श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकादशः सर्गः
अवधूय च तां बुद्धिं बभूवावस्थितस्तदा ।
जगाम चापरां चिन्तां सीतां प्रति महाकपिः ।। 5.11.1 ।।
अवधूयेत्यादि । तां बुद्धिं मन्दोदर्यां सीताबुद्धिम् । अवस्थितौ बभूव स्वस्थचित्तो बभूव ।। 5.11.1 ।।
न रामेण वियुक्ता सा स्वप्तुमर्हति भमिनी ।
न भोक्तुं नाप्यलङ्कर्तुं न पानमुसेवितुम् ।। 5.11.2 ।।
नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम् ।
नहि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि ।
अन्येयमति निश्चित्य पानभूमौ चचार सः ।। 5.11.3।।
न रामेणेत्यादि । त्रिदशेष्वपीत्यनन्तरम् अन्येयमित्यर्धम् । पानभूमौ ततो ऽन्यत्रेत्यर्थः ।। 5.11.2,3।।
क्रीडितेनापराः क्लान्ता गीतेन च तथा ऽपराः ।
नृत्तेन चापराः क्लान्ताः पानविप्रहतास्तथा ।
मुरजेषु मृदङ्गेषु पीठिकासु च संस्थिताः ।। 5.11.4।।
तथा ऽ ऽस्तरणमुख्येषु संविष्टाश्चापराः स्त्रियः ।। 5.11.5।।
क्रीडितेनेत्यादि अपराः स्त्रिय इत्यन्तमेकं वाक्यम् । ददर्शेत्यनुषज्यते । क्रीडितेन क्रीडया । भावे निष्ठा । विप्रहताः क्लान्ता इत्यर्थः । संस्थिताः उपधानीकृत्य शयिताः । संविष्टाः सुप्ताः ।। 5.11.4,5।।
अङ्गनानां सहस्रेण भूषितेन विभूषणैः ।
रूपसँल्लापशीलेन युक्तगीतार्थभाषिणा ।
देशकालाभियुक्तेन युक्तवाक्याभिधायिना ।। 5.11.6।।
रताभिरतसंसुप्तं ददर्श हरियूथपः ।। 5.11.7।।
तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः ।
गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः ।। 5.11.8।।
तत्र सीताया अदर्शनात् पुनरपि रावणस्थानमागत्य ददर्शेत्याह अङ्गनानामिति । रूपसँल्लापशीलेन स्वसौन्दर्यवर्णनशीलेन, रावणविषयरूपप्रशंसाशीलेन वा । युक्तगीतार्थभाषिणा युक्तम् उपपन्नं गीतार्थं भाषितुं शीलमस्येति युक्तगीतार्थभाषी तेन । देशकालाभियुक्तेन देशकालाभिज्ञेनेत्यर्थः । अङ्गनानां सहस्रेण रताभिरतसंसुप्तमित्यन्वयः । रतशब्देन बाह्यसुरतमुच्यते । अभिरतशब्देन करणबन्धादिकमुच्यते । रताभिरतश्चासौ संसुप्तश्च तथा तम् । स्नातानुलिप्तादिवत्समासः । क्रीडाखेदेन सुप्तमित्यर्थः । रावणमिति शेषः ।। 5.11.68।।
स राक्षसेन्द्रः शुशुभे ताभिः परिवृतः स्वयम् ।
करेणुभिर्यथा ऽरण्ये परिकार्णो महाद्विपः ।। 5.11.9।।
स इति । परिकीर्णः परिवृतः ।। 5.11.9।।
सर्वकामैरुपेतां च पानभूमिं महात्मनः ।
ददर्श हरिशार्दूलस्तस्य रक्षःपतेर्गृहे ।। 5.11.10।।
सर्वकामैरिति । पानभूमेः पुनर्दर्शनोक्तिस्तत्रत्यपदार्थकथनाय ।। 5.11.10।।
मृगाणां महिषाणां च वराहाणां च भागशः ।
तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः ।। 5.11.11 ।।
मगाणामिति । भागशः पिण्डशाः ।। 5.11.11 ।।
रौक्मेषु च विशालेषु भाजनेष्वर्धभक्षितान् ।
ददर्श हरिशूर्दूलो मयूरान् कुक्कुटांस्तथा ।। 5.11.12 ।।
रौक्मेष्विति । मयूरादिशब्दाः मयूरादिविकारमांसपराः ।। 5.11.12 ।।
वराहवार्ध्राणसकान् दधिसौवर्चलायुतान् ।
शल्यान् मृगमयूरांश्च हनुमानन्ववैक्षत ।। 5.11.13।।
वराहेति । वार्ध्राणसाः छागविशेषाः ।”त्रिपिबन्त्विन्द्रियक्षीणं यूपस्याग्रचरं तथा । रक्तवर्णं च राजेन्द्र च्छागं वार्ध्राणसं विदुः ।।” इति स्मृतेः। पक्षिविशेष इत्यन्ये। खड्गमृग इत्यपरे। “वार्ध्राणसः खड्गमृगः” इति हलायुधः। दधिसौवर्चलायुतान् दधिसौवर्चलाभ्यां संस्कृतानित्यर्थः। सौवर्चलं रुचकाख्यो लवणविशेषः। “सौवर्चलेक्षरुचके”इत्यमरः।स शल्यान् श्वाविधः। “श्वावित्तु शल्यः” इत्यमरः। मृगमयूरादीनां पुनः कथनं प्रदेशभेदात्।। 5.11.13 ।।
क्रकरान् विविधान् सिद्धांश्चकोरानर्धभक्षितान् ।। 5.11.14।।
महिषानेकशल्यांश्च च्छागांश्च कृतनिष्ठितान् ।
लेह्यानुच्चावचान् पेयान् भोज्यानि विविधानि च ।। 5.11.15।।
क्रकरान् पक्षिविशेषान् । “कृकणक्रकरौ समौ” इत्यमरः । सिद्धान् पक्वान् । एकशल्यान्मत्स्यविशेषान् । कृतनिष्ठितान् पर्याप्तपक्वान् । “युगपर्याप्तयोः कृतम्” इत्यमरः ।। 5.11.14,15।।
तथाम्ललवणोत्तंसैर्विविधै रागषाडवैः ।
हारनूपुरकेयूरैरपविद्धैर्महाधनैः ।। 5.11.16।।
पानभाजनविक्षिप्तैः फलैश्च विविधैरपि ।
कृतपुष्पोपहारा भूरधिकं पुष्यति श्रियम् ।। 5.11.17।।
तत्र तत्र च विन्यस्तैः सुश्लिष्टैः शयनासनैः ।
पानभूमिर्विना वह्निं प्रदीप्तेवोपलक्ष्यते ।। 5.11.18।।
तथेत्यादि । आम्ललवणोत्तंसैः आम्लप्रधानैः लवणप्रधानैश्च । रागषाडवैः रागयुक्तैः षाडवैः । रागः श्वेतसर्षपः । “रागस्सिद्धार्थको ज्ञेयः” इति सूदशास्त्रम् । षाडवाः षड्रससंयोगकृता भक्ष्यविशेषाः । प्रदीपे त्वन्यतोक्तम्”सितामध्वादिमधुरो द्राक्षादाडिमजो रसः । विरलश्चेत्कृतो रागस्सान्द्रश्चेत् षाडवः स्मृतः ।।” इति।। 5.11.1618 ।।
बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः ।
मांसैः कुशलसंयुक्तैः पानभूमिगतैः पृथम् ।। 5.11.19।।
बहुप्रकारैरित्यादि । कुशलसंयुक्तैः समर्थसूदसंयोजितैः । एवंभूतैः मांसैः सह दृष्टा इति वक्ष्यमाणेनान्वयः ।। 4.11.19।।
दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि ।
शर्करासवमाध्वीकपुष्पासवफलासवाः ।। 5.11.20।।
दिव्याः अमृतमथनोद्भूतवारुणीजातीयाः । प्रसन्नाः निष्कल्मषाः । कृतसुराः कृत्रिमसुराः । कृत्रिमसुरा एवाह शर्करेति । शर्करासवाः शर्करया कृताः । माध्वीकाः मधुना कृताः । पुष्पासवाः पुष्पमकरन्दकृताः । माध्वीकाः मधुना कृत्ताः । पुष्पासवाः पुष्पमकरन्दकृताः । फलासवाः फलरसकृताः । ततोक्तमर्णवे “पानकं द्राक्षमाधूकं खार्जूरं तालमैक्षवम् । मधूत्थं शीधुमाध्वीकं मैरेयं नारिकेलजम् ।।” इति।। 5.11.20 ।।
वासचूर्णैश्च विविधैर्दृष्टास्तैस्तैः पृथक् पृथक् ।
सन्तता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः ।। 5.11.21 ।।
वासचूर्णैः अधिवासचूर्णैः सह दृष्टाः, हनुमतेति शेषः । बहुप्रकारैर्मांसैः सह सुराः वासचूर्णैः सह हनुमता तत्र पानभूमौ दृष्टा इति सम्बन्धः । तैस्तैरित्याद्युत्तरशेषः । तैस्तैर्मांसविशेषैस्सुराविशेषैर्वासचूर्णैश्च पृथक्पृथक् सन्ततेति संबन्धः । बहुसंस्थितैः बहुसंस्थानैः ।। 5.11.21 ।।
हिरण्मयैश्च विविधैर्भाजनैः स्पाटिकैरपि ।
जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता ।। 5.11.22 ।।
राजतेषु च कुम्भेषु जाम्बनदमयेषु च ।
पानश्रेष्ठं तदा भूरिकपिस्तत्र ददर्श सः ।। 5.11.23।।
हिरण्मयैरिति । अत्रापि संततेति पूर्वेणान्वयः । हिरण्मयैः रजतमयैः । “कृताकृतं हेम रूप्यं हिरण्यमभिधीयते” इति वचनात् । तैस्तैः पृथक्पृथक् सन्तता बहुसंस्थितैर्माल्यैर्हिरण्मयैः स्फाटिकैरपि भाजनैस्सन्तता जाम्बूनदमयैरन्यैः करकैश्चाभिसंवृता भूमिः शुशुभ इति सम्बन्धः ।। 5.11.22,23।।
सो ऽपश्यच्छातकुम्भानि शीधोर्मणिमयानि च ।
राजतानि च पूर्णानि भाजनानि महाकपिः ।। 5.11.24।।
शीधोः मद्यस्य ।। 5.11.24।।
क्वचिदर्धावशेषाणि क्वचित् पीतानि सर्वशः ।
क्वचिन्नैव प्रपीतानि पानानि स ददर्श ह ।। 5.11.25।।
पानानि पानपात्राणि ।। 5.11.25।।
क्वचिद्भक्ष्यांश्च विविधान् क्वचित्पानानि भागशः ।
क्वचिदन्नावशेषाणि फश्यन् वै विचचार ह ।। 5.11.26।।
क्वचित् प्रभिन्नैः करकैः क्वचिदालोलितैर्घटैः ।
क्वचित्संपृक्तमाल्यानि जलानि च फलानि च ।। 5.11.27।।
शयनान्यत्र नारीणां शुभ्राणि बहुधा पुनः ।
परस्परं समाश्लिष्य काश्चित्सुप्ता वराङ्गनाः ।। 5.11.28।।
काश्चिच्च वस्त्रमन्यस्याः स्वपन्त्याः परिधाय च ।
आहृत्य चाबलाः सुप्ता निद्राबलपराजिताः ।। 5.11.29।।
क्वचिद्भक्ष्यानित्यादि निद्राबलपराजिता इत्यन्तमेकं वाक्यम् । क्वचित्प्रभिन्नैरित्यादिषु सहयोगे तृतीया, हेतौ तृतीया वा । प्रभिन्नत्वादालोलितत्वाच्च संपृक्तमाल्यानि माल्यमिश्राणीत्यर्थः । परस्परमित्यादि । पश्यन्वै विचचारेति पूर्वेणान्वयः ।। 5.11.2629।।
तासामुच्छ्वासवातेन वस्त्रं माल्यं च गात्रजम् ।
नात्यर्थं स्पन्दते चित्रं प्राप्य मन्दमिवानिलम् ।। 5.11.30।।
तासामिति । गात्रजं गात्रस्थम् । मन्दमनिलं प्राप्येव अत्यर्थं न स्पन्दत इत्यन्वयः ।। 5.11.30।।
चन्दनस्य च शीतस्य शीधोर्मधुरसस्य च ।
विविधस्य च माल्यस्य धूपस्य विविधस्य च ।
बहुधा मारुतस्तत्र गन्धं विविधमुद्वहन् ।। 5.11.31।।
चन्दनस्येत्यादि । उद्वहन् प्रववावित्यपकृष्यते ।। 5.11.31 ।।
रसानां चन्दनानां त धूपानां चैव मूर्च्छितः ।
प्रववौ सुरभिर्गन्धो विमाने पुष्पके तदा ।। 5.11.32 ।।
रसादीनां सुरभिर्गन्धः विमाने मूर्च्छितः व्याप्तः सन् प्रववौ चचार ।। 5.11.32 ।।
श्यामा वदातास्तत्रान्याः काश्चित् कृष्णा वराङ्गनाः ।
काश्चित् काञ्चनवर्णाङ्ग्यः प्रमदा राक्षसालये ।। 5.11.33।।
श्यामा इति । वदाताः अवदाताः । भागुरिमतेनाल्लोपः । शुभ्रा इत्यर्थः ।। 5.11.33।।
तासां निद्रावशत्वाच्च मदनेन विमूर्च्छितम् ।
पद्मिनीनां प्रसुप्तानां रूपमासीद्यथैव हि ।। 5.11.34।।
एवं सर्वमशेषेण रावणान्तःपुरं कपिः ।
ददर्श सुमहातेजा न ददर्श च जानकीम् ।। 5.11.35।।
तासामिति । चकारो ऽप्यर्थकः । निद्रापरवशानामपि तासां रूपं प्रसुप्तानां पद्मिनीनां रूपमिव रम्यमासीदित्यर्थः ।। 5.11.3435।।
निरीक्षमाणश्च तदा ताः स्त्रियः स महाकपिः ।
जगाम महतीं चिन्तां धर्मसाध्वसशङ्कितः ।। 5.11.36।।
निरीक्षमाण इत्यादि । धर्मसाध्वसशङ्कितः धर्मलोपभयाच्छङ्कितः । परदारावरोधस्य परदाररूपान्तःपुरस्य ।। 5.11.36।।
इदं खलु ममात्यर्थं धर्मलोपं करिष्यति ।
नहि मे परदाराणां दृष्टिर्विषयवर्तिनी ।। 5.11.37।।
अयं चात्र मया दृष्टः परदारपरिग्रहः ।। 5.11.38।।
न हीति । मे दृष्टिः कदाचिदपि परदाराणां विषयवर्तिनी नहि, परदारसम्बन्धिविषयपरा नहीत्यर्थः । तथाप्ययं परदारपरिग्रहः दृष्टः, इदमसङ्गतमित्यर्थः ।। 5.11.37,38।।
तस्य प्रादुरभूच्चिन्ता पुनरन्या मनस्विनः ।
निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी ।। 5.11.39।।
तस्येति । निश्चितैकान्तचित्तस्य नियतैकरूपचित्तस्य ।। 5.11.39।।
कामं दृष्टा मया सर्वा विश्वस्ता रावणस्त्रियः ।
नहि मे मनसः किंचिद्वैकृत्यमुपपद्यते ।। 5.11.40।।
काममिति । वैकृत्यं विकारः । उपपद्यते उत्पद्यते ।। 5.11.40।।
मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तने ।
शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् ।। 5.11.41 ।।
मन इति । शुभाशुभास्ववस्थासु शुभकरणाशुभकरणेषु विषयेषु इन्द्रियाणां प्रवर्तने मन एव हेतुः । सुव्यवस्थितं न तदभिलाषि जातमित्यर्थः ।। 5.11.41 ।।
नान्यत्र हि मया शक्या वैदेही परिमार्गितुम् ।
स्त्रियो हि स्त्रीषु दृश्यन्ते सदा सम्परिमार्गणे ।। 5.11.42 ।।
ननु परदारदर्शनमपि परिहरणीयम्, तत्किमर्थं कृतम्? तत्राहनान्यत्रेति । अन्यत्र स्त्रीव्यतिरिक्ते । संपरिमार्गणे कर्तव्ये । स्त्रीष्विव हि स्त्रियो दृश्यन्ते ।। 5.11.42 ।।
यस्य सत्त्वस्य या योनिस्तस्यां तत् परिमार्ग्यते ।
न शक्या प्रमदा नष्टा मृगीषु परिमार्गितुम् ।। 5.11.43।।
तदिदं मार्गितं तावच्छुद्धेन मनसा मया ।
रावणान्तःपुरं सर्वं दृश्यते न च जानकी ।। 5.11.44।।
यस्येति । योनिः जातिः, सजातीय इत्यर्थः ।। 5.11.4344।।
देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान् ।
अवेक्षमाणो हनुमान्नैवापश्यत जानकीम् ।। 5.11.45।।
तामपश्यन् कपिस्तत्र पश्यंश्चान्या वरस्त्रियः ।
अपक्रम्य तदा वीरः प्रघ्यातुमुपचक्रमे ।। 5.11.46।।
देवेति । अपश्यत अपश्यत् ।। 5.11.4546।।
स भूयस्तु परं श्रीमान् मारुतिर्यत्नमास्थितः ।
आपानभूमिमुत्सृज्य तद्विचेतुं प्रचक्रमे ।। 5.11.47।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकादशः सर्गः ।। 5.11 ।।
स भूयस्तु परमिति । तत् रावणान्तःपुरम् ।। 5.11.47।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकादशः सर्गः ।। 5.11 ।।