[highlight_content]

मनुस्मृतिः षष्ठोऽध्यायः

मनुस्मृतिः

अथ षष्ठोऽध्यायः

(वानप्रस्थधर्माः परिव्राजकधर्माश्च)

6.1 एवं गृहाश्रमे स्थित्वा विधिवत् स्नातको द्विजः । वने वसेत् तु नियतो यथावद् विजितेन्द्रियः ।।

6.2 गृहस्थस् तु यथा पश्येद् वली पलितम् आत्मनः । अपत्यस्यैव चापत्यम् तदारण्यम् समाश्रयेत् ।।

6.3 संत्यज्य ग्राम्यम् आहारं सर्वं चैव परिच्छदम् । पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत् सहैव वा ।।

6.4 अग्निहोत्रं समादाय गृह्यं चाग्निपरिच्छदम् । ग्रामाद् अरण्यं निःसृत्य निवसेन् नियतेन्द्रियः ।। म्निष्क्रंय

6.5 मुन्यन्नैर् विविधैर् मेध्यैः शाक मूल फलेन वा । एतान् एव महायज्ञान् निर्वपेद् विधिपूर्वकम् ।।

6.6 वसीत चर्म चीरं वा सायं स्नायात् प्रगे तथा । जटाश् च बिभृयान् नित्यं श्मश्रु लोम नखानि च ।।

6.7 यद् भक्ष्यम् स्याद् ततो दद्याद् बलिं भिक्षां च शक्तितः । म्यद्भक्षः अप् मूल फल भिक्षाभिर् अर्चयेद् आश्रमागतान् ।। ं:आश्रमागतम्

6.8 स्वाध्याये नित्ययुक्तः स्याद् दान्तो मैत्रः समाहितः । दाता नित्यम् अन् आदाता सर्वभूतानुकम्पकः ।।

6.9 वैतानिकं च जुहुयाद् अग्निहोत्रं यथाविधि । दर्शम् अ स्कन्दयन् पर्व पौर्णमासं च योगतः ।।

6.10 ऋक्षेष्ट्य् आग्रयणम् चैव चातुर्मास्यानि चाहरेत् । म्दर्शेष्ट्य् आग्रयणम् तुरायणं च क्रमशो दक्षस्यायनम् एव च ।। Kम्दाक्षस्यायनम्

6.11 वासन्त शारदैर् मेध्यैर् मुन्यन्नैः स्वयम् आहृतैः । पुरोडाशांश् चरूंश् चैव विधिवत् निर्वपेत् पृथक् ््

6.12 देवताभ्यस् तु तद्द् हुत्वा वन्यं मेध्यतरं हविः । शेषम् आत्मनि युञ्जीत लवणं च स्वयं कृतम् ।।

6.13 स्थलजौदकशाकानि पुष्प मूल फलानि च । मेध्यवृक्षोद्भवान्य् अद्यात् स्नेहांश् च फल संभवान्

6.14 वर्जयेन् मधु मांसं च भौमानि कवकानि च । भूस्तृणं शिग्रुकं चैव श्लेश्मातक फलानि च ।।

6.15 त्यजेद् आश्वयुजे मासि मुन्यन्नम् पूर्वसंचितम् । जीर्णानि चैव वासांसि शाक मूल फलानि च ।।

6.16 न फालकृष्टम् अश्नीयाद् उत्सृष्टम् अपि केन चित् । न ग्रामजातान्य् आर्तो ‘अपि मूलाणि च फलानि च ।। म्पुष्पानि च फलानि च

6.17 अग्निपक्वाशनो वा स्यात् कालपक्वभुएष एव वा । अश्म कुट्टो भवेद् वापि दन्तोलूखलिको ‘अपि वा ।।

6.18 सद्यः प्रक्षालको वा स्यान् मास संचयिको ‘अपि वा । षण्मास निचयो वा स्यात् समा निचय एव वा ।।

6.19 नक्तं चान्नम् समश्नीयाद् दिवा वाहृत्य शक्तितः । चतुर्थकालिको वा स्यात् स्याद् वाप्य् अष्टम कालिकः ।।

6.20 चान्द्रायणविधानैर् वा शुक्ल कृष्णे च वर्तयेत् । पक्षान्तयोर् वाप्य् अश्नीयाद् यवागूं क्वथितां सकृत् ।।

6.21 पुष्प मूल फलैर् वापि केवलैर् वर्तयेत् सदा । कालपक्वैः स्वयं शीर्णैर् वैखानसमते स्थितः ।।

6.22 भूमौ विपरिवर्तेत तिष्ठेद् वा प्रपदैर् दिनम् । स्थानासनाभ्याम् विहरेत् सवनेषूपयन्न् अपः ।।

6.23 ग्रीष्मे पञ्च तपास् तु स्याद् वर्षास्व् अभ्रावकाशिकः । आर्द्र वासास् तु हेमन्ते क्रमशो वर्धयंस् तपः ।।

6.24 उपस्पृशंस् त्रिषवणं पित्qन् देवांश् च तर्पयेत् । तपश् चरंश् चोग्रतरम् शोषयेद् देहम् आत्मनः ।।

6.25 अग्नीन् आत्मनि वैतानान् समारोप्य यथाविधि । अन् अग्निर् अ निकेतः स्यान् मुनिर् मूल फलाशनः ।।

6.26 अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशयः । शरणेष्व् अ ममश् चैव वृक्षमूल निकेतनः ।।

6.27 तापसेष्व् एव विप्रेषु यात्रिकं भैक्षम् आहरेत् । गृहमेधिषु चान्येषु द्विजेषु वनवासिषु ।।

6.28 ग्रामाद् आहृत्य वाश्नीयाद् अष्टौ ग्रासान् वने वसन् । प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ।।

6.29 एताश् चान्याश् च सेवेत दीक्षा विप्रो वने वसन् । विविधाश् चौपनिषदीर् आत्मसंसिद्धये श्रुतीः ।।

6.30 ऋषिभिर् ब्राह्मणैश् चैव गृहस्थैर् एव सेविताः । विद्या तपो विवृद्ध्यर्थम् शरीरस्य च शुद्धये ।।

6.31 अपराजितां वास्थाय व्रजेद् दिशम् अजिह्मगः । आ निपाताच् शरीरस्य युक्तो वार्यनिलाशनः ।।

6.32 आसां महर्षिचर्याणां त्यक्त्वान्यतमया तनुम् । वीत शोक भयो विप्रो ब्रह्मलोके महीयते ।।

6.33 वनेषु च विहृत्यैवम् तृतीयं भागम् आयुषः । चतुर्थम् आयुषो भागं त्यक्वा सङ्गान् परिव्रजेत् ।।

6.34 आश्रमाद् आश्रमं गत्वा हुत होमो जितेन्द्रियः । भिक्षा बलि परिश्रान्तः प्रव्रजन् प्रेत्य वर्धते ।।

6.35 ऋणानि त्रीण्य् अपाकृत्य मनो मोक्षे निवेशयेत् । अन् अपाकृत्य मोक्षं तु सेवमानो व्रजत्य् अधः ।।

6.36 अधीत्य विधिवद् वेदान् पुत्रांश् चोत्पाद्य धर्मतः । इष्ट्वा च शक्तितो यज्ञैर् मनो मोक्षे निवेशयेत् ।।

6.37 अन् अधीत्य द्विजो वेदान् अन् उत्पाद्य तथा सुतान् । म्तथा प्रजाम् अन् इष्ट्वा चैव यज्ञैश् च मोक्षम् इच्छन् व्रजत्य् अधः ।।

6.38 प्राजापत्यं निरुप्येष्टिम् सर्ववेदस दक्षिणाम् । म्सार्ववेदसदक्षिणाम् आत्मन्य् अग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद् गृहात् ।।

6.39 यो दत्त्वा सर्वभूतेभ्यः प्रव्रजत्य् अभयं गृहात् । तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः ।।

6.40 यस्माद् अण्वपि भूतानां द्विजान् नोत्पद्यते भयम् । तस्य देहाद् विमुक्तस्य भयं नास्ति कुतश् चन ।।

6.41 अगाराद् अभिनिष्क्रान्तः पवित्रोपचितो मुनिः । समुपोढेषु कामेषु निर् अपेक्षः परिव्रजेत् ।।

6.42 एक एव चरेन् नित्यं सिद्ध्यर्थम् असहायवान् । सिद्धिम् एकस्य संपश्यन् न जहाति न हीयते ।। म्सिद्धम्

6.43 अन् अग्निर् अ निकेतः स्याद् ग्रामम् अन्नार्थम् आश्रयेत् । उपेक्षको ‘अ संकुसुको मुनिर् भावसमाहितः ।। म् अ साम्कुसुको

6.44 कपालं वृक्षमूलानि कुचेलम् असहायता । म्कुचैलम् समता चैव सर्वस्मिन्न् एतत् मुक्तस्य लक्षणम् ।।

6.45 नाभिनन्देत मरणं नाभिनन्देत जीवितम् । कालम् एव प्रतीक्षेत निर्वेशं भृतको यथा ।।

6.46 दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् । सत्यपूतां वदेद् वाचं मनःपूतं समाचरेत् ।।

6.47 अतिवादांस् तितिक्षेत नावमन्येत कं चन । न चेमम् देहम् आश्रित्य वैरं कुर्वीत केन चित् ।।

6.48 क्रुद्ध्यन्तं न प्रतिक्रुध्येद् आक्रुष्टः कुशलं वदेत् । सप्तद्वारावकीर्णां च न वाचम् अनृतां वदेत् ।।

6.49 अध्यात्म रतिर् आसीनो निर् अपेक्षो निर् आमिषः । आत्मनैव सहायेन सुखार्थी विचरेद् इह ।।

6.50 न चोत्पात निमित्ताभ्याम् न नक्षत्राङ्गविद्यया । नानुशासन वादाभ्याम् भिक्षां लिप्सेत कर्हि चित् ।।

6.51 न तापसैर् ब्राह्मणैर् वा वयोभिर् अपि वा श्वभिः । आकीर्णं भिक्षुकैर् वान्यैर् अगारम् उपसंव्रजेत् ।।

6.52 कॢप्त केश नख श्मश्रुः पात्री दण्डी कुसुम्भवान् । विचरेन् नियतो नित्यं सर्वभूतान्य् अ पीडयन् ।।

6.53 अतैजसानि पात्राणि तस्य स्युर् निर्व्रणानि च । तेषाम् अद्भिः स्मृतं शौचं चमसानाम् इवाध्वरे ।।

6.54 अलाबुं दारुपात्रं च मृण्मयं वैदलं तथा । एताणि यतिपात्राणि मनुः स्वायंभुवो ‘अब्रवीत् ।।

6.55 एककालं चरेद् भैक्षं न प्रसज्जेत विस्तरे । भैक्षे प्रसक्तो हि यतिर् विषयेष्व् अपि सज्जति ।।

6.56 वि धूमे सन्न मुसले व्य् अङ्गारे भुक्तवज् जने । वृत्ते शरावसंपाते भिक्षां नित्यं यतिश् चरेत् ।।

6.57 अलाभे न विषदी स्याल्लाभे चैव न हर्षयेत् । प्राणयात्रिक मात्रः स्याएष मात्रासङ्गाद् विनिर्गतः ।।

6.58 अभिपूजितलाभांस् तु जुगुप्सेतैव सर्वशः । अभिपूजितलाभैश् च यतिर् मुक्तो ‘अपि बध्यते ।।

6.59 अल्पान्नाभ्यवहारेण रहःस्थानासनेन च । ह्रियमाणानि विषयैर् इन्द्रियाणि निवर्तयेत् ।।

6.60 इन्द्रियाणां निरोधेन राग द्वेश क्षयेण च । अहिंसया च भूतानाम् अमृतत्वाय कल्पते ।।

6.61 अवेक्षेत गतीर् न्qणां कर्मदोष समुद्भवाः । निरये चैव पतनं यातनाश् च यमक्षये ।।

6.62 विप्रयोगं प्रियैश् चैव संयोगं च तथाप्रियैः । जरया चाभिभवनम् व्याधिभिश् चोपपीडनम् ।।

6.63 देहाद् उत्क्रमणं चाष्मात् पुनर् गर्भे च संभवम् । योनिकोटिसहस्रेषु सृतीश् चास्यान्तरात्मनः ।।

6.64 अधर्म प्रभवम् चैव दुःखयोगं शरीरिणाम् । धर्मार्थ प्रभवम् चैव सुखसंयोगम् अक्षयम् ।।

6.65 सूक्ष्मतां चान्ववेक्षेत योगेन परमात्मनः । देहेषु च समुत्पत्तिम् उत्तमेष्व् अधमेषु च ।। म्देहेषु चैवोपपत्तिम्

6.66 दूषितो ‘अपि चरेद् धर्मं यत्र तत्राश्रमे रतः । म्भूषितो ‘अपि समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ।।

6.67 फलं कतकवृक्षस्य यद्य् अप्य् अम्बुप्रसादकम् । न नामग्रहणाद् एव तस्य वारि प्रसीदति ।।

6.68 संरक्षणार्थं जन्तूनां रात्राव् अहनि वा सदा । शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् ।।

6.69 अह्ना रात्र्या च याञ् जन्तून् हिनस्त्य् अज्ञानतो यतिः । तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् षड् आचरेत् ।।

6.70 प्राणायामा ब्राह्मणस्य त्रयो ‘अपि विधिवत् कृताः । व्याहृति प्रणवैर् युक्ता विज्ञेयं परमं तपः ।।

6.71 दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः । तथेन्द्रियाणाम् दह्यन्ते दोषाः प्राणस्य निग्रहात् ।।

6.72 प्राणायमैर् दहेद् दोषान् धारणाभिश् च किल्बिषम् । प्रत्याहारेण संसर्गान् ध्यानेनान् ईश्वरान् गुणान् ।।

6.73 उच्चावचेषु भूतेषु दुर्ज्ञेयाम् अकृतात्मभिः । ध्यानयोगेन संपश्येद् गतिम् अस्यान्तरात्मनः ।।

6.74 सम्यग्दर्शनसंपन्नः कर्मभिर् न निबध्यते । दर्शनेन विहीनस् तु संसारं प्रतिपद्यते ।।

6.75 अहिम्सयेन्द्रिया सङ्गैर् वैदिकैश् चैव कर्मभिः । तपसश् चरणैश् चोग्रैः साधयन्तीह तत्पदम् ।।

6.76 अस्थि स्थूणम् स्नायुयुतं माम्स शोणित लेपनम् । चर्मावनद्धं दुर्गन्धि पूर्णं मूत्र पुरीषयोः

6.77 जरा शोकसमाविष्टम् रोगायतनम् आतुरम् । रजस्वलम् अनित्यं च भूतावासम् इमं त्यजेत् ।।

6.78 नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर् यथा । तथा त्यजन्न् इमं देहं कृच्छ्राद् ग्राहाद् विमुच्यते ।।

6.79 प्रियेषु स्वेषु सुकृतम् अप्रियेषु च दुष्कृतम् । विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम् ।।

6.80 यदा भावेन भवति सर्वभावेषु निःस्पृहः । तदा सुखम् अवाप्नोति प्रेत्य चेह च शाश्वतम् ।।

6.81 अनेन विधिना सर्वांस् त्यक्त्वा सङ्गाञ् शनैः शनैः । सर्वद्वन्द्वविनिर्मुक्तो ब्रह्मण्य् एवावतिष्ठते ।।

6.82 ध्यानिकं सर्वम् एवैतद् यद् एतद् अभिशब्दितम् । न ह्य् अन् अध्यात्मवित् कश् चित् क्रियाफलम् उपाश्नुते ।।

6.83 अधियज्ञं ब्रह्म जपेद् आधिदैविकम् एव च । आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ।।

6.84 इदं शरणम् अज्ञानाम् इदम् एव विजानताम् । इदम् अन्विच्छतां स्वर्गम् इदम् आनन्त्यम् इच्छताम् ।।

6.85 अनेन क्रमयोगेन परिव्रजति यो द्विजः । स विधूयेह पाप्मानं परं ब्रह्माधिगच्छति ।।

6.86 एष धर्मो ‘अनुशिष्टो वो यतीनां नियतात्मनाम् । वेदसंन्यासिकानां तु कर्मयोगं निबोधत ।।

6.87 ब्रह्मचारी गृहस्थश् च वानप्रस्थो यतिस् तथा । एते गृहस्थ प्रभवाश् चत्वारः पृथग् आश्रमाः ।।

6.88 सर्वे ‘अपि क्रमशस् त्व् एते यथाशास्त्रं निषेविताः । यथोक्त कारिणम् विप्रं नयन्ति परमां गतिम् ।।

6.89 सर्वेषाम् अपि चैतेषाम् वेद स्मृतिविधानतः । म्वेद श्रुतिविधानतः गृहस्थ उच्यते श्रेष्ठः स त्रीन् एतान् बिभर्ति हि ।।

6.90 यथा नदी नदाः सर्वे सागरे यान्ति संस्थितिम् । तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ।।

6.91 चतुर्भिर् अपि चैवैतैर् नित्यम् आश्रमिभिर् द्विजैः । दश लक्षणको धर्मः सेवितव्यः प्रयत्नतः ।।

6.92 धृतिः क्षमा दमो ‘अस्तेयं शौचम् इन्द्रियनिग्रहः । धीर् विद्या सत्यम् अक्रोधो दशकं धर्मलक्षणम् ।।

6.93 दश लक्षणानि धर्मस्य ये विप्राः समधीयते । अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम् ।।

6.94 दश लक्षणकम् धर्मम् अनुतिष्ठन् समाहितः । वेदान्तं विधिवच् श्रुत्वा संन्यसेद् अन् ऋणो द्विजः ।।

6.95 संन्यस्य सर्वकर्माणि कर्मदोषान् अपानुदन् । नियतो वेदम् अभ्यस्य पुत्रैश्वर्ये सुखं वसेत् ।।

6.96 एवं संन्यस्य कर्माणि स्वकार्य परमो ‘अ स्पृहः । संन्यासेनापहत्यैनः प्राप्नोति परमं गतिम् ।।

6.97 एष वो ‘अभिहितो धर्मो ब्राह्मणस्य चतुर्विधः । पुण्यो ‘अक्षय फलः प्रेत्य राज्ञां धर्मं निबोधत ।।

********

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.