इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टचत्वारिंशः सर्गः
ततः स रक्षोधिपतिर्महात्मा हनूमता ऽक्षे निहते कुमारे ।
मनः समाधाय तदेन्द्रकल्पं समादिदेशेन्द्रजितं सरोषम् ।। 5.48.1।।
ततस्त्वित्यादि । मनः समाधाय धैर्यं कृत्वेत्यर्थः ।। 5.48.1।।
त्वमस्त्रविच्छस्त्रविदां वरिष्ठः सुरासुराणामपि शोकदाता ।
सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधनस़ञ्चितास्त्रः ।। 5.48.2।।
त्वमिति । अस्त्रवित् ब्रह्मास्त्रवित् । सञ्चितास्त्रः सञ्चितास्त्रविशेषः ।। 5.48.2।।
तवास्त्रबलमासाद्य नासुरा न मरुद्गणाः ।
न शेकुः समरे स्थातुं सुरेश्वरसमाश्रिताः ।। 5.48.3।।
तव अस्त्रबलमासाद्य असुराः न, नश्यन्तीत्यर्तः ।। 5.48.3।।
न कश्चित् त्रिषु लोकेषु संयुगे नगतश्रमः ।
भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः ।
देशकालविभागज्ञस्त्वमेव मतिसत्तमः ।। 5.48.4।।
त्रिषु लोकेषु तव संयुगे नगतश्रमः अप्राप्तश्रमः कश्चिन्न । “सुप्सुपा” इति समासः । सर्वे प्राप्तश्रमा इत्यर्थः । हरिहयादयो ऽपि श्रमं प्राप्नुवन्तीत्यर्थः । मतिसत्तमः मतिश्रेष्ठ इत्यर्थः ।। 5.48.4।।
न ते ऽस्त्यशक्यं समरेषु कर्मणा न ते ऽस्त्यकार्यं मतिपूर्वमन्त्रणे ।
न सो ऽस्ति कश्चित् त्रिषु संग्रहेषु वै न वेद यस्ते ऽस्त्रबलं बलं च ते ।। 5.47.5।।
समरेषु कर्मणा पुरुषकारेण ते अशक्यं नास्तीत्यर्थः । तथा मतिपूर्वमन्त्रणे विवेकपूर्वविचारे । अकार्यम् अज्ञातकार्यम्, ज्ञातुमशक्यं कार्यं नास्तीत्यर्थः । संग्रहेषु संगृह्यन्ते भोग्यतया स्वीक्रियन्ते भोक्तृभिरिति संग्रहाः लोकाः तेषु त्रिष्वपि यस्तवास्त्रबलं शारीरं बलं च न वेद स नास्ति,सर्वलोकप्रख्यातशस्त्रास्त्रबलसम्पन्नस्त्वमित्यर्थः ।। 5.48.5।।
ममानुरूपं तपसो बलं च ते पराक्रमश्चास्त्रबलं च संयुगे ।
न त्वां समासाद्य रणावमर्दे मनः श्रमं गच्छति निश्चितार्थम् ।। 5.48.6।।
निहताः किङ्कराः सर्वे जम्बुमाली च राक्षसः ।
अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः ।। 5.48.7।।
बलानि सुसमृद्धानि साश्वनागरथानि च ।
सहोदरस्ते दयितः कुमारो ऽक्षश्च सूदितः ।। 5.48.8।।
रणावमर्दे रणसङ्कटे । निश्चितार्थं निश्चितजयरूपार्थंम् । त्वाम् आसाद्य विचिन्त्य मे मनः श्रमं न गच्छति विषादं न गच्छतीत्यर्थः ।। 5.48.68।।
न हि तेष्वेव मे सारो यस्त्वय्यरिनिषूदन ।। 5.48.9।।
त्वयि मे यस्सारः उत्कर्षप्रत्ययः । सः तेषु नास्त्येव हीति योजना ।। 5.48.9।।
इदं हि दृष्ट्वा मतिमन्महद्बलं कपेः प्रभावं च पराक्रमं च ।
त्वमात्मनश्चापि समीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम् ।। 5.48.10।।
इदं किङ्कराद्यक्षकुमारान्तमारकम् । मतिमत् प्रशस्तमतियुक्तम् । बलं शारीरम् । प्रभावम् अन्तःशक्तिम् । पराक्रमं पौरुषम् ।। 5.48.10।।
बलावमर्दस्त्वयि सन्निकृष्टे यथा गते शाम्यति शान्तशत्रौ ।
तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रविदां वरिष्ठ ।। 5.48.11।।
बलेति । शान्तशत्रौ शमितशत्रौ, शत्रुशमनस्वभावे इति यावत् । “वा दान्तशान्त0 –” इत्यादिना निपातनाण्णिलोप इडभावश्च । त्वयि संनिकृष्टे कपेरासन्ने सति । यथा बलावमर्दः सेनाक्षयः शाम्यति तथा आत्मबलं परं परबलं च समीक्ष्य समारभस्व । बलनाशात्पूर्वमेव शत्रुशान्तिं कुर्वित्यर्थः ।। 5.48.11।।
न वीर सेना गणशोच्यवन्ति न वज्रमादाय विशालसारम् ।
न मारुतस्यास्य गतेः प्रमाणं न चाग्निकल्पः करणेन हन्तुम् ।। 5.48.12।।
न वीरेति । हे वीर गणशोचि गणानां शोचयितरि । शोचतेर्ण्यन्तात् क्विप् । एकदा ऽनेकप्रहर्तरीत्यर्थः । एवं भूते हनुमति निमित्ते । सेनाः नावन्ति न रक्षन्ति । युगपदनेकविनाशके सेना अप्रयोजिकेत्यर्थः । अतः सेनाभिः सह मा गच्छेत्यर्थः । उपायान्तरं प्रतिषेधति न वज्रमिति । अलसारं हमुमद्विषये जीर्णसारं वज्रं वज्राख्यमायुधविशेषम् आदाय न विश, तत्समीपमिति शेषः । तत्र हेतुमाह न मारुतस्येति । अस्य गतिप्रमाणं मारुतस्य नास्ति, मारुतादप्यतिशयितगतिप्रमाण इत्यर्थः । अतस्तरसा यया कयापि दिशा समागम्य प्रहर्तरि न वज्रं किञ्चित्करमिति भावः । यदि समीपमागमिष्यति तदा मुष्ट्यादिभिरेव निहन्यत इत्याशङ्क्याह न चेति । अग्निकल्पो हनुमान् करणेन मुष्ट्यादिना हन्तुं न शक्यः । अग्नितुल्ये मुष्ट्यादिप्रहाराप्रवृत्तेरिति भावः ।। 5.48.12।।
तमेवमर्थं प्रसमीक्ष्य सम्यक् स्वकर्मसाम्याद्धि समाहितात्मा ।
स्मरंश्च दिव्यं धनुषो ऽस्त्रवीर्यं व्रजाक्षतं कर्म समारभस्व ।। 5.48.13।।
तर्हि कथं कर्तव्यम्? तत्राह तमिति । तं पूर्वोक्तमर्थम् एवं सम्यक् प्रसमीक्ष्य विचार्य । स्वकर्मसाम्यात्स्वकार्यसिद्ध्यर्थम् । फलस्यापि हेतुत्वात्पञ्चमी । साम्यं समत्वम् अन्यूनातिरिक्तत्वम् । समाहितात्मा एकाग्रचित्तः । दिव्यं धनुस्सम्बन्धि अस्त्रवीर्यमस्त्रबलं स्मरन् व्रज । अस्त्रबलं विना स निग्रहीतुमशक्यः । तेन तन्मन्त्रं स्मरन्नेव गच्छेति भावः ।। 5.48.13।।
न खल्वियं मतिः श्रेष्ठा यत्त्वां संप्रेषयाम्यहम् ।
इयं च राजधर्माणां क्षत्रस्य च मतिर्मता ।। 5.48.14।।
न खल्विति । अहं त्वां संप्रेषयामीति यत् इयं मतिः न श्रेष्ठा खलु नोचितेत्यर्थः । इयं मतिः त्वत्प्रेषणविषयाः मतिः । राजधर्माणां राजनीतिस्वरूपधर्माणाम् । क्षत्रस्य तदनुष्ठातुः क्षत्रियस्य च मता उचिता । यद्यपि बालस्य प्रेषणमनुचितं तथापि स्वीयेषु सत्सु प्रधानगमनं नीतिशास्त्रविरुद्धमिति त्वां प्रेषयामीति भावः ।। 5.48.14।।
नानाशस्त्रैश्च संग्रामे वैशारद्यमरिन्दम् ।
अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे ।। 5.48.15।।
नानाशस्त्रैः वैशारद्यं प्रहरणसामर्थ्यम् । अवश्यं बोद्धव्यम् स्मर्तव्यमित्यर्थः । रणे विजश्च काम्यः प्रार्थनीयः । जयार्थं सर्वाण्यस्त्राणि स्मर्तव्यानीत्यर्थः ।। 5.48.15।।
ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः ।
चकार भर्तारमदीनसत्त्वो रणाय वीरः प्रतिपन्नबुद्धिः ।। 5.48.16।।
तत इति । दक्षसुतप्रभावः दक्षसुता देवाः । तथोक्तं श्रीविष्णुपुराणे– “मनसा त्वेव भूतानि पूर्वं दक्षो ऽसृजत्तथा । देवानृषीन्सगन्धर्वानुरगान् पक्षिणस्तथा” ।। इति ।। 5.48.16।।
ततस्तैः स्वगणैरिष्टैरिन्द्रजत् प्रतिपूजितः ।
युद्धोद्धतः कृतोत्साहः सग्रामं प्रत्यद्यत ।। 5.48.17।।
श्रीमान् पद्मपलाशाक्षो राक्षसाधिपतेः सुतः ।
निर्जगाम महातेजाः समुद्र इव पर्वसु ।। 5.48.18।।
ततस्तैरिति । युद्धोद्धतः कृतोत्साह इति पाठः ।। 5.48.17,18।।
स पक्षिराजोपमतुल्यवेगैर्व्यालैश्चतुर्भिः सिततीक्ष्णदंष्ट्रैः ।
रथं समायुक्तमसङ्गवेगं समारुरोहेन्द्रजिदिन्द्रकल्पः ।। 5.48.19।।
स रथी धन्विनीं श्रेष्ठः शस्त्रज्ञो ऽस्त्रविदां वरः ।
रथेनाभिययौ क्षिप्रं हनूमान् यत्र सो ऽभवत् ।। 5.48.20।।
स इति । पक्षिराजोपमतुल्यवेगैः पक्षिराजोपमैः अन्योन्यतुल्यवेगैश्च । व्यालैः हिस्रपशुभिः, सिंहैरिति यावत् । सिंहाश्च रक्षसां वाहनानि भवन्ति । “सर्पहिंस्रपशू व्यालौ” इत्यमरः ।। 5.48.1920।।
स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च ।
निशम्य हरिवीरो ऽसौ संप्रहृष्टतरो ऽभवत् ।। 5.48.21।।
सुमहच्चापमादाय शितशल्यांश्च सायकान् ।
हनुमन्तमभिप्रेत्य जगाम रणपण्डितः ।। 5.48.22।।
ज्यास्वनमित्यत्र ज्या इति लुप्तषष्ठीविभक्तिकं पृथक्पदम् । कार्मुकस्येत्यत्र स्वनमिति वा अध्याहारः ।। 5.48.21,22।।
तस्मिंस्ततः संयति जातहर्षे रणाय निर्गच्छति बाणपाणौ ।
दिशश्च सर्वाः बभूवर्मृगाश्च रौद्रा बहुधा विनेदुः ।। 5.48.23।।
तस्मिंस्तत इति । संयति युद्धे । जातहर्षे जातोत्साहे ।। 5.48.23।।
समागतास्तत्र तु नागयक्षा महर्षयश्चक्रचराश्च सिद्धाः ।
नभः समावृत्य च पक्षिसङ्घा विनेदुरुच्चैः परमप्रहृष्टाः ।। 5.48.24।।
आयान्तं सरथं दृष्ट्वा तूर्णमिन्द्रजितं कपिः ।
विननाद महानादं व्यवर्धत च वेगवान् ।। 5.48.25।।
चक्रचराः सङ्गचारिणः ।। 5.48.2425।।
इन्द्रजित्तु रथं दिव्यमास्थितश्चित्रकार्मुकः ।
धनुर्विस्फारयामास तडिदूर्जितनिःस्वनम् ।। 5.48.26।।
तडिदूर्जितनिःस्वनम् । अत्र तडिच्छब्देन तत्सङ्घातो ऽशनिरुच्यते । विद्युत्सङ्घातनिस्वनमिति पूर्वमुक्तत्वात् । अशनिवद्दृढनिस्वनमित्यर्तः ।। 5.48.26।।
ततः समेतावति तीक्ष्णवेगौ महाबलौ तौ रणनिर्विशङ्कौ ।
कपिश्च रक्षोधिपतेश्च पुत्रः सुरासुरेन्द्राविव बद्धवैरौ ।। 5.48.27।।
तत इति । सुरासुरेन्द्राविव समेतावित्यन्वयः ।। 5.48.27।।
स तस्य वीरस्य महारथस्य धनुष्मतः संयति संमतस्य ।
शरप्रवेगं व्यहनत् प्रवृद्धश्चचार मार्गे पितुरप्रमेये ।। 5.48.28।।
ततः शरानायतीक्ष्णशल्यान् सुपत्रिणः काञ्चनचित्रपुङ्खान् ।
मुमोच वीरः परवीरहन्ता सुसन्नतान् वज्रनिपातवेगान् ।। 5.48.29।।
ततस्तु तत्स्यन्दननिःस्वनं च मृदङ्गभेरीपटहस्वनं च ।
विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनरुत्पपात ।। 5.48.30।।
स तस्येति । शरप्रवेगं व्यहनत् चचार चेत्यन्वयः ।। 5.48.2830।।
शराणामन्तरेष्वाशु व्यवर्तत महाकपिः ।
हरिस्तस्याभिलक्ष्यस्य मोघयँल्लक्ष्यसंग्रहम् ।। 5.48.31।।
शराणामिति । अभिलक्ष्यस्य लक्ष्यवेधने प्रसिद्धस्य । लक्ष्यसंग्रहं लक्ष्यसंग्रहणम्, लक्ष्यविषयदृष्टिमिति यावत् । मोघयन् वितथयन् ।। 5.48.31।।
शराणआमग्रतस्तस्य पुनः समभिवर्तत ।
प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः ।। 5.48.32।।
समभिवर्तत समभ्यवर्तत उत्पपात चेत्यन्वयः ।। 5.48.32।।
तावुभौ वेगसम्पन्नौ रणकर्मविशारदौ ।
सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम् ।। 5.48.33।।
मनोग्राहि मन आकर्षकम् ।। 5.48.33।।
हनूमतो वेद न राक्षसो ऽन्तरं न मारुतिस्तस्य महात्मनो ऽन्तरम् ।
परस्परं निर्विषहौ बभूवतुः समेत्य तौ देवसमानविक्रमौ ।। 5.48.34।।
अन्तरं छद्रम् ।। 5.48.34।।
ततस्तु लक्ष्ये स विहन्यमाने शरेष्वमोघेषु च संपतत्सु ।
जागम चिन्तां महतीं महात्मा समाधिसंयोगसमाहितात्मा ।। 5.48.35।।
अमोघेषु शरेषु संपतत्स्वपि लक्ष्ये लक्ष्यभूते हनुमति विहन्यमाने स्वयं तेभ्यो विमुच्यमाने सति । हन्तेर्गत्यर्थात्कर्मकर्तरि लटश्शानजादेशः । समाधिसंयोगसमाहितात्मा सम्यगाधीयत इति समाधिः लक्ष्यं तस्मिन् संयोगे शरसन्धाने समाहितात्मा अप्रमत्तचित्तः । स महात्मा इन्द्रजित् । महतीं चिन्तां जगाम ।। 5.48.35।।
ततो मतिं राक्षसराजसूनुश्चकार तस्मिन् हरिवीरमुख्ये ।
अवध्यतां तस्य कपेः समीक्ष्य कथं निगच्छेदिति निग्रहार्थम् ।। 5.48.36।।
ततः पैतामहं वीरः सो ऽस्त्रमस्त्रविदां वरः ।
सन्दधे सुमहातेजास्तं हरिप्रवरं प्रति ।। 5.48.37।।
अवध्यतां तस्य कपेस्समीक्ष्य निग्रहार्थं कथं निगच्छेत् नीचतां गच्छेदिति मतिं चकार ।। 5.48.3637।।
अवध्यो ऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित् ।
निजग्राह महाबाहुर्मारुतात्मजमिन्द्रजित् ।। 5.48.38।।
तेन बद्धस्ततो ऽस्त्रेण राक्षसेन स वानरः ।
अभवन्निर्विचेष्टश्च पपात च महीतले ।। 5.48.39।।
ततो ऽथ बुद्ध्वा स तदस्त्रबन्धं प्रभोः प्रभावाद् विगतात्मवेगः ।
पितामहानुग्रहमात्मनश्च विचिन्तयामास हरिप्रवीरः ।। 5.48.40।।
निजग्राह बबन्ध ।। 5.48.3840।।
ततः स्वायम्भुवैर्मन्त्रैर्ब्रह्मास्त्रमभिमन्त्रितम् ।
हनूमांश्चिन्तयामास वरदानं पितामहात् ।। 5.48.41।।
ब्रह्मास्त्रमभिमन्त्रितम्, विज्ञायेति शेषः ।। 5.48.41।।
न मे ऽस्य बन्धस्य च शक्तिरस्ति विमोक्षणे लोकगुरोः प्रभावात् ।
इत्येव मत्वा विहितो ऽस्त्रबन्धो मया ऽ ऽत्मयोनेरनुवर्तितव्यः ।। 5.48.42।।
लोकगुरोः प्रभावात् अस्य बन्धस्य मोक्षणे मे शक्तिर्नास्तीत्येवं मत्वा एवं विहितः इन्द्रजिता अनेन प्रकारेण कृतः आत्मयोनेरस्त्रबन्धः मया अनुवर्तितव्य इत्यन्वयः ।। 5.48.42।।
स वीर्यमस्त्रस्य कपिर्विचार्य पितामहानुग्रहमात्मनश्च ।
विमोक्षशक्तिं परिचिन्तयित्वा पितामहाज्ञामनुवर्तते स्म ।। 5.48.43।।
पितामहानुग्रहं विमोक्षहेतुभूतमनुग्रहम् ।। 5.48.43।।
अस्त्रेणापि हि बद्धस्य भयं मम न जायते ।
पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च ।। 5.48.44।।
स्वस्यादित्यग्रासानन्तरं पितामहमहेन्द्राभ्यामनिलेन च रक्षितत्वान्न मे भयमित्यर्थः ।। 5.48.44।।
ग्रहणे चापि रक्षोभिर्महान् मे गुणदर्शनः ।
राक्षसेन्द्रेण संवादस्तस्मादगृह्णन्तु मां परे ।। 5.48.45।।
स निश्चितार्थः परिवीरहन्ता समीक्ष्यकारी विनिवृत्तचेष्टः ।
परैः प्रसह्याभिगतैर्निगृह्य ननाद तैस्तैः परिभर्त्स्यमानः ।। 5.48.46।।
ग्रहण इति । गुणदर्शनः गुणपर्यवसायी संवादः ।। 5.48.4546।।
ततस्तं राक्षसा दृष्ट्वा निर्विचेष्टमरिन्दमम् ।
बबन्धुः शणवल्कैश्च द्रुमचीरैश्च संहतैः ।। 5.48.47।।
ततस्तमिति । शणवल्कैः शणत्वग्भिः । संहतैः सज्जीकृतैः । द्रुमचीरैः वल्कलैः ।। 5.48.47।।
स रोचयामास परैश्च बन्धं प्रसह्य वीरैरभिनिग्रहं च ।
कौतूहलान्मां यदि राक्षसेन्द्रो द्रष्ठुं व्यवस्येदिति निश्चितार्थः ।। 5.48.48।।
स बद्धस्तेन वल्केन विमुक्तो ऽस्त्रेण वीर्यवान् ।
अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते ।। 5.48.49।।
स इति । राक्षसेन्द्रः कौतूहलात् मां द्रुष्टुं व्यवस्येदिति निश्चितार्थस्सन् बन्धनादिकं रोचयामासेति सम्बन्धः ।। 5.48.4849।।
अथेन्द्रजित्तुद्रुमचीरबद्धं विचार्य वीरः कपिसत्तमं तम् ।
विमुक्तमस्त्रेण जगाम चिन्तां नान्येन बद्धो ह्यनुवर्तते ऽस्त्रम् ।। 5.48.50।।
अन्येन शणवल्कलादिना । बद्धः अस्त्रं नानुवर्तते, नास्त्रेण बद्ध इव वर्तत इत्यर्थः ।। 5.48.50।।
अहो महत् कर्म कृतं निरर्थकं न राक्षसैर्मन्त्रगतिर्विमृष्टा ।
पुनश्च नास्त्रे विहते ऽस्त्रमन्यत् प्रवर्तते संशयिताः स्म सर्वे ।। 5.48.51।।
अहो इति । मन्त्रगतिः ब्रह्मास्त्रमन्त्रपद्धतिः । न विमृष्टा न पर्यालोचितेत्यर्थः । बन्धान्तरेण सहानवस्थानरूपं ब्रह्मास्त्रस्वभावमनालोच्य शणबन्धादिकं राक्षसैः कृतमिति भावः । अस्त्रे विहते ब्रह्मास्त्रे प्रतिहते । अन्यदस्त्रं न प्रवर्तते, न प्रभवतीत्यर्थः । तदेव ब्रह्मास्त्रं प्रयुज्यतामित्याशङ्क्याह पुनश्चेति । पुनर्न प्रवर्तते, प्रयुक्तं ब्रह्मास्त्रं पुनर्न प्रभवतीत्यर्थः । सर्व इत्यनन्तरमितिकरणं बोध्यम् । इति चिन्तां जगामेति पूर्वेण सम्बन्धः ।। 5.48.51।।
अस्त्रेण हनुमान् मुक्तो नात्मानमवबुध्यत ।
कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धेर्निपीडितः ।। 5.48.52।।
हन्यमानस्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः ।
समीपं राक्षसेन्द्रस्य प्रकृष्यत स वानरः ।। 5.48.53।।
अथेन्द्रजित्तं प्रसमीक्ष्य मुक्तमस्त्रेण बद्धं द्रुमचीरसूत्रैः ।
व्यदर्शयत्तत्र महाबलं हरिप्रवीरं सगणाय राज्ञे ।। 5.48.54।।
तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम् ।
राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ।। 5.48.55।।
को ऽयं कस्य कुतो वा ऽत्र किं कार्यं को व्यपाश्रयः ।
इति राक्षसवीराणां तत्र संजज्ञिरे कथाः ।। 5.48.56।।
हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे ।
राक्षसास्तत्र संक्रुद्धाः परस्परमथाब्रुवन् ।। 5.48.57।।
अस्त्रेणेति । नावबुद्ध्यत नावधृतवान् ।। 5.48.5257।।
अतीत्य मार्गं सहसा महात्मा स तत्र रक्षोधिपपादमूले ।
ददर्श राज्ञः परिचारवृद्धान् गृहं महारत्नविभूषितं च ।। 5.48.58।।
स ददर्श महातेजा रावणः कपिसत्तमम् ।
रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः ।। 5.48.59।।
राक्षसाधिपतिं चापि ददर्श कपिसत्तमः ।
तेजोबलसमायुक्तं तपन्तमिव भास्करम् ।। 5.48.60।।
स रोषसंवर्तितताम्रदृष्टिर्दशाननस्तं कपिमन्ववेक्ष्य ।
अथोपविष्टान् कुलशीलवृद्धान् समादिशत्तं प्रति मन्त्रिमुख्यान् ।। 5.48.61।।
अतीत्येति । परिचारवृद्धान् अमात्यवृद्धान् ।। 5.48.5861।।
यथाक्रमं तैः स कपिर्विपृष्टः कार्यार्थमर्थस्य च मूलमादौ ।
निवेदयामास हरीश्वरस्य दूतः सकाशादहमागतो ऽस्मि ।। 5.48.62।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टचत्वारिंशः सर्गः ।। 5.48।।
कार्यार्थं कर्तव्यार्थम् । अर्थस्य कर्तव्यार्थस्य । मूलं निमित्तम्, प्रेषयितारमित्यर्थः । अनयोः विपृष्ट इत्यनेन संबन्धः । श्लोकान्त इतिकरणं बोध्यम् । वक्ष्यमाणसङ्ग्रहो ऽयम् ।। 5.48.62 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने अष्टचत्वारिंशः सर्गः ।। 5.48।।