श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकपञ्चाशः सर्गः
तं समीक्ष्य महासत्त्वं सत्त्ववान् हरिसत्तमः ।
वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् ।। 5.51.1।।
तं समीक्ष्येत्यादि । समीक्षणोक्तिक्रियाभेदात्तच्छब्दद्वयम् ।। 5.51.1।।
अहं सुग्रीवसन्देशादिह प्राप्तस्तवालयम् ।
राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत् ।। 5.51.2।।
अहं रामदूत एव, सन्देशास्तु सुग्रीवस्येति भावः । सुग्रीवसन्देशात् सुग्रीवसन्देशाद्धेतोः, सन्देशप्रापणार्थमित्यर्थः । “सन्देशवाग्वाचिकं स्यात्” इत्यमरः । इह लङ्कायाम् । भ्राता भ्रातृवद्धितकरः । अब्रवीत् अप्राक्षीत् । यद्यपि सुग्रवेण न सन्दिष्टं तथापि दूतोक्तं सर्वं स्वाम्युक्तमेवेत्याशयेनोक्तम् ।। 5.51.2।।
भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः ।
धर्मार्थोपहितं वाक्यमिह चामुत्र च क्षमम् ।। 5.51.3।।
राजा दशरथो नाम रथकुञ्जरवाजिमान् ।
पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः ।। 5.51.4।।
ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः ।
पितुर्निर्देशान्निष्क्रान्तः प्रविष्टो दण्डकावनम् ।। 5.51.5।।
भ्रातुरिति । समादेशं सन्देशरूपमिति वाक्यविशेषणम् । इह अस्मिँल्लोके । अमुत्र परलोके । क्षमम् अभ्युदयसाधनम् ।। 5.51.35।।
लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया ।
रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः ।। 5.51.6।।
तस्य भार्या वने नष्टा सीता पतिमनुव्रता ।
वैदेहस्य सुता राज्ञो जनकस्य महात्मनः ।। 5.51.7।।
धर्म्यं धर्मादनपेतम् । “धर्मपथ्यर्थन्यायादनपेते” इति यत्प्रत्ययः ।। 5.51.67।।
स मार्गमाणस्तां देवीं राजपुत्रः सहानुजः ।
ऋश्यमूकमनुप्राप्तः सुग्रीवेण समागतः ।। 5.51.8।।
तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् ।
सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम् ।। 5.51.9।।
ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् ।
सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः ।। 5.51.10।।
त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गवः ।
रामेण निहतः सङ्ख्ये शरेणैकेन वानरः ।। 5.51.11।।
स मार्गमाण इति । सुग्रीवेण,मयेति शेषः । यद्वा लोके वक्तारः स्वात्मानमन्यमिव निर्दिशन्त्यौद्धत्यादिशयात् । यद्वा अत्रानुवादात् पूर्वं सुग्रीवेणैवं वक्तव्यमिति पठितं तथैव हनुमान् पठतीति समादेशप्राधान्यादन्यवाक्यमपि तथोच्यत इति कोचित् प्राहुः । यद्वा सुग्रीवसन्देशस्य रामप्रयोजनपरत्वात्सन्देशोपयोगितया रामसुग्रीवयोस्सख्यादिकं दर्शयति राजा दशरथ इत्यादिना ।। 5.51.811।।
स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसङ्गरः ।
हरीन् संप्रेषयामास दिशः सर्वा हरीश्वरः ।। 5.51.12।।
स इति । सत्यसङ्गरः सत्यप्रतिज्ञः । “कर्बुरे च प्रतिज्ञाजिसंविदापत्सु सङ्गरः” इत्यमरः ।। 5.51.12।।
तां हरीणां सहस्राणि शतानि नियुतानि च ।
दिक्षु सर्वासु मार्गन्ते ह्यधश्चोपरि चाम्बरे ।। 5.51.13।।
तामिति । अधश्चोपरि चाम्बरे, पाताले भूमौ आकाशे चेत्यर्थः ।। 5.51.13।।
वैनतेयसमाः केचित् केचित्तत्रानिलोपमाः ।
असङ्गगतयः शीघ्रा हरिवीरा महाबलाः ।। 5.51.14।।
वैनतेयेति । असङ्गगतय इति शीघ्रत्वे हेतुः ।। 5.51.14।।
अहं तु हनुमान्नाम मारुतस्यौरसः सुतः ।
सीतायास्तु कृते तूर्णं शतयोजनमायतम् ।। 5.51.15।।
समुद्रं लङ्घयित्वैव तां दिदृक्षुरिहागतः ।
भ्रमता च मया दृष्टा गृहे ते जनकात्मजा ।। 5.51.16।।
अहन्त्विति । औरसस्सुतः क्षेत्रजत्वव्यावृत्तये औरसपदम् । सीतायास्तु कृते सीतालाभाय तां दिदृक्षरिति योज्यम् ।। 5.51.15,16।।
तद्भवान् दृष्टधर्मार्थस्तपः कृतपरिग्रहः ।
परदारान् महाप्राज्ञ नोपरोद्धुं त्वमर्हसि ।। 5.51.17।।
एवं सुग्रीवसंबन्धं प्रतिपाद्य सुग्रीवसन्देशं वदति तद्भवानित्यादिना । दृष्टधर्मार्थः शास्त्रेण विदितधर्मार्थस्वरूप इत्यर्थः । तपःकृतपरिग्रहः तपसि विषये कृतस्वीकारः । यद्वा तपसा स्वयं कृतपरिग्रहः । स्वारसिकतपस्क इति यावत् । हेतुगर्भे विशेषेण ।। 5.51.17।।
न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु ।
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ।। 5.51.18।।
धर्मविरुद्धेषु धर्मशास्त्रविरुद्धेषु । धर्मविरुद्धत्वे ऽपि यत्सौख्यावहं तत्कार्यमित्यत्राह बह्वपायेष्विति । बहुहानिकरेष्वित्यर्थः । अपायाः कथंचित्परिह्रियन्त इत्याशङ्क्याह मूलघातिष्विति । स्वविनाशकरेष्वित्यर्थः । कर्मसु परदारापहारेषु । न सज्जन्ते नोद्युक्ता भवन्ति । 4.51.18 ।।
कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् ।
शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि ।। 5.51.19।।
रामकोपानुवर्तिनां रामकोपानुसारेण निर्गतानामित्यर्थः ।। 5.51.19।।
न चापि त्रिषु लोकेषु राजन् विद्येत कश्चन ।
राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात् ।। 5.51.20।।
व्यलीकम् अप्रियम् । “व्यलीकं त्वप्रिये ऽनृते” इत्यमरः ।। 5.51.20।।
तत्त्रिकालहितं वाक्यं धर्म्यमर्थानुबन्धि च ।
मन्यस्व नरदेवाय जानकी प्रतिदीयताम् ।। 5.51.21।।
तदिति । तत्तस्मात् अधर्मावहत्वात् रामापराधस्य परिहर्तव्यत्वाच्च । त्रिकालहितं भूतभविष्यद्वर्तमानकालहितम् । दारुणाधर्मस्य स्वपूर्वपुरुषविनाशकत्वेन तत्परिहारस्य भूतकालहितत्वं मन्यस्व । मत्वा प्रतिदीयतामिति योज्यम् ।। 5.51.21।।
दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम् ।
उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः ।। 5.51.22।।
जानकीहरणे किं मानं तत्राह दृष्टा हीति । यत् सीतादर्शनम् दुर्लभम् । इतरवानरालभ्यं तल्लब्धम् । तर्हि सा नीयतामित्यत्राह उत्तरमिति । सीतादर्शनोत्तरं यच्छेषं कर्म सीतानयनं तत्र राघवो निमित्तम् । आज्ञप्तस्यैव मया कर्तव्यत्वादिति भावः ।। 5.51.22।।
लक्षितेयं मया सीता तथा शोकपायणा ।
गृह्य यां नाभिजानासि पञ्चास्यामिव पन्नगीम् ।। 5.51.23।।
दृष्टया ऽपि मद्वंशवदया सीतया रामः किं करिष्यतीत्याशङ्क्याह लक्षितेयमिति । तथेति वाचामगोचरत्वोक्तिः । नेयं तव वश्या प्रत्युत पन्नगीव तव प्राणहारिणीति भावः ।। 5.51.23।।
नेयं जरयितुं शक्या सासुरैरमरैरपि ।
विषसंसृष्टमत्यर्थं भुक्तमन्नमिवौजसा ।। 5.51.24।।
नेयमिति । ओजसा अमरपक्षे प्रतापेन । अन्नपक्षे जाठराग्निना ।। 5.51.24।।
तपस्सन्तापलब्धस्ते यो ऽय धर्मपरिग्रहः ।
न स नाशयितुं न्याय्यमात्मप्राणपरिग्रहः ।।। 5.51.25।।
तपःकृच्छ्रलब्धमिष्टं महज्जीवनं वृथा मा नाशयेत्याह तप इति । तपस्सन्तापः तपश्चर्या । ओदनपाकं पचतीतिवन्निर्देशः । तेन लब्धः । परिगृह्यत इति परिग्रहः फलं धर्मपरिग्रहः धर्मफलम् । तादृशो यो ऽयमात्मप्राणपरिग्रहः आत्मनः प्राणानां च परिग्रहः स्वीकारः, जीवनमिति यावत् । स नाशयितुं न न्याय्यं न युक्तम् । अव्ययमेतत् । तपःक्लेशलब्धं तद्व्यतिरिक्तधर्मफलभूतं च यज्जीवनमायुः तन्न विनाशयेत्यर्थः । चकाराभावादित्थमेव योजना ।। 5.51.25।।
अवध्यतां तपो ऽभिर्यां भवान् समनुपश्यति ।
आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान् ।। 5.51.26।।
सर्वावध्यस्येह मे को ऽयमायुर्विनाशक इत्याशङ्क्य परिहरति अवध्यतामिति । तपोभिरार्जितां सासुरैर्देवैर्याम् आत्मनो ऽवध्यतां भवान् समनुपश्यति । तत्रापि अवध्यतायां सत्यामपि । अयं वक्ष्यमाणः । हेतुः भवद्वधहेतुरस्ति । महान् अपरिहार्यः ।।। 5.51.26।।
सुग्रीवो न हि देवो ऽयं नासुरो न च राक्षसः ।
न दानवो न गन्धर्वो न यक्षो न च पन्नगः ।
तस्मात् प्राणपरित्राणं कथं राजन् करिष्यसि ।। 5.51.27।।
तमेव हेतुमाह सुग्रीव इति । न च राक्षस इति पाठस्सम्यक् । न च मानुष इति पाठे प्रतिषेधप्रसक्तिरपि नास्तीत्युच्यते । “तृणभूता हि मे सर्वे प्राणिनो मानुषादयः” इत्युत्तरश्रीरामायणे मनुष्यादिभिरवध्यत्वस्याप्रार्थित्वात् । न च तिर्यञ्च इति न प्रसज्य च प्रतिषिद्ध्यत इति भावः । तस्मात्सुग्रीवात् ।। 5.51.27।।
न तु धर्मोपसंहारमधर्मफलसंहितम् ।
तदेव फलमन्वेति धर्मश्चाधर्मनाशनः ।। 5.51.28।।
प्राप्तं धर्मफलं तावद्भवता नात्र संशयः ।
फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे ।। 5.51.29।।
ननु किमनेनोपदेशेन, कृतानि मया पापानि तैश्चावश्यं फलप्रदैर्भवितव्यमित्याशङ्क्याह न त्विति । तुशब्द उक्तशङ्काव्यावर्तकः । धर्मः उपसंह्रियते ऽनेनेति धर्मोपसंहारं धर्मफलम् । फलेन धर्मस्योपसंह्रियमाणत्वात् । क्लीबत्वमार्षम् । तत् अधर्मफलसंहितं न भवति । कुत इत्यत्राह तदेव फलमन्वेतीति । धर्मफलमोवानुवर्तते । नन्वधर्मे च विद्यमाने कथं तत्फलाननुवृत्तिस्तत्राह धर्मश्चाधर्मनाशन इति । च उक्तशङ्कानिवृत्त्यर्थः । विरोधिनि धर्मे जाग्रति कथमधर्मवार्ता ऽपीत्यर्थः । “धर्मेण पापमपनुदति” इति श्रुतेः । यद्वा व्यत्ययो वा किं न स्यात्तत्राह धर्मश्चेति । चो ऽवधारणे । धर्म एवाधर्मनाशनः तथा श्रुतेः । न त्वधर्मः प्रमाणाभावादिति भावः । ननु यदि धर्मः अधर्मनाशनः तर्हि प्राथमिक एव धर्मः आधिनिकानधर्मान्निवर्तयेदित्याशङ्क्याह प्राप्तमिति । तावच्छब्दः कार्त्स्न्यवाची । कृत्स्नं धर्मफलम् । फलमस्येति । तथा च क्षिप्रं धर्ममाचर अन्यथा सद्यस्ते विनाशो भविष्यतीति भावः । अत्र कर्तव्यत्वेन विधीयमानो धर्मस्सीताप्रदानपूर्वकरामविषयशरणागतिरेव । शूरस्याशौर्यप्रवृत्त्या धर्मफलं सर्वं क्षीणमिति हनुमता ऽवगतमिति मन्तव्यम् ।। 5.51.28,29।।ऀ
जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा ।
रामसुग्रीवसख्यं च बुद्ध्यस्व हितमात्मनः ।। 5.52.30।।
मा भूद्धर्मापेक्षा कार्योपस्थितिरवेक्ष्यतामित्याह जनस्थानेति । रामुसुग्रीवसख्यं चेति
परोक्षनिर्देशस्य गतिः पूर्वमुक्ता ।। 5.51.30।।
कामं खल्वहमप्येकः सवाजिरथकुञ्जराम् ।
लङ्कां नाशयितुं शक्तस्तस्यैष तु न निश्चयः ।। 5.51.31।।
कामम् अत्यन्तम् । अहं सुग्रीवः । एषः तन्नाशनम् । तस्य रामस्य । निश्चयः निश्चयविषयः ।। 5.51.31।।
रामेण हि प्रतिज्ञातं हर्यृक्षगणसन्निधौ ।
उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता ।। 5.51.32।।
अपकुर्वन् हि रामस्य साक्षादपि पुरन्दरः ।
न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः ।। 5.51.33।।
कथमित्यत्राह रामेणेति । हर्यृक्षगणसन्निधौ वृद्धसभायां प्रतिज्ञातमनतिक्रमणीयमिति भावः ।। 5.51.32,33।।
यां सीतेत्यभिजानासि येयं तिष्ठति ते वशे ।
कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् ।। 5.51.34।।
कालरात्रीति काचिच्छक्तिरिति वदन्ति । “समी च कालरात्रिश्च भैरवी गणनायिका” इत्यमरशेषः ।। 5.51.34।।
तदलं कालपाशेन सीताविग्रहरूपिणा ।
स्वयं स्कन्धावसक्तेन क्षममात्मनि चिन्त्यताम् ।। 5.51.35।।
तदिति । कालपाशेन यमपाशेन । अतस्सीतां रामाय देहीति हृदयम् ।। 5.51.35।।
सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम् ।
दह्यमानामिमां पश्य पुरीं साट्टप्रतोलिकाम् ।। 5.51.36।।
अट्टः अट्टालः । प्रतोलिका वीथिका ।। 5.51.36।।
स्वानि मित्राणि मन्त्रीश्च ज्ञातीन् भ्रातृ़न् सुतान् हितान् ।
भोगान् दारांश्च लङ्कां च मा विनाशमुपानय ।। 5.51.37।।
स्वानीति । मन्त्रीन् मन्त्रिणः । इकारान्तत्वमार्षम् ।। 5.51.37।।
सत्यं राक्षसराजेन्द्र शृणुष्व वचनं मम ।
रामदासस्य दृतस्य वानरस्य विशेषतः ।। 5.51.38।।
सत्यमिति । रामदासस्येत्यनेन रामसामर्थ्यपरिज्ञानमुक्तम् । दूतस्येत्यनेन हितोपदेशाधिकारः । वानरस्येति माध्यस्थ्यम् ।। 5.51.38।।
सर्वान्लोकान् सुसंहृत्य सभूतान् सचराचरान् ।
पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः ।। 5.51.39।।
देवासुरनरेन्द्रेषु यक्षरक्षोगणेषु च ।
विद्याधरेषु सर्वेषु गन्धर्वेषूरगेषु च ।। 5.51.40।।
सिद्धेषु किन्नरेन्द्रेषु पतत्त्रिषु च सर्वतः ।। 5.51.41।।
सर्वभूतेषु सर्वत्र सर्वकालेषु नास्ति सः ।
यो रामं प्रतियुद्ध्येत विष्णुतुल्यपराक्रमम् ।। 5.51.42।।
सर्वलोकेश्वरस्यैवं कृत्वा विप्रियमुत्तमम् ।
रामस्य राजसिंहस्य दुर्लभं तव जीवितम् ।। 5.51.43।।
देवाश्च दैत्याश्च निशाचरेन्द्र गन्धर्वविद्याधरनागयक्षाः ।
रामस्य लोकत्रयनायकस्य स्थातुं न शक्ताः समरेषु सर्वे ।। 5.51.44।।
सर्वानिति । लोकान् भूरादीन् । सभूतान् पृथिव्यप्तेजोवाय्वाकाशरूपपञ्महाभूतयुक्तान् । सचराचरान् चतुर्मुखद्वारा सृष्टजङ्गमाजङ्गमयुक्तान् । संहृत्य प्रलयावसाने रुद्रद्वारा स्वयं च संहृत्य पुनः कल्पादौ तथैव “धाता यथापूर्वमकल्पयत्” इति श्रुत्युक्तरीत्या स्रष्टुं समर्थः । तत्र प्रमाणमाह महायशा इति । ” न तस्येशे कश्चन तस्य नाम महद्यशः’ इति हि श्रुतिः । श्रुतिस्मृतिषु तथा प्रसिद्ध इत्यर्थः ।। 5.51.3944।।
ब्रह्मा स्वयम्भूश्चतुराननो वा रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा ।
इन्द्रो महेन्द्रः सुरनायको वा त्रातुं न शक्ता युधि रामवध्यम् ।। 5.51.45।।
मा भूवन् शक्तास्सामान्यदेवाः, ईश्वराश्शक्ताः स्युरित्याशङ्क्याह ब्रह्मेति । अत्र विशेषणान्तरोपादानं तेषां सामर्थ्यविशेषद्योतनार्थम् । पतत्प्रकर्षत्वपरिहाराय व्युत्क्रमेण योजनीयम् । इन्द्रः परैश्वर्यवान् । “इदि परमैश्वर्ये” इत्यस्माद्धातोः “ऋज्रेन्द्राग्न–” इत्यादिना निपातनात्साधुत्वम् । त्रैलोक्याधिपतिरपि त्रातुं न शक्त इत्यर्थः । तस्य त्रैलोक्याधिपतित्वे ऽपि परनिरसनसामर्थ्याभावशक्ततेत्याह महेन्द्र इति । वृत्रहननप्रसिद्धसामर्थ्यो ऽपि न शक्तः । “यो वृत्रमवधीदिति तन्महेन्द्रस्य महेन्द्रत्वम्” इति श्रौतनिर्वचनम् । स्वयं चतुरो ऽपि सहायसम्पत्त्यभावान्न शक्त इत्यत्राह सुरनायक इति । स्वतुल्यत्रयस्त्रिंशत्कोटिसुरगणसहायो ऽपि न शक्त इत्यर्थः । माभूत्क्षुद्रइन्द्रश्शक्तः, सर्वसंहारको रुद्रस्तु शक्तस्स्यात्तत्राह रुद्र इति । संहारकाले प्रजाः रोदयतीति रुद्रः । “रोदेर्णिलुक् च’ इति रप्रत्ययः । कालविशेषे संहारको ऽपीदानीमप्राप्तकालत्वादशक्त इत्याह त्रिनेत्र इति । निटिलनयनदहनज्वालाविलोपितमदनो ऽपीत्यर्थः । काकतालीयत्वशङ्काव्युदासायाह त्रिपुरान्तक इति । प्रबलतरमहासुरसंहारको ऽपीत्यर्थः । मा भूत्तस्य शक्तिः “ब्रह्मणः पुत्राय ज्येष्ठाय श्रेष्ठाय” इत्युक्तरीत्या रुद्रस्यापि पिता ब्रह्मा शक्तस्स्यात्, तत्राह ब्रह्मेति । बृंहतीति ब्रह्मा । “बृहेरम् नलोपश्च” इति मनिन् अमागमो नकारलोपश्च । रुद्रपिता स्वयं कर्मवश्यः कथं शक्नुयात् तत्राह स्वयंभूरिति । कर्मवश्यत्वे ऽपीतरसाधारण्येनानुत्पन्नः स्वयंभूः । स्वयंभूत्वेपि सहायसंपत्त्यभावात्कथं त्रायेतेत्यत्राह चतुरानन इति । युगपदेव सर्ववेदोच्चारणसम्पादितातिशयो ऽपि न शक्तः । प्रत्येकमशक्तत्वे ऽपि किं संभूयागताश्शक्नुवन्ति? तत्राह न शक्ता इति । बहुवचनेनायमर्थो लभ्यते वधमर्हतीति वध्यः । दण्डादित्वाद्यः । रामस्य वध्यो रामवध्यः । तं त्रातुं न शक्ताः । स्थानविन्निग्रहस्य च’ इत्युचितवधार्हस्य त्राता कः । युधि यद्धे न शक्ताः किन्तु शरणं गत्वा त्रातुं शक्ता इत्यर्थः । अत्र “हिरण्यगर्भस्समवर्तताग्रे । न सन्न चासीच्छिव एव केवलः । इन्द्रो मायाभिः पुरुरूप ईयते” इति परदेवतात्वेन प्रसक्तात्त्रिकादधिकत्वमुक्तम् । राम इत्यनेन वेदान्तोदितानां सद्ब्रह्मादिसामान्यशब्दानां हिरण्यगर्भशिवेन्द्रादिविशेषशब्दानां च व्यक्तिविशेषपरत्वं व्यञ्जितम् । त्रातृत्वेन प्रसक्तप्रधानदेवतानिराकरणप्रकरणे विष्णोरनुपादानात् पारिशेष्याद्राम एव विष्णुरिति प्रतिपादितम् ।। 5.51.45।।
स सौष्ठवोपेतमदीनवादिनः कपेर्निशम्याप्रतिमो ऽप्रियं वचः ।
दशाननः कोपविवृत्तलोचनः समादिशत् तस्य वधं महाकपेः ।। 5.51.46।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकपञ्चाशः सर्गः ।। 5.51।।
अस्माच्छ्लोकात्परं स सौष्ठवेति श्लोकः । तस्य तद्वचनमिति श्लोकस्तु उत्तरसर्गादिः । अत्र स प्रमादाल्लिखितः ।। 5.51.46।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकपञ्चाशः सर्गः ।। 5.51 ।।