श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकोनपञ्चाशः सर्गः
ततः स कर्मणा तस्य विस्मितो भीमविक्रमः ।
हनुमान् रोषताम्राक्षो रक्षोधिपमवैक्षत ।। 5.49.1।।
ततः स इत्यादि । कर्मणा तस्य विस्मितः, युद्धार्थं रावणेनागन्तवन्यमिति यत्नः कृतः । स तु नीतिज्ञ आसनस्थ एव इन्द्रजिन्मुखेन मां निबध्यानीतवानित्यानयनकर्मणा जातविस्मय इत्यर्थः ।। 5.49.1।।
भ्राजमानं महार्हेण काञ्चनेन विराजता ।
मुक्ताजालावृतेनाथ मुकुटेन महाद्युतिम् ।। 5.49.2।।
वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः ।
हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः ।। 5.49.3।।
भ्राजमानमित्यादि । वज्रसंयोगसंयुक्तैः वज्रकीलनेन संबद्धैः । अत्र भ्राजमानमित्यनुषज्यते ।। 5.49.23।।
महार्हक्षौमसंवीतं रक्तचन्दनरूषितम् ।
स्वनुलिप्तं विचित्राभिर्विविधाभिश्च भक्तिभिः ।। 5.49.4।।
विवृतैर्दर्शनीयैश्च रक्ताक्षैर्भीमदर्शनैः ।
दीप्ततीक्ष्णमहादंष्ट्रैः प्रलम्बदशनच्छदैः ।। 5.49.5।।
शिरोभिर्दशभिर्वीरं भ्राजमानं महौजसम् ।
नानाव्यालसमाकीर्णैः शिखरैरिव मन्दरम् ।। 5.49.6।।
भक्तिभिः पङ्क्तिभिः । इत्थभूतलक्षणे तृतीया । यथा पङ्क्तयो भवन्ति तथा ऽनुलिप्त इत्यर्थः ।। 5.49.46।।
नीलाञ्जनचयप्रख्यं हारेणोरसि राजता ।
पूर्णचन्द्राभवक्रेण सबलाकमिवाम्बुदम् ।। 5.49.7।।
पूर्णचन्द्राभवक्त्रेण पूर्णचन्द्रतुल्यनायकरत्नेन । वक्त्रं नायकरत्नम् अभितोलग्नमुक्तामणिमण्डलम् ।। 5.49.7।।
बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरूषितैः ।
भ्राजमानाङ्गदैः पीनैः पञ्चशीर्षौरिवोरगैः ।। 5.49.8।।
महति स्फाटिके चित्रे रत्नसंयोगसंस्कृते ।
उत्तमास्तरणास्तीर्णे सूपविष्टं वरासने ।। 5.49.9।।
अलंकृताभिरत्यर्थं प्रमदाभिः समन्ततः ।
वालव्यजनहस्ताभिरारात् समुपसेवितम् ।। 5.49.10।।
केयूरं भुजोपरि धार्यमाणमाभरणम् । अङ्गदं बाहुमध्यस्थाभरणम् ।। 5.49.810।।
दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा ।
मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्निकुम्भेन च मन्त्रिणा ।। 5.49.11।।
सुखोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितैः ।
कृत्स्न परिवृतं लोकं चतुर्भिरिव सागरैः ।। 5.49.12।।
सचिवैर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभबुद्धिभिः ।
अन्वास्यमानं रक्षोभिः सुरैरिव सुरेश्वरम् ।। 5.49.13।।
अपश्यद्राक्षसपतिं हनुमानतितेजसम् ।
विष्ठितं मेरुशिखरे सतोयमिव तोयदम् ।। 5.49.14।।
स तैः संपीड्यमानो ऽपि रक्षोभिर्भीमविक्रमैः ।
विस्मयं परमं गत्वा रक्षोधिपमवैक्षत ।। 5.49.15।।
भ्राजमानं ततो दृष्ट्वा हनुमान् राक्षसेश्वरम् ।
मनसा चिन्तयामास तेजसा तस्य मोहितः ।। 5.49.16।।
अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिः ।
अहो राक्षसराजस्य सर्वलक्षणयुक्तता ।। 5.49.17।।
मन्त्रिभिः प्रशस्तमन्त्रैः । अतस्सचिवैरित्यपुनरुक्तिः ।। 5.49.1117।।
यद्यधर्मो न बलवान् स्यादयं राक्षसेश्वरः ।
स्यादय सुरलोकस्य सशक्रस्यापि रक्षिता ।। 5.49.18।।
अयं रावणकृतः अधर्मः बलवान्न स्याद्यदि । तदा ऽयं राक्षसेश्वरः सशक्रस्य सुरलोकस्यापि रक्षिता स्यात् ।। 5.49.18।।
अस्य क्रूरैर्नृशंसैश्च कर्मभिर्लोककुत्सितैः ।
तेन बिभ्यति खल्वस्माल्लोकाः सामरदानवाः ।। 5.49.19।।
अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत् ।
इति चिन्तां बहुविधामकरोन्मतिमान् हरिः ।
दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः ।। 5.49.20।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकोनपञ्चाशः सर्गः ।। 5.49।।
अस्येति । तेन कर्मभिः कृतेन पूर्वोक्तेनाधर्मेण हेतुना ।। 5.49.1920।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकोनपञ्चाशः सर्गः ।। 5.49।।