श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्विपञ्चाशः सर्गः
तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः ।
आज्ञापयद्वधं तस्य रावणः क्रोधमूर्च्छितः ।। 5.52.1।।
तस्य तद्वचनं श्रुत्वेति श्लोकस्सर्गस्य प्रथमः ।। 5.52.1।।
वधे तस्य समाज्ञप्ते रावणेन दुरात्मना ।
निवेदितवतो दौत्यं नानुमेने विभीषणः ।। 5.52.2।।
दौत्यं दूतकर्म । ब्राह्मणादेराकृतिगणत्वात् ष्यञ् । तन्निवेदितवतः उक्तवतः । नानुमेने, वधमित्यनुवर्तनीयम् । निवेदितमतौ दूत्यमिति पाठान्तरम् । मन्यत इति मतिः कार्यम् । निवेदितमतौ निवेदितकार्यांशे यथार्थवादित्वेनावध्ये हनुमति दूत्यं दूतसंबन्धितया रावणादिष्टं वधम् । “दूतवणिग्भ्यां चेति वक्तव्यम्” इति भावकर्मणोर्विहितो यप्रत्ययः अर्थानुगुण्यात्सम्बन्धमात्रे गमयितव्यः ।। 5.52.2।।
तं रक्षोधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम् ।
विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः ।। 5.52.3।।
तच्च कार्यं दूतवधरूपकार्यम् । कार्यम् अनन्तरानुष्ठेयम् । कार्यविधौ कार्यकरणे । स्थितः निश्चितार्थः, साध्वसाधुविवेकनिश्तिकार्य इत्यर्थः ।। 5.52.3।।
निश्चितार्थस्ततः साम्ना ऽ ऽपूज्य शत्रुजिदग्रजम् ।
उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः ।। 5.52.4।।
निश्चितार्थ इति । आपूज्येति च्छेदः ।। 5.52.4।।
क्षमस्व रोषं त्यज राक्षसेन्द्र प्रसीद मद्वाक्यमिदं शृणुष्व ।
वधं न कुर्वन्ति परावरज्ञा दूतस्य सन्तो वसुधाधिपेन्द्राः ।। 5.52.5।।
परावरज्ञाः त्याज्योपादेय विवेकयुक्ताः ।। 5.52.5।।
राजधर्मविरुद्धं च लोकवृत्तेश्च गर्हितम् ।
तव चासदृशं वीर कपेरस्य प्रमापणम् ।। 5.52.6।।
प्रमापण मारणम् ।। 5.52.6।।
धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः ।
परावरज्ञो भूतानां त्वमेव परमार्थवित् ।। 5.52.7।।
भूतानामिति निर्धारणे षष्ठी । भूतानां मध्ये ।। 5.52.7।।
गृह्यन्ते यदि रोषेण त्वादृशो ऽपि विपश्चितः ।
ततः शास्त्रधर्मविपश्चित्त्वं श्रम एव हि केवलम् ।। 5.52.8।।
शास्त्रविपश्चित्त्वं विविधं पश्यतीति विपश्चित् तस्य भावः विपश्चित्त्वम्, शास्त्रविषये विविधज्ञानोपेतत्वमिति यावत् ।। 5.52.8।।
तस्मात् प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद ।
युक्तायुक्तं विनिश्चित्य दूतदण्डे विधीयताम् ।। 5.52.9।।
विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः ।
रोषेण महताविष्टो वाक्यमुत्तरमब्रवीत् ।। 5.52.10।।
न पापानां वधे पापं विद्यते शत्रुसूदन ।
तस्मादेनं वधिष्यामि वानरं पापचारिणम् ।। 5.52.11।।
अधर्ममूलं बहुरोषयुक्तमनार्यजुष्टं वचनं निशम्य ।
उवाच वाक्यं परमार्थतत्त्वं विभीषणो बुद्धिमतां वरिष्ठः ।। 5.52.12।।
दूतदण्डः दूतयोग्य दण्डः ।। 5.52.912।।
प्रसीद लङ्केश्वर राक्षसेन्द्र धर्मार्थयुक्तं वचनं शृणुष्व ।
दूता न वध्याः समयेषु राजन् सर्वेषु सर्वत्र वदन्ति सन्तः ।। 5.52.13।।
प्रसीदेति । सर्वेषु सर्वत्र सर्वदेशेषु सर्वजातिष्वित्यर्थः ।। 5.52.13।।
असंशयं शत्रुरयं प्रवृद्धः कृतं ह्यनेनाप्रियमप्रमेयम् ।
न दूतवध्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः ।। 5.52.14।।
न केवलं दूतो ऽयम् अक्षादिवधेन शत्रुश्च, तथाच हन्तव्य इत्याशङ्क्याह असंशयमिति । दूतवध्यां दूतवधम् । स्त्रियां भावे क्यप् । हन्तेर्वधादेश आर्षः ।। 5.52.14।।
वैरूप्यमङ्गेषु कशाभिघातो मौण्ड्यं(ढ्यं) तथा लक्षणसन्निपातः ।
एतान् हि दूते प्रवदन्ति दण्डान् वधस्तु दूतस्य न नः श्रुतो ऽपि ।। 5.52.15।।
लक्षणसन्निपातः दूतयोग्याङ्कनसंबन्धः । नः अस्माभिः ।। 5.52.15।।
कथं च धर्मार्थविनीतबुद्धिः परावरप्रत्ययनिश्चितार्थः ।
भवद्विधः कोपवशे हि तिष्ठेत् कोपं नियच्छन्ति हि सत्त्ववन्तः ।। 5.52.16।।
धर्मार्थविनीतबुद्धिः धर्मार्थयोश्शिक्षितबुद्धिः । परावरप्रत्ययनिश्चितार्थः उत्कृष्टापकृष्टपरिज्ञाननिश्चितार्थः । अस्मिन् विषये इदं कार्यं परम् इदमवरमिति विवेकनिश्चितकार्य इत्यर्थः । नियच्छन्ति निगृह्णन्ति । सत्त्ववन्तः व्यवसायवन्तः ।। 5.52.16।।
न धर्मवादे न च लोकवृत्ते न शास्त्रबुद्धिग्रहणेषु चापि ।
विद्येत कश्चित्तव वीरतुल्यस्त्वं ह्युत्तमः सर्वसुरासुराणाम् ।। 5.52.17।।
धर्मवादे धर्मशास्त्रे । लोकवृत्ते लौकिकाचारे । शास्त्रबुद्धिग्रहणेषु शास्त्रशब्देन शास्त्रार्थ उच्यते । शास्त्रर्थज्ञानतद्धारणेष्वित्यर्थः ।। 5.52.17।।
न चाप्यस्य कपेर्घाते कञ्चित् पश्याम्यहं गुणम् ।
तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः ।। 5.52.18।।
न केवलं दूतस्य वधे शास्त्रविरोधः गुणमपि न कंचित्पश्यामि अतः एतत्प्रेषकेष्वेव वधरूपो दण्डः पात्यतामित्याह न चेत्यादि ।। 5.52.18।।
साधुर्वा यदिवा ऽसाधुः परैरेष समर्पितः ।
ब्रुवन् परार्थं परवान् न दूतो वधमर्हति ।। 5.52.19।।
साधुर्वेति । सपर्पितः प्रेषितः ।। 5.52.19।।
अपि चास्मिन् हते राजन् नान्यं पश्यामि खेचरम् ।
इह यः पुनरागच्छेत् परं पारं महोदधेः ।। 5.52.20।।
तस्मान्नास्य वदे यत्नः कार्यः परपुरञ्जय ।
भवान् सेन्द्रेषु देवेषु यत्नमास्तातुमर्हति ।। 5.52.21।।
अस्मिन् हते सति वृत्तान्तनिवेदकाभावाद्रामलक्ष्मणयोरिहागमनाभावेन तव शत्रुक्षयो न स्यात्, विमुक्ते ऽस्मिन् एतन्निवेदितवृत्तान्तयोस्तयोरिहागमनादयत्नेन तव शत्रुनाशो भवेदित्यभिप्रेत्याह अपि चेत्यादिना । इह परं पारम् इह विद्यमानं महोदधेः परं पारम्, इदं दक्षिणकूलमित्यर्थः ।। 5.52.2021।।
अस्मिन् विनष्टे नहि दूतमन्यं पश्यामि यस्तौ नरराजपुत्रौ ।
युद्धाय युद्धप्रिय दुर्विनीतावुद्योजयेद्दीर्घपथावरुद्धौ ।। 5.52.22।।
पराक्रमोत्साहमनस्विनां च सुरासुराणामपि दुर्जयेन ।
त्वया मनोनन्दन नैर्ऋतानां युद्धायतिर्नाशयितुं न युक्ता ।। 5.52.23।।
हिताश्च शूराश्च समाहिताश्च कुलेषु जाताश्च महागुणेषु ।
मनस्विनः शस्त्रभृतां वरिष्ठाः कोट्यग्रतस्ते सुभृताश्च योधाः ।। 5.52.24।।
अस्मिन् विनष्ट इति । दीर्घपथावरुद्धौ दूरमार्गेण निरुद्धगमनावित्यर्थः । एतच्छ्लोकानन्तरं पराक्रमोत्साहमनस्विनां चेति श्लोकः । ततो हिताश्चेति श्लोकः । अथ तदेकदेशेनेति श्लोकः । अथ निशाचराणामिति सर्गान्तश्लोकः । अयमेव पाठक्रमः समीचीनः । अन्येप्यत्र सर्गे श्लोकाः कल्पिता दृश्यन्ते ।। 5.52.2224।।
तदेकदेशेन बलस्य तावत् केचित्तवादेशकृतो ऽभियान्तु ।
तौ राजपुत्रौ विनिगृह्य मूढौ परेषु ते भावयितुं प्रभावम् ।। 5.52.25।।
निशाचराणामधिपो ऽनुजस्य विभीषणस्योत्तमवाक्यमिष्टम् ।
जग्राह बुद्ध्या सुरलोकशत्रुर्महाबलो राक्षसराजमुख्यः ।। 5.52.26।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्विपञ्चाशः सर्गः ।। 5.52।।
तदिति । तत्तस्मात्कारणात् । एतदेशेनेति सहयोगे तृतीया । बलस्य सैन्यस्य ।। 5.52.25,26।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने द्विपञ्चाशः सर्गः ।। 5.52।।