श्रीरामायणे श्रीमत्सुन्दरकाण्डे सप्तमः सर्गः
स वेश्मजालं बलवान् ददर्श व्यासक्तवैडूर्यसुवर्णजालम् ।
यथा महत् प्रावृषि मेघजालं विद्युत्पिनद्धं सविहङ्गजालम् ।। 5.7.1 ।।
स वेश्मजालमित्यादि । व्यासक्तवैडूर्यसुवर्णजालं वैडूर्यघटितसुवर्णमयजालकरन्ध्रम् ।। 5.7.1 ।।
निवेशनानां विविधाश्च शालाः प्रधानशङ्खायुधचापशालाः ।
मनोहराश्चापि पुनर्विशाला ददर्श वेश्माद्रिषु चन्द्रशालाः ।। 5.7.2 ।।
निवेशनानां शालाः गृहान्तःशालाः । प्रधानैर्मुख्यैः शङ्खायुधचापैः शालन्ते प्रकाशन्त इति प्रधानशङ्खायुधचापशालाः । पचाद्यच् । वेश्मादिषु हर्म्यप्रासादादिषु । चन्द्रशालाः शिरोगृहाणि ।। 5.7.2 ।।
गृहाणि नानावसुराजितानि देवासुरैश्चापि सुपूजितानि ।
सर्वैश्च दोषैः परिवर्जितानि कपिर्ददर्श स्वबलार्जितानि ।। 5.7.3।।
नानावसुराजितानि नानारत्नराजितानि ।। 5.7.3।।
तानि प्रयत्नाभिसाहितानि मयेन साक्षादिव निर्मितानि ।
महीतले सर्वगुणोत्तराणि ददर्श लङ्काधिपतेर्गृहाणि ।। 5.7.4।।
प्रचत्नाभिसमाहितानि प्रयत्नेन यथायोगं स्थापितानि । मयेनेति विश्वकर्मा लक्ष्यते । महीतले निर्मितानि । इव शब्देन मयस्य निर्मातृत्वव्याजमात्रम् । रावणप्रयत्नेनैव निर्मितानीत्यर्थः । यद्वा अन्यानि गृहाणि विश्वकर्मनिर्मितानि, इमानि तु मयं व्याजीकृत्य स्वयमुपायप्रदर्शनमुखेन निर्मितानीति पूर्वगृहेभ्यो विशेष उच्यते ।। 5.7.4।।
ततो ददर्शोच्छ्रितमेघरूपं मनोहरं काञ्चनचारुरूपम् ।
रक्षोधिपस्यात्मबलानुरूपं गृहोत्तमं ह्यप्रतिरूपरूपम् ।। 5.7.5।।
महीतले स्वर्गमिव प्रकीर्णं श्रिया ज्वलन्तं बहुरत्नकीर्णम् ।
नानातरूणां कुसुमावकीर्णं गिरेरिवाग्रं रजसा ऽवकीर्णम् ।। 5.7.6।।
नारीप्रवेकैरिव दीप्यमानं तडिद्भिरम्भोदवदर्च्यमानम् ।
हंसप्रवेकैरिव वाह्यमानं श्रिया युतं खे सुकृतां विमानम् ।। 5.7.7।।
यथा नगाग्रं बहुधातुचित्रं यथा नभश्च ग्रहचन्द्रचित्रम् ।
ददर्श युक्तीकृतमेघचित्रं विमानरत्नं बहुरत्नचित्रम् ।। 5.7.8।।
तदन्तर्वर्तिपुष्पकविमानं दर्शयति — तत इति । अप्रतिरूपपूम् अप्रतिमसौन्दर्यम् । प्रकीर्णं दैवाच्च्युतम् । रजसा पुष्पपजसा । नारीप्रवेकैः नारीश्रेष्ठैः । “प्रनेकानुत्तमोत्तमाः” इत्यमरः । इव शब्दो वाक्यालङ्कारे । अर्च्यमानं, सर्वैरिति शेषः । हंसप्रवेकैर्वाह्यमानं सुकृतां पुण्यकृतां विमानमिव स्थितमित्यन्वयः । युक्तीकृतमेघचित्रं पुञ्जीकृतमेघचित्रम्, चित्रमेघसङ्घातसदृषमित्यर्थः । विमानरत्नं पुष्पकम् ।। 5.7.58।।
मही कृता पर्वतराजिपूर्णा शैलाः कृता वृक्षवितानपूर्णाः ।
वृक्षाः कृताः पुष्पवितानपूर्णाः पुष्पं कृतं केसरपत्त्रपूर्णम् ।। 5.7.9।।
महीति । यत्रेति शेषः । यत्र विमाने पर्वतराजिपूर्णा मही कृता चित्ररूपेण लिखिता । एवमुत्तरत्रापि बोध्यम् । अत्र पूर्वपूर्वं प्रत्युत्तरोत्तरस्य विशेषवत्त्वादधिकालङ्कारः ।। 5.7.9।।
कृतानि वेश्मानि च पाण्डुराणि तथा सुपुष्पाण्यपि पुष्कराणि ।
पुनश्च पद्मानि सकेसराणि धन्यानि चित्राणि तथा वनानि ।। 5.7.10।।
कृतानीति । अत्रापि यत्रेत्यध्याहार्यम् । पुष्कराणि पुष्करिण्यः ।। 5.7.10।।
पुष्पाह्वयं नाम विराजमानं रत्नप्रभाभिश्च विवर्द्धमानम् ।
वेश्मोत्तमानामपि चोच्चमानं महाकपिस्तत्र महाविमानम् ।। 5.7.11 ।।
पुष्पाह्वयं पुष्पकम् । उच्चमानम् अधिकमानम् । सर्वत्र ददर्धेत्यन्वयः ।। 5.7.11 ।।
कृताश्च वैडुर्यमया विहङ्गा रूप्यप्रवालैश्च तथा विहङ्गाः ।
चित्राश्च नानावसुभिर्भुजङ्गा जात्यानुरूपास्तुरगाः शुभाङ्गाः ।। 5.7.12 ।।
कृताश्चेति । यत्रेति शेषः । नानावसुभिः नानारत्नैः । ज्तायानुरूपाः जात्या सदृशाः, स्पष्टजातिस्वभावा इत्यर्थः ।। 5.7.12 ।।
प्रवालजाम्बूनदपुष्पपक्षाः सलीलमावर्जितजिह्मपक्षः ।
कामस्य साक्षादिव भान्ति पक्षाः कृता विहङ्गाः सुमुखाः सुपक्षाः ।। 5.7.13।।
प्रवालजाम्बूनदकृतानि पुष्पाणि पक्षेषु येषां ते प्रवालजाम्बूनदपुष्पपक्षाः । सलीलमावर्जितजिह्मपक्षाः सलीलमालम्बितवक्त्रपक्षाः । कामस्य पाक्षा इव कामस्य सहाया इव ।। 5.7.13।।
नियुज्यमानास्तु गजाः सुहस्ताः सकेसराश्चोत्पलपत्रहस्ताः ।
बभूव देवी च कृता सुहस्ता लक्ष्मीस्तथा पद्मिनि पद्महस्ता ।। 5.7.14।।
नियुज्यमानाः स्वयमेवात्मानं नियोजयन्तः । कर्मकर्तरि यक् । यत्र विमाने । पद्मिनि पद्माकरे । स्वयमेवोत्पलपत्राभिषेककर्मणि प्रवर्तमानाः । सुहस्ताः शोभनशुण्डादण्डाः । सकेसराः कृतजलावगाहत्वेनाङ्गलग्नकिञ्जल्काः ।। 5.7.14।।
इतीव तद् गृहमभिगम्य शोभनं सविस्मयो नगमिव चारुशोभनम् ।
पुनश्च तत्परमसुगन्धिसुन्दरं हिमात्यये नगमिव चारुकन्दरम् ।। 5.7.15।।
इतीवेति । इवशब्दो वाक्यालङ्कारे । तद्गृहं तस्य रावणस्य गृहम् । सविस्मयः, अभूदिति शेषः । नगं पर्वतमिव स्थितम् । शोभनं शोभमानम् । चारुशोभनं चारुमङ्गलम् । इतीवेत्येकनिपातो वा प्रकारार्थः । इतीव तद्गृहम् अभिगम्य अभिगत्य । अद्भुतदर्शनात्पुनश्चाभिगम्य सविस्मयो ऽभूदिति योजना । रुचिरावृत्तमिदम् । “चतुर्ग्रहैरिह रुचिरा जभस्जगाः” इति लक्षणात् ।। 5.7.15।।
ततः स तां कपिरभिपत्य पूजितां चरन् पुरीं दशमुखबाहुपालिताम् ।
अदृश्य तां जनकसुतां सुपूजितां सुदुःखितः पतिगुणवेगनिर्जिताम् ।। 5.7.16।।
तत इति । अदृश्य अदृष्ट्वा । ऋषिनिपातनान्नञ्पूर्वेपि ल्यप् । सुदुःखितः, अभूदिति शेषः । पतिगुणवेगनिर्जितां भर्तृगुणजवेन वशीकृताम् ।। 5.7.16।।
ततस्तदा बहुविधभावितात्मनः कृतात्मनो जनकसुतां सुवर्त्मनः ।
अपश्यतो ऽभवदतिदुःखितं मनः सुचक्षुषः प्रविचरतो महात्मनः ।। 5.7.17।।
इत्यार्षे श्रीरामायणे श्रीमत्सुन्दरकाण्डे सप्तमः सर्गः ।। 5.7।।
ततस्तदेति । बहुविधभावितात्मनः बहुविधं यथा भवति तथा चिन्तितात्मनः । कृतात्मनः निशितबुद्धेः । सुवर्त्मनः सदाचारसम्पन्नस्य । सुजक्षुषः दूरसूक्ष्मादिदर्शनेषु अप्रतिहतनयनतेजसः । महात्मनः महाधैर्यस्य ।। 5.7.17।।
इत्यार्षे श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तमः सर्गः ।। 5.7।।