श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टादशः सर्गः
तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम् ।
विचिन्वतश्च वैदेहीं किंचिच्छेषा निशा ऽभवत् ।। 5.18.1।।
तथेत्यादि । विप्रेक्षमाणस्य विचिन्वतश्च । विप्रेक्षमाणे विचिन्वति च तस्मिन्नित्यर्थः । ” यस्य च भावेन.” इत्यर्थे षष्ठी ।। 5.18.1।।
षडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम् ।
शुश्राव ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम् ।। 5.18.2।।
अथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः ।
प्राबुध्यत महाबाहुर्दशग्रीवो महाबलः ।। 5.18.3।।
विबुध्य तु यथाकाले राक्षसेन्द्रः प्रतापवान् ।
स्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत् ।। 5.18.4।।
विरात्रे अपररात्रे । “अहस्सर्वैकदेशसङ्ख्यातपुण्याच्च रात्रेः” इत्यत्र चकारादव्ययादुत्तरस्य रात्रिशब्दस्य समासान्तो ऽच् प्रत्ययः । ब्रह्मरक्षसां ब्राह्मणत्वविशिष्टरक्षसाम् । ब्रह्मघोषान् वेदघोषान् ।। 5.18.24।।
भृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः ।
न स तं राक्षसः कामं शशाकात्मनि गूहितुम् ।। 5.18.5।।
स सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम् ।
तां नगैर्बहुभिर्जुष्टां सर्वपुष्पफलोपगैः ।। 5.18.6।।
वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम् ।
सदामदैश्च विहगैर्विचित्रां परमाद्भुताम् ।। 5.18.7।।
नियुक्तः प्रेरितः ।। 5.18.57।।
ईहामृगैश्च विविधैर्जुष्टां दृष्टिमनोहरैः ।
वीथीः संप्रेक्षमाणश्च मणिकाञ्चनतोरणाः ।। 5.18.8।।
नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् ।
अशोकवनिकामेव प्राविशत् सन्ततद्रुमाम् ।। 5.18.9।।
वीथीः उद्यानवीथीः ।। 5.18.89।।
अङ्गनाशतमात्रं तु तं व्रजन्तामनुव्रजत् ।
महेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः ।। 5.18.10।।
महेन्द्रं देवगन्धर्वयोषित इव व्रजन्तं तम् अङ्गनाशतमात्रम् अनुव्रजत् अन्वव्रजत् ।। 5.18.10।।
दीपिकाः काञ्चनीः काश्चिज्जगृहृस्तत्र योषितः ।
वालव्यजनहस्ताश्च तालवृन्तानि चापराः ।। 5.18.11।।
तालवृन्तानि व्यजनानि ।। 5.18.11।।
काञ्चनैरपि भृङ्गारैर्जहुः सलिलमग्रतः ।
मण्डलाग्रान् बृसीं चैव गृह्यान्याः पृष्ठतो ययुः ।। 5.18.12।।
भृङ्गारैः कनकालुकाभिः । “भृङ्गारः कनकालुका ” इत्यमरः । मण्डलाग्रान् असिविशेषान् । ” मण्डलाग्रो नतार्थकः” इति वैजयन्ती । बृसीम् आस्तरणम् । गृह्य गृहीत्वा ।। 5.18.12।।
काचिद्रत्नमयीं स्थालीं पूर्णां पानस्य भामिना ।
दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना ।। 5.18.13।।
राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम् ।
सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ ।। 5.18.14।।
निद्रामदपरीताक्ष्यो रावणस्योत्तमाः स्त्रियः ।
अनुजग्मुः पतिं वीरं धनं विद्युल्लता इव ।। 5.18.15।।
काचिदिति । पानस्य पूर्णां पीयत इति पानं मधु तस्य पूर्णां तेन पूर्णाम् । “पूरणगुण0” इत्यादिना सुहितार्थयोगे षष्ठीसमासनिषेधज्ञापकादत्र षष्ठी । स्थालीं पात्रीम् ।। 5.18.1315।।
व्याविद्धहारकेयूराः समामृदितवर्णकाः ।
समागलितकेशान्ताः सस्वेदवदनास्तथा ।। 5.18.16।।
घूर्णन्त्यो मदशेषेण निद्र्या च शुभाननाः ।
स्वेदक्लिष्टाङ्गकुसुमाः सुमाल्याकुलमूर्धजाः ।। 5.18.17।।
प्रयान्तं नैर्ऋतपतिं नार्यो मदिरलोचनाः ।
बहुमानाच्च कामाच्च प्रिया भार्यास्तमन्वयुः ।। 5.18.18।।
व्याविद्धेति । व्याविद्धाः व्यत्यस्ततया न्यस्ताः । समामृदितवर्णकाः सम्मृष्टानुलेपनाः । “अङ्गरागः समालम्भो वर्णकश्च विलेपनम् ।” इति निघण्टुः ।। 5.18.1618।।
स च कामपराधीनाः पतिस्तासां महाबलः ।
सीतासक्तमना मन्दो मदाञ्चितगतिर्बभौ ।। 5.18.19।।
ततः काञ्चीनिनादं च नूपुराणां च निःस्वनम् ।
शुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः ।। 5.18.20।।
मदेनाञ्चिता गतिर्यस्य स मदाञ्चितगतिः ।। 5.18.1920।।
तं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम् ।
द्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः ।। 5.18.21।।
तं चेत्यादि । द्वारदेशम् अशोकवनद्वारदेशम् ।। 5.18.21।।
दीपिकाभिरनेकाभिः समन्तादवभासितम् ।
गन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः ।। 5.18.22।।
गन्धतैलं गन्धवासिततैलम् ।। 5.18.22।।
कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम् ।
समक्षमिव कन्दर्पमपविद्धशरासनम् ।। 5.18.23।।
समक्षं प्रत्यक्षम् । अपविद्धशरासनम् अधृतशरासनम् ।। 5.18.23।।
मथितामृतफेनाभमरजो वस्त्रमुत्तमम् ।
सलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे ।। 5.18।24।।
मथितामृतफेनाभं मथितं तक्रम् अमृतं धारोष्णं तयोर्यत् फेनं तदाभम् । ” निरम्बु बोलं मथितं धारोष्णं त्वमृतं पयः” इत्युभयत्र वैजयन्ती । विमुक्तं स्वस्थानात्प्रचलितम् अङ्गदे सक्तं वस्त्रं सलीलं यथा भवति तथा अनुकर्षन्तमित्यन्वयः ।। 5.18.24।।
तं पत्रविटपे लीनः पत्रपुष्पघनावृतः ।
समीपमिव संक्रान्तं निध्यातुमुपचक्रमे ।। 5.18.25।।
अवेक्षमाणस्तु ततो ददर्श कपिकुञ्जरः ।
रूपयौवनसम्पन्ना रावणस्य वरस्त्रियः ।। 5.18.26।।
तमिति । पत्रविटपे पत्रवति विटपे । लीनः छन्नः । पत्रपुष्पघनावृतः पत्रपुष्पसमूहावृतः । इवशब्दो वाक्यालङ्कारे । यद्वा दूरे समागतमपि तेजसा समीपे संक्रान्तमिव स्थितम् । तं निध्यातुं द्रष्टुमुपचक्रमे । “निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्” इत्यमरः ।। 4.18.2526।।
ताभिः परिवृतो राजा सुरूपाभिर्महायशाः ।
तन्मृगद्विजसंवुष्टं प्रविष्टः प्रमदावनम् ।। 5.18.27।।
प्रमदावनम् अन्तःपुरोद्यानम् ।। 5.18.27।।
क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः ।
तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः ।। 5.18.28।।
वृतः परमनारीभिस्ताराभिरिव चन्द्रमाः ।
तं ददर्श महातेजास्तेजोवन्तं महाकपिः ।। 5.18.29।।
क्षीब इति । क्षीबः मत्तः । शङ्कुकर्णः गर्वेण स्तब्धकर्ण इत्यर्थः ।। 5.18.2829।।
रावणो ऽयं महाबाहुरिति संचिन्त्य वानरः ।
अवप्लुतो महातेजा हनुमान् मारुतात्मजः ।। 5.18.30।।
अवप्लुतः अवरुढः । रावणचेष्टास्सर्वा द्रष्टुं पूर्वस्थानादधःशाखां समाश्रित इत्यर्थः ।। 5.18.30।।
स तथा प्युग्रतेजाः सन् निर्धूतस्तस्य तेजसा ।
पत्रगुह्यान्तरे सक्तो हनुमान् संवृतो ऽभवत् ।। 5.18.31।।
स तामसितकेशान्तां सुश्रोणीं संहतस्तनीम् ।
दुदृक्षुरसितापाङ्गामुपावर्तत रावणः ।। 5.18.32।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टादशः सर्गः ।। 5.18।।
सः हनुमान् । तथा पूर्वोक्तरीत्या । उग्रतेजास्सन्नपि । तस्य रावणस्य । तेजसा निर्धूतः सन् । पत्रगुह्यान्तरे पत्रगूढप्रदेशे । संवृतो ऽभवत् गूढो ऽभवत् ।। 5.18.3132।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डाव्याखयाने अष्टादशः सर्गः ।। 5.18।।