श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुर्विंशः सर्गः
ततः सीतामुपागम्य राक्षस्यो विकृताननाः ।
परुषं परुषा नार्य ऊचुस्तां वाक्यमप्रियम् ।। 5.24.1।।
किं त्वमन्तःपुरे सीते सर्वभूतमनोहरे ।
महार्हशयनोपेते न वासमनुमन्यसे ।। 5.24.2।।
तत इत्यादि ।। 5.24.12।।
मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे ।
प्रत्याहर मनो रामान्न त्वं जातु भविष्यसि ।। 5.24.3।।
त्रैलोक्यवसुभोक्तारं रावणं राक्षसेश्वरम् ।
भर्तारमुपसङ्गम्य विहरस्व यथासुखम् ।। 5.24.4।।
मानुषी मानुषं तं तु राममिच्छसि शोभने ।
राज्याद् भ्रष्टमसिद्धार्थं विक्लवं त्वमनिन्दिते ।। 5.24.5।।
राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा ।
नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ।। 5.24.6।।
मानुषीति । न त्वं जातु भविष्यसि, तस्येति शेषः । मानुषीति हेतुगर्भम् । मानुषी त्वं मानुषं तमिच्छसि ।। 5.24.36।।
यदिदं लोकविद्विष्टमुदाहरथ सङ्गताः ।
नैतन्मनसि वाक्यं मे किल्बिषं प्रतिभाति वः ।। 5.24.7।।
न मानुषी राक्षसस्य भार्या भवितुमर्हति ।
कामं खादत मां सर्वा न करिष्यामि वो वचः ।। 5.24.8।।
किस्पिषं पापावहम् ।। 5.24.78।।
दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः ।
तं नित्यमनुरक्ता ऽस्मि यथा सूर्यं सुवर्चला ।। 5.24.9।।
यथा शची महाभागा शक्रं समुपतिष्ठति ।
अरुन्धती वसिष्ठं च रोहिणी शशिनं यथा ।। 5.24.10।।
लोपामुद्रा यथा ऽगस्त्यं सुकन्या च्यवनं चथा ।
सावित्री सत्यवन्तं च कपिलं श्रीमती यथा ।। 5.24.11।।
सौदासं मदयन्तीव केशिनी सगरं यथा ।
नैषधं दमयन्तीव भैमी पतिमनुव्रता ।
तथाहमिक्ष्वाकुवरं रामं पतिमनुव्रता ।। 5.24.12।।
सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्च्छिताः ।
भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः ।। 5.24.13।।
सुवर्चलेत्यादिबहुदृष्टान्तप्रदर्शनं स्वस्याः पातिव्रत्यदार्ढ्यद्योतनाय ।। 5.24.913।।
अवलीनः स निर्वाक्यो हनुमान् शिंशुपाद्रुमे ।
सीतां सन्तर्जयन्तीस्ता राक्षसीरशृणोत् कपिः ।। 5.24.14।।
अवलीनः छन्नः । राक्षसीरश्रृणोत् राक्षसीवाक्यान्यश्रृणोदित्यर्थः ।। 5.24.14।।
तामभिक्रम्य संक्रुद्धा वेपमानां समन्ततः ।
भृशं संलिलिहुर्दीप्तान् प्रलम्बान् दशनच्छदान् ।। 5.24.15।।
ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान् ।
नेयमर्हति भर्तारं रावणं राक्षसाधिपम् ।। 5.24.16।।
नेयमर्हतीत्यत्रेतिकरणं बोध्यम् । अस्य ऊचुरुत्यनेन सम्बन्धः ।। 5.24.1516।।
संभर्त्स्यमाना भीमाभी राक्षसीभिर्वरानना ।
सा बाष्पमुपामार्जन्ती शिंशुपां तामुपागमत् ।। 5.24.17।।
ततस्तां शिंशुपां सीता राक्षसीभिः समावृता ।
अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता ।। 5.24.18।।
तां कृशां दीनवदनां मलिनाम्बरधारिणीम् ।
भर्त्सयाञ्चक्रिरे सीतां राक्षस्यस्तां समन्ततः ।। 5.24.19।।
सा भर्त्स्यमानेति पाठे भर्त्सनोपगमनरूपक्रियाभेदात् तच्छब्दद्वयम् । तां
हनुमदधिष्ठितां शिंशुपाम् ।। 5.24.1719।।
ततस्तां विनता नाम राक्षसी भीमदर्शना ।
अब्रवीत् कुपिताकारा कराला निर्णतोदरी ।। 5.24.20।।
ततस्तां विनता नामेति । निर्णतोदरी उन्नतोदरी ।। 5.24.20।।
सीते पर्याप्तमेतावद्भर्तुः स्नेहो निदर्शितः ।
सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते ।। 5.24.21।।
अतिकृतम् अतिमात्रकृतम् ।। 5.24.21।।
परितुष्टा ऽस्मि भद्रं ते मानुषस्ते कृतो विधिः ।
ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि ।। 5.24.22।।
रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् ।
विक्रान्तं रूपवन्तं च सुरेशमिव वासवम् ।। 5.24.23।।
दक्षिणं त्यागशीलं च सर्वस्य प्रियदर्शनम् ।। 5.24.24।।
मानुषं कृपणं रामं त्यक्त्वा रावणमाश्रय ।
दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता ।। 5.24.25।।
अद्यप्रभृति सर्वेषां लोकानामीश्वरीभव ।
अग्नेः स्वाहा यथा देवी शचीवेन्द्रस्य शोभने ।। 5.24.26।।
किं ते रामेण वैदेहि कृपणेन गतायुषा ।
एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि ।
अस्मिन् मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम् ।। 5.24.27।।
अन्या तु विकटा नाम लम्बमानपयोधरा ।
अब्रवीत् कुपिता सीतां मुष्टिमुद्यम्य गर्जती ।। 5.24.28।।
मानुषो विधिः कृतः, मनुष्यजात्युचितपातिव्रत्यप्रकटनं कृतम् एतावत्कालमित्यर्थः ।। 5.24.2228।।
बहून्यप्रियरूपाणि वचनानि सुदुर्मते ।
अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि ।। 5.24.29।।
सोढानि, रावणेनेति शेषः ।। 5.24.29।।
न च नः कुरुषे वाक्यं हितं कालपुरस्सरम् ।। 5.24.30।।
आनीतासि समुद्रस्य पारमन्यैर्दुरासदम् ।
रावणान्तःपुरं घोरं प्रविष्टा चासि मैथिलि ।। 5.24.31।।
रावणस्य गृहे रुद्धामस्माभिस्तु सुरक्षिताम् ।
न त्वां शक्तः परित्रातुमपि साक्षात् पुरन्दरः ।। 5.24.32।।
कुरुष्व हितवादिन्या वचनं मम मैथिलि ।
अलमश्रुप्रपातेन त्यज शोकमनर्थकम् ।। 5.24.33।।
न चेति । कालपुरस्सरं कालानुरूपम् ।। 5.24.3033।।
भज प्रीतिं प्रहर्षं च त्यजैतां नित्यदैन्यताम् ।
सीते राक्षसराजेन सह क्रीड यथासुखम् ।। 5.24.34।।
जानासि हि यथा भीरु स्त्रीणां यौवनमध्रुवम् ।
यावन्न ते व्यतिक्रामेत्तावत् सुखमवाप्नुहि ।। 5.24.35।।
उद्यानानि च रम्याणि पर्वतोपवनानि च ।
सह राक्षसराजेन चर त्वं मदिरेक्षणे ।। 5.24.36।।
स्त्रीसहस्राणि ते सप्त वशे स्थास्यन्ति सुन्दरि ।
रावण भज भर्तारं भर्तारं सर्वरक्षसाम् ।। 5.24.37।।
प्रीतिं रावणविषयप्रीतिम् । प्रहर्षं कालकृतमनोविकासम् ।। 5.24.3437।।
उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि ।
यदि मे व्याहृतं वाक्यं न यथावत् करिष्यसि ।। 5.24.38।।
ततश्चण्डोदरी नाम राक्षसी क्रोधमूर्च्छिता ।
भ्रामयन्ती महच्छूलमिदं वचनमब्रवीत् ।। 5.24.39।।
उत्पाट्य वा उत्पाट्यैव ।। 5.24.3839।।
इमां हरिणलोलाक्षीं त्रासोत्कम्पिपयोधराम् ।
रावणेन हृतां दृष्ट्वा दौर्हृदो मे महानभूत् ।। 5.24.40।।
दौर्हृदः इच्छा ।। 5.24.40।।
यकृत्प्लीहमथोत्पीडं हृदयं च सबन्धनम् ।
अन्त्राण्यपि तथा शीर्षं खादेयमिति मे मतिः ।। 5.24.41।।
ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत् ।
कण्ठमस्या नृशंसायाः पीडयाम किमास्यते ।। 5.24.42।।
निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह ।
नात्र कश्चन सन्देहः खादतेति स वक्ष्यति ।। 5.24.43।।
कुक्षिदक्षिणभागस्थः कालखण्डाख्यो मांसपिण्डो यकृत् । “स्नायुस्स्त्रियां कालखण्डयकृती तु समे इमे” इत्यमरः । प्लीहा तु गुल्माख्यो वामभागस्थो मांसपिण्डविशेषः । नकारान्तस्य प्लीहन् शब्दस्य अकारान्तत्वमार्षम् । “अन्त्रं पुरीतद्गुल्मस्तु प्लीहा पुंसि”इत्यमरः । उत्पीडं तस्योपरि स्थितं मांसम् । हृदयम् पद्मकोशप्रतीकाशं मांसम् । बन्धनं तस्य धारणमधोमांसम् । उत्क्रोडमिति पाठे उत्क्रोडो हृदयस्य स्थानम् । अन्त्रं पुरीतत् ।। 5.24.4143।।
ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत् ।
विशस्येमां ततः सर्वाः समान् कुरुत पीलुकान् ।। 5.24.44।।
ततस्त्वजामुखी नामेत्यादि । पीलुकान् मांसखण्डान् ।। 5.24.44।।
विभजाम ततः सर्वा विवादो मे न रोचते ।
पोयमानीयतां क्षिप्रं लेह्यमुच्चावचं बहु ।। 5.24.45।।
ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत् ।
अजामुख्या यदुक्तं हि तदेव मम रोचते ।। 5.24.46।।
पेयं लेह्यं चास्यां उपदंशत्वेनोच्यते ।। 5.24.4546।।
सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी ।
मानुषं मांसमास्वाद्य नृत्यामो ऽथं निकुम्भिलाम् ।। 5.24.47।।
निकुम्भिला नाम लङ्कायाः पश्चिमद्वारप्रदेशवासिनी भद्रकाली ।। 5.24.47।।
एवं संभर्त्स्यमाना सा सीता सुरसुतोपमा ।
राक्षसीभिः सुघोराभिर्घैर्यमुत्सृज्य रोदिति ।। 5.24.48।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुर्विंशः सर्गः ।। 5.24।।
एवमिति । रोदिति अरुदत् ।। 5.24.48।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चतुर्विंशः सर्गः ।। 5.24।।