श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रामत्सुन्दरकाण्डे त्रयस्त्रिंशः सर्गः
सो ऽवतीर्य द्रुमात्तस्माद्विद्रुमप्रतिमाननः ।
विनीतवेषः कृपणः प्रणिपत्योपसृत्य च ।। 5.33.1।।
तामब्रवीन्महातेजा हनूमान् मारुतात्मजः ।
शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा ।। 5.33.2।।
कानु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि ।
द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते ।। 5.33.3।।
सो ऽवतीर्येत्यादि । सः राक्षसीषु सुप्तासु लब्धावसर इत्यर्थः । कृपणः सीतादौस्थ्यदर्शनेन दीनः । जानन्नपि वैदेह्यैव वाचयितुमब्रवीत् ।। 5.33.13।।
किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम् ।
पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम् ।। 5.33.4।।
किमर्थमिति । तव नेत्राभ्याम् आनन्दाश्रुयोगार्हाभ्याम् । किमर्थं कस्य कुलच्छेदाय । यद्वा किमर्थं किं चेतसि कृत्वा । पुण्डरीकेत्यादि । हन्तैतत्सौन्दर्यं प्रणयिना रामेण दृष्टमासीदिति भावः ।। 5.33.4।।
सुराणामसुराणां वा नागगन्धर्वरक्षसाम् ।
यक्षाणां किन्नराणां वा का त्वं भवसि शोभने ।। 5.33.5।।
का त्वं भवसि रुद्राणां मरुतां वा वरानने ।
वसूनां वा वरारोहे देवता प्रतिभासे मे ।। 5.33.6।।
किन्नु चन्द्रमसा हीना पतिता विबुधालयात् ।
रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठसर्वगुणान्विता ।। 5.33.7।।
सुराणामित्यादिषु निर्धारणे षष्ठी । का त्वं कस्य सम्बन्धिनीत्यर्थः ।। 5.33.57।।
का त्वं भवसि कल्याणि कत्वमनिन्दितलोचने ।। 5.33.8।।
का त्वमिति । हे कल्याणि । त्वं का । अनिन्दितलोचने । त्वं का भवसीति योजना ।। 5.33.8।।
कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणे ।
वसिष्ठं कोपयित्वा त्वं नासिकल्याण्यरुन्धती ।। 5.33.9।।
वसिष्ठं कोपयित्वेत्यत्रापि पतिता विबुधालयादित्यनुषज्यते । नासीत्यत्र काकुरनुसन्धेया ।। 5.33.9।।
को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे ।
अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि ।। 5.33.10।।
कोन्विति । अमुं लोकं गतम्, यमिति शेषः । परलोकं गतं यं पुत्रं पितरं भ्रातरं भर्तारं वा अनुशोचसि स क इत्यर्थः । गता त्वमित्यपि पाठः । अस्मात् स्वर्गादमुं मनुष्यलोकम् गता या त्वमनुशोचसि । तस्यास्ते को वा पुत्रादिरिति योजना ।। 5.33.10।।
रोदनादतिनिःश्वासाद्भूतमिसंस्पर्शनादपि ।
न त्वां देवीमहं मन्ये राज्ञः संज्ञावधारणात् ।। 5.33.11।।
देवीं देवस्त्रियम् । संज्ञावधारणात् संज्ञायते अनयेति संज्ञा लक्षणम् । राजलक्षणनिश्चयादित्यर्थः ।। 5.33.11।।
व्यञ्जनानि च ते यानि लक्षणामनि च लक्षये ।
महिषी भूमिपालस्य राजकन्या ऽसि मे मता ।। 5.33.12।।
रावणेन जनस्थानाद् बलादपहृता यदि ।
सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः ।। 5.33.13।।
व्यञ्जनामि स्तनजघनादीनि । “व्यञ्जनं तेमने चिह्ने श्मश्रुण्यवयवे ऽपि च” इति विश्वः । लक्षणानि शुभावर्तरेखादिसामुद्रिकलक्षणानि ।। 5.33.1213।।
यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम् ।
तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम् ।। 5.33.14।।
यथा यादृशम् ।। 5.33.14।।
सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता ।
उवाच वाक्यं वैदेही हनुमन्तं द्रुमाश्रितम् ।। 5.33.15।।
द्रुमाश्रितं द्रुममूलाश्रितम् । सो ऽवतीर्येति द्रुमावतरणस्य पूर्वमुक्तत्वात् । यद्वा पूर्वमग्रादवतरणमुक्तमिति ज्ञेयम् ।। 5.33.15।।
पृथिव्यां राजसिहानां मुख्यस्य विदितात्मनः ।
स्नुषा दशरथस्याहं शत्रुसैन्यप्रतापिनः ।। 5.33.16।।
पृथिव्यामिति । शत्रुसैन्यप्रतापिनः शत्रुषु जीवत्सु न मे श्वशुरो जीवितवान् । स चेदिदानीं वर्तेत कथमहमेतादृशीमवस्थां प्राप्नुयामिति भावः ।। 5.33.16।।
दुहिता जनकस्याहं वैदेहस्य महात्मनः ।
सीता च नाम नाम्ना ऽहं भार्या रामस्य धीमतः ।। 5.33.17।।
दुहितेति । सीता च नामेत्यत्र नामशब्दः प्रासिद्धौ ।। 5.33.17।।
समा द्वादश तत्राहं राघवस्य निवेशने ।
भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी ।। 5.33.18।।
तत्र त्रयोदशे वर्षे राज्येनेक्ष्वाकुनन्दनम् ।
अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे ।। 5.33.19।।
समा इति । अहम् एतादृशावस्था अहम् । तत्र मम श्वशुरगृहे । द्वादशसमाः द्वादशसंवत्सरान् । अत्यन्तसंयोगे द्वितीया । तेनाविच्छोन्नैकरूपभोगभोक्तृत्वमुच्यते । मानुषानित्यनेन नात्मनो मानुषत्वं स्वाभाविकमिति सूच्यते । भोगान् भुञ्जाना अनुभवन्ती । काम्यन्त इति कामाः भोगोपकरणानि स्रक्चन्दनादीनि । तेषां समृद्धं समृद्धिः । भावे निष्ठा । तदस्या अस्तीति सर्वकामसमृद्विनी । “अत इनिठनौ” इति इनिप्रत्ययः । अभवमिति शेषः ।। 5.33.1819।।
तस्मिन् संभ्रियमाणे तु राघवस्याभिषेचने ।
कैकेयी नाम भर्तारं देवी वचनमब्रवीत् ।। 5.33.20।।
तस्मिन्निति । संभ्रियमाणे संभारान् संपादयति सति । राघवस्याभिषेचने रामाभिषेकनिमित्तम् । देवी महिषी ।। 5.33.20।।
न पिबेयं न खादेयं प्रत्यहं मम भोजनम् ।
एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ।। 5.33.21।।
न पिबेयमिति । भुज्यत इति भोजनं खाद्यं पेयं च । रामो यद्यभिषिच्यते तदा मम संबन्धि यत् भोजनं तन्न पिबेयं न खादेयम् । एषः अयमभिषेकः जीवितस्यान्तश्च ।। 5.33.21।।
यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम ।
तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः ।। 5.33.22।।
यत्तदिति । तत्पूर्वोक्तं यद्वरदानरूपं वाक्यं तन्न वितथं कार्यं चेत्तदा रामो वनं गच्छतु ।। 5.33.22।।
स राजा सत्यवाग् देव्या वरदानमनुस्मरन् ।
मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम् ।। 5.33.23।।
ततस्तु स्थविरो राजा सत्ये धर्मे व्यवस्थितः ।
ज्येष्ठं यशस्विनं पुत्रं रुदन् राज्यमयाचत ।। 5.33.24।।
स इति । देव्यास्संबन्धि स्वकृतं वरदानं स्मृत्वा कैकेय्याः वचनं श्रुत्वा मुमोह ।। 5.33.2324।।
स पितुर्वचनं श्रीमानभिषेकात् परं प्रियम् ।
मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान् ।। 5.33.25।।
दद्यान्न प्रतिगृह्णीयान्न ब्रूयात् किंचिदप्रियम् ।
अपि जीवितहेतोर्वा रामः सत्यपराक्रमः ।। 5.33.26।।
अभिषेकात्परं प्रियं पितुर्वचनं विवासयाचनारूपम्, पूर्वं मनसा आसाद्य अङ्गीकृत्य अथ वाचा प्रतिगृहीतवान्, मनः पूर्वकमङ्गीकृतवानित्यर्थः ।। 5.33.2526।।
स विहायोत्तरीयाणि महार्हाणि महायशाः ।
विसृज्य मनसा राज्यं जनन्यै मां समादिशत् ।। 5.33.27।।
उत्तरीयाणि वासांसि । जनन्यै कौसल्यायै । मां समादिशत्, तन्निकटे त्वया स्थातव्यमित्युक्तवानित्यर्थः ।। 5.33.27।।
सा ऽहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी ।
न हि मे तेन हीनाया वासः स्वर्गे ऽपि रोचते ।। 5.33.28।।
सा ऽहमिति । अग्रतः प्रस्थाने हेतुमाहन हीति ।। 5.33.28।।
प्रागेव तु महाभागः सौमित्रिर्मित्रनन्दनः ।
पूर्वजस्यानुयात्रार्थे द्रुमचीररैलङ्कृतः ।। 5.33.29।।
प्रागेवेति । प्रागेव यद्यपि रामानन्तरमेव लक्ष्मणेन द्रुमचीरादिस्वीकारः तथापि तस्य त्वरातिशयव्यञ्जनाय तथोक्तिः । महाभागः “अहं सर्वं करिष्यामि” इति प्रतिज्ञानुसारेण सर्वविधकैङ्कर्यकरणोचिताभिषेकविघ्नहेतुभाग्यसम्पन्नः । सौमित्रिः ‘सृष्टस्त्वं वनवासाय’ इत्युक्तवत्याः गर्भे सञ्जातः । मित्रनन्दनः स लक्ष्मणः सर्वविधकैङ्कर्यकर्तेत्यनुकूलैरभिनन्दनीयः । पूर्वजस्येत्यादि । रामकैङ्कर्यानुरूपत्वेन द्रुमचीरादीनामलङ्करणत्वमित्यर्थः ।। 5.33.29।।
त वयं भर्तुरादेशं बहुमान्य दृढव्रताः ।
प्रविष्टाः स्म पुरा ऽदृष्टं वन गम्भीरदर्शनम् ।। 5.33.30।।
वसतो दण्डकारण्ये तस्याहममितौजसः ।
रक्षसा ऽपहृता भार्या रावणेन दुरात्मना ।। 5.33.31।।
ते वयमिति । पुरा ऽदृष्टं पूर्वमदृष्टम् । अत्र गम्भीरशब्देन दुष्प्रवेशत्वम्, दर्शनशब्देन स्वरूपमप्युच्यते ।। 5.33.3031।।
द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः ।
ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम् ।। 5.33.32।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रामत्सुन्दरकाण्डे त्रयस्त्रिंशः सर्गः ।। 5.33।।
द्वौ मासौ द्विमासरूपः कालः । मे जीवितानुग्रहः जीवितानुग्राहकः, जीवितधारणानुकूलः कृतः । त्यक्ष्यामि, स्वयमेवेति भावः ।। 5.33.32।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने त्रयस्त्रिंशः सर्गः ।। 5.33।।