श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चपञ्चाशः सर्गः
लङ्कां समस्तां सन्दीप्य लाङ्गूलाग्निं महाबलः ।
निर्वापयामास तदा समुद्रे हरिसत्तमः ।। 5.55.1 ।।
सन्दीप्यमानां विध्वस्तां त्रस्तरक्षोगणां पुरीम् ।
अवेक्ष्य हनुमान् लङ्कां चिन्तयामास वानरः ।। 5.55.2 ।।
लङ्कामित्यादि । लाङ्गूलाग्नि समुद्रे निर्वापयामासेत्यन्वयः ।। 5.55.1,2 ।।
तस्याभूत् सुमहांस्त्रासः कुत्सा चात्मन्यजायत ।
लङ्कां प्रदहता कर्म किंस्वित् कृतमिदं मया ।। 5.55.3 ।।
धन्यास्ते पुरुषश्रेष्ठा ये बुद्ध्या कोपमुत्थितम् ।
निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा ।। 5.55.4 ।।
क्रुद्धः पापं न कुर्यात् कः क्रुद्धो हन्याद् गुरूनपि ।
क्रुद्धः परुषया वाचा नरः साधूनधिक्षिपेत् ।। 5.55.5 ।।
वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचित् ।
नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित् ।। 5.55.6 ।।
यः समुत्पतितं क्रोधं क्षमयैव निरस्यति ।
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ।। 5.55.7 ।।
धिगस्तु मां सुदुर्बुद्धिं निर्लज्जं पापकृत्तमम् ।
अचिन्तयित्वा तां सीतामग्निदं स्वामिघातकम् ।। 5.55.8 ।।
तस्येति । कुत्सा निन्दा ।। 5.55.38 ।।
यदि दग्धा त्वियं लङ्का नूनमार्यापि जानकी ।
दग्धा तेन मया भर्तुर्हतं कार्यमजानता ।। 5.55.9 ।।
यदर्थमयमारम्भस्तत्कार्यमवसादितम् ।
मया हि दहता लङ्कां न सीता परिरक्षिता ।। 5.55.10 ।।
यदीति । जानक्यपि यदि दग्धेत्यन्वयः ।। 5.55.9,10 ।।
ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः ।
तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः ।। 5.55.11 ।।
ईषत्कर्यमिति । इदं कार्यम् अन्वेषणपूर्वकरावणनिलयपरिज्ञानसीतादर्शनतन्निवेदनरूपं महत्कार्यम् ईषत्कार्यम् ईषदवशिष्टकार्यम् असमग्रप्रायमेव कृतमासीत् । रामनिवेदनमात्रावशेषं कृतमासीदित्यर्थः । किन्तु इदानीं क्रोधाभिभूतेन क्रोधान्धेन मया तस्य कार्यस्य मूलक्षयः कृतः न संशयः, विफलीकृतमित्यर्थः ।। 5.55.11 ।।
विनष्टा जानकी नूनं न ह्यदग्धः प्रदृश्यते ।
लङ्कायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी ।। 5.55.12 ।।
सीतानाशे तत्तथैव, स एव तु कुत इत्यत्राह विनष्टेति ।। 5.55.12 ।।
यदि तद्विहतं कार्यं मम प्रज्ञाविपर्ययात् ।
इहैव प्राणसंन्यासो ममापि ह्यद्य रोचते ।। 5.55.13 ।।
किमग्नौ निपताम्यद्य अहोस्विद्वडवामुखे ।
शरीरमाहो सत्त्वानां दद्मि सागरवासिनाम् ।। 5.55.14 ।।
कथं हि जीवता शक्यो मया द्रष्टुं हरीश्वरः ।
तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना ।। 5.55.15 ।।
यदीति । विहतं यदि सीतानाशाद्विनष्टं यदि । प्राणसंन्यासः प्राणत्यागः ।। 5.55.1315 ।।
मया खलु तदेवेदं रोषदोषात् प्रदर्शितम् ।
प्रथितं त्रिषु लोकेषु कपित्वमनवस्थितम् ।। 5.55.16 ।।
मयेति । कपित्वं कापेयम् । अनवस्थितं चापलात्मकमित्यर्थः ।। 5.55.16 ।।
धिगस्तु राजसं भावमनीशमनवस्थितम् ।
ईश्वरेणापि यद्रागान्मया सीता न रक्षिता ।। 5.55.17 ।।
विनष्टायां तु सीतायां तावुभौ विनशिष्यतः ।
तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति ।। 5.55.18 ।।
एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः ।
धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम् ।। 5.55.19 ।।
इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयम् ।
भविष्यन्ति प्रजाः सर्वाः शोकसन्तापपीडिताः ।। 5.55.20 ।।
तदहं भाग्यरहितो लुप्तधर्मार्थसंग्रहः ।
रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः ।। 5.55.21 ।।
धिगस्त्विति । राजसं भावं रजोगुणनिबन्धनचेष्टाविशेषम् । अनीशं नियामकरहितम् । स्वतन्त्रमिति यावत् । अनवस्थितं कुर्वत्स्वभावम् । ईश्वरेणापि रक्षणसमर्थेनापि । रागात् मात्सर्यात् । ” रागो ऽनुरागे मात्सर्ये रक्तवर्णे कुसुम्भके” इति यादवः । यद्वा रागात् रजोगुणात् । आग्रहादिति यावत् ।। 5.55.1721 ।।
इति चिन्तयस्तस्य निमित्तान्युपपेदिरे ।
पूर्वमप्युपलब्धानि साक्षात्पुनरचिन्तयत् ।। 5.55.22 ।।
इतीति । निमित्तान्युपपेदिरे शुभशंसिनिमित्तानि प्रादुर्बभूवुरित्यर्थः ।। 5.55.22 ।।
अथवा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा ।
न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते ।। 5.55.23 ।।
न हि धर्मात्मनस्तस्य भार्याममिततेजसः ।
स्वाचारित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः ।। 5.55.24 ।।
एवं लोकदृष्ट्या अनर्थमाशङ्क्य तत्त्वदृष्ट्या समाधत्ते अथवेत्यादिना । नाग्निरग्नौ प्रवर्तते अग्निरग्निं न दहतीत्यर्थः ।। 5.55.23,24 ।।
नूनं रामप्रभावेन वैदेह्याः सुकृतेन च ।
यन्मां दहनकर्मा ऽयं नादहद्धव्यवाहनः ।। 5.55.25 ।।
त्रयाणां भरतादीनां भार्तृ़णां देवता च या ।
रामस्य च मनःकान्ता सा कथं विनशिष्यति ।। 5.55.26 ।।
यद्वा दहनकर्मा ऽयं सर्वत्र प्रभुरव्ययः ।
न मे दहति लाङ्गूलं कथमार्यां प्रधक्ष्यति ।। 5.55.27 ।।
पुनश्चाचिन्तयत्तत्र हनुमान् विस्मितस्तदा ।
हिरण्यनाभस्य गिरेर्जलमध्ये प्रदर्शनम् ।। 5.55.28 ।।
तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि ।
अपि सा निर्दहेदग्निं न तामग्निः प्रधक्ष्यति ।। 5.55.29 ।।
स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम् ।
शुश्राव हनुमान् वाक्यं चारणानां महात्मनाम् ।। 5.55.30 ।।
अहो खलु कृतं कर्म दुष्करं हि हनूमता ।
अग्निं विसृजता ऽभीक्ष्णं भीमं राक्षसवेश्मनि ।। 5.55.31 ।।
प्रपलायितरक्षः स्त्रीबालवृद्धसमाकुला ।
जनकोलाहलाध्माता क्रन्दन्तीवाद्रिकन्दरे ।। 5.55.32 ।।
दहनकर्मा भस्मीकरणस्वभावः । यत्प्रभावादयं मां नादहत् स तामेव कथं दहतीत्यर्थः ।। 5.55.2532 ।।
दग्धेयं नगरी सर्वा साट्टप्राकारतोरणा ।
जानकी न च दग्धेति विस्मयो ऽद्भुत एव नः ।। 5.55.33 ।।
विस्मयो ऽद्भुत एव न इति । अयं विस्मयः अद्भुत एव । ‘अद्भुतमाश्चर्यं कल्याणं च’ इत्युणादिवृत्तिः । यद्वा विस्मयः आश्चर्यम् । अद्भुतः अभूतपूर्व इत्यर्थः । अद्भुतः अद्भुतरसः । तस्य स्थायीभावो विस्मयः । तथा च अद्भुत एव अद्भुतरसतां प्राप्त एव महानयं विस्मयः, न विस्मयमात्र इत्यर्थः ।। 5.55.33 ।।
स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः ।
ऋषिवाक्यैश्च हनुमानभवत् प्रीतभानसः ।। 5.55.34 ।।
निमित्तैः दक्षिणाक्षिस्पन्दादिभिः । दृष्टार्थैः दृष्टफलसंवादैः । कारणैः सीतापातिव्रत्यरामप्रभावादिभिः । ऋषिवाक्यैः चारणवाक्यैः ।। 5.55.34 ।।
ततः कपिः प्राप्तमनोरथार्थस्तामक्षतां राजसुतां विदित्वा ।
प्रत्यक्षतस्तां पुनरेव दृष्ट्वा प्रतिप्रयाणाय मतिं चकार ।। 5.55.35 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चपञ्चाशः सर्गः ।। 5.55 ।।
पूर्वं चारणवाक्यैर्विदित्वा पुनः प्रत्यक्षं दृष्ट्वा ततः प्रतिप्रयाणाय मतिं चकार, प्रतियास्यामीति सङ्कल्पितवानित्यर्थः ।। 5.55.35 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः ।। 5.55 ।।