[highlight_content]

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः वाक्पारुष्यप्रकरणम्

याज्ञवल्क्यस्मृतिः

व्यवहाराध्यायः

वाक्पारुष्यप्रकरणम्

सत्यासत्यान्यथास्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणाम् ।
क्षेपं करोति ेद्दण्ड्यः पणानर्धत्रयोदशान् । । २.२०४ । ।

अभिगन्तास्मि भगिनीं मातरं वा तवेति ह ।
शपन्तं दापयेद्राजा पञ्विंशतिकं दमम् । । २.२०५ । ।

अर्धोऽधर्मेषु द्विगुणः परस्त्रीषूत्तमेषु
दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः । । २.२०६ । ।

प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः ।
वर्णानां आनुलोम्येन तस्मादर्धार्धहानितः । । २.२०७ । ।

बाहुग्रीवानेत्रसक्थि विनाशे वािके दमः ।
सत्यस्तदर्धिकः पाद नासाकर्णकरादिषु । । २.२०८ । ।

अशक्तस्तु वदन्नेवं दण्डनीयः पणान्दश ।
तथा शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु । । २.२०९ । ।

पतनीयकृते क्षेपे दण्डो मध्यमसाहसः ।
उपपातकयुक्ते तु दाप्यः प्रथमसाहसम् । । २.२१० । ।

त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः ।
मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः । । २.२११ । ।

********

Languages

Related Parts

error: Content is protected !!