[highlight_content]

नित्यग्रन्थः-श्री गोविन्दार्य

श्रियै नमः

श्रीमते रामानुजाय नमः

श्रीमद्गोविन्दार्य महादेशिकाय नमः

श्री ऎम्बाराख्यात गोविन्दार्यमहादेशिकविरित नित्यग्रन्थः

रामानुजपद्छाया गोविन्दाह्वानपायनी।

तदा यत्त स्वरूपा सा जीया न्मद्विश्रमस्थली॥

१. अथ वक्ष्ये प्रपन्नानां हरे राराधनक्रमम्।

आदौ शौविधिं कृत्वा स्नानं कृत्वा यथाविधि॥

२. तत्तन्मन्त्रेणोर्ध्वपुण्ड्रान् धारयित्वा विधानतः।

नित्यकर्माणि कृत्वाऽथ यागभूमिं प्रविश्य

३. उपविश्यासने ाथ प्राणानायम्य त्रिधा।

रेके प्रणवानष्टौ पूरके षोडश क्रमात्॥

४. द्वात्रिंश त्कुम्भके विद्वा न्पुन ष्षोडश रेके।

वामाङ्गुलीभि र्गणये देषोसौ नियमः क्रमात्॥

५. शोषणं दाहनं ैव प्लावनं यथाक्रमम्।

षौं यां रां वां लामिति बीजै रुपनिषण्मयैः॥

६. न्यसे न्नमोन्तबीजैश् सहैव परमेष्ठिना।

पुरपषेन विश्वेन सर्वेण विनिवृत्तिना॥

७. परमेष्ठ्या पादादिनिवृत्त्या मस्तकावधि।

शोषणं दाहनं तु स्यान्मूर्धादि रणावधि॥

८. निवृत्त्या परमेष्ठ्यन्तं प्लावनं मस्तकावधि।

पादाद्यं परमेष्ठ्यन्तं निवृत्यमिति क्रमः॥

९. स्थानानि मूर्धवदनहृन्नाभिरणानि

श्रीमदष्टाक्षरन्यासं कुर्या द्विद्वा न्यथाश्रुतम्॥

१०. मूर्धादींश् ततो न्यस्य ततो गुरुपरम्पराम्।

स्मृत्वा द्वयानुसन्धानदण्डव त्सम्प्रणम्य

११. आ्छादित मपा्छिद्य तथा पर्युषितानपि।

घण्टां निनाद्य देवाना मागमार्थं रक्षसाम्॥

१२. उत्सारणार्थं भक्तानां सान्निध्याय विशेषतः।

ततः प्रणम्योदकुम्भं शोधये ्छोषणादिभिः॥

१३. मूलमन्त्रे णाभिमन्त्र्य तथा पात्राणि शोधयेत्।

अर्घ्यं पाद्यं तथाऽऽामं स्नानं शुद्धोदमेव

१४. आग्नेयादिषु कोणेषु मध्येऽवस्थाप्य पूरयेत्।

अभिमन्त्र्य मन्त्रेण गृहीत्वार्घ्यजला ज्जलम्॥

१५. समं घ्राणै स्समुद्धृत्य सपवित्रेण मन्त्रतः।

भगवद्विग्रहं कुम्भं पात्रोपकरणादिकम्॥

१६. आत्मानमपि संप्रोक्ष्य शेषं पात्रान्तरि क्षिपेत्।

अथ कूर्मादिमन्त्रेण यथाभिरुितस्थलात्॥

१७. आवाह्य मूलमन्त्रेण सह पुष्पाञ्जलिं क्षिपेत्।

देवस्य दक्षिणे भागेऽस्मद्गुरुभ्यो नमोनमः॥

१८. इति नत्वा ात्मगुरु मनुज्ञाप्य प्रपूजयेत्।

सत्यं स्वगुरु मन्वीक्ष्य भगवा न्कमलासनः॥

१९. अर्ा मङ्गीकरोतीति भावयेत्प्रार्थये त्ततः।

तोयं दद्या त्समादाय ोद्धरण्या हरेः पदम्॥

२०. प्रक्षाल्य श्रीपदौ ाप्युद्धरण्या शुद्धवारिणा।

प्रक्षाल्यार्घ्या त्समादाय तोय मर्घ्य मिदं त्विति॥

२१. हस्ते दत्वाऽर्घ्य मादाय पुनरामनीयकात्।

तोयं दत्वा समााम इति स्कन्धगतेन

२२. एकेन प्लोतवस्त्रेण कुर्या त्पादोपमार्जनम्।

अन्येन हस्तवदनोपमार्जन मथारेत्॥

२३. दन्तधावनगण्डूषौ मुखमार्जन मेव

सकर्पूरं ताम्बूल मभिनीय ततो हरिम्॥

२४. स्नानासनाय सम्प्रार्थ्य गन्धतैलेन सादरम्।

अभ्यङ्ग मभिनीयाशु स्नानवेद्यां निवेश्य

२५. सालग्रामस्वरूपेण स्थितं स्नपनबेरकम्।

पुंसूक्तेन मन्त्रेण द्वयेना प्यभिषेयेत्॥

२६. प्लोतेनोपमृजं कृत्वा वस्त्रयज्ञोपवीतकम्।

दत्वासने प्रतिष्ठाप्य केशा न्कङ्कतशोधितान्॥

२७. कृत्वा भूषणस्रग्गन्धधूपदीपौ दर्पणम्।

मात्रां समर्प्य प्रार्थ्यैव भोज्यासन मथार्पयेत्॥

२८. अतिप्रभूतातिरसातिमनोज्ञातिसौरभम्।

अतिसङ्ख्यानेकविध धूसरंसोपदंशकम्॥

२९. फलानिमोदकोपेत पायसापूपलेह्यकम्।

रकीषकोपेतपूरितं सरसायनम्॥

३०. महादधिघृतक्षीर शर्करामधुसंयुतम्।

निवेद्य शीतळं ापि पानीयं मुखशोधनम्॥

३१. आामं प्लोतवस्त्रं गन्धं ैव समर्पयेत्।

सकर्पूरं ताम्बूलं दत्वाशेषं निवेदितम्॥

३२. महिषीभ्यश््छेषं नित्यमुक्तेभ्य एव

शेषं पराङ्कुशायापि परकालाय तत्पुनः॥

३३. रामानुजाय मुनये दत्वा स्वगुरवे तत्।

अनुज्ञयैव स्वगुरो स्स्वयं श्रीवैष्णवै स्सह॥

३४. स्वीकुर्या त्संस्मरेद्भूयो मूलमन्त्रं द्वयं तथा।

बिम्बेषु सत्सु बहुषु वाक्ययो रुभयोरपि॥

३५. सर्वमङ्गळविग्रहविशिष्टायेति मन्त्रतः।

द्वयेनोक्तोपारांश् सर्वानेव निवेदयेत्॥

३६. अन्येभ्योपि बिम्बेभ्यः क्रमादर्न मारेत्।

पाद्यमर्घ्यं तथाऽामं धूपदीपौ हवि स्तथा॥

३७. पानीयं पुनराामं ताम्बूलमिति सर्वतः।

इतरेषां सर्वेषा मुपारा नव स्मृताः॥

३८. तथैव नित्यमुक्तेभ्यः कार्यं देवार्नं क्रमात्।

केवलं मूलमन्त्रेण द्वयेनैकेन वा हरेः॥

३९. अखिलानुपारांश् दद्या द्ब्रह्मविदग्रणीः।

शेषेणैव प्रपन्नानां हरे राराधनक्रमः॥

श्री ऎम्बाराख्यात गोविन्दार्यमहागुरुप्रणीत नित्यग्रन्थ स्सम्पूर्णः

error: Content is protected !!