं चिद् दाशानां विशीर्येत अपराधतः । तद् दाशैर् एव दातव्यं समागम्य स्वतो ‘अंशतः ।।

8.409 एष नौयायिनाम् उक्तो व्यवहारस्य निर्णयः । दाशापराधतस् तोये दैविके नास्ति निग्रहः ।।

8.410 वाणिज्यं कारयेद् वैश्यं कुसीदं कृषिम् एव च । पशूनां रक्षणं चैव दास्यं शूद्रं द्विजन्मनाम् ।।

8.411 क्षत्रियं चैव वैश्यं च ब्राह्मणो वृत्तिकर्शितौ । बिभृयाद् आनृशंस्येन स्वानि कर्माणि कारयेत् ।।

8.412 दास्यं तु कारयन् लोभाद् ब्राह्मणः संस्कृतान् द्विजान् । अनिच्छतः प्राभवत्याद् राज्ञा दण्ड्यः शतानि षट् ।।

8.413 शूद्रं तु कारयेद् दास्यं क्रीतम् अक्रीतम् एव वा । दास्यायैव हि सृष्टो ‘असौ ब्राह्मणस्य स्वयंभुवा ।।

8.414 न स्वामिना निसृष्टो ‘अपि शूद्रो दास्याद् विमुच्यते । निसर्गजं हि तत् तस्य कस् तस्मात् तद् अपोहति ।।

8.415 ध्वजाहृतो भक्तदासो गृहजः क्रीत दत्त्रिमौ । पैत्रिको दण्डदासश् च सप्तैते दासयोनयः ।।

8.416 भार्या पुत्रश् च दासश् च त्रय एवा धनाः स्मृताः । यत् ते समधिगच्छन्ति यस्य ते तस्य तद् धनम् ।।

8.417 विस्रब्धं ब्राह्मणः शूद्राद् द्रव्योपादानम् आचरेत् । न हि तस्यास्ति किं चित् स्वं भर्तृहार्य धनो हि सः ।।

8.418 वैश्य शूद्रौ प्रयत्नेन स्वानि कर्माणि कारयेत् । तौ हि च्युतौ स्वकर्मभ्यः क्षोभयेताम् इदं जगत् ।।

8.419 अहन्य् अहन्य् अवेक्षेत कर्मान्तान् वाहनानि च । आय व्ययौ च नियताव् आकरान् कोशम् एव च ।।

8.420 एवं सर्वान् इमान् राजा व्यवहारान् समापयन् । व्यपोह्य किल्बिषं सर्वं प्राप्नोति परमां गतिम् ।।

********

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.