श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुर्दशः सर्गः
स मूहर्तमिव ध्यात्वा मनसा चाधिगम्य ताम् ।
अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः ।। 5.14.1 ।।
सु मुहूर्तमित्यादि । इवशब्दो वाक्यालङ्कारे । प्राकारम् अशोकवनिकाप्राकारम् । तस्य वेश्मनः रावणस्य गृहात् । अवलुप्तः प्राप्तः ।। 5.14.1 ।।
स तु संहृष्टसर्वाङ्गः प्राकारस्थो महाकपिः ।
पुष्पिताग्रान् वसन्तादौ ददर्श विविधान् द्रुमान् ।। 5.14.2 ।।
स त्विति । संहृष्टसर्वाङ्गः पुलकितसर्वाङ्गः । वसन्तादौ “पौर्णमास्या मासान् संपाद्य” इति पक्षमनुसृत्य फाल्गुनपौर्णमासीप्रपूर्वदिनत्वेन वसन्तादावित्युक्तम् ।। 5.14.2 ।।
सालानशोकान् भव्यांश्च चम्पकांश्च सुपुष्पितान् ।
उद्दालकान्नागवृक्षांश्चूतान् कपिमुखानपि ।। 5.13.3।।
अथाम्रवणसंछन्ना लताशतसमावृताम् ।
ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम् ।। 5.14.4।।
सालान् सर्जकान् । भव्यान् शभानित्यशोकविशोषणम् । यद्वा भवं रुद्रमर्हन्तीति भव्यान् रुद्रप्रियपुष्पान् वृक्षविशेषान् । उद्दलाकान् बहुवारकान् । नागवृक्षान् नागकेसरवृक्षान् । कपिमुखान् मर्कटकान् ।। 5.14.34।।
स प्रविश्य विचित्रां तां विहगैरभिनादिताम् ।
राजतैः काञ्चनैश्चैव पादपैः सर्वतो वृताम् ।। 5.14.5।।
स प्रविश्येत्यादि । काञ्चनैः काञ्चनमयैरिव स्थितैः ।। 5.14.5।।
विहगैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् ।
उदितादित्यसङ्काशां ददर्श हनुमान् कपिः ।। 5.14.6।।
चित्रकाननां चित्रावन्तरवनाम्, चम्पकवनं चूतवनमित्येवंविधवनवतीम् ।। 5.14.6।।
वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः ।
कौकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम् ।। 5.14.7।।
पुष्पाण्युपगच्छन्तीति पुष्पोपगाः पुष्पसंपन्नाः तैः, फलोपगैः फलसंपन्नैः ।। 5.14.7।।
प्रहृष्टमनुजे काले मृगपक्षिसमाकुले ।
मत्तबर्हिणसंघुष्टां नानाद्विजगणायुताम् ।। 5.14.8।।
मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम् ।
सुखप्रसुप्तान् विहगान् बोधयामास वानरः ।। 5.14.9।।
प्रहृष्टमनुजे काले वनन्ते । वसन्तस्य प्रचुरमन्मथत्वात् प्रहृष्टमनुजत्वम् ।। 5.14.89।।
उत्पतद्भिर्द्विजगणैः पक्षैः सालाः समाहताः ।
अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः ।। 5.14.10।।
पुष्पावकीर्णः शुशुभे हनुमान् मारुतात्मजः ।
अशोकवनिकामध्ये यथा पुष्पमयो गिरिः ।। 5.14.11 ।।
दिशः सर्वाः प्रधावन्तं वृक्षषण्डगतं कपिम् ।
दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे ।। 5.14.12 ।।
वृक्षेभ्यः पतितैः पुष्पैरवकीर्णा पृथग्विधैः ।
रराज वसुधा तत्र प्रमदेव विभूषिता ।। 5.14.13।।
तरस्विना ते तरवस्तरसा ऽभिप्रकम्पिताः ।
कुसुमानि विचित्राणि ससृजुः कपिना तदा ।। 5.14.14।।
सालाः वृक्षाः । “अनोकहः कुटः सालः”इत्यमरः । पुष्पवृष्टयः पुष्पवृष्टीः ।। 5.14.1014।।
निर्धूतपत्रशिखराः शीर्णपुष्पफलद्रुमाः ।
निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः ।। 5.14.15।।
हनूमता वेगवता कम्पितास्ते नगोत्तमाः ।
पुष्पपर्णफलान्याशु मुमुचुः पुष्पशालिनः ।। 5.14.16।।
धूर्ताः अक्षधूर्ताः ।। 5.14.1516।।
विहङ्गसङ्घैर्हीनास्ते स्कन्धमात्राश्रया द्रुमाः ।
बभूवुरगमाः सर्वे मारुतेनेव निर्धुताः ।। 5.14.17।।
स्कन्धमात्राश्रयाः पुष्पादीनामनाश्रया इत्यर्थः । अत एव अगमाः अगम्यः, असेव्या इत्यर्थः । निर्धूताः कम्पिताः ।। 5.14.17।।
निर्धूतकेशी युवतिर्यथा मृदितवर्णका ।
निष्पीतशुभदन्तोष्ठी नखैर्दन्तैश्च विक्षिता ।। 5.14.18।।
तथा लांगूलहस्तैश्च चरणाभ्यां च मर्दिता ।
बभूवाशोकवनिका प्रभग्नवरपादपा ।। 5.14.19।।
निर्धूतेति । मृदितवर्णका मृष्टाङ्गरागा । “अङ्गरागस्समालम्भो वर्णकश्च विलेपनम्” इत्युक्तेः । निष्पीतशुभदन्तोष्ठी निष्पीततया शुभदन्ततुल्योष्ठी ।। 5.14.1819।।
महालतानां दामानि व्यधमत्तरसाकपिः ।
यथा प्रावृषि विन्ध्यस्य मेघजालानि मारुतः ।। 5.14.20।।
स तत्र मणिभूमीश्च राजतीश्च मनोरमाः ।
तथा काञ्चनभूमीश्च ददर्श विचरन् कपिः ।। 5.14.21 ।।
वापीश्च विविधाकाराः पूर्णाः परमवारिणा ।
महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः ।। 5.14.22 ।।
मुक्ताप्रवालसिकताः स्फाटिकान्तरकुट्टिमाः ।
काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः ।। 5.14.23।।
महालतानामिति । लतानां दामानि प्रतानाति ।। 5.14.2023।।
फुल्लपद्मोत्पलवनाश्चक्रवाकोपकूजिताः ।
नत्यूहरुतसंघुष्टा हंससारसनादिताः ।। 5.14.24।।
दीर्घाभिर्द्रुमयुक्ताभिः सरिद्भिश्च समन्ततः ।
अमुतोपमतोयाभिः शिवाभिरुपसंस्कृताः ।। 5.14.25।।
नत्यूहाः दात्यूहाः ।। 5.14.2425।।
लताशतैरवतताः सन्तानकसमावृताः ।
नानागुल्मावृतघनाः करवीरकृतान्तराः ।। 5.14.26।।
ततो ऽम्बुधरसङ्काशं प्रवृद्धशिखरं गिरिम् ।
विचित्रकूटं कूटैश्च सर्वतः परिवारितम् ।। 5.14.27।।
सन्तानकाः कल्पवृक्षास्तैस्समावृताः । घनाः निबिडाः । नानागुल्मावृताश्च ताः घनाश्चेति समासः । करवीरकृतान्तराः करवीरैः कृतविशेषाः ।। 5.14.2627।।
शिलागृहैरवततं नानावृक्षैः समावृतम् ।
ददर्श हरिशार्दूलो रम्यं जगति पर्वतम् ।। 5.14.28।।
जगति लोके रम्यम्, एतत्सदृशं रम्यं किंचिन्नास्तीत्यर्थः । पर्वतं ददर्शेत्यन्वयः ।। 5.14.28।।
ददर्श च नगात्तस्मान्नदीं निपतितां कपिः ।
अङ्कादिव समुत्पत्य प्रियस्य पतितां प्रियाम् ।। 5.14.29।।
जले निपतिताग्रैश्च पादपैरुपशोभिताम् ।
वार्यमाणामिव क्रुद्धां प्रमदां प्रियबन्धुभिः ।। 5.14.30।।
पुनरावृत्ततोयां च ददर्श स महाकपिः ।
प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिताम् ।। 5.14.31 ।।
अथ नद्याः कुपितया निर्गतया सखीसान्त्वनेन पुनरागतया साम्यं दर्शयति ददर्श चेति । पुनरावृत्ततोयां वृक्षाग्रप्रतिहत्या पुनः पर्वताभिमुखतोयप्रवाहाम् । उपमाने उपमेये चान्वयाय ददर्शेति पदद्वयम् ।। 5.14.2931।।
तस्यादूरात्स पद्मिन्यो नानाद्विजगणायुताः ।
ददर्श हरिशार्दूलो हनुमान् मारुतात्मजः ।। 5.14.32 ।।
तस्येति । तस्य पर्वतस्य । पद्मिन्यः पद्मिनीः ।। 5.14.32।।
कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा ।
मणिप्रवरसोपानां मुक्तासिकतशोभिताम् ।। 5.14.33।।
विविधैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् ।
प्रासादैः सुमहद्भिश्च निर्मितैर्विश्वकर्मणा ।। 5.14.34।।
काननैः कृत्रिमैश्चापि सर्वतः समलङ्कृताम् ।। 5.14.35।।
कृत्रिमां क्रियया निर्वृत्ताम्, निर्मितामित्यर्थः ।।। 5.14.3335।।
ये केचित् पादपास्तत्र पुष्पोपगफलोपगाः ।
सच्छत्राः सवितर्दीकाः सर्वे सौवर्णवेदिकाः ।। 5.14.36।।
लताप्रतानैर्बहुभिः पर्णैश्च बहुभिर्वृताम् ।
काञ्चनीं शिंशुपामेकां ददर्श हनुमान् कपिः ।
वृतां हेममयीभिस्तु वेदिकाभिः समन्ततः ।। 5.14.37।।
सो ऽपश्यद्भूमिभागांश्च गर्तप्रस्रवणानि च ।
सुवर्णवृक्षानपरान् ददर्श शिखिसन्निभान् ।। 5.14.38।।
तेषां द्रुमाणां प्रभया मेरोरिव दिवाकरः ।
अमन्यत तदा वीरः काञ्चनो ऽस्मीति वानरः ।।। 5.14.39।।
ये केचिदिति । सच्छात्राः सविताना इत्यर्थः । सवितर्दिकाः सवेदिकाः । सौवर्णवेदिकाः विदर्दिकारोहणार्थं सुवर्णमयसोपानवेदिकायुक्ताः ।। 5.14.3639।।
तां काञ्चनैस्तरुगणैर्मारुतेन च वीजिताम् ।
किङ्किणीशतनिर्घोषां दृष्ट्वा विस्मयमागमत् ।। 5.14.40।।
तामिति । काञ्चनैस्तरुगणैः उपलक्षितां तां शिंशुपाम् । किङ्किणीशतनिर्घोषाम्, किङ्किण्यः क्षुद्रघण्टिकाः तासां निर्घोषो यस्याः । यद्वा किङ्किणीभिः शतमनन्ताः निर्घोषा यस्याः सा ताम् ।। 5.14.40।।
स पुष्पिताग्रां रुचिरां तरुणाङ्कुरपल्लवाम् ।
तामारुह्य महाबाहुः शिंशुपां पर्णसंवृताम् ।। 5.14.41 ।।
स पुष्पिताग्रामित्याद्यासर्गसमाप्त्येकं वाक्यम् ।। 5.14.41 ।।
इतो द्रक्ष्यामि वैदेहीं रामदर्शनलालसाम् ।
इतश्चेतश्च दुःखार्तां सम्पतन्तीं यदृच्छया ।। 5.14.42 ।।
इतो द्रक्ष्यामि इमामारुह्य द्रक्ष्यामि । ल्यब्लोपे पञ्चमी ।। 5.14.42 ।।
अशोकवनिका चेयं दृढं रम्या दुरात्मनः ।
चम्पकैश्चन्दनैश्चापि वकुलैश्च विभूषिता ।। 5.14.43।।
इयं च नलिनी रम्या द्विजसङ्घनिषेविता ।
इमां सा राममहिषी नूनमेष्यति जानकी ।। 5.14.44।।
सा रामा राममहिषी राघवस्य प्रिया सती ।
वनस़ञ्चारकुशला नूनमेष्यति जानकी ।। 5.14.45।।
दुरात्मनः रावणस्य ।। 5.14.4345।।
अथवा मृगशावाक्षी वनस्यास्य विचक्षणा ।
वनमेष्यति सा ऽ ऽर्येह रामचिन्तानुकर्शिता ।। 5.14.46।।
अथेवेति पक्षान्तरे । विचक्षणा तापापनोदनचतुरा । अस्य वनस्य अशोकवनस्य । इह वनं नलिनीपरिसरवर्तिवनम् । रामचिन्तानुकर्शिता सती एष्यति । रामविश्लेषजनिततापापनोदनार्थमेतद्वनप्रदेशमागमिष्यतीत्यर्थः । सा आर्येति पदच्छेदः ।। 5.14.46।।
रामशोकाभिसंतप्ता सा देवी वामलोचना ।
वनवासे रता नित्यमेष्येत वनचारिणी ।। 5.14.47।।
एष्यते एष्यति ।। 5.14.47।।
वनेचराणां सततं नूनं स्पृहयते पुरा ।
रामस्य दयिता भार्या जनकस्य सुता सती ।। 5.14.48।।
वनेचराणां स्पृहयते वनेचरेभ्यस्स्पृहयते ।। 5.14.48।।
सन्ध्याकालमनाः श्यामा ध्रुवमेष्यति जानकी ।
नदीं चेमां शिवजलां सन्ध्यार्थे वरवर्णिनी ।। 5.14.49।।
तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा ।
शुभा या पार्थिवेन्द्रस्य पत्नी रामस्य सम्मता ।। 5.14.50।।
यदि जीवति सा देवी ताराधिपनिभानना ।
आगमिष्यति सा ऽवश्यमिमां शिवजलां नदीम् ।।5.14.51 ।।
सन्ध्याकाले मनः यस्यास्सा सन्ध्याकालमनाः, सन्ध्योपासनतत्परेत्यर्थः । सन्ध्यार्थे एष्यति, प्रतिदिनमिति शेषः ।। 5.14.4951 ।।
एवं तु मत्वा हनुमान् महात्मा प्रतीक्षमाणो मनुजेन्द्रपत्नीम् ।
अवेक्षमाणश्च ददर्श सर्वं सुपुष्पिते पर्णघने निलीनः ।। 5.14.52 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुर्दशः सर्गः ।। 5.14।।
पर्णघने पर्णसमूहे । महात्मा स हनुमान् । पुष्पिताग्रत्वादिविशिष्टां तामारुह्य इतो द्रक्ष्यामीत्यारभ्य आगमिष्यति सा ऽवश्यमिमां शिवजलां नदीमित्यन्तेन यः प्रकार उक्तः एवमुक्तप्रकारेण मत्वा मनुजेन्द्रपत्नीं प्रतीक्षमाणः अवेक्षमाणः मार्गमाणः सुपुष्पिते पर्णघने निलीनश्च सन् सर्वं ददर्शेत्यन्वयः ।। 5.14.52 ।।
इत्यार्षे श्रीगोविन्दराजाविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चतुर्दशः सर्गः ।। 5.14।।