श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रयोदशः सर्गः
विमानात्तु सुसंक्रम्य प्राकारं हरियूथपः ।
हनुमान् वेगवानासीद्यथा विद्युद् घनान्तरे ।। 5.13.1 ।।
विमानादित्यादि । इदानीं विमानादवतरणोक्त्या मध्ये विमानमधिरुढ इत्यवगम्यते । वेगवत्त्वे दृष्टान्तमाहविद्युदिति ।। 5.13.1 ।।
सम्परिक्रम्य हनुमान् रावणस्य निवेशनात् ।
अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः ।। 5.13.2 ।।
सम्परिक्रम्येति । सम्परिक्रम्य, प्राकारमिति शेषः । अब्रवीत्, स्वयमिति शेषः ।। 5.13.2 ।।
भूयिष्ठं लोलिता लङ्का रामस्य चरता प्रियम् ।
नहि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनम् ।। 5.13.3।।
लोलिता बहुशो ऽन्विष्टेत्यर्थः ।। 5.13.3।।
पल्वलानि तटाकानि सरांसि सरितस्तथा ।
नद्यो ऽनूपवनान्ताश्च दुर्गाश्च धरणीधराः ।
लोलिता वसुधा सर्वा न तु पश्यामि जानकीम् ।। 5.13.4।।
इह सम्पतिना सीता रावणस्य निवेशने ।
आख्याता गृध्रराजेन न च पश्यामि तामहम् ।। 5.13.5।
सरितः क्षुद्रनद्यः । अनूपवनान्ताः जलप्रायवनप्रदेशाः ।। 5.13.4,5।।
किन्नु सीता ऽथ वैदेही मैथिली जनकात्मजा ।
उपतिष्ठेत विवशा रावणं दुष्टचारिणम् ।। 5.13.6।।
किंन्विति । सीता अयोनिजा । वैदेही जन्मभूमिप्रयुक्तातिशयवती । मैथिली आचारप्रधानकुलोत्कर्षवती । अथशब्दस्समुच्चये । एवंभूता जनकात्मजा दुष्टचारिणं रावणं विवशा कामपरवशा सती उपतिष्ठेत किंनु? नेत्यर्थः ।। 5.13.6।।
क्षिप्रमुत्पततो मन्ये सातामादाय रक्षसः ।
बिभ्यतो रामबाणानामन्तरा पतिता भवेत् ।। 5.13.7।।
अथास्या अदर्शने हेतूनुत्प्रेक्षते क्षिप्रमित्यादिना । रामबाणानां रामबाणेभ्यः ।। 5.13.7।।
अथवा ह्रियमाणायाः पथि सिद्धनिषेविति ।
मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम् ।। 5.13.8।।
अथवेति । सागरं प्रेक्ष्य भीतं हृदयं सागरे पतितमिति मन्ये । हृदयस्य भयस्थानत्वेन तन्मूलतया तच्छरीरं लक्ष्यते ।। 5.13.8।।
रावणस्योरुवेगेन भुजाभ्यां पीडितेन च ।
तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया ।। 5.13.9।।
पीडितेन पीडनेन ।। 5.13.9।।
उपर्युपरि वा नूनं सागरं क्रमतस्तथा ।
विवेष्टमाना पतिता समुद्रे जनकात्मजा ।। 5.13.10।।
उपर्युपरि सागरं सागरस्य सन्निहितोपरिप्रदेशे । “उपर्यध्यधसस्सामीप्ये” इति द्विर्वचनम् । “धिगुपर्यादिषु त्रिषु” इति द्वितीया ।। 5.13.10।।
अहो क्षुद्रेण वा ऽनेन रक्षन्ती शीलमात्मनः ।
अबन्धुर्भक्षिता सीता रावणेन तपस्विनी ।। 5.13.11 ।।
अहो इति खेदे ।। 5.13.11 ।।
अथवा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा ।
अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति ।। 5.13.12 ।।
सम्पूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम् ।
रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता ।। 5.13.13।।
दुष्टभावाभिः सापत्न्यप्रयुक्तक्रोधाभिः ।। 5.13.12,13।।
हा राम लक्ष्मणेत्येवं हा ऽयोध्ये चेति मैथिली ।
विलप्य बहु वैदेही न्यस्तदेहा भविष्यति ।। 5.13.14।।
हा रामेति । न्यस्तरदेहा त्यक्तदेहा । भविष्यति भवेदित्यर्थः ।। 5.13.14।।
अथवा निहिता मन्ये रावणस्य निवेशने ।
नूनं लालप्यते सीता पञ्जरस्थेव शारिका ।। 5.13.15।।
निहिता भूगृहादौ गूढं स्थापिता । लालप्यते मुहुर्मुहुः प्रलपति ।। 5.13.15।।
जनकस्य सुता सीता रामपत्नी सुमध्यमा ।
कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत् ।। 5.13.16।।
एवं निरुद्ध्यमानापि सीता रावणस्य वशं न व्रजेदित्याह जनकस्येति कथं व्रजेत्? न व्रजेदेवेत्यर्थः ।। 5.13.16।।
विनष्टा वा प्र(ण)नष्टा वा मृता वा जनकात्मजा ।
रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम् ।। 5.13.17।।
ननु किं चिन्तया, गत्वा यथावृत्तं निवेद्यतामित्याशङ्क्य तदनुचितमित्याह विनष्टेति । विनष्टा भूगृहादौ स्थापनेनादर्शनं गता । “णश अदर्शने” इति धातोर्निष्ठा । प्रनष्टा समुद्रपतनादिना त्यक्तजीविता । (“उपसर्गादसमासेपि णोपदेशस्य ” इति णत्वम् ।।) मृता रामविरहदुःखासहिष्णुतया स्वयं मृता।। 5.13.17 ।।
निवेद्यमाने दोषः स्याद्दोषः स्यादनिवेदने ।
कथन्नु खलु कर्तव्यं विषमं प्रतिभाति मे ।। 5.13.18।।
निवेद्यमाने वक्ष्यमाणो दोषः स्यात् । दोषः स्यादनिवेदने यथावृत्तानिवेदने स्वामिवञ्चनदोषः स्यात् । विषमं परस्परविरुद्धम् ।। 5.13.18।।
अस्मिन्नेवं गते कार्ये प्राप्तकालं क्षमं च किम् ।
भवेदिति मतं भूयो हनुमान् प्रविचारयत् ।। 5.13.19।।
यदि सीतामदृष्ट्वा ऽहं वानरेन्द्रपुरीमितः ।
गमिष्यामि ततः को मे पुरुषार्थो भविष्यति ।। 5.13.20।।
अस्मिन्निति । हनुमान् अस्मिन्कार्ये एवं गते एवं विषमत्वं प्राप्ते सति । किं प्राप्तकालं कालोचितं क्षमं समर्थं च भवेदिति मतं पक्षम् । भूयः प्रविचारयत् ।। 5.13.19,20।।
ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति ।
प्रवेशश्चैव लङ्काया राक्षसानां च दर्शनम् ।। 5.13.21 ।।
किं मां वक्ष्यति सुग्रीवो हरयो वा समागताः ।
किष्किन्धां समनुप्राप्तं तौ वा दशरथात्मजौ ।। 5.13.22 ।।
पुरुषार्थाभावमाह ममेदमिति ।। 5.13.2122 ।।
गत्वा तु यदि काकुत्स्थं वक्ष्यामि परमप्रियम् ।
न दृष्टेति मया सीता ततस्त्यक्ष्यति जीवितम् ।। 5.13.23।।
निवेद्यमाने दोषः स्यादित्येतदुपपादयति गत्वेत्यादिना । अप्रियमिति च्छेदः ।। 5.13.23।।
परुषं दारुणं क्रूरं तीक्ष्णमिन्द्रियतापनम् ।
सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति ।। 5.13.24।।
परुषं श्रवणकटुकम् । दारुणं भयंकरम् । क्रूरम् उग्रम् । तीक्ष्णम् असह्यम् । इन्द्रियतापनम् इन्द्रियक्षोभकम् । सीतानिमित्तं सीताविषयम् ।। 5.13.24।।
तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसम् ।
भृशानुरक्तो मेधावी न भविष्यति लक्ष्मणः ।। 5.13.25।।
विनष्टौ भ्रातरौ श्रुत्वा भरतो ऽपि मरिष्यति ।
भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति ।। 5.13.26।।
पुत्रान् मृतान् समीक्ष्याथ न भविष्यन्ति मातरः ।
कौसल्या च सुमित्रा च कैकेयी च न संशयः ।। 5.13.27।।
कृतज्ञः सत्यसन्धश्च सुग्रीवः प्लवगाधिपः ।
रामं तथागतं दृष्ट्वा ततस्त्यक्ष्यति जीवितम् ।। 5.13.28।।
दुर्मना व्यथिता दीना निरानन्दा तपस्विनी ।
पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम् ।। 5.13.29।।
वालिजेन तु दुःखेन पीडिता शोककर्शिता ।
पञ्जत्वं च गते राज्ञि तारापि न भविष्यति ।। 5.13.30।।
मातापित्रोर्विनाशेन सुग्रीवव्यसनेन च ।
कुमारो ऽप्यङ्गदः कस्माद्धारयिष्यति जावितम् ।। 5.13.31 ।।
भर्तृजेन तु दुःखेन ह्यभिभूता वनौकसः ।
शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव च ।। 5.13.32 ।।
तं त्विति । पञ्चत्वगतमानसं मरणे कृतनिश्चयम् ।। 5.13.2532 ।।
सान्त्वेनानुप्रदानेन मानेन च यशस्विना ।
लालिताः कपिराजेन प्राणांस्त्यक्ष्यन्ति वानराः ।। 5.13.33।।
सान्त्वेनेति । मानेन प्रत्युत्थानादिना ।। 5.13.33।।
न वनेषु न शैलेषु न निरोधेषु वा पुनः ।
क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः ।। 5.13.34।।
सपुत्रदाराः सामात्या भर्तृव्यसनपीडिताः ।
शैलाग्रेभ्यः पतिष्यन्ति समेत्य विषमेषु च ।। 5.13.35।।
न वनेष्विति । निरोधेषु गृहादिसंवृतप्रदेशेषु ।। 5.13.34,35।।
विषमुद्बन्धनं वापि प्रवेशं ज्वलनस्य वा ।
उपवासमथो शास्त्रं प्रचरिष्यन्ति वानराः ।। 5.13.36।।
विषमिति । प्रचरिष्यन्ति करिष्यन्तीत्यर्थः । शस्त्रं शस्त्रपतनम् ।। 5.13.36।।
घोरमारोदनं मन्ये गते मयि भविष्यति ।
इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम् ।। 5.13.37।।
सो ऽहं नैव गमिष्यामि किष्किन्धां नगरीमितः ।
न च शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना ।। 5.13.38।।
मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ ।
आशया तौ धरिष्येते वानराश्च मनस्विनः ।। 5.13.39।।
घोरमिति । आरोदनम् आ समन्ताद्रोदनम् ।। 5.13.3739।।
हस्तादानो मुखादानो नियतो वृक्षमूलिकः ।
वानप्रस्थो भविष्यामि ह्यदृष्ट्वा जनकात्मजाम् ।। 4.13.40।।
हस्तेति । हस्तादानः हस्तपतितभोजी । मुखादानः मुखपतितभोजी । वृक्षमूलिकः वृक्षमूलवासी ।। 5.13.40।।
सागरानूपजे देशे बहुमूलफलोदके ।
चितां कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम् ।। 5.13.41 ।।
सागरानूपज इति । बहुमूलफलोदक इति स्वरूपकथनम् । अरणीसुतम् अरण्युत्पन्नम् ।। 5.13.41 ।।
उपविष्टस्य वा सम्यग् लिङ्गिनीं साधयिष्यतः ।
शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि च ।। 5.13.42 ।।
उपविष्टस्य प्रायोपविष्टस्य । लिङ्गिनीम्, लिङ्गं संन्यासः अनशनं तद्वती लिङ्गिनी ताम् साधयिष्यतः । लिङ्गिनमिति क्वचित्पाठः । तत्र लिङ्गं शरीरं तद्वान् लिङ्गी आत्मा तं साधयिष्यतः, शरीरादात्मानां मोचयिष्यत इत्यर्थः । श्वापदानि श्वापदाः व्याघ्रादयः ।। 4.13.42 ।।
इदं महर्षिभिर्दृष्टं निर्याणमिति मे मतिः ।
सम्यगापः प्रवेक्ष्यामि न चेत्पश्यामि जानकीम् ।। 5.13.43।।
न चैवमात्मत्यागे दोष इत्याह इदमिति । निर्याणं मरणम् । आपः अपः ।। 5.13.43।।
सुजातमूला सुभगा कीर्तिमाला यशस्विनी ।
प्रभग्ना चिररात्रीयं मम सीतामपश्यतः ।। 5.13.44।।
सुजातेति । सुजातमूला आदौ लङ्काधिदेवताजयेन शोभनप्रारम्भा । सुभगा चन्द्रोदयेन रम्या । कीर्तिमाला मम कीर्तिमयमाला । यशस्विनी हनुमतो लङ्काप्रवेशरात्रिरिति लोके विख्याता । चिररात्री जागरणेन दीर्घभूता रात्रिः । प्रभग्ना
समाप्ता । एवं कल्याणीयं रात्रिः सीतामपश्यतो मे व्यर्थैव जातेत्यर्थः । “कृदिकारादक्तिनः” इति दीर्घः ।। 5.13.44।।
तापसो वा भविष्यामि नियतो वृक्षमूलिकः ।
नेतः प्रतिगमिष्यामि तामदृष्ट्वा ऽसितेक्षणाम् ।। 5.13.45।।
आत्मत्यागापेक्षया तापसभाव एव ज्यायानित्याह तापस इति । वाशब्दो ऽवधारणे । “वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये” इति विश्वः ।। 5.13.45।।
यदीतः प्रतिगच्छामि सीतामनधिगम्य ताम् ।
अङ्गदः सह तैः सर्वैर्वानरैर्न भविष्यति ।। 5.13.46।।
मा भूत् सुग्रीवसमीपगमनम् । अङ्गदादिभिस्संयुज्यतामित्याशङ्क्याह यदीत इति ।। 5.13.46।।
विनाशे बहवो दोषा जीवन् भद्राणि पश्यति ।
तस्मात्प्राणान् धरिष्यामि ध्रुवो जीवितसङ्गमः ।। 5.13.47।।
एवं बहुविधं दुःखं मनसा धारयन् मुहुः ।
नाध्यगच्छत्तदा पारं शोकस्य कपिकुञ्जरः ।। 5.13.48।।
विनाश इति । बहवो दोषाः पूर्वोक्तास्सर्वविनाशादयः । संगम श्रेयस्संगमः ।। 5.13.4748।।
रावणं वा वधिष्यामि दशग्रीवं महाबलम् ।
काममस्तु हृता सीता प्रत्याचीर्णं भविष्यति ।। 5.13.49।।
रावणमिति । प्रत्याचीर्णं प्रत्याचरितम्, प्रतिकृतमिति यावत् ।। 5.13.49।।
अथवैनं समुत्क्षिप्य उपर्युपरि सागरम् ।
रामायोपहरिष्यामि पशुं पशुपतेरिव ।। 5.13.50।।
पशुपतेः अग्नेः पशुम् अजमिव । “इमं पशुं पशुपते ते अद्य बध्नाम्यग्रे” इति श्रुतेः । अनेन सुप्रापत्वमुक्तम् ।। 5.13.50।।
इति चिन्तां समापन्नः सीतामनधिगम्य ताम् ।
ध्यानशोकपरीतात्मा चिन्तयामास वानरः ।। 5.13.51 ।।
इतीति । प्रथमं चिन्ताविचारः । ततो ध्यानं ज्ञातव्यविषयनिरन्तरप्रत्ययः । तत्तश्चिन्तेति दुरन्तचिन्तोच्यते ।। 5.13.51।।
यावत्सीतां हि पश्यामि रामपत्नीं यशस्विनीम् ।
तावदेतां पुरीं लङ्कां विचिनोमि पुनः पुनः ।। 5.13.52 ।।
चिन्ताप्रकारमाह यावदिति ।। 5.13.52।।
संपातिवचनाच्चापि रामं यद्यानयाम्यहम् ।
अपश्यन् राघवो भार्यां निर्दहेत् सर्ववानरान् ।। 5.13.53।।
इहैव नियताहारो वत्स्यामि नियतेन्द्रियाः ।
न मत्कृते विनश्येयुः सर्वे ते नरवानराः ।। 5.13.54।।
अशोकवनिका चेयं दृश्यते या महाद्रुमा ।
इमामधिगमिष्यामि न हीयं विचिता मया ।। 5.13.55।।
वसून् रुद्रांस्तथा ऽ ऽदित्यानश्विनौ मरुतो ऽपि च ।
नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः ।। 5.13.56।।
यदि पूर्वमेव सम्पातिवचनप्रामाण्येन रामो ऽत्रानीयेत तदा महान् प्रमादः स्यादित्याह सम्पातीति ।। 5.13.5356।।
जित्वा तु राक्षसान् सर्वानिक्ष्वाकुकुलनन्दिनीम् ।
संप्रदास्यामि रामाय यथा सिद्धिं तपस्विने ।। 5.13.57।।
स मुहूर्तमिव ध्यात्वा चिन्तावग्रथितेन्द्रियः ।
उदतिष्ठन्महातेजा हनूमान् मारुतात्मजः ।। 5.13.58।।
सिद्धिं तपःफलम् ।। 5.13.57,58।।
नमो ऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै ।
नमो ऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमो ऽस्तु चन्द्रार्कमरुद्गणेभ्यः ।। 5.13.59।।
“सर्वान् देवान्नमस्यन्ति रामस्यार्थे यशस्विनः” इत्युक्तरीत्या अभिमतलाभत्वरया सर्वान्नमस्करोति नमो ऽस्त्विति ।। 5.13.59।।
स तेभ्यस्तु नमस्कृत्य सुग्रीवस्य च मारुतिः ।
दिशः सर्वाः समालोक्य ह्यशोकवनिकां प्रति ।। 5.13.60।।
स गत्वा मनसा पूर्वमशोकवनिकां शूभाम् ।
उत्तरं चिन्तयामास वानरो मारुतात्मजः ।। 5.13.61 ।।
स तेभ्यस्त्वित्यादिश्लोकद्वयमेकान्वयम् । नमस्कृत्यालोकनरूपक्रियाभेदावच्छब्दद्वयम् । नमस्कृत्य अशोकवनिकां प्रति उद्दिश्य सर्वा दिशस्समालोक्य परिच्छेत्तुं तस्यास्सर्वा दिशो दृष्ट्वा तां स मनसा गत्वा उत्तरं चिन्तयामासेति योजना । अशोकशब्दः संक्षेपे व्याख्यातः ।। 5.13.60,61।।
ध्रुवं तु हक्षोबहुला भविष्यति वनाकुला ।
अशोकवनिका चिन्त्या सर्वसंस्कारसंस्कृता ।। 5.13.62 ।।
ध्रुवमिति । रक्षोबहुला रक्षकराक्षसबहुला । वनाकुला जलावृता द्रुमषण्डमण्डिता वा । सर्वसंस्कारैः कर्षणतृणनिरसनादिभिः संस्कृता कृतातिशयाधाना अशोकवनिका ध्रुवं चिन्त्या भविष्यति । अवश्यमन्वेषणीया भवेदित्यर्थः ।। 5.13.62।।
रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान् ।
भगवानपि सर्वात्मा नातिक्षोभं प्रवाति वै ।। 5.13.63।।
रक्षिण इति । अत्र अशोकवनिकायाम् । विहिताः नियुक्ताः । सर्वात्मा सर्वमाप्नोतीति सर्वात्मा वायुः । सोपि नातिक्षोभं प्रवाति । अतिकम्पनपूर्वकं नात्र सञ्चरतीत्यर्थः ।। 5.13.63।।
संक्षिप्तो ऽयं मया ऽ ऽत्मा च रामार्थे रावणस्य च ।
सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास्त्विह ।। 5.13.64।।
एवंभूतप्रदेशे भवतः कथं गमनमित्याशङ्क्याह संक्षिप्त इति । मया अयमात्मा देहः । रामार्थे रामप्रयोजनसिद्ध्यर्थम् । रावणस्य चार्थे रावणादृश्यत्वार्थं च संक्षिप्तः अल्पीकृतः । एवं मया कार्यानुकूलो यत्नः कृतः कार्यसिद्धिं तु देवाः विधास्यन्तीत्याह सिद्धिमिति । संविधास्यन्ति ददत्वित्यर्थः ।। 5.13.64।।
ब्रह्मा स्वयम्भूर्भगवान् देवाश्चैव दिशन्तु मे ।
सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रभृत् ।। 5.13.65।।
वरुणः पाशहस्तश्च सोमादित्यौ तथैव च ।
अश्विनौ च महात्मानौ मरुतः शर्व एव च ।। 5.13.66।।
ब्रह्मेत्यादि । शर्वः रुद्रः ।। 5.13.65,66।।
सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः ।
दास्यन्ति मम ये चान्ये ह्यदृष्टाः पथिगोचराः ।। 5.13.67।।
उक्तमर्थं पुनः संग्रहेणाह सिद्धिं सर्वाणि भूतानीति । भूतानां प्रभुः उक्तब्रह्मरुद्राद्यधिपतिः, परिशेषाद्विष्णुरित्यवगम्यते । पन्थाः गोचरः येषां ते पथिगोचराः मार्गवर्तिनः ।। 5.13.67।।
तदुन्नसं पाण्डुरदन्तमव्रणं शुचिस्मितं पद्मपलाशलोचनम् ।
द्रक्ष्ये तदार्यावदनं कदान्वहं प्रसन्नताराधिपतुल्यदर्शनम् ।। 5.13.68।।
तदिति । तत्तस्मात् कारणात् । उन्नता नासिका यस्य तदुन्नम् । “उपसर्गाच्च” इति समासान्तो ऽच् प्रत्ययः नासादेश्च । अव्रणम् अनवद्यम् । तत् अभिज्ञातत्वेन रामेण निवेदितम् ।। 5.13.68।।
क्षुद्रेण पापेन नृशंसकर्मणा सुदारुणालङ्कृतवेषधारिणा ।
बलाभिभूता ह्यबला तपस्विनी कथं नु मे दृष्टिपथे ऽद्य सा भवेत् ।। 5.13.69।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रयोदशः सर्गः ।। 5.13।।
सुदारुणालङ्कृतवेषधारिणा सुदारुणत्वे ऽप्यापातप्रसन्नवेषधारिणा ।। 5.13.69।।
इति श्रीगोविन्तराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने त्रयोदशः सर्गः ।। 5.13।।