[highlight_content]

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः स्त्रीसंग्रहणप्रकरणम्

याज्ञवल्क्यस्मृतिः

व्यवहाराध्यायः

स्त्रीसंग्रहणप्रकरणम्

पुमान्संग्रहणे ग्राह्यः केशाकेशि परस्त्रिया ।
सद्यो वा कामजैश्िह्नैः प्रतिपत्तौ द्वयोस्तथा । । २.२८३ । ।

नीवीस्तनप्रावरण सक्थिकेशावमर्शनम् ।
अदेशकालसंभाषं सहैकासनं एव । । २.२८४ । ।

स्त्री निषेधे शतं दद्याद्द्विशतं तु दमं पुमान् ।
प्रतिषेधे तयोर्दण्डो यथा संग्रहणे तथा । । २.२८५ । ।

सजातावुत्तमो दण्ड आनुलोम्ये तु मध्यमः ।
प्रातिलोम्ये वधः पुंसो नार्याः कर्णादिकर्तनम् । । २.२८६ । ।

अलंकृतां हरन्कन्यां उत्तमं ह्यन्यथाधमम् ।
दण्डं दद्यात्सवर्णासु प्रातिलोम्ये वधः स्मृतः । । २.२८७ । ।

सकामास्वनुलोमासु न दोषस्त्वन्यथा दमः ।
दूषणे तु कर्छेद उत्तमायां वधस्तथा । । २.२८८ । ।

शतं स्त्रीदूषणे दद्याद्द्वे तु मिथ्याभिशंसने ।
पशून्ग्छन्शतं दाप्यो हीनां स्त्रीं गां मध्यमम् । । २.२८९ । ।

अवरुद्धासु दासीसु भुजिष्यासु तथैव
गम्यास्वपि पुमान्दाप्यः पञ्ाशत्पणिकं दमम् । । २.२९० । ।

प्रसह्य दास्यभिगमे दण्डो दशपणः स्मृतः ।
बहूनां यद्यकामासौ तुर्विंशतिकः पृथक् । । २.२९१ । ।

गृहीतवेतना वेश्या ने्छन्ती द्विगुणं वहेत् ।
अगृहीते समं दाप्यः पुमानप्येवं एव हि । । २.२९२ । ।

योनौ ग्छतो योषां पुरुषं वाभिमेहतः ।
तुर्विंशतिको दण्डस्तथा प्रव्रजितागमे । । २.२९३ । ।

अन्त्याभिगमने त्वङ्क्यः कुबन्धेन प्रवासयेत् ।
शूद्रस्तथान्त्य एव स्यादन्त्यस्यार्यागमे वधः । । २.२९४ । ।

*********

Languages

Related Parts

error: Content is protected !!