श्रीरामायणे वाल्मीकीये श्रीमत्सुन्दरकाण्डे सप्तत्रिंशः सर्गः
सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना ।
हनूमन्तमुवाचेदं धर्मार्थसहितं वचः ।। 5.37.1।।
सीतेत्यादि ।। 5.37.1।।
अमृतं विषसंसृष्टं त्वया वानरभाषितम् ।
यच्च नान्यमना रामो यच्च शोकपरायणः ।। 5.37.2।।
अमृतमिति । यच्च नान्यमना इत्यमृतत्वे हेतुः । यच्च शोकपरायण इति विषसंसृष्टत्वे ।। 5.37.2।।
ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे ।
रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति ।। 5.37.3।।
रामवियोगो न स्वबुद्धिकृत इत्याह ऐश्वर्य इति । कृतान्तः दैवम् ।। 5.37.3।।
विधिर्नूनमसंहार्थः प्राणिनां प्लवगोत्तम ।
सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् ।। 5.37.4।।
शोकस्यास्य कदा पारं राघवो ऽधिगमिष्यति ।
प्लवमानः परिश्रान्तो हतनौः सागरे यथा ।। 5.37.5।।
राक्षसानां वधं कृत्वा सूदयित्वा च रावणम् ।
लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः ।। 5.37.6।।
स वाच्यः सन्त्वरस्वेति यावदेव न पूर्यते ।
अयं संवत्सरः कालस्तावद्धि मम जीवितम् ।। 5.37.7।।
विधिः दैवम् । असंहार्यः अनिवार्यः ।। 5.37.47।।
वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम ।
रावणेन नृशंसेन समयो यः कृतो मम ।। 5.37.8।।
दशमो मासः दशममासान्तः ।। 5.37.8।।
विभीषणेन च भ्रात्रा मम निर्यातनं प्रति ।
अनुनीतः प्रयत्नेन न च तत् कुरुते मतिम् ।। 5.37.9।।
मम प्रतिप्रदानं हि रावणस्य न रोचते ।
रावणं मार्गते सङ्ख्ये मृत्युः कालवशं गतम् ।। 5.37.10।।
ज्येष्टा कन्या ऽनला नाम विभीषणसुता कपे ।
तया ममेदमाख्यातं मात्रा प्रहितया स्वयम् ।। 5.37.11।।
[अविन्ध्यो नाम मेधावी विद्वान् राक्षसपुङ्गवः ।
द्युतिमाञ्छीलवान् वृद्धो रावणस्य सुसंमतः ।।
रामक्षयमनुप्राप्तं रक्षसां प्रत्यचोदयत् ।
न च तस्य स दुष्टात्मा शृणोति वचनं हितम् ।।]
असंशयं हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः ।
अन्तरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः ।। 5.37.12।।
निर्यातनं प्रत्यर्पणम् ।। 5.37.912।।
उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता ।
विक्रमश्च प्रभावश्च सन्ति वानर राघवे ।। 5.37.13।।
चतुर्दश सहस्राणि राक्षसानां जघान यः ।
जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत् ।। 5.37.14।।
उत्साह इति । लोकोत्तरेषु कार्येषु स्थेयान् प्रयत्न उत्साहः । पौरुषं तादृक्कार्यकरणम् । सत्त्वं बलम् । आनृशंस्यम् अक्रूरत्वम् । कृतज्ञता उपकारज्ञत्वम् । विक्रमः शौर्यम् । प्रभावः शक्तिः ।। 5.37.1314।।
न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः ।
अहं तस्य प्रभावज्ञाशक्रस्येव पुलोमजा ।। 5.37.15।।
शरजालांशुमाञ्छूरः कपे रामदिवाकरः ।
शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति ।। 5.37.16।।
इति संजल्पमानां तां रामार्थे शोककर्शिताम् ।
अश्रुसम्पूर्णनयनामुवाच वचनं कपिः ।। 5.37.17।।
कृत्वैव तु वयो मह्यं क्षिप्रमेष्यति राघवः ।
चमूं प्रकर्षन् महतीं हर्यृक्षगणसङ्कुलाम् ।। 5.37.18।।
अथवा मोचयिष्यामि त्वामद्यैव वरानने ।
अस्माद्दुःखादुपारोह मम पृष्ठमनिन्दिते ।। 5.37.19।।
त्वां तु पृष्ठगतां कृत्वा सन्तरिष्यामि सागरम् ।
शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम् ।। 5.37.20।।
द्रक्ष्यस्यद्यैव वैदेहि राघवं सह लक्ष्मणम् ।
व्यवसायसमायुक्तं विष्णुं दैत्यवदे यथा ।। 5.37.22।।
न स इति । तुलयितु चालयितुम् ।। 5.37.1522।।
त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम् ।
पुरन्दरमिवासीनं नाकराजस्य मूर्धनि ।। 5.37.23।।
त्वद्दर्शनेति । नाकराजस्य मूर्धनि नाकपृष्ठसंज्ञस्य मूर्धनि । नगराजस्येति पाठे मेरोरित्यर्थः ।। 5.37.23।।
पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने ।
योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी ।। 5.37.24।।
मा विकाङ्क्षस्व मोपेक्षिष्ठाः ।। 5.37.24।।
कथयन्तीव चन्द्रेण सूर्येण च महार्चिषा ।
मत्पृष्टमधिरुह्य त्वं तराकाशमहार्णवौ ।। 5.37.25।।
न हि मे संप्रयातस्य त्वामितो नयतो ऽङ्गने ।
अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः ।। 5.37.26।।
यथैवाहमिह प्राप्तस्तथैवाहमसंशयः ।
यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसम् ।। 5.37.27।।
कथयन्तीवेति । चन्द्रेण कथयन्तीव चन्द्रेण भाषमाणेव तरेत्यन्वयः ।। 5.37.2527।।
मैथिली तु हरिश्रेष्ठात् श्रुत्वा वचनमद्भुतम् ।
हर्षविस्मितसर्वाङ्गी हनुमन्तमथाब्रवीत् ।। 5.37.28।।
हनुमन् दूरमध्वानं कथं मां वोढुमिच्छसि ।
तदेव खलु ते मन्ये कपित्वं हरियूथप ।। 5.37.29।।
कथं वा ऽल्पशरीरस्त्वं मामितो नेतुमिच्छसि ।
सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ ।। 5.37.30।।
सीताया वचनं श्रुत्वा हनुमान् मारुतात्मजः ।
चिन्तयामास लक्ष्मीवान् नवं परिभवं कृतम् ।। 5.37.31।.
मैथिली त्विति । हर्षविस्मितसर्वाङ्गी हर्षेण पुलकितसर्वाङ्गी ।। 5.37.2831।।
न मे जानाति सत्त्वं वा प्रभावं वा ऽसितेक्षणा ।
तस्मात् पश्यतु वैदही यद्रूपं मम कामतः ।। 5.37.32।।
न मे जानाति सत्त्वं वा प्रभावं वा ऽसितेक्षणा । तस्मात्पश्यतु वैदेही यद्रूपं मम कामतः । इति पाठः । अन्यथापाठे वक्ष्यमाणेन विरोधस्स्यात् ।। 5.37.32।।
इति सञ्चिन्त्य हनुमांस्तदा प्लवगसत्तमः ।
दर्शयामास वैदेह्याः स्वरूपमरिमर्दनः ।। 5.37.33।।
स्वरूपं स्वस्य शरीरम् ।। 5.37.33।।
स तस्मात् पादपाद्धीमानाप्लुत्य प्लवगर्षभः ।
ततो वर्धितुमारेभे सीताप्रत्ययकारणात् ।। 5.37.34।।
एतदेवाह स तस्मादिति । अयं श्लोको वर्धनार्थं वृक्षादवरोहणं दर्शयति स्म । अनेन सो ऽवतीर्य द्रुमादिति पूर्वं द्रुमाग्रात्सीतासमीपस्थशाखायामवतरणमुक्तम्, अत्र भूमाविति बोध्यम् ।। 5.37.34।।
मेरुमन्दरसङ्काशो बभौ दीप्तानलप्रभः ।
अग्रतो व्यवतस्थे च सीताया वानरोत्तमः ।। 5.37.35।।
हरिः पर्वतसङ्काशस्ताम्रवक्त्रो महाबलः ।
वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत् ।। 5.37.36।।
सपर्वतवनोद्देशां साट्टप्रकारतोरणाम् ।
लङ्कामिमां सनाथां व नयितुं शक्तिरस्ति मे ।। 5.37.37।।
मेरुमन्दरेति । अग्रतो व्यवतस्थे, सम्भाषणाय वृक्षमूलगतो बभूवेत्यर्थः ।। 5.37.3537।।
तदवस्थाप्यतां बुद्धिरलं देवि विकाङ्क्षया ।
विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम् ।। 5.37.38।।
तं दृष्ट्वा भीमसङ्काशमुवाच जनकात्मजा ।
पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम् ।। 5.37.39।।
तव सत्त्वं बलं चैव विजानामि महाकपे ।
वायोरिव गतिं चापि तेजश्चाग्नेरिवाद्भुतम् ।। 5.37.40।।
प्राकृतो ऽन्यः कथं चेमां भूमिमागन्तुमर्हति ।
उदधेरप्रमेयस्य पारं वानरपुङ्गव ।। 5.37.41।।
अवस्थाप्यतां निश्चलीक्रियताम् । विकाङ्क्षया उपेक्षया ।। 5.37.3841।।
जानामि गमने शक्तिं नयने चापि ते मम ।
अवश्यं संप्रधार्याशु कार्यसिद्धिर्महात्मनः ।। 5.37.42।।
संप्रधार्या विचारणीया ।। 5.37.42।।
अयुक्तं तु कपिश्रेष्ठ मम गन्तुं त्वया ऽनघ ।
वायुवेगसवेगस्य वेगो मां मोहयेत्तव ।। 5.37.43।।
स्वप्रापणे प्रधानं दोषं हृदि कृत्वा आपाततो दोषमाह अयुक्तमिति ।। 5.37.43।।
अहमाकाशमापन्ना ह्युपर्युपरि सागरम् ।
प्रपतेयं हि ते पृष्ठाद्भयाद् वेगेन गच्छतः ।। 5.37.44।।
उपर्युपरि सागरमिति । “उपर्यध्यधसस्समीप्ये” इति द्विर्वचनम् । “धिगुपर्यादिषु त्रिषु” इति द्वितीया ।। 5.37.44।।
पतिता सागरे चाहं तिमिनक्रझषाकुले ।
भवेयमाशु विवशा यादसामन्नमुत्तमम् ।। 5.37.45।।
यादसां जलजन्तूनाम् ।। 5.37.45।।
न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन ।
कलत्रवति सन्देहस्त्वय्यपि स्यादसंशयः ।। 5.37.46।।
कलत्रवति रक्ष्यवति त्वयि सन्देहः स्यात्, मयि रक्ष्यायां त्वयि विपत्सन्देहः स्यादित्यर्थः ।। 5.37.46।।
ह्रियमाणं तु मां दृष्ट्वा राक्षसा भीमविक्रमाः ।
अनुगच्छेयुरादिष्टा रावणेन दुरात्मना ।। 5.37.47।।
एतदेव प्रपञ्चयति ह्रियमाणामित्यादिना ।। 5.37.47।।
तैस्त्वं परिवृतः शूरैः शूलमुद्गरपाणिभिः ।
भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान् ।। 5.37.48।।
त्वं तैः परिवृतो भवेः । कलत्रवान् रक्ष्यवान् त्वं संशयं प्राप्तश्च भवेरिति योजना ।। 5.37.48।।
सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधः ।
कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम् ।। 5.37.49।।
सायुधा इति । संयातुं सम्यग्योद्धुम् ।। 5.37.49।।
युद्ध्यमानस्य रक्षोभिस्तव तैः क्रूरकर्मभिः ।
प्रपतेयं हि ते पृष्ठाद् भयार्ता कपिसत्तम ।। 5.37.50।।
पूर्वश्लोकोक्तं समर्थयति युद्ध्यमानस्येत्यादिना ।। 5.37.50।।
अथ रक्षांसि भीमानि महान्ति बलवन्ति च ।
कथंचित् साम्पराये त्वां जयेयुः कपिसत्तम ।। 5.37.51।।
अथेति । सम्पराये युद्धे ।। 5.37.51।।
अथवा युद्ध्यमानस्य पतेयं विमुखस्य ते ।
पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः ।। 5.37.52।।
मां वा हरेयुस्त्वद्धस्ताद् विशसेयुरथापि वा ।
अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ ।। 5.37.53।।
अहं वापि विपद्येयं रक्षोभिरभितर्जिता ।
त्वत्प्रयत्नो हरिश्रोष्ठ भवेन्निष्फल एव तु ।। 5.37.54।।
कामं त्वमसि पर्याप्तौ निहन्तुं सर्वराक्षसान् ।
राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः ।। 5.37.55।।
अथवेति । विमुखस्य युद्धपरवशस्येत्यर्थः ।। 5.37.5255।।
अथवा ऽ ऽदाय रक्षांसि न्यसेयुः संवृते हि माम् ।
यत्र ते नाभिजानीयुर्हरयो नापि राघवौ ।
आरम्भस्तु मदर्थो ऽयं ततस्तव निरर्थकः ।। 5.37.56।।
त्वया हि सह रामस्य महानागमने गुणः ।।। 5.37.57।।
संवते गूढप्रदेशे ।। 5.37.5657।।
मयि जीवितमायत्तं राघवस्य महात्मनः ।
भ्रातृ़णां च महाबाहो तव राजकुलस्य च ।। 5.37.58।।
तौ निराशौ मदर्थं तु शोकसन्तापकर्शितौ ।
सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसंग्रहम् ।। 5.37.59।।
भर्तृमक्तिं पुरस्कृत्य रामादन्यस्य वानर ।
न स्पृशामि शरीरं तु पुंसो वाररपुङ्गवः ।। 5.37.60।।
मयीति । तव राजकुलस्य सुग्रीवराजकुलस्य ।। 5.37.5860।।
यदहं गात्रसंस्पर्शं रावणस्य बलाद्गता ।
अनीशा किं करिष्यामि विनाथा विवशा सती ।। 5.37.61।।
यदि रामो दशग्रीवमिह हत्वा सबान्धवम् ।
मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत् ।। 5.37.62।।
अनीशा स्वयं किंचित्कर्तुमसमर्था । विनाथा विगतस्वामिका । विवशा विचेष्टा ।। 5.37.6162।।
श्रुता हि दृष्टाश्च मया पराक्रमा महात्मनस्तस्य रणावमर्दिनः ।
न देवगन्धर्वभुजङ्गराक्षसा भवन्ति रामेण समा हि संयुगे ।। 5.37.63।।
समीक्ष्य तं संयति चित्रकार्मुकं महाबलं वासवतुल्यविक्रमम् ।
सलक्ष्मणं को विषहेत राघवं हुताशनं दीप्तमिवानिलेरितम् ।। 5.37.64।।
सलक्ष्मणं राघवमाजिमर्दनं दिशागजं मत्तमिव व्यवस्थितम् ।
सहेत को वानरमुख्य संयुगे युगान्तसूर्यप्रतिमं शरार्चिषम् ।। 5.37.65।।
श्रुता इति । प्रथमहिशब्दो गुणप्रसिद्धौ । द्वितीयो निस्समत्वप्रसिद्धौ ।। 5.37.6365।।
स मे हरिश्रेष्ठ सलक्ष्मणं पतिं सयूथपं क्षिप्रमिहोपपादय ।
चिराय रामं प्रति शोककर्शितां कुरुष्व मां वानरमुख्य हर्षिताम् ।। 5.37.66।।
इत्यार्षे श्रीरामायणे वाल्मीकीये. श्रीमत्सुन्दरकाण्डे सप्तत्रिंशः सर्गः ।। 5.37।।
हर्षितां हर्षमासादिताम्, उत्तरोत्तरहर्षवतीमित्यर्थः । अनया भक्तिकया उपायान्तरं स्वरूपविरुद्धं भगवत्प्राप्तौ स एवोपाय इति दर्शितः ।। 5.37.66।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तविंशः सर्गः ।। 5.37।।