श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टमः सर्गः
स तस्य मध्ये भवनस्य संस्थितं महद्विमानं मणिवज्रचित्रितम् ।
प्रतप्तजाम्बूनदजालकृत्रिमं ददर्श वीरः पवनात्मजः कपिः ।। 5.8.1 ।।
पूर्वोक्तविमानवर्णनं विस्तृणीते– स तस्येत्यादि । प्रतप्तजाम्बूनदजालकृत्रिमं निष्टप्तस्वर्णविशेषकृतकृत्रिमपक्ष्यादिकम् ।। 5.8.1 ।।
तदप्रमेया ऽप्रतिकारकृत्रिमं कृतं स्वयं साध्विति विश्वकर्मणा ।
दिवं गतं वायुपथप्रतिष्ठितं व्यराजतादित्यपथस्य लक्ष्मवत् ।। 5.8.2 ।।
तदिति । अप्रतिमेया ऽप्रतिकारकृत्रिमम् अपरिच्छेद्याप्रतिक्रियकृत्रिमम् । तत्र हेतुमाह कृतं स्वयं साध्विति । विश्वकर्मणा स्वयं निर्मात्रा विश्वकर्मणा इदं साधु सुन्दरमिति श्लाघापूर्वं कृतम् । सर्वत्राप्रतिहतसञ्चारं चैतदित्याह दिवं गतम् आकाशगतम् । वायुपथप्रतिष्ठितं वायुमार्गभूतान्तरिक्षस्थितम् । मध्ये भवनस्य संश्थितमिति पूर्वमुक्तत्वात् भूतलप्रत्यासन्नान्तरिक्षस्थितमित्यर्थः । आदित्यपथस्य लक्ष्मवत् लक्ष्म लक्षणं व्यावर्तकम्, व्यराजत प्रचकाश इत्यर्थः ।। 5.8.2 ।।
न तत्र किंचिन्नकृतं प्रयत्नतो न तत्र किंचिन्नमहार्हरत्नवत् ।
न ते विशेषा नियताः सुरेष्वपि न तत्र किंचिन्न महाविशेषवत् ।। 5.8.3।।
न तत्रेति । ते विशेषाः तद्विमानस्थितविशेषाः । सुरेष्वपि सुरालयेष्वपि ।। 5.8.3।।
तपः समाधानपराक्रमार्जितं मनःसमाधानविचारचारिणम् ।
अनेकसंश्तानाविशेषनिर्मितं ततस्ततस्तुल्यविशेषदर्शनम् ।। 5.8.4।।
तपस्समाधानेत्यादि पञ्चश्लोकी कुलकम् । सर्वत्र ददर्शेति संबन्धः ।
तपस्समाधानपराक्रमार्जितं तपस्समाधानेन तपोनुष्ठानेन पराक्रमेण च अर्जितम् । मनस्समाधानविचारचारिणं समाधानमभिसन्धानम् । कर्मणि चैतत् । विचारो विविदा गतिः । मनोभिसंहितविविधगतिचारिणम् । अनेकसंस्थानविशेषनिर्मितम् । अनेकैस्संस्थानविशेषैः विमानगोपुरादिसन्निवेशैः निर्मितम् । ततस्ततस्तुल्यविशेषदर्शनम् तत्र तत्र तुल्यं विशेषदर्शनं यस्मिन् ।। 5.8.4।।
मनस्समाधाय तु शीघ्रगामिनं दुरावरं मारुततुल्यगामिनम् ।
महात्मनां पुण्यकृतां महर्द्धिनां यशस्विनामग्र्य मुदामिवालयम् ।। 5.8.5।।
मनस्समाधाय मन एकाग्रीकृत्य । स्वयं मनस्वीति यावत् । दुरावरं दुर्वारम् । महर्द्धिनां महर्द्धीनाम् । “अपि माषं मषं कुर्याच्छन्दोभङ्गं न कारयेत्” इत्युक्तरीत्या वृत्तभङ्गभिया ह्रस्वोच्चारणम् । अग्र्यमुदाम् इन्द्रादीनाम् ।। 5.8.5।।
विशेषमालम्ब्य विशेषसंस्थितं विचित्रकूटं बहुकूटमण्डितम् ।
मनोभिरामं शरदिन्दुनिर्मलं विचित्रकूटं शिखरं गिरेर्यथा ।। 5.8.6।।
विशेषमिति । विशेकमालम्ब्य विशेषसंस्थितं विशेषं गृहीत्वा विशेषेण संस्थितम् । सविशेषणविशेषसंस्थितमिति यावत् । सविशेषसंश्थानविशेषविशिष्टमित्यर्थः । कूटानां विचित्रत्वबहुत्वे विशेषणद्वयेन दर्शयति विचित्रेत्यादिना । विचित्रकूटं शिखरं गिरेर्यथा । कूटम् अवान्तरशृङ्गम्, शिखरं महाशृङ्गमिति प्रयोगादवधार्यते ।। 5.8.6।।
वहन्ति यं कुण्डलशोभितानना महाशना व्योमचरा निशाचराः ।
विवृत्तविध्वस्तविशाललोचना महाजवा भूतगणाः सहस्रशः ।। 5.8.7।।
वहन्तीति । यं यत् । आर्षो व्यत्ययः । महाशनाः महाकाया इत्यर्थः । व्योमचराः व्योमचरसदृशसंस्थानाः । विवृत्तविध्वस्तविशाललोचनाः विवृत्तानि वर्तुलानि विध्वस्तानि भुग्नानि विशालानि लोचनानि येषां ते तथा । महाजवाः महाजवा इव स्थिताः । भूतगणाः गोपुरवाहका इव प्रतिमारूपेण स्थिताः । अन्यथा रावणान्तःपुरे पुरुषसञ्चारायोगात् कामगस्य विमानस्य वहनासंभवाच्च । यद्वा शिबिकावाहका इव भूतगणा अधोभागे वहन्ति । तद्वारैणैव कामगत्वमपि, चेतनप्रेरणं विना अचेतनसञ्चारस्यात्यन्तमनुचितत्वाच्च ।। 5.8.7।।
वसन्तपुष्पोत्करचारुदर्शनं वसन्तमासादपि कान्तदर्शनम् ।
स पुष्पकं तत्र विमानमुत्तमं ददर्श तद्वानरवीरसत्तमः ।। 5.8.8।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टमः सर्गः ।। 5.8।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने अष्टमः सर्गः ।। 5.8।।