।। श्रीः ॥
|| श्रीमते रामानुजायनम: ||
|| श्रीवङ्गिवंशेश्वरमहादोशिकायनमः ||
|| श्रीवङ्गीशेश्वरविरचिताः आह्निककारिका: ||
मातरं रङ्गराजस्य शौरिराज (शबरीश) पुरोहितम् ।
गुरुं वरदराजस्य वन्दे वङ्गिपुराधिपम् ।। 1 ।।
|| प्रातर्निर्वेदकारिकाः ||
ब्राह्मे मुहूर्ते सम्प्राप्ते त्यक्त्वा निद्रां प्रसन्नधीः । हरिर्हरिर्हरिरिति व्याहरेद्वैष्णवः पुमान् ॥ 2
उत्थाय शयने तस्मिन्नासीनो नियतेन्द्रियः । त्रस्तनिर्विण्णहृदयो व्यर्थं वीक्ष्य गतं वयः ॥ 3
तापत्रयेण चाक्रान्तः तीव्रेणाध्यात्मिकादिना । दावजेनाग्निनाऽऽलीढो भ्राम्यन्निव वने मृगः ॥ 4
संसारवागुरान्तस्थो लूनपक्ष इवाण्डजः । अपश्यन्निर्गमोपायं आगामिष्वपि जन्मसु ॥ 5
अकार्यैरतिबीभत्सैः क्रियमाणैः कृतैरपि । लज्जितश्च विषण्णश्च स्मर्यमाणस्स्वकर्मभिः ॥ 6
अविनीतमशिक्षार्हम् असद्गुणगणाकरम् । अवधार्य स्वमात्मानम् अचिकित्स्याशुभाश्रयम् ॥ 7
दह्यमानेन्धनान्तस्थः विस्फुटन्निव कीटकः । अलब्धनिर्गमस्तिष्ठन् मध्ये मरणजन्मनोः ॥ 8
विह्वलश्च विषण्णश्च विमृशन् स्वामिमाम् दशाम् । चिन्तयेत् प्रथमं चैवम् आचरन् हितमात्मनः ॥ 9
संसारचक्रमारोप्य बलिभिः कर्मरज्जुभिः । कालेनाकृष्यमाणस्य जङ्गमस्थावरात्मनः ॥ 10
अहो मे महती याता निष्फला जन्मसन्ततिः । अनाराधितगोविन्दचरणाम्भोरुहद्वया ॥
अनास्वादितसत्कर्मज्ञानभक्तिसुधारसा । अदृष्टानन्तसंसारसागरोत्तारणप्लवा ॥
श्रुतिस्मृत्युदिताशेषसदाचारपराङ्मुखी । अनुपासितसद्वृद्धा स्वीकृतासत्समागमा ॥ 13
असंपादितशुश्रूषा गुर्वाचार्यपितृष्वपि । त्यक्तवर्णाश्रमाचारा भ्रष्टा वैदिकवर्त्मनः ॥ 14
निजकर्मजदेवादिदेहाध्यस्तात्मभावना । तद्भावनानुगोद्भूतसुखदुःखव्यवस्थितिः ॥ 15
अनुद्भूतस्वयाथात्म्यज्ञानजोत्तमनिर्वृतिः । पशुवत् प्राकृतैरेव गुणैरधिकनिर्वृता ॥ 16
न कर्मनिष्ठा नात्मज्ञा नापि भक्तियुता हरौ । नोद्युक्ता भक्तिहीनत्वात् तत्क्रियास्वर्चनादिषु ॥ 17
कर्मभिः पुण्यपापाख्यैः अविद्यापरनामभिः । भूमैरिवार्चिराग्नेयं ज्ञानमावृत्य देहिनः ॥ 18
भूषयित्वा स्वकं देहं शब्दाद्यैः स्वाश्रयैः गुणैः । दर्शयित्वा स्वसौन्दर्यम् आत्मने तिष्ठमानया ॥ 19
निरस्तातिशयाह्लादसुखभावैकलक्षणम् । संछाद्य स्वगुणैरेव स्वरूपं च परात्मनः ॥ 20
गुणमय्या प्रकृत्याख्यभगवन्माययाऽनया । स्वसंलीनानन्तजीवकृतकर्मानुरूपतः ॥ 21
गुणत्रयाश्रयानन्तविचित्रपरिणामया । अतिदुस्तरया देव प्रपत्तिरहितात्मभिः ॥ 22
प्रलोभ्यमाना सततं तयैवात्यन्तनिर्वृता । अजानतीव स्वहितं मूकस्वप्नानुकारिणी ॥ 23
निष्पानीये निरालम्बे निच्छाये निरपाश्रये । द्राघीयस्यशुभे मार्गे यमस्य सदनं प्रति ॥ 24
गच्छतो मेऽसहायस्य वर्धयन्ती भयं महत् । अतीतापि सदैवेषा तिष्ठतीव पुरो मम ॥ 25
गतायास्त्वीदृशं रूपं वर्तमानेऽपि जन्मनि । तयैव सुमुहान् कालः गतः क्षण इवाल्पकः ॥ 26
अलब्धसुखसंस्पर्शो ह्यकृताघौघनिष्कृतिः । विनैव हरिपादार्चाम् अहो पश्यत एव मे ॥ 27
किं करिष्यामि पदयोः निपतिष्यामि कस्य वा । दुस्तरां दुर्दशामेतां कथयिष्यामि कस्य वा ॥ 28
इति निर्विद्य तदनु धृतिमालम्ब्य सात्विकीम् । विधूय चेमं निर्वेदं सर्व कार्यावसादकम् ॥ 29
|| सात्विकधृतिः ||
उद्धरिष्यन् स्वमात्मानं मज्जन्तं भवसागरे । पुनर्निश्चिनुयादेवं स्थिरधीः स्वार्थसिद्धये ॥ 30
गतमेव गतं जन्म का नु तत्र प्रतिक्रिया । प्रवहत्येव हि जले सेतुः कार्यो विजानता ॥ 31
इदानीं कर्तुमेतावत् शक्यं काले गते सति । मयाऽऽत्महितकामेन बिभ्यता भवसागरात् ॥ 32
इत ऊर्ध्वमहं तावत् यावज्जीवं श्रियःश्रियः । पदयोरर्चनं कर्तुं यतमानस्समाहितः ॥ 33
|| पाञ्चकालिकक्रियासंकल्पः ||
अभिगच्छन् हरिं प्रातः पश्चात् द्रव्याणि चार्जयन् । अर्चयंश्च ततो देवं ततो मन्त्रान् जपन्नपि ॥ 34
ध्यायन्नपि परं देवं कालेषूक्तेषु पंचसु । वर्तमानस्सदा चैवं पाञ्चकालिक वर्त्मना ॥ 35
स्वार्जितैः गन्धपुष्पाद्यैः शुभैः शक्त्यनुरूपतः । आराधयन् हरिं भक्त्या गमयिष्यामि वासरान् ॥ 36
एतत्क्रियाविरोधीनि प्राचीनान्यशुभानि मे । कर्माण्यनन्तान्यच्छेद्यानि अनादीन्यशुचीन्यपि ॥ 37
स्वयैव कृपया देवो विनाश्यास्मन्मनोरथान् । पूरयत्विति संप्रार्थ्य मन्त्रमेतमुदीरयेत् ॥ 38
त्वय्याराधनकामोऽयं व्रतं चरितुमिच्छति । सङ्कल्पसिद्ध्यै भगवन् पूरयास्य मनोरथान् ॥ 39
इति संप्रार्थ्य तत्सिद्ध्यै संस्मरेत् प्रथमं हरिम् । भोगिभोगासनासीनं श्रिया भूम्या च संयुतम् ॥ 40
|| भगवद्ध्यानक्रमः ||
चतुर्बाहुमुदाराङ्गं चक्राद्यायुधभूषणम् । पीते वसानं वसने चारुपद्मावतंसकम् ॥ 41
किरीटहारकेयूरकटकादिविभूषितम् । शक्रचापतटिन्मालाविचित्रमिव तोयदम् ॥ 42
सेवितं सूरिभिर्नित्यैः शेषशेषाशनादिभिः । परस्मिन् व्योम्नि सचिवैः अन्यैः पारिषदैरपि ॥ 43
एवमेव सुसङ्कल्पसिध्युपायतया श्रितः । चिकीर्षन्नीप्सितं कर्म तन्नामान्यनुकीर्तयेत् ॥ 44
|| भगवन्नामजपः ||
चतुर्भिर्वासुदेवाद्यैः नामभिस्सह संयुतम् । जपेत् द्वादश नामानि केशवादीनि चादरात् ॥ 45
दशावतारनामानि मत्स्यकूर्मादिकान्यपि । जपन्नुत्थाय शयनात् अर्चयिष्यन् सदा हरिम् ॥ 46
ततो भूधरमन्त्रेण न्यस्य वामपदं भुवि । गृहीतस्नानसंभारः निष्क्रम्य भवनात् स्वकात् ॥ 47
|| स्नानविधिः ||
द्वित्रेषुपातप्रमिताम् अतिक्रम्य भुवं बहिः । विण्मूत्रादि विसृज्याथ कृत्वा शौचं च शास्त्रतः ॥ 48
ततस्तीर्थं समाश्रित्य शुद्धं भागवताश्रितम् । निरस्याशुचिवस्त्रादि तीरं संशोध्य वारिभिः ॥ 49
क्षालिताङ्घ्रिकरो मृद्भिः वारिभिश्च यथाक्रमम् । समाचम्य यथाशास्त्रं कृत्वा दन्तविशोधनम् ॥ 50
समाचम्य शुचौ देशे गृह्णीयात् स्नानमृत्तिकाम् । अस्त्राभिमृष्टैः काष्ठाद्यैः स्वमन्त्रेणैव वाग्यतः ॥ 51
तां विभज्य द्विधा तीरे न्यस्याद्यार्धं मृदोस्तयोः । भागेनैकेन महता देहं प्रक्षाळ्य सर्वतः ॥ 52
ततो जलं प्रविश्य त्रिः निमज्ज्योत्तीर्य संयतः । आसीनः शोधिते तीरे समाचम्य यथाविधि ॥ 53
अन्यं मृद्भागमादाय न्यसेद्दक्षिणपाणिना । वामपाणितलस्यादौ मध्येऽन्ते च समन्त्रकम् ॥ 54
तत आदिममृद्भागम् अन्तर्वारिणि निक्षिपेत् । पीठार्थमागमिष्यन्त्याः गङ्गायाः स्नातुमात्मनः ॥ 55
मध्यस्थेन मृदंशेन बध्नीयात् सकला दिशः । साङ्गुष्ठतर्जन्याऽस्त्रेण स्नानविघ्नकरान् क्षिपेत् ॥ 56
पश्चादग्रिमभागेन स्वगात्रमनुलिप्य च । स्वमन्त्रेणैव पाणिभ्यां प्रविशेच्च जलं ततः ॥ 57
पाणिभ्यां जलमादाय तीर्थायार्घ्यप्रदित्सया । तिष्ठन्नावाहयेद्गङ्गां सर्वतीर्थसमन्विताम् ॥ 58
आवाहयामि त्वां देवि स्नानार्थम् इह सुन्दरि । एहि गङ्गे नमस्तुभ्यं सर्वतीर्थसमन्विते ॥ 59
|| गङ्गावाहनमन्त्रः ||
विष्णुवामपदाङ्गुष्ठनखस्रोतोविनिस्सृते । तद्भक्तिविघ्नरूपात् त्वं गङ्गे मां मोचयैनसः ॥ 60
एवमुच्चार्य दत्वार्घ्यं गङ्गायै सुरसिन्धवे । तोयमादाय पाणिभ्यां त्रिर्मन्त्रेणाभिमन्त्र्य तत् ॥ 61
त्रिः पञ्चकृत्वो वा तेन सिञ्चेन्मूर्धानमात्मनः । ततो दक्षिणहस्तेन समादाय जलं शुचि ॥ 62
त्रिर्वाथ पञ्चकृत्वो वा स्वमन्त्रेणाभिमन्त्र्य तत् । पीत्वा पुनस्समाचम्य प्रोक्षयेदात्मनस्तनुम् ॥ 63
स्वेन मन्त्रेण तदनु निमग्नस्तज्जले चिरम् । निधायाधः स्वमात्मानं पादयोः परमात्मनः ॥ 64
भोगिभोगासनस्थस्य ध्यातस्याथ जगद्विभोः । भक्तिनिघ्नेन मनसा स्वकं मन्त्रमनुस्मरन् ॥ 65
यावच्छक्ति निमग्नोऽथ समुन्मज्ज्य जलात्ततः । आदित्यमण्डलान्तस्थं हरिं ध्यात्वाऽभिवीक्ष्य च ॥ 66
उत्तीर्याचम्य तीरस्थो वासो विपरिवर्त्य च । स्नानशाटीमनिष्पीड्य विनिक्षिप्य स्वपार्श्वतः ॥ 67
आसीनः पुनरप्येवं मन्त्रस्नानं समाचरेत् । जपन्पवित्रं मन्त्रं स्वं प्राणायामसमन्वितम् ॥ 68
|| मन्त्रस्नानम् ||
असङ्ख्येयाशुचिस्पर्शदूषितैर्बाह्यवारिभिः । स्नातस्यापि भवेदेतत् स्नानमन्यस्य किं पुनः ॥ 69
ध्यानस्नानं ततः कुर्यात् द्वाभ्यां अपि परन्तु यत् । खस्थितं पुण्डरीकाक्षं मन्त्रमूर्तिं हरिं प्रभुम् ॥ 70
|| ध्यानस्नानम् ||
स्मरेत्पादोदजां धारां पतन्तीं स्वस्य मूर्धनि । चिन्तयेत् ब्रह्मरन्ध्रेण प्रविशन्तीं स्विकां तनूम् ॥ 71
तया संक्षालयेत्सर्वम् अन्तर्बाह्यगतं मलम् । तत्क्षणात् विरजामन्त्रैः जातः स्फटिकसन्निभः ॥ 72
धृतोर्ध्वपुण्ड्रो देवर्षीन् पितॄन् सन्तर्प्य मन्त्रतः । प्रयतः परया भक्त्या स्वकर्माराध्यमच्युतम् ॥ 73
|| सन्ध्योपासनादिविधिः ||
आदित्यमण्डलान्तस्थं प्रणम्य मनसा स्मरन् । सन्धातृत्वेन सर्वेषां सन्ध्येति परिकीर्तितम् ॥ 74
श्रुतिस्मृत्युदितं सर्वं स्ववर्णस्वाश्रमोचितम् । फलाभिसन्धिरहितं परब्रह्मार्चनात्मकम् ॥ 75
न्यस्य कर्तृत्वभोक्तृत्वे स्वामित्वं च परात्मनि । नित्यनैमित्तिकैः काम्यैः कर्मभिश्च समन्वितः ॥ 76
गायत्रीजपपर्यन्तं मन्त्राचमनपूर्वकम् । सान्ध्यं कर्माखिलं साधु समाप्य च यथाविधि ॥ 77
ततः स्वकर्मभोक्तारं आदित्यान्तरवस्थितम् । उपस्थाय स्वकैर्मन्त्रैः नारायणमतन्द्रितः ॥ 78
तत आधारशक्त्यादीन् तर्पयित्वा स्वनामभिः । नमोन्तैः प्रणवोपेतैः निष्पीड्य स्नानशाटिकाम् ॥ 79
आवाहिताश्च गङ्गाद्याः तत्तन्मन्त्रगणं तथा । अनुज्ञाप्य समारोप्य स्वात्मन्येव समाहितः ॥ 80
ततः कुम्भं समादाय शुचिनाऽऽपूर्य वारिणा । हरेराधनार्थाय मौनी नियतमानसः ॥ 81
पाषाण्डावेक्षणादीनि वर्जयन् यत्नतः पथि । ध्यायन् नारायणं देवं यागभूमिं समाचरेत् ॥ 82
ततः प्रक्षाल्य चरणौ स्वाचान्तस्सुसमाहितः । ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ वा यतिः ॥ 83
||अग्निपरिचर्याविधिः||
स्ववर्णस्वाश्रमार्हेण विधिना श्रद्धयान्वितः । समिदाज्यादिभिर्द्रव्यैः मन्त्रैरपि यथोदितैः ॥ 84
हुत्वाग्नीन् अग्निहोत्रादौ उक्तं कालमपि क्षिपन् । पराराधनरूपेण कृतेनैव स्वकर्मणा ॥ 85
कृते निष्कल्मषे शुद्धे स्वस्मिन् मनसि सुस्थिते । लब्धाधिकारे देवस्य ध्यानार्चनजपादिषु ॥ 86
विनिष्क्रम्याग्निशालायाः गत्वा देवगृहं स्वकम् । अर्चयित्वा परात्मानं देशकालाद्यपेक्षया ॥ 87
पत्रैः पुष्पैः फलैर्वापि पूजाकालोक्तवर्त्मना । केवलाञ्जलिना वापि विहितेन यथा तथा ॥ 88
प्राप्ते चाह्नो द्वितीयांशे स्वास्त्रमन्त्रेण धर्मतः । आर्जयित्वार्चनाद्रव्यं अशेषञ्च यथोदितम् ॥ 89
|| उपादानविधिः ||
ततो माध्यन्दिनं कर्म स्वोचितं श्रुतिचोदितम् । स्नानादिब्रह्मयज्ञान्तं कृत्वाऽखिलमतन्द्रितः ॥ 90
||माध्यन्दिनकर्मविधिः ||
इज्याकाले तु संप्राप्ते हृष्टो देवगृहं गतः । प्रक्षाल्य पादौ पाणी च समाचम्य स्मरन् हरिम् ॥ 91
|| इज्यारम्भः ||
तत्क्षेत्राधीशमभ्यर्च्य स्वमन्त्रेणाच्युतं प्रभुम् । देवपूजागृहद्वारात् स्थित्वा बहिरदूरतः ॥ 92
चण्डप्रचण्डप्रमुखान् द्वार्स्थान् तदधिपानपि । प्रणम्याभ्यर्च्य गन्धाद्यैः याचित्वाऽऽत्मप्रवेशनम् ॥ 93
दत्ताभ्यनुज्ञस्तैश्चापि सदयैरवलोकनैः । प्रविशन् द्वारपार्श्वस्थः स्वास्त्रमन्त्राभिमन्त्रितम् ॥ 94
पुष्पं देवगृहस्यान्तः प्रास्य दक्षिणपाणिना । तद्भयादपयातेषु दुष्टसत्वेषु तद्गृहात् ॥ 95
प्रथमं दक्षिणं पादं विन्यस्यान्तः प्रविश्य च । प्रणिनंसुः परात्मानं भक्तिनिघ्नेन चेतसा ॥ 96
मनोबुद्ध्यभिमानेन सह न्यस्य धरातले । कूर्मवच्चतुरः पादान् शिरस्तत्रैव पञ्चमम् ॥ 97
|| प्रदक्षिणप्रणामविधिः ||
प्रदक्षिणसमेतेन त्वेवंरूपेण याजकः । अष्टाङ्गेन प्रणामेन प्रणमेत्पुरुषोत्तमम् ॥ 98
ततस्सम्मार्ज्य तं देशं गोमयेनोपलिप्य च । साक्षतानि च पुष्पाणि प्रकीर्य च समन्ततः ॥ 99
||यागभूमिसंशोधनम्||
धूपयित्वा बहुविधैः कर्पूरागुरुचन्दनैः । पुरस्तादेव देवस्य संस्तीर्यासनमात्मनः ॥ 100
दार्भं काष्ठमयं वापि सास्त्रच्छोटाभिवीक्षितम् । तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ॥ 101
||आसनक्रमः||
प्रवेश्योभयजान्वन्तः स्वपादाङ्गुष्ठयोर्युगम् । दक्षिणोत्तरमासीनः स्वस्तिकेनासनेन तु ॥ 102
पद्मादिष्वासनेष्वेकमवलम्ब्येच्छयाऽथ वा । इति संचिन्तयेत् पूर्वम् आरिराधयिषुर्हरिम् ॥ 103
||भगवद्ध्यानम्||
स्वसङ्कल्पपराधीनस्वरूपस्थितिवृत्तिना । स्वशेषतैकरूपेण स्वदेहेनाऽत्मनाऽमुना ॥ 104
स्वैरेव करणैः सर्वैः बुद्धिकर्मात्मकैरपि । गन्धादिभिस्तथा द्रव्यैः स्वकीयैरेव संप्रति ॥ 105
सपत्नीकं ससचिवं सद्वारपगणेश्वरम् । स्वयमेव स्वमात्मानम् अर्चयत्यपदिश्य माम् ॥ 106
स्वयैव कृपया देवः श्रीपतिः पुरुषोत्तमः। इत्येवमनुसन्धाय पुनश्चैवमनुस्मरेत् ॥ 107
तत्प्रेरितस्तदीयश्च तद्दत्तमतिशक्तितः। तदात्मकस्तदाधारः तत्प्रीत्यै तत्पदाश्रितः॥ 108
तद्दत्तैरेव तद्द्रव्यैः तत्पूजां करवाण्यहम्। संचिन्त्यैवं स्वमात्मानं तत्क्रियायोग्यतां नयेत्॥ 109
अनेन विधिना कुर्यान्नित्यं देहात्मशोधनम् । त्रिर्वाथ पञ्चकृत्वो वा प्राणानायम्य सुस्थिरः ॥ 110
ततो दक्षिणपाण्यन्तः न्यस्य मन्त्रं धियाऽऽत्मनः। तं विदध्यात् स्वनाभ्यन्तः पाणिना प्राणसंयमः॥ 111
||भूतशुद्धिक्रमः तत्र संहारन्यासः||
तन्मन्त्रतस्समुद्भूतैः शोषणैश्चण्डमारुतैः। संशोषयेत् स्वकं देहं प्राचीनैः कर्मभिस्सह॥ 112
अथ विन्यस्य हृदये पूर्ववत् पाणिना मनुम् । तत उद्भूतचक्राग्निज्वालया दाहयेत्तनुम् ॥ 113
ततो मस्तकविन्यस्तमन्त्रोद्भूतामृतद्युतेः। रश्मिभिः प्लावयेद्दग्धं स्वकं देहं सुधामयैः ॥ 114
ततः पाद उपस्थे च हृदि वक्त्रे शिरस्यपि। पञ्चोपनिषदो न्यस्य पृथिव्याद्यद्विदेवताः॥ 115
ततोप्येवं क्रमेणैव स्वदेहे भूतपंचकम्। कारणे कारणे स्वस्मिन् न्यस्तैर्मन्त्रैर्विलापयेत्॥ 116
पदजान्वन्तरं भूमिः जानुकट्यन्तरं जलम्। हृत्कट्योरन्तरं तेजः वायुर्नासाहृदन्तरम्॥ 117
व्योम नासाशिरोमध्यमेवं देहे व्यवस्थितः। तस्मात्ततस्तस्तानि समुत्थाप्य विलापयेत् ॥ 118
पृथिवीमप्सु ताश्चाग्नौ तं वायौ तं च खे क्रमात्। तमप्यहंकृतौ ताञ्च सविकारां महत्यपि॥ 119
महान्तं प्रकृतौ ताञ्च तमस्येतत् परमात्मनि। ततो विमुक्तमात्मानं विमुक्तं तत्वपञ्जरात्॥ 120
विमुक्तं मेघपटलात् दिवाकरमिवोज्ज्वलम्। ततः प्रकृतिसंसर्गात् अनादेरशुचेस्ततः॥ 121
अशुद्धं शुद्धतां नेतुं शुभाश्रयवशेन तु। भगवद्दक्षिणाङ्घ्र्यब्जशुभाङ्गुष्ठं प्रवेशयेत्॥ 122
तत्प्रवेशात् परां शुद्धिं गतं विगतकल्मषम्। तत आदाय तद्वामपादाम्भोजादधो नयेत्॥ 123
तत एनं तदङ्गुष्ठनखस्रोतोविनिस्सृतैः। दिव्यामृतजलैर्गाङ्गैः आत्मानमभिषेचयेत्॥ 124
तज्जलं दिव्यममृतं प्रसादात् परमात्मनः। अनघं घनतां गत्वा वपुरस्योपजायते॥ 125
|| भूतशुद्धिक्रमः तत्र सृष्टिन्यासः ||
तदेव भूयो विदधत् पञ्चशक्तिमयं वपुः। सृष्टिक्रमेण विन्यस्य पञ्चोपनिषदो धिया॥ 126
मूर्धादिचरणान्तेषु स्वकीयाङ्गेषु पञ्चसु। चिन्तयेच्च पुनश्चैवं शरीरोत्पत्तिमात्मनः॥ 127
रजस्तमोभ्यामस्पृष्टा शुद्धसत्वमयी शुभा। प्रकृतिर्जायते दिव्या परस्माद्ब्रह्मणस्ततः॥ 128
महान् सत्वमयस्तस्मात् अहङ्कारश्च सात्विकः। तस्मात् सत्वमयैर्जातैः इन्द्रियैर्ज्ञानहेतुभिः॥ 129
श्रोत्रत्वग्रसनाघ्राणैः कर्माख्यैः पञ्चभिः सह। पायूपस्थपाणिपादवाग्भिश्च मनसा सह॥ 130
स्ववाय्वग्न्यम्बुभूमीभिः महाभूतैश्च सात्त्विकैः। शब्दस्पर्शरूपरसगन्धैर्भूतगुणैरपि॥ 131
एभिश्चतुर्विंशतिभिः तत्वैर्जातं वपुः स्वकम्। विष्णुवामपदोद्भूतगङ्गया प्लावयेत्ततः॥ 132
ततः स्वहस्तौ मन्त्रेण त्रिरामृश्य परस्परम्। निधाय व्यापकन्यासं शुद्धयोर्हस्तयोर्द्वयोः॥ 133
||मन्त्रन्यासः||
वर्णन्यासं ततः कुर्यात् प्रथमं दक्षिणे करे। तर्जन्यादि कनिष्ठान्तम् अङ्गुलीमध्यपर्वसु॥ 134
||वर्णन्यासः||
मन्त्रादींश्चतुरो वर्णान् नादान्तान् प्रणवादिकान्। अङ्गुष्ठेनैव विन्यस्य प्रणवं चान्यपर्वसु॥ 135
अङ्गुष्ठेनैव सव्येपि वर्णान्मन्त्रस्य चापरान्। नादान्तान् प्रणवोपेतान् न्यसेत् सर्वेषु पर्वसु॥ 136
प्रणवं च यथापूर्वं पार्श्वपर्वसु योजयेत् । वर्णान् न्यस्याङ्गुळीष्वेवं तास्वङ्गन्यासमाचरेत् ॥ 137
हृदयं दक्षिणेऽङ्गुष्ठे तर्जन्या विनिवेशयेत् । अङ्गुष्ठाग्रेण मूर्धादितर्जन्यादिषु योजयेत् ॥ 138
नयनं वामतर्जन्या तदङ्गुष्ठे निवेशयेत् । अङ्गुष्ठेनोदरादीनि तर्जन्यादिषु योजयेत् ॥ 139
अङ्गुष्ठाभ्यां जानुपादौ न्यसेद्दक्षिणसव्ययोः । अव्युच्छिन्नक्रमेणैव यथा स्वाङ्गुळिमूर्धसु ॥ 140
ततो देहेपि तदनु व्यापकन्यासमाचरेत् । शिरःप्रभृति पाणिभ्यामापादाभ्यां स्वपार्श्वयोः ॥ 141
||व्यापकन्यासः||
त्रिः स्पृशन् स्वेन मन्त्रेण वेष्टयन्निव वर्मणा । मन्त्रवर्णान् स्वदेहेऽपि न्यसेदेवमतन्द्रितः ॥ 142
नाभ्यामोंकारमङ्गुष्ठकनिष्ठाभ्यां निवेशयेत् । सनादं प्रणवोपेतं स्थितिन्यासचिकीर्षया ॥ 143
द्वितीयं च तृतीयं चाप्युपस्थे जानुनोरपि । साङ्गुष्ठाभिश्च तिसृभिः अङ्गुलीभिर्यथाक्रमम ॥ 144
||भूतशुद्धिक्रमः तत्र स्थितिन्यासः||
न्येसच्चतुर्थं सर्वाभिः पादयोः पृष्ठतः पुमान् । पञ्चमं मध्यया मूर्ध्नि न्यस्य षष्ठं दृशोरपि ॥
मध्ययैव सतर्ज्यन्या युगपत् संनिवेशयेत् । साङ्गुष्ठयाऽनामिकया सप्तमं मुखमध्यतः ॥ 146
घ्राणस्य पुरतो न्यस्य हृदये चान्त्यमक्षरम् । साङ्गुष्ठतर्जन्यग्रेण न्यसेदेवं यथाक्रमम् ॥ 147
अङ्गन्यासं ततःकुर्यात् अङ्गमन्त्रान् यथाक्रमम् । हृदि मूर्ध्नि शिखायां च कण्ठकट्योश्च मध्यमे ॥ 148
||अङ्गन्यासः||
शरीरेंऽसद्वये चापि नेत्रयोरुदरे तथा । पृष्ठबाहूरुजान्वङ्घ्रियुगळेषु यथोचितान् ॥ 149
साङ्गुष्ठतर्जन्यग्रेण सास्त्रच्छोटेन सर्वशः । बध्वा दिशश्च पूर्वाद्याः वह्न्याद्या विदिशस्तथा ॥ 150
तेनैव भ्रामयन्नस्त्रं कुर्यात् प्राकारमात्मनः । कवचेन च मन्त्रेण कुर्याद्देहावकुण्ठनम् ॥ 151
अङ्गमन्त्रा मन्त्रवर्णा नादान्ताः प्रणवादिकाः। ज्ञानैश्वर्यशक्तिबलवीर्यतेजःपदैर्युताः॥ 152
चतुर्थ्यन्तैस्तथा स्वाङ्गैः हृदयाद्यैः समन्विताः । तेजसे इति संयुक्ताः षट्स्वङ्गेषूर आदिषु ॥ 153
य इत्यनेन बीजेन युताः पृष्ठादिपञ्चसु । संक्षेपोऽङ्गन्यासोऽयं सविस्तारोऽपि कीर्त्यते ॥ 154
ओंकारात् परतो युञ्ज्यात् नादान्तान् प्रणवादिकान् । ज्ञानाय हृदयायेति नमश्चैव यथाक्रमम् ॥ 155
मन्त्रमेनं हृदि न्यस्य तर्जन्याङ्गुष्ठयुक्तया । (ओं) नम् ऐश्वर्याय शिरसे स्वाहेति पदसंयुतम् ॥ 156
||विस्तृतन्यासः||
अनङ्गुष्ठाङ्गुलीभिस्तु न्यसेन्मस्तकमध्यतः। शक्त्यै शिखायै वौषडित्येतन्मोंकारसंयुतम्॥ 157
मुष्टिनाऽङ्गुष्ठनाळेन न्यसेन्मध्येशिखं मनुम्। नाङ्कारेण समायोज्य बलाय कवचाय हुम्॥ 158
तेन कण्ठादिकट्यन्तं पाणिभ्यां वर्मयेत्तनूम्। वीर्यायास्राय फटिति रांकारेणानुबध्य तु॥ 159
शब्दयेदंसयोस्तेन तर्जन्याङ्गुष्ठयुक्तया। दैत्यदानवरक्षांसि भीषयन्नस्त्रतेजसा॥ 160
यं समायोज्य तेजसे नेत्राभ्यां वौषडित्यदः। निदध्याद्युगपन्मध्यं तर्जनीभ्यां दृशोर्द्वयोः॥ 162
तेजसे उदरायेति पदाभ्यां नमसापि च। णां समायोज्य तन्नाभ्यामङ्गुळीभिर्निवेशयेत्॥ 162
पृष्ठबाहूरुजान्वङिघ्रयुगळेषु यथाक्रमम्। तेजसे इति संयुक्तैः नमोन्तैश्च स्वनामभिः॥ 163
यंकारेण च संयोज्य तत्रतत्र निवेशयेत् । $ अस्मिन्वाऽवसरे कुर्यात् आहूते वाऽसने हरौ ॥ 164
हृद्यागं कॢप्तसंभारः स्वच्छन्देन यथाविधि । $ ततस्तोयं समुत्पूर्य महत्यासिच्य भाजने ॥ 165
|| हृद्यागकालविकल्पः ||
मूलमन्त्रेण संशोध्य दग्ध्वा प्लाव्याऽमृताम्भसा । स्थापयेत् दक्षिणे पार्श्वे सिक्त्त्वा सुरभिमुद्रया ॥
|| पात्रकल्पनम् ||
ततस्संभारमखिलं पूजार्थमुपकल्पितम् । शोषणादिभिरालोक्य नीत्वाऽऽराधनयोग्यताम् ॥ 167
स्थापयित्वाऽग्रतः सर्वं सर्वतः संस्मरन् हरिम् । हस्तप्रक्षालनार्थं च जलं संस्थाप्य वामतः ॥ 168
प्रोक्षणार्घ्यार्थमुचितं पात्रं प्रक्षाल्य वारिणा । शुचिनाऽऽपूर्य तोयेन निर्मलेन सुगन्धिना ॥ 169
तत्तीर्थ(त्तोय)रूपिणं तत्र ध्यात्वैवं मनसा हरिम् । अभ्यर्च्य गन्धपुष्पाद्यैः सप्तकृत्वोऽभिमन्त्र्य तम् ॥ 170
पुनश्च तस्मिन्नपरं पुष्पमेकं समन्त्रकम् । दत्वा तदेव च ततः समुद्धृत्य बहिर्हरेत्॥ 171
ओमर्घ्यं कल्पयिष्यामीत्युक्त्वा चार्घ्यं प्रकल्प्य तु । तज्जलेनैव संभारमात्मानमवनीं च ताम् ॥ 172
संप्रोक्ष्य स्वेन मन्त्रेण योगपीठस्य पार्श्वतः । तमप्यर्घ्यमवस्थाप्य रक्षां कृत्वाऽस्त्रतेजसा ॥ 173
ततश्चत्वारि पात्राणि सौवर्णादीनि शक्तितः । प्रक्षाल्यास्त्रेण विधिवत् स्थापयेत् पुरतो हरेः॥ 174
मृष्टोपलिप्ते भूभागे संस्कृते शोषणादिभिः। आस्तीर्यास्तरणं धौतं तस्योपरि समाहितः॥ 175
अथोमर्घ्यं कल्पयामीत्युक्त्वा वायुपदे न्यसेत्। कलशं तद्वदैशान्यां न्यसेदाचमनार्थकम्॥ 176
|| अर्घ्यादिपात्राणां दिग्विभागः ||
स्नानार्थमग्निभागे तु पाद्यार्थं नैर्ऋते तथा। तानि तोयैः समुत्पूर्य शुभिभिश्च सुगन्धिभिः॥ 177
गन्धपुष्पाक्षतकुशान् अर्घ्ये पाद्ये सपद्मकम्। श्यामाकं विष्णुपर्णीं च दूर्वां चाचमनाम्भसि॥ 178
||अर्घ्यादीनां गन्धद्रव्याणि||
एलालवङ्गतक्कोललामज्जकुसुमान्यपि। सिद्धार्थकादीन् स्नानीये पृथक् प्रथगनुक्रमात्॥ 179
स्वमन्त्रेण विनिक्षिप्य तदलाभे हरिप्रियाम् । तुलसीमेव निक्षिप्य रक्षां कृत्वा ततः परम् ॥ 180
आसनं कल्पयेदेवं आधारादि यथाक्रमम् । आधारशक्तिं प्रकृतिं कूर्मं शेषं धराधरम् ॥ 181
||आधारशक्त्यादियागेपीठपरिकल्पनम्||
पृथिवीं चोपर्युरि न्यस्य मन्त्रैः प्रणम्य च । तत्र क्षीरार्णवं श्वेतद्वीपं श्रीरङ्गमेव च ॥ 182
परमव्योम वैकुण्ठं वैष्णवं धाम शाश्वतम् । एतेष्वन्यतमं देशं ध्यात्वा देवगृहं स्वकम् ॥ 183
तेन तेन च मन्त्रेण स्मृत्वाऽभ्यर्च्य प्रणम्य च । तत्रानन्तात्मकं दिव्यम् आस्तीर्यास्तरणं शुभम् ॥ 184
तत्र वह्न्यादिकोणेषु योगपीठस्य पादकान् । धर्मं ज्ञानं च वैराग्यम् ऐश्वर्यं च यथाक्रमम्॥ 185
विन्यस्य मन्त्रैः तदनु दिक्षु पूर्वादिषु क्रमात्। ऋगादीन् चतुरो वेदान् हयवक्त्रान् स्वमौलिभिः। 186
दधतो योगपीठं तम् उत्क्षितैः स्वभुजैरपि। कृतादींश्च युगांस्तद्वत् वृषवक्त्रानवस्थितान्॥ 187
ततो गात्राणि पीठस्य प्रागादिषु निवेशयेत्। अधर्माज्ञानावैराग्यानैश्वर्याह्वानदेवताः। 188
प्रणम्याभ्यर्च्य तन्मन्त्रैः ततस्सत्वं रजस्तमः। तन्मध्ये फलकाः कुर्यात् मन्त्रैः स्वैः प्रागुपक्रमात्॥ 189
एवं सदात्मकं पीठमनन्तात्मकमुज्वलम्। सर्वकार्योन्मुखं स्मृत्वा तन्मन्त्रेणाभिपूज्य च॥ 190
तस्योपरि महापद्मं सहस्रदलसंवृतम्। उद्यद्भास्करबिम्बाभं शु(क्ल)भकेसरकर्णिकम्॥ 191
तन्मन्त्रेणैव विन्यस्य समभ्यर्च्य प्रणम्य च। दलेषु मण्डलं वह्नेः केसरेष्विन्दुमण्डलम्॥ 192
कर्णिकायां रवेर्बिम्बं स्वमन्त्रेणैव योजयेत् । दलेष्वष्टसु तस्याथ पूर्वाद्येषु यथाक्रमम् ॥ 193
||नवशक्तिध्यानम्||
विमलोत्कर्षिणी ज्ञाना क्रियायोगाः पृथक् पृथक् । प्रभ्वीं च सत्याम् ईशानां ध्यात्वा मन्त्रैर्यथाक्रमम् ॥ 194
स्मरेदग्रे स्वमन्त्रेण कर्णिकायामनुग्रहाम् । शक्तीर्नवैताः परितो वीक्षमाणा हरेर्मुखम् ॥ 195
करेणैकेन दधतीः चामराणि स्वलङ्कृताः । अन्येन च नमस्यन्तीः स्वशिरोनिहितेन च ॥ 196
चिन्तयित्वैवमेताश्च गन्धाद्यैरभिपूज्य च । योगपीठमिदं सर्वं जगत्प्रकृतिनिर्मितम्॥ 197
आधारशक्त्याद्यखिलं देवतामयमद्भुतम् । प्रणम्याभ्यर्च्य गन्धाद्यैः स्वमन्त्रेण ततः परम् ॥ 198
तत्पद्मकर्णिकामध्ये कुण्डलीकृतविग्रहम्। राजताद्रिप्रतीकाशं सहस्रेन्दुसमप्रभम्॥ 199
||अनन्तासनध्यानम्||
कुन्दमालाङ्गमुन्निद्रपद्मपत्रारुणेक्षणम्। शैत्यसौरभ्यसौगन्ध्यमार्दवादिगुणाकरम्॥ 200
फणामणिसहस्रांशुनिचयेन विसर्पता। रञ्जितं चन्दनेनैव रक्तेनातिसुगन्धिना॥ 201
नारायणाङ्गसौगन्ध्य चर्चि(वर्धि)तस्वाङ्गसौरभम्। फणासहस्रं वियति वितानमिव सर्वतः॥ 202
वितत्यासीनमानन्दनिर्भरोद्भ्रान्तलोचनम्। अचिन्त्यानन्तविज्ञानबलैकनिलयं विभुम्॥ 203
राजाधिराजं नागानामनन्तं कान्तविग्रहम्। ध्यात्वा प्रणम्य चाभ्यर्च्य गन्धपुष्पादिभिः शुभैः॥ 204
ततः प्रागुत्तरे देशे योगपीठस्य पार्श्वतः। न्यसेत् रत्नमयं पीठं रुचिरं शेषभोजिनः॥ 205
||इतरपरिवाराणां पीठकल्पनम्||
पश्चिमायामपि दिशि पीठं शेषाय निक्षिपेत्। पुरतो वैनतेयस्य निदध्यात् पीठमासनम्॥ 206
पुरतः पार्श्वतः पश्चादपि पद्मानि सर्वतः। अन्येषां परिवाराणां आसनानि प्रकल्प्य च॥ 207
पश्चिमोत्तरदिग्भागे योगपीठसमीपतः। आसीनान् मनसा ध्यात्वा स्वगुरून् तद्गुरूनपि॥ 208
उपसृत्योपसद्यैतान् अभिवाद्य प्रसाद्य च। यथायथं स्वमन्त्राभ्यां प्रणम्याभ्यर्च्य सादरम्॥ 209
तेभ्यो विज्ञापयेदेवं प्रयतः स्वचिकीर्षितम् । $ गुरवस्तदीयगुरवो दिशन्तु मम साध्वनुग्रहम् ॥ 210
||प्रार्थनामन्त्रः||
युष्मदुपजनितशक्तिमतिरहं हरिमर्चयामि गतभीः प्रसीदत । $ इति विज्ञाप्य तैश्चाथ दत्तानुज्ञो गतव्यथः ॥ 211
||यागभूमौ भगवदावाहनम्||
यागभूमिं संप्रकीर्य साक्षतैः कुसुमोत्करैः । ततो गुग्गुलुकर्पूरचन्दनागुरुजन्मभिः॥ 212
अधिवास्य शुभैर्धूपैः भूयो भूयश्च सर्वतः । ततोऽभिमुखयन्देवं अवतीर्णं स्वके गृहे ॥ 213
सहिष्णुमपराधानां अनन्तासह्यरूपिणाम् । व्योम्नश्च तस्माद्वैकुण्ठात् अवतीर्यात्मनोऽग्रतः॥ 214
आसीनमादिपुरुषं श्रिया भूम्या च संयुतम् । शेषशेषाशनाद्यैश्च सूरिभिः सचिवैरपि ॥ 215
स्वयैव कृपया सम्यक् स्वदृष्टिपथमागतम् । प्रणम्य दण्डवद्भूम्यां साष्टाङ्गं हृष्टमानसः॥ 216
मूर्ध्न्याधायाञ्जलिं तिष्ठन् सस्नेहादरसाध्वसम् । आवाहनमिति प्रोक्तं याचेदात्मावलोकनम् ॥ 217
निवेदयेच्च भूयोऽपि प्रणम्यात्ममनोरथम् । इज्याकालस्तृतीयोऽयं अह्नोंशस्समुपागतः ॥ 218
||भगवत्प्रार्थना ||
संभृताश्चैव संभाराः कल्पितान्यासनानि च । स्नानाद्यर्थानि देवेश तवेच्छा वर्तते यदि ॥ 219
अवलोकनदानेन तत्सर्वं सफलं कुरु । तदर्थं सह देवीभ्यां सानुगैः सचिवैः सह ॥ 220
||प्रथम मन्त्रासनम्||
मदनुग्रहाय कृपया ह्यत्रागन्तुं त्वमर्हसि । इति विज्ञापितायाथ ददते चावलोकनम् ॥
पादुकाग्र्ये प्रदायाग्रे प्रणम्य च पुनः पुनः । हरिवाहनमात्मानं मन्यमानः खगाधिपम् ॥ 222
मूर्ध्न्याधाय च तं देवं प्रथमासनमानयेत् । आगताय निवेद्याथ पूर्वकल्पितमासनम् ॥ 223
अध्यास्वैनमिहास्वेति याचित्वाऽभिप्रणम्य च । आसीनाय सुसंहृष्टः सपत्नीकाय वेधसे ॥ 224
स्वागतं विनिवेद्याथ सान्निध्यं प्रार्थ्य सादरम् । ततस्सपुत्रभार्याकं सान्वयं सपरिग्रहम् ॥ 225
सादरं विष्णवे तस्मै स्वमात्मानं निवेदयेत् । आसीने पुरुषे तस्मिन् शेषादिषु च सर्वतः॥ 226
आसनेषु यथाभागं आसीनेषु हरेर्दृशा । ततः कृताभ्यनुज्ञानो हरिणा सूरिभिश्च तैः॥ 227
हृद्यागं कर्तुमुद्युक्तः कुर्यादेवमतन्द्रितः। हृत्पुण्डरीकमध्ये तु योगपीठं यथा बहिः॥ 228
||हृद्यागः||
कुर्यादाधारशक्त्यादिनागराजान्तमुज्ज्वलम्। आसीनं तस्य पीठस्य पार्श्वतः पृष्ठतः स्वयम्॥ 229
ध्यायेन्नारायणं देवं तस्य पीठस्य चोपरि । भोगिभोगासनासीनं श्रिया भूम्या च संयुतम् ॥ 230
||भगवद्रूपध्यानम्||
वामोरूपरि विन्यस्तदक्षिणाङ्घ्रिसरोरुहम् । प्रसार्याधाय वामाङ्घ्रिं पादपीठाम्बुजान्तरे ॥ 231
प्रसार्य दक्षिणं बाहुं न्यस्य दक्षिणजानुनि । नागभोगोपरि न्यस्तवामबाहुव्यपाश्रयम् ॥ 232
अपरेणापि करयोः युगलेनोर्ध्ववर्तिना । उन्नालकमलाभोगधृतशङ्खसुदर्शनम् ॥ 233
प्रसारितकराम्भोजधृतलीलासरोरुहम् । प्रणतावेक्षणा(यैष ह्य)येषदवनम्रमिवाग्रतः॥ 234
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् । गाम्भीर्यौदार्यचातुर्यमाधुर्यादिगुणान्वितम् ॥ 235
स्मेरारविन्दवदनं चावार्यतनतभ्रुवम् । सुकपोलं सुविस्तीर्णललाटतटशोभितम् ॥ 236
तुङ्गघोणान्तविलसत्सुस्मिताधरविद्रुमम् । विलम्बिकर्णपाशान्तस्फुरन्मकरकुण्डलम् ॥ 237
आपीनानिन्द्यमधुरविलसत्कम्बुकन्धरम् । तुङ्गकान्तांसपर्यन्तविलम्ब्यानीलकुन्तलम् ॥ 238
बाहुभिः परिघाकारैः सर्वभूषणभूषितैः । शोभितं रत्नखचितैः सागरैरिव मन्दरम् ॥ 239
श्रीवत्सकौस्तुभभृता विपुलेन निजोरसा । बिभ्रतं वैजयन्तीं स्वां स्रजं साक्षादिव श्रियम् ॥ 240
तनुवृत्तं निमग्नांसनाभिमुद्रोपशोभितम् । त्रिवलीवलितोद्भासितनुमध्योदरश्रियम् ॥ 241
व्यालम्बिपीतवसनं चार्वञ्चितपदाम्बुजम् । किरीटहारकेयूरकटकाद्यैः स्वभूषणैः ॥ 242
भूषितं भूषणैश्चान्यैः स्वरत्नैरिव सागरम् । शङ्खचक्रगदाखङ्गशार्ङ्गाद्यायुधसञ्चयैः ॥ 243
वृतं वह्निभिरुद्भूतैः और्वैरिव महार्णवम् । $ एवमेव स्वमन्त्रेण ध्यायेद्दक्षिणतः श्रियम् ॥ 244
||श्रीदेवीध्यानम्||
ईश्वरीं सर्वभूतानां जननीं सर्वदेहिनाम्। चारुस्मितां चारुदतीं चारुनेत्रां नतभ्रुवम् ॥ 245
सुकपोलां सुकर्णान्तन्यस्तमौक्तिककुण्डलाम् । सुकेशीं चारुबिम्बोष्ठीं रक्ततुङ्गनखस्तनीम् ॥ 246
अलकैरतिनीलाभैः अलङ्कृतमुखाम्बुजाम् । लसत्कनकशङ्खाभपीनसुन्दरकन्धराम् ॥ 247
निष्ककण्ठीं स्तनालम्बिमुक्ताहारविराजिताम् । नीलकुन्तलमध्यस्थमाणिक्यमकुटोज्ज्वलाम्॥ 248
शुक्लमाल्याम्बरधरां तप्तहाटकवर्णिनीम् । अनन्यसुलभैस्तैस्तैः गुणैस्स्वाभाविकैर्निजैः॥ 249
अनुरूपानवद्याङ्गीं हरेर्नित्यसहायिनीम् । एतामेवमनुस्मृत्य स्वमन्त्रेण प्रणम्य च॥ 250
251 चिन्तयेत्सव्यतश्चापि भुवं भगवतः प्रियाम्। स्वमन्त्रेण गुणैस्तैस्तैः शुभैश्श्यामामिव श्रियम्॥
||भूदेवीध्यानम्||
हरेरिवास्याः ध्येयानि भूषणान्यम्बराणि च । $ स्थितां पुरस्तात् देवस्य संस्मरेदपरां प्रियाम् ॥ 252
||नीलादेवीध्यानम्||
स्वमन्त्रेणानवद्याङ्गीं नीलकुञ्चितकुन्तलाम् । बालामबालेन्दुमुखीं नीलेति प्रवदन्ति याम् ॥ 253
पादसंवाहिनीश्चान्याः शुभाः श्रिय इवापराः। असङ्ख्या दिव्यवपुषो दिव्याभरणभूषिताः॥ 254
||पादसंवाहिनीध्यानम्||
पुष्पभाजनताम्बूलकरण्डमुकुरादिभिः। परिचारोपकरणैः स्वस्वकर्मोचितैर्युताः॥ 255
ध्यात्वैवमेताः स्वैर्मन्त्रैः पुरस्तात् प्रमुखे हरेः । $ चतुर्भुजं चतुर्वक्त्रं सुवेषं चारुलोचनम् ॥ 256
||दिव्यभूषणध्यानम्||
सर्वावयवसंपूर्णं सर्वावयवसुन्दरम् । हस्तद्वयेन चोर्ध्वेन मौलिना स्वेन चोच्चकैः ॥ 257
दधतं देवदेवस्य किरीटं सर्वतोमुखम् । करद्वयेन चान्येन कृताञ्जलिपुटं हृदि ॥ 258
ध्यात्वा किरीटाधिपतिं समन्त्रं दिव्यविग्रहम् । आपीडात्मानमप्येवं चिन्तयेत् पुरतो हरेः॥ 259
बिभ्रतं स्वेन मन्त्रेण देवापीडं स्वमौलिना । पार्श्वयोरुभयोर्ध्यायेत् कुण्डले मकरात्मके ॥ 260
स्वमन्त्रेण स्वमौलिस्थदेवश्रवणभूषणे । पञ्चवर्णामपि पुरो वनमालां गदाभृतः॥ 261
वैजयन्तीं मृदुतनुं श्रियं मूर्तिमतीमिव । यां वदन्ति पुराणज्ञा भूतमालां मनीषिणः॥ 262
आधारभूतां भूतानां तां स्वमन्त्रेण संस्मरेत् । तुलसीमपि तत्पार्श्वे सर्वसौगन्ध्यनिर्भराम्॥ 263
श्यामां कमलपत्राक्षीं गोविन्दचरणप्रियाम्। प्रियां श्रियमिवानन्यां हरेर्नित्यविभूषणाम्॥ 264
प्रणम्यात्मीयमन्त्रेण ध्यायेत्प्रमुखतो हरेः। प्रधानतत्वस्याधारं स्वमन्त्रेणातिसुन्दरम्॥ 265
श्रीवत्सं पुरतो विष्णोः हेमप्रभमनुस्मरेत्। भास्वरं दिव्यवपुषमास्पदं चाखिलात्मनाम्॥ 266
कौस्तुभं पुरतो विष्णोः मन्त्रेण स्वेन संस्मरेत्। हारं चोदरबन्धं च काञ्चीं पीते च वाससी॥ 267
नूपुरादीनि चान्यानि भूषणान्यखिलानि च। तत्तदङ्गसमुत्थानि तेजांसीव परात्मनः ॥ 268
सुरूपाणि सुगन्धीनि सुकुमाराकृतीनि च। मनोनयनहारीणि देवस्यापि निजैर्गुणैः॥ 269
स्वैरेव धार्यमाणानि रूपैर्बहुविधैः शुभैः। यथारूपं यथास्थानं यथावर्णं यथाक्रमम्॥ 270
प्रणम्य चिन्तयेद्भक्त्या स्वमन्त्रैः परितो हरेः । देवस्य दक्षिणे पार्श्वे हेतिराजं सुदर्शनम् ॥ 271
||सुदर्शनध्यानम्||
चलस्वरूपमत्युग्रं मनस्तत्वाधिदैवतम् । द्विभुजं त्रिदशारिघ्नं ज्वलज्ज्वलनसन्निभम् ॥ 272
रक्तमाल्याम्बरधरं भीमं सुन्दरविग्रहम् । दधतं भगवच्चक्रं नित्यं वै स्वेन मौलिना ॥ 273
ध्यात्वा स्वकीयमन्त्रेण शिरसाभिप्रणम्य च । असिरत्नं च तत्रैव नन्दकं नन्दकं हरेः॥ 274
||नन्दकध्यानम्||
महाप्रमाणं विपुलं ज्ञानतत्वाधिदैवतम् । दिव्येन स्वेन वपुषा सर्वावयवशोभिना ॥ 275
बिभ्रतं मौलिना स्वङ्गं मन्त्रेण स्वेन संस्मरेत् । अविद्याधारमप्यत्र चिन्तयेद्वर्म पूर्ववत् ॥ 276
असिरत्नमहाकोशं मन्त्रेणोद्भूतविग्रहम् । शैत्यसौरभ्यसौन्दर्यमार्दवौज्ज्वल्यसंयुतम् ॥ 277
लीलापद्मं स्वमन्त्रेण ध्यायेत् पुरुषविग्रहम् । वामतः पाञ्चजन्यं च शङ्खराजं मनोहरम् ॥ 278
||पाञ्चजन्यध्यानम्||
शरच्छशधराकारं बृहत्कुक्षिसमन्वितम् । ह्रस्वदेहं महारावखण्डिताशेषदानवम् ॥ 279
फुल्लपद्मसदृक्षाक्षपाणिपादाननोज्ज्वलम् । दधतं शिरसा शङ्खमहङ्काराधिदैवतम् ॥ 280
चिन्तयित्वा स्वमन्त्रेण शिरसाभिप्रणम्य च । ततः कौमोदकीं चापि दिव्यरूपसमन्विताम् ॥ 281
||कौमोदकीध्यानम्||
दधतीं शिरसा स्वेन गदां भगवतः प्रियाम् । आधारभूतां मुनयो बुद्धितत्त्वस्य यां विदुः ॥ 282
ध्यात्वा प्रणम्य मन्त्रेण वामतो हेमभूषिताम् । ध्यायेत्ततः स्वमन्त्रेण शार्ङ्गमायतविग्रहम् ॥ 283
||शार्ङ्गध्यानम्||
अहङ्कारस्येन्द्रियादेरधिदैवतमाश्रयम् । शरैस्सर्वेन्द्रियाधारैः सर्वैः पुरुषविग्रहैः ॥ 284
दधद्भिः मौलिभिः स्वैःस्वैः स्वंस्वं रूपं विभूतिजम् । सुवृत्तं संवृतं मौर्व्या सख्येव प्रियया स्वया ॥ 285
स्वाकृतिभ्यां च तूणीभ्यां प्रियाभ्यामिव संयुतम् । त्रिनतं पुरुषाकारं दधत् स्वशिरसा धनुः ॥ 286
हैमपट्टैर्बहुविधैः सुरत्नैः सर्वतो वृतम् । अन्यान्यसङ्ख्या(न्योन्यसख्या)न्यच्छेद्यान्यमोघानि महान्त्यपि ॥ 287
||इतरायुधानां ध्यानम्||
दिव्यपूरूषरूपाणि परितः सर्वतो हरेः। स्वशिरोविधृतानन्तस्वविभूतिवपूंष्यपि ॥ 288
स्वस्वरूपावस(नुष)क्तानि स्वाङ्गप्रत्यङ्गवद्विभोः । एतान्यायुधजालानि स्वस्वमन्त्रैर्यथोदितम्॥ 289
अविदूऽरेऽथ देवस्य प्रागुदीच्यां वरासने। आसीनं नीलमेघाभं शङ्खचक्रगदाधरम्॥ 290
||सेनापतिध्यानम्||
पीतकौशेयवसनं चारुपद्मदलेक्षणम्। ऊर्ध्वं लक्षिततर्जन्या साज्ञया ससुरासुरान् ॥ 291
शासतं सकलान् लोकान् ध्यायेत् सेनापतिं हरेः। तस्पार्श्वे तत्प्रियां देवीं ध्यायेत्सूत्रवतीमपि॥ 292
कालप्रकृतिपूर्वांश्च चतुरस्तच्चमूपतीन्। गजाननजयत्सेनहरिवक्त्राननुक्रमात्॥ 293
प्रणम्य भक्त्या मन्त्रैः स्वैः ततः पश्चिमतो हरेः । नागराजमनन्तं च हलमुद्गरधारिणम् ॥ 294
||नागराजध्यानम्||
चतुर्भुजं सरोजाक्षं शशिकोटिसमप्रभम् । फणासहस्रमौल्याढ्यं नीलवाससमुज्वलम् ॥ 295
हरिसंस्पर्शजानन्दमन्दोद्भ्रान्तविलोचनम् । उपोपविष्टं वारुण्या कान्त्या चैवानवद्यया ॥ 296
वृतं स्वानुचरैर्नित्यैः अन्यैश्च भुजगेश्वरैः । वरकाञ्चनपीठस्थं ध्यायेत्तन्मन्त्रपूर्वकम्॥ 297
पुरतश्च सुखासीनं वैनतेयं वरासने। सुकीर्त्या रुद्रया चैव सार्धं हृदि कृताञ्जलिम्॥ 298
||वैनतेयध्यानम्||
शितश्यामलतुण्डाग्रं वृत्तभीमविलोचनम्। देवालोकनहर्षोत्थस्मितभिन्नोष्ठसम्पुटम्॥ 299
लसत्कर्णान्तविन्यस्तनागकुण्डलमण्डनम्। प(ह)रिनिक्षिप्तसुमुखकृतकर्णावलम्बकम्॥ वैनतेयध्यानम् ॥ 300
पक्षाभ्यां पञ्चवर्णाभ्यां युतं हैममिवाचलम्। अन्यैश्चानुचरैस्सार्धं ध्यायेत् पत्ररथेश्वरम्॥ 301
तन्मन्त्रेण प्रणम्याथ प्रियं मित्रं परात्मनः । देवस्य पुरतः पार्श्वे पादुके हेमभूषिते ॥ 302
||पादुकाध्यानम्||
दिव्यपूरुषरूपेण ध्यात्वा तन्मन्त्रपूर्वकम् । अशरण्याखिलजगच्छरण्ये शरणं व्रजेत्॥ 303
ततश्चण्डप्रचण्डौ द्वौ पूर्वद्वारस्य पार्श्वतः। शङ्खचक्रगदाहस्तौ संज्ञामुद्रौ महाबलौ॥ 304
||द्वारपालध्यानम्||
भूषितौ भूषणैः सर्वैः किरीटाद्यैर्महाधनैः। दक्षिणद्वारपार्श्वस्थौ तथा भद्रसुभद्रकौ॥ 305
जयञ्च विजयञ्चैव पश्चिमद्वारपार्श्वयोः। धातारं च विधातारमुत्तरद्वारपार्श्वयोः ॥ 306
तेषामधिपतींश्चैव तत्पतींस्तत्पतीनपि । तत्तन्मन्त्रैस्संप्रणम्य सम्पूज्याभिप्रसाद्य च॥ 307
ततो बहिर्गणाधीशान् अष्टावष्टसु दिक्ष्वपि। कुमुदं कुमुदाक्षं च पुण्डरीकं च वामनम्॥ 308
||बहिर्गणाधीशध्यानम्||
शङ्कुकर्णं सर्वनेत्रं सुमुखं सुप्रतिष्ठितम्। सवाहनपरीवारान् सायुधान् सपरिच्छदान्॥ 309
सर्वांश्चतुर्भुजानेतान् शङ्खचक्रगदाधरान्। भूषितान् भूषणैर्दिव्यैः ध्यायेन्मन्त्रैः पृथक् पृथक्॥ 310
नित्यज्ञानक्रियैश्वर्यान् परं साम्यमुपागतान्। सर्वान्पारिषदान् ध्यायेत् मन्त्रैः स्वैः परितो हरेः॥ 311
एवं ध्यात्वा (ऽथ)च तं देवं मानसैरतिमानुषैः। सांस्पर्शिकैश्च गन्धाद्यैः छत्राद्यैरौपचारिकैः॥ 312
शुद्धैर्हविरपूपाद्यैः शुभैराभ्यवहारिकैः। उपचारैश्चतुःषष्टिसङ्ख्यैरावाहनादिभिः॥ 313
अभ्यर्च्य देवं हृदये द्रव्यैर्भावमयैः शुभैः। पत्नीपरिजनोपेतं प्रणम्याभिप्रसाद्य च ॥ 314
निवेद्य च बहिर्यागमेवं भक्त्या समाहितः। निष्क्रम्य तस्माद्धृदयादासीनः पुरतो हरेः॥ 315
||हृद्यागसमाप्तिः||
कृताञ्जलिपुटस्तस्मै निवेद्यात्मचिकीर्षितम् । अनुज्ञातश्च तेनापि देवीभ्यां सचिवैरपि ॥ 316
ततश्चण्डप्रचण्डादीन् सगणान् सर्वदिक्ष्वपि । अभ्यर्च्य गन्धपुष्पाद्यैः सादरं द्वारपालकान् ॥ 317
||बहिर्यागे उपचाराः||
आरभेत बहिर्यागमेवं भोगक्रमं स्मरेत्। प्रदर्शनं प्रदानं च क्षामणं प्रीणनं तथा॥ 318
आदौ मध्येऽवसाने च प्रतिभोगं समाचरेत्। अवलोकय देवेदमित्यावेद्य स्वसंज्ञया॥ 319
प्राप्तंप्राप्तं क्रमाद्भोगं दर्शयेदासनादिकम्। प्रदर्शितमिमं भोगं गृह्णीष्व भगवन्निति ॥ 320
ब्रुवन् प्रणम्य प्रयतः प्रदद्यात् परमात्मने। अथापराधानखिलान् दत्तभोगानुबन्धिनः॥ 321
क्षमस्व देवदेवेति क्षामयेत् प्रणमन् पुनः। देवपादौ स्वहस्ताभ्यां गृहीत्वा शिरसा नमन् ॥ 322
प्रीणयेद्दत्तभोगेन प्रीयतां भगवानिति। भोगदानविधावेवं सावधानस्सदा स्मरेत्॥ 323
पूर्वं सङ्कल्पितादर्घ्यात् द्वितीयाच्चषकादिना। आदाय साक्षतं तोयं पाणिभ्यां नासिकासमम्॥ 324
||बहिर्यागारम्भः||
ऊर्ध्वमुत्क्षिप्य सभयः तिष्ठन्नवनताननः। गृह्णीष्व भगवन् पूजां मत्प्रयुक्तामिति ब्रुवन्॥ 325
न्यसेद्दक्षिणतः किञ्चित् जलं देवस्य मूर्धनि। शेषं तच्चरणौ स्मृत्वा क्षिपेदर्घ्यप्रतिग्रहे॥ 326
यौगपद्येन भोगानामर्घ्यमर्पण(मुच्य)मिष्यते। तच्चागतस्य देवस्य श्रमायासोपशान्तये॥ 327
सर्वरत्नविचित्रञ्च हैमं पाद्यप्रतिग्रहम्। दत्वा सपुष्पं करयोः प्रसार्य युगलं स्वकम्॥ 328
याचेत शिरसा देवं स्पृशन् तच्चरणाम्बुजम्। अकृत्रिमप्रेमरसमधुरैः स्वकराम्बुजैः॥ 329
||पादप्रक्षाळनम्||
शुद्धैः स्वभावमधुरैः सुखस्पर्शैः सुगन्धिभिः। संवाह्यमानमनिशं शेषशेषाशनादिभिः॥ 330
असत्यस्यातिनीचस्य भक्तिहीनस्य दुर्मतेः। ममापि करयोरद्य स्वयैव कृपया हरे॥ 331
निधेहि चरणद्वन्द्वं त्वामस्मि शरणं गतः। अभ्यर्थितेन तेनैव दत्तं तद्दक्षिणं पदम्॥ 332
पूर्वसङ्कल्पितात्पाद्यात् उद्धृतैर्जलजादिना। स्वयमेव शुभैस्तोयैः पाणिभ्यामवनेजयेत्॥ 333
ततः प्लोतेन सम्मृज्य चन्दनेनोपलिप्य च। दत्तपुष्पचयं पादं नागभोगे निवेशयेत्॥ 334
एवं सव्यं च चरणम् अवनिज्यावमृज्य च। अनुलिप्यार्चयित्वा च यथापूर्वं निवेशयेत्॥ 335
ततः पुरस्तात् देवस्य हेमरत्नविचित्रितम्। निधायाचमनोच्छिष्टप्रतिग्रहमनुत्तमम्॥ 336
तत आचमनार्थं च हस्ते देवस्य दक्षिणे। पूर्वसङ्कल्पितं तोयं दद्याद्भक्त्या यथा पुरा॥ 337
ततो दध्नि मधु न्यस्य सर्पिर्वा मध्वलाभतः। मधुपर्कं प्रकल्प्य त्रिः मधुपर्क इति ब्रुवन्॥ 338
||मधुपर्कोपचारः||
प्रदर्श्य पुरतस्तस्य प्रदद्याद्दक्षिणे करे। ततः प्रीतवति प्रीत्या मधुपर्कं परात्मनि॥ 339
हस्तस्य क्षालनायाथ प्रदद्यादुष्णवार्यपि। दत्वा चाचमनीयाम्भः सुगन्धि शुचि निर्मलम्॥ 340
हस्तस्य मार्जनायाथ प्लोतं धौतं सुधूपितम्। सालङ्कारां च गां दद्यात्सवत्सां तरुणीं शुभाम्॥ 341
ततश्चन्दनकर्पूरकृङ्कुमागरुभिः कृतम्। क्षोदं हिमजलैः सिक्तं दर्शयित्वा निवेद्य च॥ 342
||गन्धलेपोपचारः||
तेन देववपुस्सर्वमनुलिम्पेत् स्वपाणिना। ततो लक्ष्मीं भुवं चापि परिवारांश्च सर्वशः॥ 343
अङ्गरागैर्बहुविधैः अनुलिम्पेत् सुगन्धिभिः। ततः पुष्पाणि देवस्य दत्वा पाणिसरोजयोः॥ 344
||पुष्पमालोपचारः||
गन्धवन्त्यनवद्यानि विविधानि बहूनि च। स्वोत्पादितानि स्वक्षेत्रादानीता(दुत्पन्ना)नि स्वपाणिना॥ 345
तुलसीपद्मकल्हारचम्पकादीनि सादरम्। दामभिर्विविधैः चित्रैः घ्राणनेत्रमनोहरैः॥ 346
शुद्धैः सुगन्धैः सुभगैः सुखस्पर्शैः सुकल्पितैः। अयातयामैः अम्लानैः अगतामोदवैभवैः॥ 347
अनिषिद्धैरविच्छिन्नैः अपर्युषितपूतिमिः। तुलसीमल्लिकाजातिचम्पकादिविनिर्मितैः॥ 348
मौलिमावेष्ट्य देवस्य दत्वा चोत्तंसकस्रजम्। कण्ठमाला बहुविधा दत्वा पादस्रजश्शुभाः॥ 349
मुक्तपुष्पचयं चापि बहुरूपं समन्ततः। सम्प्रकीर्य स्वहस्ताभ्यां पादयोः पार्श्वतस्तथा॥ 350
उपर्यपि च देवस्य प्रकीर्य कुसुमोत्करम्। देव्योश्च परिवाराणां दत्वा पुष्पाणि देववत्॥ 351
आदर्शं दर्शयित्वाऽग्रे प्रणमेद्दण्डवत्क्षितौ। ततो गुग्गुलुकर्पूरचन्दनागरुभिः कृतम्॥ 352
||धूपोपचारः||
धूपं सौ(सु)गन्धमादाय देवाय विनिवेदयेत्। देव्यादि परिवारेभ्यो दत्वा धूपं च पूर्ववत्॥ 353
ततः कर्पूरचूर्णाढ्यघृतार्द्रनववर्तिजात्। ज्वलतो रुचिराद्दीपात् उत्थितात् चतुरङ्गुलम्॥ 354
||दीपोपचारः||
सुगन्धि दृष्टिसुखदम् औष्ण्येन परिवर्जितम्। आलोकमात्रामादाय स्वेन दक्षिणपाणिना॥ 355
सदेवीकाय देवाय स्वमन्त्रेण निवेदयेत्। घण्टानादसनाथौ द्वौ धूपदीपौ निवेदयेत् ॥ 356
||घण्टानादनम्||
तन्नादसंयुतावेतौ दुष्टसत्त्वनिबर्हणौ। भगवत्प्रीतिजनकौ शृण्वतां पापनाशकौ॥ 357
तत आचमनं दत्वा पूर्वसङ्कल्पितैर्जलैः। शुभैः कर्पूरजैस्तैलैः सिक्तं कुसुमवासितम् ॥ 358
||ताम्बूलोपचारः||
प्रभूतं क्रमुकं दद्यात् श्वेतताम्बूलसम्मितम् । देवाय देवीयुक्ताय सानुयात्राय सादरम् ॥ 359
ततः प्रणम्य स्थित्वा च मूर्ध्न्याधायाञ्जलिं स्थितः। स्नानासनं ससंभारमेवं संस्मारयेद्धरिम्॥ 360
||स्नानासनोपचारः||
स्नानकालस्त्वयं प्राप्तः तवेच्छा वर्तते यदि। अभ्यञ्जयित्वा देवेश सुस्नानं कर्तुमर्हसि॥ 361
||प्रार्थनामन्त्रः||
स्फुटीकृतं मया देव इदं स्नानपरे त्वयि। सपादपीठं परममिदं स्नानासनं महत्॥ 362
आसादयाशु स्नानार्थं मदनुग्रहकाम्यया। इति विज्ञाप्य तं देवं तेन चाप्यनुमोदितः॥ 363
आदाय पादुके तस्मै स्नानासनमथानयेत्। तत्रासीनाय देवाय दत्वाऽर्घ्यं पूर्ववन्मुदा॥ 364
पूर्वभुक्तानि माल्यानि वस्त्राण्याभरणानि च। अपनीय ततः स्नानशाटीं दत्वा यथोचितम्॥ 365
पत्नीभ्यामपि चैवैतत् कृत्वा सर्वं पृथक् पृथक्। पाद्यमाचमनं दत्वा पादपीठं च सुस्थि(र)तम्॥ 366
दन्तकाष्ठद्वयं दत्वा दन्तपङ्क्त्योर्द्वयोरपि। जिह्वानिर्लेहनपटं दद्यात् स्वर्णादिनिर्मितम्॥ 367
आस्यशोधनतोयं च मुखप्रक्षाळनं तथा। तत आचमनीयाम्भः आदर्शं निर्मलं तथा॥ 368
हस्तप्रक्षालनं तोयं दत्वा मात्रां प्रदर्श्य च। सुगन्धिभिः सुरूपैश्च कल्पितां शालितण्डुलैः॥ 369
प्रहृष्टपरिचर्याख्यां सर्वभोगप्रपूरणीम्। क्रमुकं च सताम्बूलं यथापूर्वं निवेद्य च ॥ 370
अभ्यङ्गं गन्धतैलेन सुगन्ध्युद्वर्तनं शुभम्। बहुभिश्चामराद्यैश्च वीजनं गात्रमर्दनम् ॥ 371
तैलशोधनचूर्णानि गन्धामलकवारि च। केशप्रक्षालनं तोयं सुगन्धि च सुनिर्मलम् ॥ 372
लोघ्रकल्केयपिण्याकं कचोरं कर(तं)कं तथा। प्रियङ्गुसंयुतं तोयं निर्मलं तगरांबु च ॥ 373
सिद्धार्थकं जलं चैव सुगन्धि सलिलं नवम्। सर्वौषधिजलं सर्वरत्नवारि सुगन्धि च ॥ 374
शुद्धतोयं च दत्वैषामन्तरे चान्तरे जलम्। दत्वा देवस्य शिरसि केशान् संवेष्ट्य वाससा ॥ 375
ततश्शुद्धैर्माषपिष्टैः चूर्णैश्च विविधैश्शुभैः। देहं संशोध्य देवस्य जलैः प्रक्षाल्य निर्मलैः ॥ 376
स्नानशाटीं विसृज्यान्यद्वस्त्रं दद्यात्सुधूपितम्। प्रदद्याच्छुद्धतोयं तु स्रानासनविशुद्धये ॥ 377
शोधिते च ततस्तोयैः स्वास्तृते धौतवाससा । आसने च ततस्तस्मिन् आसीने परमात्मनि ॥ 378
||अभिषेकोपचारः||
उपवीतोत्तरीये च जलं चाचमनीयकम्। गन्धं पुष्पं च धूपं च दीपं चाचमनं तथा ॥ 379
पवित्रं च शुभं कौशं करयोरुभयोरपि । सशङ्खतूर्यनिर्घोषम् ऋग्यजुस्सामनिःस्वनम् ॥ 380
सनृत्तगीतं वाद्यं च सर्वमङ्गळसंयुतम् । सहस्ररन्ध्रसंयुक्तहेमपद्मविनिस्सृतैः ॥ 381
जलैः सुगन्धिभिः शुद्धैः देवमूर्ध्न्यभिषेचनम् । कृत्वा प्रणम्य देवेशं पृष्ट्वा सुस्नानमादरात् ॥ 382
ततो नीराजनं कृत्वा देवं भक्तिसमन्वितः। लोध्रादिद्रव्यवारिभ्यः द्वादशभ्यः पृथक् पृथक् ॥ 383
||नीराजनोपचारः||
किञ्चित्किञ्चित् समादाय तत्तत्स्नानावसानतः। सुसञ्जातैर्जलैः पूर्णं कलशं हेमनिर्मितम् ॥ 384
सदूर्वाश्वत्थपत्रैश्च शुभैरपिहिताननम्। उपर्यारूढसौवर्णचतुर्दिग्दीपपात्रकम् ॥ 385
भ्रामयित्वोपरि हरेः त्रिस्समन्त्रं प्रदक्षिणम्। उपदीपैः परिवृतं शङ्खतूर्योपनादितम् ॥ 386
बहिर्निर्यातयेदेष नीराजनविधिक्रमः। ततः पद्मसमाकारकलशीनालनिस्सृतैः॥ 387
शुद्धैः सुगन्धिभिस्तोयैः देवं भूयोऽभिषिच्य च । दत्वाऽऽचमनमव्यग्रः केशान् संमृज्य वाससा ॥ 388
देहवारिहरं चापि प्लोतं दत्वा सुधूपितम् । स्नानशाटीमथावृत्य क्षौमं दत्वा सुधूपितम् ॥ 389
केशाधारं शुभं क्षौमम् आस्तीर्यांसद्वयोपरि । केशान् प्रकीर्याधिवास्य धूपैः संस्कृत्य कङ्कतैः ॥ 390
बध्वाऽलंकृत्य रुचिरैः दामभिश्च सुगन्धिभिः । अलङ्कारासनं चास्य दर्शयित्वा प्रसाद्य च ॥ 391
||अलङ्कारासनोपचारः||
दत्वा तु पादुकाद्वन्द्वं तत्र देवं समानयेत् । तत्रार्घ्यपाद्याचमनगन्धसंमर्दनानि च ॥ 392
दत्वा तु तालवृन्ताद्यैः वीजयित्वा सचामरैः । धूपितं पीतवसनं भूषणान्यखिलानि च ॥ 393
उपवीतोत्तरीये च दत्वाऽस्याचमनं ततः। गन्धं बहुविधं रम्यं पुष्पाणि सुरभीणि च ॥ 394
स्रजश्च विविधा रम्याः सुगन्धि सुखदं दृशोः। अञ्जनं दर्पणं धौतं धूपं चाघ्राणसौख्यदम् ॥ 395
दीपमाचमनं चापि यथापूर्वं निवेदयेत्। दर्शयित्वा ततोऽस्त्राणि चक्रादीनि पृथक् पृथक्॥ 396
स्तोत्रैः स्तुतिसुखैः स्तुत्वा दत्वा पादुकयोर्युगम्। स्थापयित्वाऽग्रतश्चोच्चैः ध्वजं गरुडलक्षणम्॥ 397
छत्रं पार्वणचन्द्राभं मुक्तादामविराजितम्। हैमदण्डे च विमले चामरे चारुरूपिणी॥ 398
प्रदर्श्य रथमातङ्गतुरगांश्च सलक्षणान्। शयनासनायानानि शङ्खांश्चामन्द्रनिस्स्वनान्॥ 399
भेरीश्च पटुनिध्वानाः सकांस्यमधुरस्वनाः। मङ्गलानि च रम्याणि गंभीरनिनदान्यपि॥ 400
हैमीश्च काहळीर्दिव्याः सुस्वनाः श्रोत्रतर्पणाः। गीतानि श्रुतिहारीणि नृत्तं नेत्रमनोहरम्॥ 401
ढक्कादि विविधं वाद्यं शुभतालसमन्वितम्। प्रदर्श्य देवदेवस्य प्रीणनाय पृथक् पृथक्॥ 402
वित्तमात्रां सुवर्णाढ्यां दत्वा भोगप्रपूरणीम् । मूलमन्त्रेण तदनु तद्वर्णैश्च पृथक् पृथक् ॥ 403
||पुष्पाञ्जलिप्रदानोपचारः||
पञ्चभिश्चोपनिषदैर्वाराहाद्यैस्तथाऽपरैः। अन्यैश्च वैष्णवैर्मन्त्रैः प्राप्तैर्गुरुसकाशतः ॥ 404
पौरुषेणापि सूक्तेन प्रत्यृचं परमात्मने । दत्वा शुभानि पुष्पाणि प्रणम्य च पुनः पुनः ॥ 405
स्नानाद्येतदशेषेण देव्योरप्येवमाचरेत् । अन्येषां परिवाराणां कुर्यात् गन्धादिकं क्रमात् ॥ 406
ततः प्रदक्षिणं कृत्वा प्रणम्याष्टसु दिक्ष्वपि । स्तुत्वा जपित्वा स्वं मन्त्रं ध्यात्वा देवं यथोदितम्॥ 407
भोजनासनमावेद्य तद्यानाय प्रणम्य च। पादुकाग्र्ये प्रदायाथ भोजनासनमानयेत् ॥ 408
||भोजनासनोपचारः||
तत्रासीनाय दत्वाऽर्घ्यं पाद्यमाचमनं ततः। मधुपर्कं मधुयुतं दधि दद्यात् घृताप्लुतम् ॥ 409
तत आचमनं दत्वा हस्तप्र(सं)क्षाळनं तथा। सालङ्कारां च गां दद्यात् गोमात्रार्थं परात्मने ॥ 410
ततः प्रसन्नः प्रयतः प्रभूतं षड्रसान्वितम्। प्रभूतघृतसंयुक्तम् फलैः स्वादुभिरावृतम् ॥ 411
||आभ्यवहारिकोपचाराः||
प्रभूताज्याक्तमधुरविविधव्यञ्जनान्वितम्। बहूपदंशं बहूभिः चूर्णैरपि सुसंस्कृतम्॥ 412
मूलमन्त्राभिमृष्टं च संस्कृतं शोषणादिभिः। दिव्यामृतपयस्विन्या सिक्त्वा सुरभिमुद्रया॥ 413
हविर्निधाय पुरतः देवस्यात्यन्तमुत्सुकः। विज्ञापयेच्च पुरतः तिष्ठन् मूर्ध्नि कृताञ्जलिः॥ 414
असत्यमशुचिं नीचमपराधैकभाजनम् । अल्पशक्तिमचैतन्यम् अनर्हं तत्क्रियास्वपि॥ 415
मामनादृत्य दुर्बुद्धिं स्वयैव कृपया विभो। अतिप्रभूतमत्यन्तभक्तिस्नेहोपपादितम्॥ 416
शुद्धं सर्वगुणोपेतं सर्वदोषविवर्जितम्। स्वानुरूपं विशेषेण स्वदेव्यास्सदृशं गुणैः॥ 417
त्वमेवेदं हविः कृत्वा स्वीकुरुष्व सुरेश्वर। इति संप्रार्थ्य तं देवं आसीनस्तस्य चाग्रतः॥ 418
धान्यमात्रां दर्शयित्वा कारिणे संप्रदाय च। परिवेषोपस्तरणक्रियायै प्रोक्षणार्घ्यतः॥ 419
जलं गृहीत्वा देवस्य प्रदद्याद्दक्षिणे करे। अथादाय रसं सर्वं हविषः स्वेन पाणिना॥ 420
स्वयं वा भोजयेद्देवं प्रयतः परया मुदा। दद्याद्वा दक्षिणे हस्ते देवस्य ग्रासमुद्रया॥ 421
दद्यादपि पृथक्पात्रे दधिसिक्तं हविः पुनः। ततो भुक्तवति प्रीत्या तद्धविः पुरुषोत्तम॥ 422
देवीभ्यां च हविः शुद्धं पायसादि यथोदितम्। प्रभूतं सुबहु स्वादु घृतं भक्ष्यं निवेदयेत् ॥ 423
भुक्तवत्योः तयोश्चापि पत्न्योर्देवस्य चोभयोः। अनुपानं बहुविधं विनिवेद्य यथोचितम्॥ 424
प्रोक्षणार्घ्यात् गृहीत्वाम्भः सर्वेभ्यस्तु पृथक् पृथक्। करेषु तर्पणार्थाय प्रदद्याच्चषकादिना॥ 425
अथ कोष्णं शुचि जलं दत्वा करविशोधनम्। समाषचूर्णं सर्वेभ्यो दत्वा गण्डूषवारि च ॥ 426
मुखप्रक्षाळनं चाम्भः सह कर्पूरचन्दनम्। दत्वा चाचमनीयानि प्लोतान्यपि निवेदयेत्॥ 427
हस्तस्य मार्जनायैव प्लोतान्यपि निवेद्य च। पुनश्च चन्दनक्षोदं सकर्पूरं निवेदयेत्॥ 428
कराननाधिवासार्थं ताम्बूलं चापि पूर्ववत्। तिलमात्रां प्रदायार्थं कारिणे सम्प्रदाय च॥ 429
ततो निवेद्य प्रणतः प्रथमासनमादरात् । प्रदाय पादुकायुग्मं शनकैश्शनकैर्नयेत्॥ 430
||पुनर्मन्त्रासनम्||
देवं देव्यौ च संहृष्टः कृतार्थेनान्तरात्मना। तत्रासीनाय देवाय सपत्नीकाय सादरम्॥ 431
दत्वा पूर्ववदर्घ्याद्यमुपचाराष्टकं क्रमात् । दीपाचमनपर्यन्तं परस्मै मन्त्रमूर्तये॥ 432
अपूपान्विविधान्स्वादून् शालिपिष्टोपपादितान्। शुभैः स्वादुघृतैः पक्वान्प्रभूतगुडसंयुतान्॥ 433
पृथुकान् गुडसंमिश्रान् सजीरकमरीचकान्। कदळीपनसाम्राणां सुपक्कानि फलान्यपि॥ 434
ततस्सनालिकेराणि शुचिस्वादुरसानि च । दत्वाऽनुपानानि ततः तर्पणाचमने अपि॥ 435
सकर्पूरं सतांबूलं क्रमुकं पुष्पवासितम्। नृत्तं गीतं च वाद्यं च नेत्रश्रुतिमनोहरम्॥ 436
दर्शयित्वा च देवीभ्यामुपहारादि पूर्ववत्। विनिवेद्य च ताम्बूलं स्तुत्वा स्तोत्रैः प्रणम्य च ॥ 437
||परिवारपूजा||
गरुत्मच्छेषशेषाशप्रमुखेभ्योऽपि सादरम्। सर्वेभ्यः परिवारेभ्यः कृत्वैतत्सर्वमञ्जसा॥ 438
स्वगुरूंस्तद्गुरूंश्चापि गन्धाद्यैरभिपूज्य च। निवेद्य च यथापूर्वं शक्तितो हरिपूजनम्॥ 439
अनुमोदित एवं तैः सस्मितं सदयात्मभिः। ततो विशेषपूजायै विष्वक्सेनस्य संयतः॥ 440
अभ्यनुज्ञाप्य देवेशं तेन चाप्यनुमोदितः। ततः प्रतिनिवेद्याथ नैवेद्यमभिवीक्ष्य च ॥ 441
||निवेदितान्नविनियोगः||
भगवद्धस्तसंस्पर्शलब्धसौगन्ध्यनिर्भरम्। भगवद्वीक्षणावाप्तशुद्ध्याधिक्यविभूषितम् ॥ 442
सर्वशुद्धिकरं सर्वभोक्तृपापविनाशनम् । चतुर्धा संविभज्यैतत् षोढा वा स्वेन पाणिना ॥ 443
विष्वक्सेनार्चनार्थाय न्यस्यैकं भागमग्रतः। प्राङ्निवेदितमेतत्तु नैवेद्यमविशेषितम् ॥ 444
प्रयच्छेत्पात्रभूतेभ्यो वैष्णवेभ्यो विभज्य तत्। आत्मार्थं शिरसा स्वेन स्वीकुर्याच्च स्वयं च तत् ॥ 445
नैव देयमपात्रेभ्यः कदाचिदिह किंचन। प्रायश्चित्ती भवेद्दाता अपात्रे प्रतिपादनात् ॥ 446
||अपात्रदाननिषेधः||
भगवन्मन्त्रदृक्पूतमपात्रेभ्यो ददाति यः। सिद्धोऽपि याति पातित्यमारुरुक्षुस्तु किं पुनः ॥ 447
दाता प्रतिग्रहीता च नरकं व्रजतो ध्रुवम् । ततः प्रावणभागेन विभक्तेनामना पुरा ॥ 448
भुक्तोज्झितैश्च देवेन गन्धपुष्पाम्बरादिभिः। अर्चयेत् सपरीवारं स्वमन्त्रेण चमूपतिम् ॥ 449
तेन भुक्तोज्झितं सर्वं भक्तस्रक्चन्दनादिकम्। देवभुक्तोज्झितं चापि पवित्रं पापनाशनम् ॥ 450
न कस्मैचित् प्रयच्छेत्तत् अपात्राय विशेषतः। अपात्रे ददतं मूढं तद्भूतानि शपन्ति हि॥ 451
ततस्तद्भूततृप्यर्थं विशुद्धांभसि निक्षिपेत्। तद्गणानुचरो भूत्वा भुञ्जीत स्वयमप्यदः ॥ 452
तदाश्रितानां भूतानां पातालतलवासिनाम् । स्वेन भक्तोज्झितं सर्वं दत्तं तेन महात्मना॥ 453
एवमभ्यर्च्य सेनान्यं सपत्नीकं समन्त्रिणम् । देवपार्श्वमुपागम्य प्रणम्य च पुनः पुनः ॥ 454
||पूजासमाप्तिः||
प्राप्तमह्नश्चतुर्थांशं स्वाध्यायार्थमुदीरितम् । विज्ञाप्य विष्णवे तस्मै लब्धानुज्ञस्ततोऽपि च ॥ 455
बाह्यार्थादखिलाच्चेतः समाहृत्येन्द्रियैस्सह। जपन्नष्टाक्षरं मन्त्रं प्राणायामपुरस्सरम् ॥ 456
||अष्टाक्षरजपः||
प्रयतः परया भक्त्या पूर्वमेव समाहितः। कराङ्गुलिशरीरेषु न्यासान् कृत्वा यथोदितान् ॥ 457
गुरुं मन्त्रमृषिं छन्दो देवताश्च यथाक्रमम् । शक्तिं बीजं च शिरसा प्रणमेदेवमादृतः॥ 458
इदं गुरुभ्यः पूर्वेभ्यः क्रियते शिरसा नमः। मन्त्रज्ञानप्रदातृप्यः तद्गुरुभ्योऽपि सांप्रतम् ॥ 459
नमस्ते मन्त्रराजाय नमस्तेऽष्टाक्षरात्मने। नमस्ते चेतनाधारपरब्रह्माभिधायिने॥ 460
स्थित्वाऽन्तर्हृदये सर्वानात्मनस्सन्नियञ्छते। ऋषयेऽष्टाक्षरस्यान्तर्यामिणे हरये नमः ॥ 461
(ऋषयेऽष्टाक्षरस्यास्य बदर्याश्रमवासिने इति पाठान्तरम्)॥
अष्टाक्षरमहामन्त्रवर्णसङ्ख्याभिधायिनीम्। छन्दश्च देर्वी गायत्रीं शिरसा प्रणमाम्यहम् ॥ 462
मन्त्रशक्तिः स्थिता यस्मिन् आश्रितेष्टार्थदायिनी। पदं नारायणायेति शक्तिं तां प्रणमाम्यहम् ॥ 463
अकारादुत्थितं बीजं वासुदेवाभिधायिनम्। तद्बीजमस्य प्रभवं प्रणवं प्रणतोऽस्म्यहम् ॥ 464
मन्त्रस्य देवतां चापि परमात्मानमव्ययम् । नारायणं परं ब्रह्म नतोऽस्मि शिरसा हरिम् ॥ 465
प्रणम्य चैव गुर्वादीन् गन्धाद्यैरभिपूज्य च। अनिशं भगवद्बिम्बमापीठादवलोकयन्॥ 466
जपेदष्टाक्षरं मन्त्रं तदर्थमनुचिन्तयन्। अष्टोत्तरसहस्रं वा शतं वा दश वोत्सुकः॥ 467
जपान्ते मनसा ध्यात्वा यथोक्ताकृतिमच्युतम्। सपत्नीकं सानुयात्रं सद्वारपगणेश्वरम्॥ 468
||जपान्तकृत्यम्||
कृत्वैवं मनसा योगं सुचिरं हृष्टमानसः। उत्थाय च ततो योगात् दण्डवत् प्रणिपत्य च॥ 469
स्तुत्वा च बहुभिः स्तोत्रैः कृत्वा चापि प्रदक्षिणम्। स्थित्वाग्रे देवदेवस्य कृत्वा मूर्ध्नि कृताञ्जलिम्॥ 470
जितं त इति मन्त्रेण तं देवं शरणं व्रजेत्। ततः स्वस्मै प्रसन्नाय दत्ते तेनाभये सति॥ 471
निर्भयस्सर्वभूतेभ्यो भवेन्निर्वृतमानसः। कर्मण्यवसिते तस्मिन् दुर्लभे दुष्करेऽपि च॥ 472
अर्घ्यं दत्वा यथापूर्वं स्वमात्मानं निवेद्य च। स्वनिवेदितमन्त्रेण दासशिष्यात्मजन्मनः॥ 473
सादरः स्वेन शिरसा भक्तिनिघ्नः परात्मने। निदध्यात् स्वं च कर्तृत्वं तस्मिन्नेव परात्मनि॥ 474
क्षामयेच्चापराधान् स्वान् ज्ञानाज्ञानोपपादितान्। असङ्ख्यानविषह्यांश्च क्रियमाणानहर्निशम् ॥ 475
||अपराधक्षमा प्रार्थना||
अज्ञानतोऽप्यशक्त्या वा आलस्याद्दुष्टभावतः। कृतापराधं कृपया क्षन्तुमर्हसि मां विभो॥ 476
अज्ञानादथवा ज्ञानादशुभं यत् कृतं मया। क्षन्तव्यं तदशेषेण दास्येन च गृहाण माम्॥ 477
उपचारापदेशेन कृतानहरहर्मया। अपचारानिमान् सर्वान् क्षमस्व पुरुषोत्तम॥ 478
शिरसा प्रार्थितेनैवं प्रसन्नेन परात्मना। क्षान्तसर्वापचारेण करुणामृतवर्षिणा॥ 479
वात्सल्यौदार्यसौशील्याद्यनन्तगुणशालिना । अशरण्यशरण्येन कृपया परया स्वया॥ 480
सुस्मितालोकमधुरमाहूयाद्भुतया गिरा । दत्तं तत्पदयोर्युग्मं स्वयमेव स्वमूर्धनि॥ 481
वहंस्तच्चरणस्पर्शनिहताशेषकल्मषः। आसित्वा सुचिरं तस्य पुरतः परया मुदा ॥ 482
समुत्थाय ततस्तस्मै भूयो भूयः प्रणम्य च । स्मा(धा)रयित्वा स्वकं धाम तद्यानाय प्रणम्य च ॥ 483
||पर्यङ्कासनोपचारः||
दत्वाऽथ पादुकायुग्मं तत्र देवं समानयेत्। सपत्नीकं सानुयात्रं सद्वारपगणेश्वरम्॥ 484
ततस्तदर्हविन्यासं सोपधानं स्वलङ्कृतम् । अनन्तभोगशयनमारूढे परमात्मनि ॥ 485
आसीनयोस्तथा देव्योः देवपार्श्वे यथातथम् । आसीनेसु यथाभागं सेनान्यादिषु सर्वतः॥ 486
अथार्घ्यपाद्याचमनताम्बूलादि यथोचितम् । देवाय देवीयुक्ताय सानुगाय निवेद्य च ॥ 487
प्रणम्य दण्डवत् भूमौ भूयो भूयः पुरो हरेः । अनुयागादिकं चाथ चिकीर्षंश्चाह्निकं विधिम् ॥ 488
दत्तानुज्ञः परेणापि गमनायात्मनो बहिः। निर्गन्तुकामो निक्षिप्य देवं दौवारिकादिषु ॥ 489
सभयस्सानुतापश्च चण्डादीन् द्वारपालकान् । कुमुदादीन् गणेशांश्च चक्रादीन्यायुधान्यपि ॥ 490
||परिवारप्रार्थना||
गरुडं च विशेषेण शेषं शेषाशनं तथा । प्रणम्य धारयेद्देवं सस्नेहादरसाध्वसम् ॥ 491
निक्षिपन् जीवितमिव न्यस्यन्निव महानिधिम् । निधित्सन्निव चक्षुः स्वम् अर्पयन्निव कल्पकम्॥ 492
सर्वे भवन्तः सगणाः सन्नद्धास्सर्वदिक्ष्वपि । सावधानाश्च तिष्ठन्तु निक्षिपामि भवत्स्वहम् ॥ 493
मम नाथं मम गुरुं पितरं मातरं च मे । हरिं श्रियं भुवं चापि तान् पालयत सर्वतः॥ 494
यथानिक्षिप्तरूपं मे सन्दर्शयत सर्वदा । भवतश्शरणं लब्ध्वा व्रजामि गतसाध्वसः॥ 495
इति विज्ञाप्य तान् पश्चात् प्रार्थयेत हरिं गिरा। ननु देव त्वमेवैकः सस्थावरचरं जगत्॥ 496
||अन्ते भगवत्प्रार्थना||
ब्रह्मादिस्थावरान्तं च परिपासि बिभर्षि च । संहरिष्यसि चाप्यन्ते रूपैः स्वैस्वैर्यथेप्सितैः॥ 497
केन त्वं पाल्यसे देव केन वा त्वं विहिंस्यसे। अतस्त्वमेव त्वां देव्यौ चण्डादीन्पालकानपि॥ 498
मां च मामकमप्येतत् सर्वं गृहमशेषतः । पालयित्वा स्वसङ्कल्पमात्रेण मधुसूदन ॥ 499
त्वां मया त्वयि निक्षिप्तं विश्वस्तेनार्थिकल्पक । आगताय यथाकालं सर्वं मे दातुमर्हसि ॥ 500
इति विज्ञाप्य पुरतः दण्डवत्प्रणिपत्य च । होमं पितृक्रियां पश्चात् अनुयागादिकं च यत् ॥ 501
||पूजाऽनन्तरकर्तव्यानि||
सर्वमावेद्य तेनैव नियुक्तस्तच्चिकीर्षया । वीक्षमाणस्तमेवैनं चक्षुषा स्तब्धपक्ष्मणा ॥ 502
मूर्ध्नि न्यस्ताञ्जलिपुटः विनिष्क्रम्य शनैश्शनैः। बध्वा कवाटयुगलं रक्षां कृत्वा प्रणम्य च ॥ 503
होमाद्यमनुयागान्तं वैधं कर्म समाचरेत् । एवमेकदिनं वाथ द्विदिनं त्रिदिनं तु वा ॥ 504
||पाञ्चकालिकधर्ममाहात्म्यम्||
मासं संवत्सरं वापि यावज्जीवितमेव वा । वर्तेत भक्त्या परया वैष्णवस्तु चिरं सुखम् ॥ 505
प्रारब्धे मध्यतो विघ्नैः विच्छिन्नेऽप्यथ कर्मणि । नानर्थो न च नैष्फल्यं न कृतांशस्य संक्षयः ॥ 506
प्रारब्धेष्वसमाप्तेषु विच्छिन्नेष्वन्यकर्मसु । भवत्येवैतदखिलं वैदिकेष्वितरेष्वपि ॥ 507
कृतः खल्वांशकोऽप्यस्य स्थित्वा सुचिरमक्षयः। त्रायते च स्वकर्तारं स्वशक्त्या भवभीतितः ॥ 508
श्रद्धावानधिकार्यस्मिन् युक्ते कर्मणि वैष्णवे । नापरः कुलवृत्तादिगुणः कर्तुर्विशेषतः ॥ 509
||अधिकारनिर्णयः||
येन केन चिदेषित्रा भाव्यमस्मिंस्तु कर्मणि । तस्मिन् सुदुर्लभे लब्धे कृपैवानन्तरक्रिया ॥ 510
ज्ञानकर्मतपोयोगयुक्तानप्यधिकारिणः । श्रद्धाहानिः परो दोषः च्यावयेदधिकारतः ॥ 511
स्वोक्तासूपनिषत्स्वेवं उक्तवानुत्तमः पुमान् । श्रद्धाश्रद्धे समुद्दिश्य तस्मात् श्रद्धा परो गुणः ॥ 512
नेह कालक्रियाकर्तृद्रव्यदेशादिसंश्रिता । एषितारं तदिच्छां वा विहायास्ति नियन्त्रणा ॥ 513
निषेधाविषयीभावात् ऋते नैवापरो गुणः । प्रीतिहेतुः परेशस्य स्वार्चनाङ्गेषु वस्तुषु ॥ 514
अत एवार्चनाङ्गानि द्रव्याणि गणयन् स्वयम् । प्राह पत्रादिमात्राणि जातिवर्णादिभिर्विना ॥ 515
अहो हरिं ब्रुवन्नेवं मुक्तिमेत्यप्यहो अहो। अहो अहो सुलभता कृपा चैवमहो अहो ॥ 516
अस्त्येव निर्मलं तोयमयत्नसुलभं भुवि। दृश्यते च शुभा दूर्वा सुलभा सर्वदिक्ष्वपि ॥ 517
अस्ति जिह्वा हरिं स्तोतुं आत्मीयैवास्यमध्यगा । स्वकरावपि कर्मण्यौ ध्यातुमस्त्येव मानसम् ॥ 518
अतो न हानिर्मन्त्राणां यागविघ्नकरी हरेः। सामग्र्येषा हि संपूर्णा वक्त्राद्येकैकमेव तु ॥ 519
अज्ञानादथवा ज्ञानात् अपराधेषु सत्स्वपि । प्रायश्चित्तं क्षमस्वेति प्रार्थनैकैव केवलम् ॥ 520
सत्यसङ्कल्पसंयुक्ते सर्वज्ञे सर्वशक्तिके । नित्यनिर्दोषनिस्सीममहाविभवयोगिनि ॥ 521
स्वाधीनत्रिविधाशेषचिदचिद्वस्तुशेषिणि । निर्मलानन्तविज्ञाननिधावुदधिशायिनि ॥ 522
स्वसङ्कल्पकृताशेषजगत्सृष्टिलयस्थितौ । अर्चनादिष्वनर्हत्वात् न कश्चिन्नापराध्यति ॥ 523
अतोऽनङ्गीकृताशेषकर्तृदोषविमर्शया । कृपयैवास्य देवस्य सर्वोऽप्यर्हति सत्क्रियाम् ॥ 524
इत्यानुपूर्वी रचिता परस्य ब्रह्मणो हरेः । आराधनविधेस्सम्यक् वैष्णवानां मनःप्रिया ॥ 525
||ग्रन्थसमाप्तिः||
पठतां शृण्वतां चैनां विभूतिं (ति)श्रद्धयात्मना(म्) । श्रोतुमिच्छावतां चापि श्रुत्वा चाप्यनसूयताम् ॥ 526
भगवच्चरणाम्भोज-परिचर्यैकविग्रहा । वर्धतां वैष्णवी लक्ष्मीः अक्षया भक्तिवृद्धिदा ॥ 527
अष्टोत्तरैरनुपमैः श्लोकानां पञ्चभिः शतैः । उपचारानुपूर्वीयं रचिता परमात्मनः ॥ 528
||इति श्रीवंगिवंशेश्वर विरचिता कारिकाः||