[highlight_content]

मनुस्मृतिः एकादशोऽध्यायः

मनुस्मृतिः

अथ एकादशोऽध्यायः

(दानव्यवस्था प्रायश्चित्तानि च)

11.1 सान्तानिकं यक्ष्यमाणम् अध्वगं सार्ववेदसम् । गुर्वर्थम् पितृ मात्रर्थम् स्वाध्यायार्थ्य् उपतापिनः ।।

11.2 न वै तान् स्नातकान् विद्याद् ब्राह्मणान् धर्मभिक्षुकान् । निःस्वेभ्यो देयम् एतेभ्यो दानं विद्याविशेषतः ।।

11.3 एतेभ्यो हि द्विजाग्र्येभ्यो देयम् अन्नं स दक्षिणम् । इतरेभ्यो बहिर्वेदि कृतान्नं देयम् उच्यते ।।

11.4 सर्वरत्नानि राजा तु यथार्हं प्रतिपादयेत् । ब्राह्मणान् वेदविदुषो यज्ञार्थं चैव दक्षिणाम् ।।

11.5 कृत दारो ‘अपरान् दारान् भिक्षित्वा यो ‘अधिगच्छति । रति मात्रम् फलं तस्य द्रव्यदातुस् तु संततिः ।।

11.6 धनानि तु यथाशक्ति विप्रेषु प्रतिपादयेत् । नोत् इन् ं वेदवित्सु विविक्तेषु प्रेत्य स्वर्गं समश्नुते ।। नोत् इन् ं

11.7 यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये । अधिकं वापि विद्येत स सोमं पातुम् अर्हति ।।

11.8 अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः । स पीतसोम पूर्वो ‘अपि न तस्याप्नोति तत्फलम् ।।

11.9 शक्तः परजने दाता स्वजने दुःखजीविनि । मध्व् आपातो विषास्वादः स धर्म प्रतिरूपकः ।।

11.10 भृत्यानाम् उपरोधेन यत् करोत्य् और्ध्वदेहिकम् । तद् भवत्य् असुखोदर्कम् जीवतश् च मृतस्य च ।।

11.11 यज्ञश् चेत् प्रतिरुद्धः स्याद् एकेनाङ्गेन यज्वनः । ब्राह्मणस्य विशेषेन धार्मिके सति राजनि ।।

11.12 यो वैश्यः स्याद् बहुपशुर् हीन क्रतुर् असोमपः । कुटुम्बात् तस्य तद् द्रव्यम् आहरेद् यज्ञसिद्धये ।।

11.13 आहरेत् त्रीणि वा द्वे वा कामं शूद्रस्य वेश्मनः । न हि शूद्रस्य यज्ञेषु कश् चिद् अस्ति परिग्रहः ।।

11.14 यो ‘अनाहिताग्निः शतगुर् अ यज्वा च सहस्रगुः । K:अयज्ञश् तयोर् अपि कुटुम्बाभ्याम् आहरेद् अ विचारयन् ।।

11.15 आदान नित्याच् चादातुर् आहरेद् अ प्रयच्छतः । तथा यशो ‘अस्य प्रथते धर्मश् चैव प्रवर्धते ।।

11.16 तथाऐव सप्तमे भक्ते भक्तानि षड् अन् अश्नता । अश्वस्तनविधानेन हर्तव्यं हीन कर्मणः ।।

11.17 खलात् क्षेत्राद् अगाराद् वा यतो वाप्य् उपलभ्यते । आख्यातव्यं तु तत् तस्मै पृच्छते यदि पृच्छति ।।

11.18 ब्राह्मणस्वं न हर्तव्यं क्षत्रियेण कदा चन । दस्यु निष्क्रिययोस् तु स्वम् अ जीवन् हर्तुम् अर्हति ।।

11.19 यो ‘असाधुभ्यो ‘अर्थम् आदाय साधुभ्यः संप्रयच्छति । स कृत्वा प्लवम् आत्मानं संतारयति ताव् उभौ ।।

11.20 यद् धनं यज्ञशीलानां देवस्वं तद् विदुर् बुधाः । अ यज्वनाम् तु यद् वित्तम् आसुरस्वं तद् उच्यते ।।

11.21 न तस्मिन् धारयेद् दण्डं धार्मिकः पृथिवीपतिः । क्षत्रियस्य हि बालिश्याद् ब्राह्मणः सीदति क्षुधा ।।

11.22 तस्य भृत्यजनं ज्ञात्वा स्वकुटुम्बान् महीपतिः । श्रुत शीले च विज्ञाय वृत्तिं धर्म्यां प्रकल्पयेत् ।।

11.23 कल्पयित्वा अस्य वृत्तिं च रक्षेद् एनं समन्ततः । राजा हि धर्मषड्भागं तस्मात् प्राप्नोति रक्षितात् ।।

11.24 न यज्ञार्थं धनं शूद्राद् विप्रो भिक्षेत कर्हि चित् । यजमानो हि भिक्षित्वा चण्डालः प्रेत्य जायते ।।

11.25 याज्ञार्थम् अर्थं भिक्षित्वा यो न सर्वं प्रयच्छति । स याति भासतां विप्रः काकतां वा शतं समाः ।।

11.26 देवस्वं ब्राह्मणस्वं वा लोभेनोपहिनस्ति यः । स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति ।।

11.27 इष्टिं वैश्वानरीं नित्यं निर्वपेद् अब्दपर्यये । कऌप्तानां पशु सोमानाम् निष्कृत्यर्थम् असंभवे ।।

11.28 आपत्कल्पेन यो धर्मं कुरुते ‘अनापदि द्विजः । स नाप्नोति फलं तस्य परत्रेति विचारितम् ।।

11.29 विश्वैश् च देवैः साध्यैश् च ब्राह्मणैश् च महर्षिभिः । आपत्सु मरणाद् भीतैर् विधेः प्रतिनिधिः कृतः ।।

11.30 प्रभुः प्रथमकल्पस्य यो ‘अनुकल्पेन वर्तते । न सांपरायिकं तस्य दुर्मतेर् विद्यते फलम् ।।

11.31 न ब्राह्मणो वेदयेत किं चिद् राजनि धर्मवित् । स्ववीर्येणैव ताञ् शिष्यान् मानवान् अपकारिणः ।।

11.32 स्ववीर्याद् राजवीर्याच् च स्ववीर्यं बलवत्तरम् । तस्मात् स्वेनैव वीर्येण निगृह्णीयाद् अरीन् द्विजः ।।

11.33 श्रुतीर् अथर्वाङ्गिरसीः कुर्याद् इत्य् अ विचारयन् । वाक्शस्त्रं वै ब्राह्मणस्य तेन हन्याद् अरीन् द्विजः ।।

11.34 क्षत्रियो बाहुवीर्येण तरेद् आपदम् आत्मनः । धनेन वैश्य शूद्रौ तु जप होमैर् द्विजोत्तमः ।।

11.35 विधाता शासिता वक्ता मैत्रो ब्राह्मण उच्यते । तस्मै नाकुशलम् ब्रूयान् न शुष्कां गिरम् ईरयेत् ।।

11.36 न वै कन्या न युवतिर् नाल्प विद्यो न बालिशः । होता स्याद् अग्निहोत्रस्य नार्तो नासंस्कृतस् तथा ।।

11.37 नरके हि पतन्त्य् एते जुह्वन्तः स च यस्य तत् । म्जुह्वतः तस्माद् वैतानकुशलो होता स्याद् वेदपारगः ।।

11.38 प्राजापत्यम् अ दत्त्वा अश्वम् अग्न्याधेयस्य दक्षिणाम् । अनाहिताग्निर् भवति ब्राह्मणो विभवे सति ।।

11.39 पुण्यान्य् अन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः । न त्व् अल्प दक्षिणैर् यज्ञैर् यजेतेह कथं चन ।।

11.40 इन्द्रियाणि यशः स्वर्गम् आयुः कीर्तिं प्रजाः पशून् । हन्त्य् अल्प दक्षिणो यज्ञस् तस्मान् नाल्प धनो यजेत् ।।

11.41 अग्निहोत्र्य् अपविध्य अग्नीन् ब्राह्मणः कामकारतः । चान्द्रायणं चरेन् मासं वीरहत्यासमं हि तत् ।।

11.42 ये शूद्राद् अधिगंय अर्थम् अग्निहोत्रम् उपासते । ऋत्विजस् ते हि शूद्राणां ब्रह्मवादिषु गर्हिताः ।।

11.43 तेषां सततम् अज्ञानां वृषलाग्न्युपसेविनाम् । पदा मस्तकम् आक्रम्य दाता दुर्गाणि संतरेत् ।।

11.44 अ कुर्वन् विहितं कर्म निन्दितं च समाचरन् । प्रसक्तश् चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः ।। म्प्रसज्जन् इन्द्रियार्थेषु

11.45 अकामतः कृते पापे प्रायश्चित्तं विदुर् बुधाः । कामकारकृते ‘अप्य् आहुर् एके श्रुतिनिदर्शनात् ।।

11.46 अकामतः कृतं पापं वेदाभ्यासेन शुध्यति । कामतस् तु कृतं मोहात् प्रायश्चित्तैः पृथग्विधैः ।।

11.47 प्रायश्चित्तीयतां प्राप्य दैवात् पूर्वकृतेन वा । न संसर्गं व्रजेत् सद्भिः प्रायश्चित्ते ‘अकृते द्विजः ।।

11.48 इह दुश्चरितैः के चित् के चित् पूर्वकृतैस् तथा । प्राप्नुवन्ति दुर् आत्मानो नरा रूपविपर्ययम् ।।

11.49 सुवर्णचौरः कौनख्यं सुरापः श्यावदन्तताम् । ब्रह्महा क्षयरोगित्वं दौश्चर्म्यं गुरुतल्पगः ।।

11.50 पिशुनः पौतिनासिक्यं सूचकः पूतिवक्त्रताम् । धान्यचौरो ‘अङ्गहीनत्वम् आतिरैक्यं तु मिश्रकः ।।

11.51 अन्नहर्तामयावित्वम् मौक्यं वागपहारकः । वस्त्रापहारकः श्वैत्र्यं पङ्गुताम् अश्वहारकः ।।

11.52 एवं कर्मविशेषेण जायन्ते सद्विगर्हिताः । जड मूकान्ध बधिरा विकृताकृतयस् तथा ।।

11.53 चरितव्यम् अतो नित्यं प्रायश्चित्तं विशुद्धये । निन्द्यैर् हि लक्षणैर् युक्ता जायन्ते ‘अनिष्कृतैनसः ।।

11.54 ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्य् आहुः संसर्गश् चापि तैः सह ।।

11.55 अनृतं च समुत्कर्षे राजगामि च पैशुनम् । गुरोश् चालीक निर्बन्धः समानि ब्रह्महत्यया ।।

11.56 ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः । गर्हितानाद्ययोर् जग्धिः सुरापानसमानि षट् ।।

11.57 निक्षेपस्यापहरणम् नराश्व रजतस्य च । भूमि वज्र मणीनाम् च रुक्मस्तेयसमं स्मृतम् ।।

11.58 रेतःसेकः स्वयोनीषु कुमारीष्व् अन्त्यजासु च । सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ।।

11.59 गोवधो ‘अयाज्य संयाज्यम् पारदार्यात्मविक्रयः । गुरु मातृ पितृ त्यागः स्वाध्यायाग्न्योः सुतस्य च ।।

11.60 परिवित्तितानुजे ‘अनूढे परिवेदनम् एव च । तयोर् दानं च कन्यायास् तयोर् एव च याजनम् ।।

11.61 कन्याया दूषणं चैव वार्धुष्यं व्रतलोपनम् । तडागाराम दाराणाम् अपत्यस्य च विक्रयः ।।

11.62 व्रात्यता बान्धवत्यागो भृत्याध्यापनम् एव च । भृत्या चाध्ययनादानम् अपण्यानां च विक्रयः ।। म्भृताच् चाध्ययनादानम्

11.63 सर्वाकारेष्व् अधीकारो महायन्त्रप्रवर्तनम् । हिम्सौषधीनाम् स्त्र्याजीवो ‘अभिचारो मूलकर्म च ।।

11.64 इन्धनार्थम् अशुष्काणां द्रुमाणाम् अवपातनम् । आत्मार्थं च क्रियारम्भो निन्दितान्नादनं तथा ।।

11.65 अनाहिताग्निता स्तेयम् ऋणानाम् अनपक्रिया । असच् शाष्त्राधिगमनम् कौशीलव्यस्य च क्रिया ।।

11.66 धान्य कुप्य पशुस्तेयम् मद्यपस्त्रीनिषेवणम् । स्त्री शूद्र विश् क्षत्रवधो नास्तिक्यं चोपपातकम् ।।

11.67 ब्राह्मणस्य रुजः कृत्वा घ्रातिर् अघ्रेय मद्ययोः । म्रुजःकृत्यम् जैह्म्यं च मैथुनं पुंसि जातिभ्रंशकरं स्मृतम् ।।

11.68 खराश्वोष्ट्र मृगेभानाम् अजाविकवधस् तथा । संकरीकरणं ज्ञेयं मीनाहि महिषस्य च ।।

11.69 निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् । अपात्रीकरणं ज्ञेयम् असत्यस्य च भाषणम् ।।

11.70 कृमि कीट वयो हत्या मद्यानुगतभोजनम् । फलैधः कुसुम स्तेयम् अधैर्यं च मलावहम् ।।

11.71 एतान्य् एनांसि सर्वाणि यथोक्तानि पृथक् पृथक््् यैर् यैर् व्रतैर् अपोह्यन्ते तानि सम्यङ् निबोधत ।।

11.72 ब्रह्महा द्वादश समाः कुटीं कृत्वा वने वसेत् । भैक्षाश्य् आत्मविशुद्ध्यर्थं कृत्वा शवशिरो ध्वजम् ।।

11.73 लक्ष्यं शस्त्रभृतां वा स्याद् विदुषाम् इच्छयात्मनः । प्रास्येद् आत्मानम् अग्नौ वा समिद्धे त्रिर् अवाक् शिराः ।।

11.74 यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा । अभिजिद् विश्वजिद्भ्याम् वा त्रिवृताग्निष्टुतापि वा ।।

11.75 जपन् वान्यतमम् वेदं योजनानां शतं व्रजेत् । ब्रह्महत्यापनोदाय मितभुएष नियतेन्द्रियः ।।

11.76 सर्वस्वं वेदविदुषे ब्राह्मणायोपपादयेत् । धनं हि जीवनायालम् गृहं वा स परिच्छदम् ।।

11.77 हविष्यभुग् वानुसरेत् प्रतिस्रोतः सरस्वतीम् । जपेद् वा नियताहारस् त्रिर् वै वेदस्य संहिताम् ।।

11.78 कृत वापनो निवसेद् ग्रामान्ते गोव्रजे ‘अपि वा । आश्रमे वृक्षमूले वा गो ब्राह्मणहिते रतः ।।

11.79 ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान् परित्यजेत् । म्संयक् प्राणान् मुच्यते ब्रह्महत्याया गोप्ता गोर् ब्राह्मणस्य च ।।

11.80 त्रिवारं प्रतिरोद्धा वा सर्वस्वम् अवजित्य वा । म्त्र्यवरम् विप्रस्य तन्निमित्ते वा प्राणालाभे विमुच्यते ।। म्प्राणालाभे ‘अपि मुच्यते

11.81 एवं दृढ व्रतो नित्यं ब्रह्मचारी समाहितः । समाप्ते द्वादशे वर्षे ब्रह्महत्याम् व्यपोहति ।।

11.82 शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे । स्वम् एनो ‘अवभृथस्नातो हयमेधे विमुच्यते ।।

11.83 धर्मस्य ब्राह्मणो मूलम् अग्रं राजन्य उच्यते । तस्मात् समागमे तेषाम् एनो विख्याप्य शुध्यति ।।

11.84 ब्रह्मणः संभवेनैव देवानाम् अपि दैवतम् । प्रमाणं चैव लोकस्य ब्रह्मात्रैव हि कारणम् ।।

11.85 तेषां वेदविदो ब्रूयुस् त्रयो ‘अप्य् एनः सुनिष्कृतिम् । सा तेषां पावनाय स्यात् पवित्रा विदुषां हि वाक् ।। म्पवित्रम्

11.86 अतो ‘अन्यतमम् आस्थाय विधिं विप्रः समाहितः । ब्रह्महत्याकृतं पापं व्यपोहत्य् आत्मवत्तया ।।

11.87 हत्वा गर्भम् अविज्ञातम् एतद् एव व्रतं चरेत् । राजन्य वैश्यौ चेजानाव् आत्रेयीम् एव च स्त्रियम् ।।

11.88 उक्त्वा चैवानृतम् साक्ष्ये प्रतिरुध्य गुरुं तथा । म्प्रतिरभ्य अपहृत्य च निःक्षेपं कृत्वा च स्त्री सुहृत् वधम् ।। म्निक्षेपम्

11.89 इयं विशुद्धिर् उदिता प्रमाप्य अकामतो द्विजम् । कामतो ब्राह्मणवधे निष्कृतिर् न विधीयते ।।

11.90 सुरां पीत्वा द्विजो मोहाद् अग्नि वर्णाम् सुरां पिबेत् । तया स काये निर्दग्धे मुच्यते किल्बिषात् ततः ।।

11.91 गोमूत्रम् अग्नि वर्णम् वा पिबेद् उदकम् एव वा । पयो घृतं वा मरणाद् गोशकृद्रसम् एव वा ।।

11.92 कणान् वा भक्षयेद् अब्दं पिण्याकं वा सकृत् निशि । सुरापानापनुत्त्यर्थं वालवासा जटी ध्वजी ।।

11.93 सुरा वै मलम् अन्नानां पाप्मा च मलम् उच्यते । तस्माद् ब्राह्मण राजन्यौ वैश्यश् च न सुरां पिबेत् ।।

11.94 गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ।।

11.95 यक्ष रक्षः पिशाचान्नम् मद्यं मांसं सुरासवम् । तद् ब्राह्मणेन नात्तव्यम् देवानाम् अश्नता हविः ।।

11.96 अमेध्ये वा पतेन् मत्तो वैदिकं वाप्य् उदाहरेत् । अकार्यम् अन्यत् कुर्याद् वा ब्राह्मणो मदमोहितः ।।

11.97 यस्य कायगतं ब्रह्म मद्येनाप्लाव्यते सकृत् । तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च स गच्छति ।।

11.98 एषा विचित्राभिहिता सुरापानस्य निष्कृतिः । अत ऊर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिष्कृतिम् ।।

11.99 सुवर्णस्तेयकृद् विप्रो राजानम् अभिगम्य तु । स्वकर्म ख्यापयन् ब्रूयात् माम् भवान् अनुशास्त्व् इति ।।

11.100 गृहीत्वा मुसलं राजा सकृद्द् हन्यात् तु तं स्वयम् । वधेन शुध्यति स्तेनो ब्राह्मणस् तपसैव तु ।।

11.101 तपसापनुनुत्सुस् तु सुवर्णस्तेयजं मलम् । चीरवासा द्विजो ‘अरण्ये चरेद् ब्रह्महणो व्रतम् ।।

11.102 एतैर् व्रतैर् अपोहेत पापं स्तेयकृतं द्विजः । गुरुस्त्रीगमनीयम् तु व्रतैर् एभिर् अपानुदेत् ।।

11.103 गुरुतल्प्य् अभिभाष्य एनस् तप्ते स्वप्याद् अयोमये । म्तल्पे स्वप्याद् सूर्मीं ज्वलन्तीं स्वाश्लिष्येन् मृत्युना स विशुध्यति ।। म्वाश्लिष्येन्

11.104 स्वयं वा शिष्ण वृषणाव् उत्कृत्य आधाय चाञ्जलौ । नैरृतीं दिशम् आतिष्ठेद् आ निपाताद् अजिह्मगः ।।

11.105 खट्वाङ्गी चीर वासा वा श्मश्रुलो विजने वने । प्राजापत्यं चरेत् कृच्छ्रम् अब्दम् एकं समाहितः ।।

11.106 चान्द्रायणं वा त्रीन् मासान् अभ्यस्येन् नियतेन्द्रियः । हविष्येण यवाग्वा वा गुरुतल्पापनुत्तये ।।

11.107 एतैर् व्रतैर् अपोहेयुर् महापातकिनो मलम् । उपपातकिनस् त्व् एवम् एभिर् नानाविधैर् व्रतैः ।।

11.108 उपपातकसंयुक्तो गोघ्नो मासं यवान् पिबेत् । कृत वापो वसेद् गोष्ठे चर्मणा तेन संवृतः ।।

11.109 चतुर्थकालम् अश्नीयाद् अ क्षार लवणम् मितम् । गोमूत्रेणाचरेत् स्नानं द्वौ मासौ नियतेन्द्रियः ।।

11.110 दिवानुगच्छेद् गास् तास् तु तिष्ठन्न् ऊर्ध्वं रजः पिबेत् । शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनं वसेत् ।। म्वीरासनो

11.111 तिष्ठन्तीष्व् अनुतिष्ठेत् तु व्रजन्तीष्व् अप्य् अनुव्रजेत् । आसीनासु तथासीनो नियतो वीत मत्सरः ।।

11.112 आतुराम् अभिशस्तां वा चौर व्याघ्रादिभिर् भयैः । पतितां पङ्कलग्नं वा सर्वोपायैर् विमोचयेत् ।। K:सर्वप्राणैर्

11.113 उष्णे वर्षति शीते वा मारुते वाति वा भृशम् । न कुर्वीत आत्मनस् त्राणं गोर् अ कृत्वा तु शक्तितः ।।

11.114 आत्मनो यदि वान्येषाम् गृहे क्षेत्रे ‘अथ वा खले । भक्षयन्तीं न कथयेत् पिबन्तं चैव वत्सकम् ।।

11.115 अनेन विधिना यस् तु गोघ्नो गाम् अनुगच्छति । स गोहत्याकृतं पापं त्रिभिर् मासैर् व्यपोहति ।।

11.116 वृषभैकादशा गाश् च दद्यात् सुचरित व्रतः । अ विद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ।।

11.117 एतद् एव व्रतं कुर्युर् उपपातकिनो द्विजाः । अवकीर्णिवर्ज्यं शुद्ध्यर्थं चान्द्रायणम् अथापि वा ।। म् अवकीर्णिवर्जम्

11.118 अवकीर्णी तु काणेन गर्दभेन चतुष्पथे । पाकयज्ञविधानेन यजेत निरृतिं निशि ।।

11.119 हुत्वा अग्नौ विधिवद्द् होमान् अन्ततश् च समेत्य् ऋचा । वातेन्द्र गुरु वह्नीनाम् जुहुयात् सर्पिषाहुतीः ।।

11.120 कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः । अतिक्रमं व्रतस्याहुर् धर्मज्ञा ब्रह्मवादिनः ।।

11.121 मारुतं पुरुहूतं च गुरुं पावकम् एव च । चतुरो व्रतिनो ‘अभ्येति ब्राह्मं तेजो ‘अवकीर्णिनः ।।

11.122 एतस्मिन्न् एनसि प्राप्ते वसित्वा गर्दभाजिनम् । सप्तागारांश् चरेद् भैक्षं स्वकर्म परिकीर्तयन् ।।

11.123 तेभ्यो लब्धेन भैक्षेण वर्तयन्न् एककालिकम् । उपस्पृशंस् त्रिषवणं त्व् अब्देन स विशुध्यति ।। म्त्रिषवणम् अब्देन

11.124 जातिभ्रंशकरं कर्म कृत्वा अन्यतमम् इच्छया । चरेत् सांतपनं कृच्छ्रं प्राजापत्यम् अनिच्छया ।।

11.125 संकरापात्रकृत्यासु मासं शोधनम् ऐन्दवम् । म् ऐन्दवः मलिनीकरणीयेषु तप्तः स्याद् यावकैस् त्र्यहम् ।।

11.126 तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः । वैश्ये ‘अष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस् तु षोडशः ।।

11.127 अकामतस् तु राजन्यं विनिपात्य द्विजोत्तमः । वृषभैकसहस्रा गा दद्यात् सुचरित व्रतः ।।

11.128 त्र्यब्दं चरेद् वा नियतो जटी ब्रह्महणो व्रतम् । वसन् दूरतरे ग्रामाद् वृक्षमूल निकेतनः ।।

11.129 एतद् एव चरेद् अब्दं प्रायश्चित्तं द्विजोत्तमः । प्रमाप्य वैश्यं वृत्तस्थं दद्याच् चैकशतम् ।। म्दद्याद् वैकशतम् गवाम्

11.130 एतद् एव व्रतं कृत्स्नं षण्मासाञ् शूद्रहा चरेत् । वृषभैकादशा वापि दद्याद् विप्राय गाः सिताः ।।

11.131 मार्जार नकुलौ हत्वा चाषं मण्डूकम् एव च । श्व गोधोलूक काकाम्श् च शूद्रहत्याव्रतं चरेत् ।।

11.132 पयः पिबेत् त्रिरात्रं वा योजनं वाध्वनो व्रजेत् । उपस्पृशेत् स्रवन्त्यां वा सूक्तं वाब् दैवतम् जपेत् ।।

11.133 अभ्रिं कार्ष्णायसीं दद्यात् सर्पं हत्वा द्विजोत्तमः । पलालभारकं षण्ढे सैसकं चैकमाषकम् ।।

11.134 घृतकुम्भं वराहे तु तिलद्रोणं तु तित्तिरौ । शुके द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम् ।।

11.135 हत्वा हंसं बलाकां च बकं बर्हिणम् एव च । वानरं श्येन भासौ च स्पर्शयेद् ब्राह्मणाय गाम् ।।

11.136 वासो दद्याद्द् हयं हत्वा पञ्च नीलान् वृषान् गजम् । अज मेषाव् अनड्वाहं खरं हत्वा एकहायनम् ।।

11.137 क्रव्यादांस् तु मृगान् हत्वा धेनुं दद्यात् पयस्विनीम् । अक्रव्यादान् वत्सतरीम् उष्ट्रं हत्वा तु कृष्णलम् ।।

11.138 जीन कार्मुक बस्तावीन् पृथग् दद्याद् विशुद्धये । चतुर्णाम् अपि वर्णानां नारीर् हत्वा अन् अवस्थिताः ।।

11.139 दानेन वधनिर्णेकं सर्पादीनाम् अ शक्नुवन् । एकैकशश् चरेत् कृच्छ्रं द्विजः पापापनुत्तये ।।

11.140 अस्थिमतां तु सत्त्वानां सहस्रस्य प्रमापणे । पूर्णे चानस्य् अन् अस्थ्नाम् तु शूद्रहत्याव्रतं चरेत् ।।

11.141 किं चिद् एव तु विप्राय दद्याद् अस्थिमतां वधे । अन् अस्थ्नाम् चैव हिंसायां प्राणायामेन शुध्यति ।।

11.142 फलदानां तु वृक्षाणां छेदने जप्यम् ऋच् शतम् । गुल्म वल्ली लतानाम् च पुष्पितानां च वीरुधाम् ।।

11.143 अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः । फल पुष्पोद्भवानाम् च घृतप्राशो विशोधनम् ।।

11.144 कृष्तजानाम् ओषधीनां जातानां च स्वयं वने । वृथालम्भे ‘अनुगच्छेद् गां दिनम् एकं पयो व्रतः ।।

11.145 एतैर् व्रतैर् अपोह्यं स्याद् एनो हिम्सा समुद्भवम् । ज्ञानाज्ञानकृतम् कृत्स्नं शृणुत अनाद्यभक्षणे ।।

11.146 अज्ञानाद् वारुणीं पीत्वा संस्कारेणैव शुध्यति । मतिपूर्वम् अनिर्देश्यं प्राणान्तिकम् इति स्थितिः ।।

11.147 अपः सुराभाजनस्था मद्यभाण्डस्थितास् तथा । पञ्चरात्रं पिबेत् पीत्वा शङ्खपुष्पीशृतं पयः ।।

11.148 स्पृष्ट्व दत्त्वा च मदिरां विधिवत् प्रतिगृह्य च । शूद्रोच्छिष्टाश् च पीत्वा अपः कुशवारि पिबेत् त्र्यहम् ।।

11.149 ब्राह्मणस् तु सुरापस्य गन्धम् आघ्राय सोमपः । प्राणान् अप्सु त्रिर् आयम्य घृतं प्राश्य विशुध्यति ।।

11.150 अज्ञानात् प्राश्य विष् मूत्रम् सुरासंस्पृष्टम् एव च । पुनः संस्कारम् अर्हन्ति त्रयो वर्णा द्विजातयः ।।

11.151 वपनं मेखला दण्डो भैक्षचर्या व्रतानि च । म्भैक्ष्यचर्या निवर्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि ।।

11.152 अभोज्यानां तु भुक्त्वा अन्नम् स्त्री शूद्रोच्छिष्टम् एव च । जग्ध्वा मांसम् अभक्ष्यं च सप्तरात्रं यवान् पिबेत् ।।

11.153 शुक्तानि च कषायांश् च पीत्वा मेध्यान्य् अपि द्विजः । तावद् भवत्य् अ प्रयतो यावत् तन् न व्रजत्य् अधः ।।

11.154 विड्वराह खरोष्त्राणाम् गोमायोः कपि काकयोः । प्राश्य मूत्र पुरीषाणि द्विजश् चान्द्रायणं चरेत् ।।

11.155 शुष्काणि भुक्त्वा मांसानि भौमानि कवकानि च । अज्ञातं चैव सूनास्थम् एतद् एव व्रतं चरेत् ।।

11.156 क्रव्याद सूकरोष्ट्राणाम् कुक्कुटानां च भक्षणे । नर काक खराणाम् च तप्तकृच्छ्रं विशोधनम् ।।

11.157 मासिकान्नं तु यो ‘अश्नीयाद् असमावर्तको द्विजः । स त्रीण्य् अहान्य् उपवसेद् एकाहं चोदके वसेत् ।।

11.158 ब्रह्मचारी तु यो ‘अश्नीयान् मधु मांसं कथं चन । म्व्रतचारी तु स कृत्वा प्राकृतं कृच्छ्रं व्रतशेषं समापयेत् ।।

11.159 बिडाल काकाखूच्छिष्टम् जग्ध्वा श्व नकुलस्य च । केश कीटावपन्नम् च पिबेद् ब्रह्मसुवर्चलाम् ।।

11.160 अभोज्यम् अन्नं नात्तव्यम् आत्मनः शुद्धिम् इच्छता । अज्ञानभुक्तं तूत्तार्यम् शोध्यं वाप्य् आशु शोधनैः ।।

11.161 एषो ‘अनाद्यादनस्योक्तो व्रतानां विविधो विधिः । स्तेयदोषापहर्त्qणां व्रतानां श्रूयतां विधिः ।।

11.162 धान्यान्न धनचौर्याणि कृत्वा कामाद् द्विजोत्तमः । स्वजातीयगृहाद् एव कृच्छ्राब्देन विशुध्यति ।।

11.163 मनुष्याणां तु हरणे स्त्रीणां क्षेत्र गृहस्य च । कूप वापीजलानाम् च शुद्धिश् चान्द्रायणं स्मृतम् ।।

11.164 द्रव्याणाम् अल्प साराणाम् स्तेयं कृत्वान्यवेश्मतः । म्कृत्वा अन्यवेश्मनि चरेत् सांतपनं कृच्छ्रं तन् निर्यात्य् आत्मशुद्धये ।।

11.165 भक्ष्य भोज्यापहरणे यान शय्यासनस्य च । पुष्प मूल फलानाम् च पञ्चगव्यं विशोधनम् ।।

11.166 तृण काष्ठ द्रुमाणाम् च शुष्कान्नस्य गुडस्य च । चेल चर्मामिषाणाम् च त्रिरात्रं स्याद् अभोजनम् ।। म्चैल चर्मामिक्षाणाम्

11.167 मणि मुक्ता प्रवालानाम् ताम्रस्य रजतस्य च । अयः काम्स्योपलानाम् च द्वादशाहं कणान्नता ।।

11.168 कार्पास कीटजोर्णानाम् द्विशफैकशफस्य च । म्द्वेशफैकखुरस्य च पक्षि गन्धौषधीनाम् च रज्ज्वाश् चैव त्र्यहं पयः ।।

11.169 एतैर् व्रतैर् अपोहेत पापं स्तेयकृतं द्विजः । अगम्यागमनीयं तु व्रतैर् एभिर् अपानुदेत् ।।

11.170 गुरुतल्पव्रतं कुर्याद् रेतः सिक्त्वा स्वयोनिषु । सख्युः पुत्रस्य च स्त्रीषु कुमारीष्व् अन्त्यजासु च ।।

11.171 पैतृस्वसेयीं भगिनीं स्वस्रीयां मातुर् एव च । मातुश् च भ्रातुस् तनयां गत्वा चान्द्रायणं चरेत् ।। भ्रातुर् आप्तस्य गत्वा

11.172 एतास् तिस्रस् तु भार्यार्थे नोपयच्छेत् तु बुद्धिमान् । ज्ञातित्वेनान् उपेयास् ताः पतति ह्य् उपयन्न् अधः ।।

11.173 अमानुषीषू पुरुष उदक्यायाम् अयोनिषु । रेतः सिक्त्वा जले चैव कृच्छ्रं सांतपनं चरेत् ।।

11.174 मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः । गो याने ‘अप्सु दिवा चैव स वासाः स्नानम् आचरेत् ।।

11.175 चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च । पतत्य् अज्ञानतो विप्रो ज्ञानात् साम्यं तु गच्छति ।।

11.176 विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्याद् एकवेश्मनि । यत् पुंसः परदारेषु तच् चैनाम् चारयेद् व्रतम् ।।

11.177 सा चेत् पुनः प्रदुष्येत् तु सदृशेनोपमन्त्रिता । K:सदृशेनोपयन्त्रिता कृच्छ्रं चान्द्रायणं चैव तद् अस्याः पावनं स्मृतम् ।।

11.178 यत् करोत्य् एकरात्रेण वृषलीसेवनाद् द्विजः । तद् भैक्षभुज् जपन् नित्यं त्रिभिर् वर्षैर् व्यपोहति ।।

11.179 एषा पापकृताम् उक्ता चतुर्णाम् अपि निष्कृतिः । पतितैः संप्रयुक्तानाम् इमाः शृणुत निष्कृतीः ।।

11.180 संवत्सरेण पतति पतितेन सहाचरन् । याजनाध्यापनाद् यौनात् न तु यानासनाशनात् ।।

11.181 यो येन पतितेनैषाम् संसर्गं याति मानवः । स तस्यैव व्रतं कुर्यात् तत्संसर्गविशुद्धये ।।

11.182 पतितस्योदकम् कार्यं सपिण्डैर् बान्धवैर् बहिः । निन्दिते ‘अहनि सायाह्ने ज्ञात्यृत्विज् गुरुसंनिधौ ।।

11.183 दासी घटम् अपां पूर्णं पर्यस्येत् प्रेतवत् पदा । अहोरात्रम् उपासीरन्न् अशौचं बान्धवैः सह ।।

11.184 निवर्तेरंश् च तस्मात् तु संभाषण सहासने । दायाद्यस्य प्रदानं च यात्रा चैव हि लौकिकी ।।

11.185 ज्येष्ठता च निवर्तेत ज्येष्ठावाप्यं च यद् धनम् । म्यद् वसु ज्येष्ठांशं प्राप्नुयाच् चास्य यवीयान् गुणतो ‘अधिकः ।।

11.186 प्रायश्चित्ते तु चरिते पूर्णकुम्भम् अपां नवम् । तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये ।।

11.187 स त्व् अप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकम् । सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत् ।।

11.188 एतद् एव विधिं कुर्याद् योषित्सु पतितास्व् अपि । म् एतम् एव विधिं वस्त्रान्न पानम् देयं तु वसेयुश् च गृहान्तिके ।।

11.189 एनस्विभिर् अ निर्णिक्तैर् नार्थम् किं चित् सहाचरेत् । कृतनिर्णेजनांश् चैव न जुगुप्सेत कर्हि चित् ।। म्कृतनिर्णेजनाम्श् चैतान्

11.190 बालघ्नांश् च कृतघ्नांश् च विशुद्धान् अपि धर्मतः । शरणागतहन्त्qंश् च स्त्रीहन्त्qंश् च न संवसेत् ।।

11.191 येषां द्विजानां सावित्री नानूच्येत यथाविधि । तांश् चारयित्वा त्रीन् कृच्छ्रान् यथाविध्युपनाययेत् ।।

11.192 प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास् तु ये द्विजाः । ब्रह्मणा च परित्यक्तास् तेषाम् अप्य् एतद् आदिशेत् ।।

11.193 यद् गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् । तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ।।

11.194 जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः । मासं गोष्ठे पयः पीत्वा मुच्यते ‘असत्प्रतिग्रहात् ।।

11.195 उपवासकृशं तं तु गोव्रजात् पुनर् आगतम् । प्रणतं प्रति पृच्छेयुः साम्यं सौम्येच्छसि इति किम् ।।

11.196 सत्यम् उक्त्वा तु विप्रेषु विकिरेद् यवसं गवाम् । गोभिः प्रवर्तिते तीर्थे कुर्युस् तस्य परिग्रहम् ।।

11.197 व्रात्यानां याजनं कृत्वा परेषाम् अन्त्यकर्म च । अभिचारम् अहीनं च त्रिभिः कृच्छ्रैर् व्यपोहति ।।

11.198 शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः । संवत्सरं यवाहारस् तत् पापम् अपसेधति ।।

11.199 श्व शृगाल खरैर् दष्टो ग्राम्यैः क्रव्याद्भिर् एव च । नराश्वोष्ट्र वराहैश् च प्राणायामेन शुध्यति ।।

11.200 षष्ठान्नकालता मासं संहिताजप एव वा । होमाश् च सकला नित्यम् अपाङ्क्त्यानां विशोधनम् ।। म्होमाश् च शाकला

11.201 उष्ट्रयानं समारुह्य खरयानं तु कामतः । स्नात्वा तु विप्रो दिग् वासाः प्राणायामेन शुध्यति ।।

11.202 विनाद्भिर् अप्सु वाप्य् आर्तः शारीरं संनिषेव्य च । स चैलो बहिर् आप्लुत्य गाम् आलभ्य विशुध्यति ।।

11.203 वेदोदितानाम् नित्यानां कर्मणां समतिक्रमे । स्नातकव्रतलोपे च प्रायश्चित्तम् अभोजनम् ।।

11.204 हुङ्कारं ब्राह्मणस्योक्त्वा त्वम्कारं च गरीयसः । स्नात्वा अन् अश्नन्न् अहः शेषम् अभिवाद्य प्रसादयेत् ।।

11.205 ताडयित्वा तृणेनापि कण्ठे वाबध्य वाससा । विवादे वा विनिर्जित्य प्रणिपत्य प्रसादयेत् ।।

11.206 अवगूर्य त्व् अब्दशतं सहस्रम् अभिहत्य च । जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ।।

11.207 शोणितं यावतः पांसून् संगृह्णाति महीतले । तावन्त्य् अब्दसहस्राणि तत्कर्ता नरके वसेत् ।। म्नरके व्रजेत्

11.208 अवगूर्य चरेत् कृच्छ्रम् अतिकृच्छ्रं निपातने । कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम् ।।

11.209 अनुक्तनिष्कृतीनां तु पापानाम् अपनुत्तये । शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत् ।।

11.210 यैर् अभ्युपायैर् एनांसि मानवो व्यपकर्षति । तान् वो ‘अभ्युपायान् वक्ष्यामि देवर्षि पितृसेवितान् ।।

11.211 त्र्यहं प्रातस् त्र्यहं सायं त्र्यहम् अद्याद् अयाचितम् । त्र्यहं परं च नाश्नीयात् प्राजापत्यं चरन् द्विजः ।।

11.212 गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासश् च कृच्छ्रं सांतपनं स्मृतम् ।।

11.213 एकैकं ग्रासम् अश्नीयात् त्र्यहाणि त्रीणि पूर्ववत् । त्र्यहं चोपवसेद् अन्त्यम् अतिकृच्छ्रं चरन् द्विजः ।।

11.214 तप्तकृच्छ्रं चरन् विप्रो जल क्षीर घृतानिलान् । प्रति त्र्यहम् पिबेद् उष्णान् सकृत्स्नायी समाहितः ।।

11.215 यतात्मनो ‘अप्रमत्तस्य द्वादशाहम् अभोजनम् । पराको नाम कृच्छ्रो ‘अयं सर्वपापापनोदनः ।।

11.216 एकैकं ह्रासयेत् पिण्डं कृष्णे शुक्ले च वर्धयेत् । उपस्पृशंस् त्रिषवणम् एतच् चाण्द्रायणम् स्मृतम् ।।

11.217 एतम् एव विधिं कृत्स्नम् आचरेद् यवमध्यमे । शुक्लपक्षादिनियतश् चरंश् चान्द्रायणं व्रतम् ।।

11.218 अष्टाव् अष्टौ समश्नीयात् पिण्डान् मध्यंदिने स्थिते । नियतात्मा हविष्याशी यतिचान्द्रायणं चरन् ।।

11.219 चतुरः प्रातर् अश्नीयात् पिण्डान् विप्रः समाहितः । चतुरो ‘अस्तम् इते सूर्ये शिशुचान्द्रायणं स्मृतम् ।।

11.220 यथा कथं चित् पिण्डानां तिस्रो ‘अशीतीः समाहितः । मासेनाश्नन् हविष्यस्य चन्द्रस्यैति सलोकताम् ।।

11.221 एतद् रुद्रास् तथादित्या वसवश् चाचरन् व्रतम् । सर्वाकुशलमोक्षाय मरुतश् च महर्षिभिः ।।

11.222 महाव्याहृतिभिर् होमः कर्तव्यः स्वयम् अन्वहम् । अहिंसा सत्यम् अक्रोधम् आर्जवं च समाचरेत् ।।

11.223 त्रिर् अह्नस् त्रिर् निशायां च स वासा जलम् आविशेत् । स्त्री शूद्र पतिताम्श् चैव नाभिभाषेत कर्हि चित् ।।

11.224 स्थानासनाभ्याम् विहरेद् अशक्तो ‘अधः शयीत वा । ब्रह्मचारी व्रती च स्याद् गुरु देव द्विजार्चकः ।।

11.225 सावित्रीं च जपेन् नित्यं पवित्राणि च शक्तितः । सर्वेष्व् एव व्रतेष्व् एवं प्रायश्चित्तार्थम् आदृतः ।। M11 226a 225Ma / एतैर् द्विजातयः शोध्या व्रतैर् आविष्कृतैनसः । अनाविष्कृत पापाम्स् तु मन्त्रैर् होमैश् च शोधयेत् ।।

11.227 ख्यापनेनानुतापेन तपसाध्ययनेन च । पापकृत् मुच्यते पापात् तथा दानेन चापदि ।।

11.228 यथा यथा नरो ‘अधर्मं स्वयं कृत्वा अनुभाषते । तथा तथा त्वचेवाहिस् तेनाधर्मेण मुच्यते ।।

11.229 यथा यथा मनस् तस्य दुष्कृतं कर्म गर्हति । तथा तथा शरीरं तत् तेनाधर्मेण मुच्यते ।।

11.230 कृत्वा पापं हि संतप्य तस्मात् पापात् प्रमुच्यते । नैवम् कुर्यां पुनर् इति निवृत्त्या पूयते तु सः ।।

11.231 एवं संचिन्त्य मनसा प्रेत्य कर्मफलोदयम् । मनो वाच् मूर्तिभिर् नित्यं शुभं कर्म समाचरेत् ।।

11.232 अज्ञानाद् यदि वा ज्ञानात् कृत्वा कर्म विगर्हितम् । तस्माद् विमुक्तिम् अन्विच्छन् द्वितीयं न समाचरेत् ।।

11.233 यस्मिन् कर्मण्य् अस्य कृते मनसः स्याद् अलाघवम् । तस्मिंस् तावत् तपः कुर्याद् यावत् तुष्टिकरं भवेत् ।।

11.234 तपोमूलम् इदं सर्वं दैव मानुषकम् सुखम् । तपोमध्यं बुधैः प्रोक्तं तपो ‘अन्तम् वेददर्शिभिः ।।

11.235 ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रक्षणम् । वैश्यस्य तु तपो वार्ता तपः शूद्रस्य सेवनम् ।।

11.236 ऋषयः संयतात्मानः फल मूलानिलाशनाः । तपसैव प्रपश्यन्ति त्रैलोक्यं स चराचरम् ।।

11.237 औषधान्य् अगदो विद्या दैवी च विविधा स्थितिः । तपसैव प्रसिध्यन्ति तपस् तेषां हि साधनम् ।।

11.238 यद् दुस्तरं यद् दुरापं यद् दुर्गं यच् च दुष्करम् । सर्वं तु तपसा साध्यं तपो हि दुरतिक्रमम् ।। म्सर्वम् तत् तपसा

11.239 महापातकिनश् चैव शेषाश् चाकार्यकारिणः । तपसैव सुतप्तेन मुच्यन्ते किल्बिषात् ततः ।।

11.240 कीताश् चाहि पतंगाश् च पशवश् च वयांसि च । स्थावराणि च भूतानि दिवं यान्ति तपोबलात् ।।

11.241 यत् किं चिद् एनः कुर्वन्ति मनो वाच् मूर्तिभिर् जनाः । म्मनो वाच् कर्मभिर् तत् सर्वं निर्दहन्त्य् आशु तपसैव तपो धनाः ।।

11.242 तपसैव विशुद्धस्य ब्राह्मणस्य दिवौकसः । इज्याश् च प्रतिगृह्णन्ति कामान् संवर्धयन्ति च ।।

11.243 प्रजापतिर् इदं शास्त्रं तपसैवासृजत् प्रभुः । तथैव वेदान् ऋषयस् तपसा प्रतिपेदिरे ।।

11.244 इत्य् एतत् तपसो देवा महाभाग्यं प्रचक्षते । म्यद् एतत् तपसो सर्वस्यास्य प्रपश्यन्तस् तपसः पुण्यम् उत्तमम् ।। म्पुण्यम् उद्भवम्

11.245 वेदाभ्यासो ‘अन्वहं शक्त्या महायज्ञक्रिया क्षमा । नाशयन्त्य् आशु पापानि महापातकजान्य् अपि ।।

11.246 यथैधस् तेजसा वह्निः प्राप्तं निर्दहति क्षणात् । तथा ज्ञानाग्निना पापं सर्वं दहति वेदवित् ।।

11.247 इत्य् एतद् एनसाम् उक्तं प्रायश्चित्तं यथाविधि । अत ऊर्ध्वं रहस्यानाम् प्रायश्चित्तं निबोधत ।।

11.248 स व्याहृति प्रणवकाः प्राणायामास् तु षोडश । अपि भ्रूणहनं मासात् पुनन्त्य् अहर् अहः कृताः ।।

11.249 कौत्सं जप्त्वा अप इत्य् एतद् वसिष्ठं च प्रतीत्य् ऋचम् । माहित्रं शुद्धवत्यश् च सुरापो ‘अपि विशुध्यति ।।

11.250 सकृज्जप्त्वा आस्यवामीयम् शिवसंकल्पम् एव च । अपहृत्य सुवर्णं तु क्षणाद् भवति निर्मलः ।।

11.251 हविष्पान्तीयम् अभ्यस्य न तमं ह इतीति च । जपित्वा पौरुषं सूक्तं मुच्यते गुरुतल्पगः

11.252 एनसां स्थूल सूक्ष्माणाम् चिकीर्षन्न् अपनोदनम् । अवेत्य् ऋचं जपेद् अब्दं यत् किं चेदम् इतीति वा ।।

11.253 प्रतिगृह्याप्रतिग्राह्यम् भुक्त्वा चान्नम् विगर्हितम् । जपंस् तरत्समन्दीयं पूयते मानवस् त्र्यहात् ।।

11.254 सोमारौद्रम् तु बह्व् एनाः मासम् अभ्यस्य शुध्यति । म्समाम् अभ्यस्य स्रवन्त्याम् आचरन् स्नानम् अर्यम्णाम् इति च तृचम् ।।

11.255 अब्दार्धम् इन्द्रम् इत्य् एतद् एनस्वी सप्तकं जपेत् । अप्रशस्तं तु कृत्वा अप्सु मासम् आसीत भैक्षभुक् ््

11.256 मन्त्रैः शाकलहोमीयैर् अब्दं हुत्वा घृतं द्विजः । सुगुर्व् अप्य् अपहन्त्य् एनो जप्त्वा वा नम इत्य् ऋचम् ।।

11.257 महापातकसंयुक्तो ‘अनुगच्छेद् गाः समाहितः । अभ्यस्य अब्दम् पावमानीर् भैक्षाहारो विशुध्यति ।।

11.258 अरण्ये वा त्रिर् अभ्यस्य प्रयतो वेदसंहिताम् । मुच्यते पातकैः सर्वैः पराकैः शोधितस् त्रिभिः ।।

11.259 त्र्यहं तूपवसेद् युक्तस् त्रिर् अह्नो ‘अभ्युपयन्न् अपः । मुच्यते पातकैः सर्वैस् त्रिर् जपित्वाघमर्षणम् ।।

11.260 यथाश्वमेधः क्रतुराज् शर्वपापाप नोदनः । तथाघमर्षणम् सूक्तं सर्वपापाप नोदनम् ।।

11.261 हत्वा लोकान् अपीमाम्स् त्रीन् अश्नन्न् अपि यतस् ततः । ऋग्वेदं धारयन् विप्रो नैनः प्राप्नोति किं चन ।।

11.262 ऋक्संहितां त्रिर् अभ्यस्य यजुषां वा समाहितः । साम्नां वा स रहस्यानाम् सर्वपापैः प्रमुच्यते ।।

11.263 यथा महाह्रदं प्राप्य क्षिप्तं लोष्टं विनश्यति । तथा दुश्चरितं सर्वं वेदे त्रिवृति मज्जति ।।

11.264 ऋचो यजूंषि चान्यानि सामानि विविधानि च । एष ज्ञेयस् त्रिवृद्वेदो यो वेद एनम् स वेदवित् ।।

11.265 आद्यं यत् त्र्यक्षरं ब्रह्म त्रयी यस्मिन् प्रतिष्ठिता । स गुह्यो ‘अन्यस् त्रिवृद्वेदो यस् तं वेद स वेदवित् ।।

*********

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.