श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्विषष्टितमः सर्गः
तानुवाच हरिश्रेष्ठो हनुमान् वानरर्षभः ।
अव्यग्रमनसो यूयं मधु सेवत वानराः ।
अहमावारयिष्यामि युष्माकं परिपन्थिनः ।। 5.62.1 ।।
श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरो ऽङ्गदः ।
प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु ।। 5.62.2 ।।
तानित्यादि । तान् दधिमुखकलहव्याकुलितान् । अन्ये तु तानुवाचेत्यादिना पूर्वसर्गोक्तं संक्षोपेणानूद्य उपरि गच्छतीत्याचक्षते । अपरे तु सर्गमुखे केचिच्छ्लोकाः पतिताः इत्याहुः ।। 5.62.1,2 ।।
अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया ।
अकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम् ।। 5.62.3 ।।
अङ्गेति सम्बोधने निपातः ।। 5.62.3 ।।
अङ्गदस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः ।
साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन् ।। 5.62.4 ।।
अङ्गदस्य स्वामिनः मुखाद्वचनं हनुमदुक्तं श्रुत्वा ।। 5.62.4 ।।
पूजयित्वा ऽङ्गदं सर्वे वानरा वानरर्षभम् ।
जग्मुर्मधुवनं यत्र नदीवेगा इव द्रुतम् ।। 5.62.5 ।।
जग्मुर्मधुवनमिति प्रदेशभेदविवक्षया । यद्वा दधिमुखनिवारणेन भीतानां हनुमदङ्गदाभ्यां पुनरनुज्ञापनेन पुनर्जग्मुरित्यर्थः ।। 5.63.5 ।।
ते प्रविष्टा मधुवनं पालानाक्रम्य वीर्यतः ।। 5.62.6 ।।
अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम् ।
पपुः सर्वे मधु तदा रसवत् फलमाददुः ।। 5.62.7 ।।
वीर्यतः बलात् । अतिसर्गादङ्गदाभ्यनुज्ञानात् । दृष्ट्वा श्रुत्वा च मैथिलीं दर्शनश्रवणाभ्यां च हेतुना । वनपालानाक्रम्य आक्षिप्य ।। 5.62.6,7 ।।
उत्पत्य च ततः सर्वे वनपालान् समागतान् ।
ताडयन्ति स्म शतशः सक्तान् मधुवने तदा ।। 5.62.8 ।।
सक्तान् वनपालने रतान् ।। 5.62.8 ।।
मधूनि द्रोणमात्राणि बाहुभिः परिगृह्य ते ।
पिबन्ति सहिताः सर्वे निघ्नन्ति स्म तथा ऽपरे ।। 5.62.9 ।।
मधूनि मधुपटलानि । द्रोणमात्राणि द्रोणप्रमाणानि आढकप्रमाणानि । निघ्नन्ति स्म पीतावशिष्टानि मधुपटलानि भिन्दन्ति स्म ।। 5.62.9 ।।
केचित्पीत्वा ऽपविध्यन्ति मधूनि मधुपिङ्गलाः ।
मधूच्छिष्टेन केचिच्च जघ्नुरन्योन्यमुत्कटाः ।। 5.62.10 ।।
अपरे वृक्षमूले तु शाखां गृह्य व्यवस्थिताः ।
अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते ।। 5.62.11 ।।
अपविध्यन्ति अवक्षिपन्ति । मधूच्छिष्टेन सिक्थकेन । “मधूच्छिष्टं तु सिक्थकम्” इत्यमरः । उत्कटाः मत्ताः ।। 5.62.10,11 ।।
उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत् ।
क्षिपन्ति च तदा ऽन्योन्यं स्खलन्ति च तथा ऽपरे ।। 5.62.12 ।।
हृष्टवत् हर्षयुक्तमिति क्रियाविशेषणम् । हृष्टार्हमिति वार्थः । क्षिपन्ति उत्क्षिप्य पातयन्ति । स्खलन्ति पादेन नुदन्तीत्यर्थः ।। 5.62.12 ।।
केचित् क्ष्वेलां प्रकुर्वन्ति केचित् कूजन्ति हृष्टवत् ।
हरयो मधुना मत्ताः केचित् सुप्ता महीतले ।। 5.62.13 ।।
क्ष्वेलां सिंहनादम् । “क्ष्वेला तु सिंहनादः स्यात्” इत्यमरः । कूजन्ति पक्षिवच्छब्दायन्ते ।। 5.62.13 ।।
कृत्वा केचिद्धसन्त्यन्ये केचित् कुर्वन्ति चेतरत् ।
कृत्वा केचिद्वदन्त्यन्ये केचिद्बुद्ध्यन्ति चेतरत् ।। 5.62.14 ।।
ये ऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु ।
ते ऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः ।। 5.62.15 ।।
अन्ये अवाच्यं किंचिद्ग्राम्यं कर्म कृत्वा हसन्ति । इतरत् तद्विलक्षणं ग्राम्यं कर्म केचित्कुर्वन्ति । केचिदन्यत् ग्राम्यं कर्म कृत्वा अस्माभिरिदं कृतमिति वदन्ति उच्चारयन्ति । केचिदितरद्रुव्यन्ति एवं करिष्यामिति सङ्कल्पयन्तीत्यर्थः ।। 5.62.14,15 ।।
जानुभिस्तु प्रकृष्टाश्च देवमार्गं प्रदर्शिताः ।
अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः ।। 5.62.16 ।।
हनूमता दत्तवरैर्हतं मधुवनं बलात् ।
वयं च जानुभिः कृष्टा देवमार्गं च दर्शिताः ।। 5.62.17 ।।
ततो दधिमुखः क्रुद्धो वनपस्तत्र वानरः ।
हतं मधुवनं श्रुत्वा सान्त्वयामास तान् हरीन् ।। 5.62.18 ।।
जानुभिः प्रकृष्टाः । जानून्यवलम्ब्य कृष्टा इत्यर्थः । देवमार्गम् अपानद्रारम् । देवशब्दो वायुवाची । उपनिषदि वायुलोके देवलोकशब्दप्रयोगात् । दर्शिताः दर्शनं कारिताः । दृशेरुपसङ्ख्यानादणिकर्तुः कर्मत्वम् । “ण्यन्तात्कर्तुश्च कर्मणः ” इति तस्यै वाभिधेयत्वं च ।। 5.62.1618 ।।
इहागच्छत गच्छामो वानरान् बलदर्पितान् ।
बलेन वारयिष्यामो मधु भक्षयतो वयम् ।। 5.62.19 ।।
श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः ।
पुनर्वीरा मधुवनं तेनैव सहसा ययुः ।। 5.62.20 ।।
मध्ये चैषां दधिमुखः प्रगृह्य तरसा तरुम् ।
समभ्यधावद्वेगेन ते च सर्वे प्लवङ्गमाः ।। 5.62.21 ।।
ते शिलाः पादपांश्चापि पर्वतांश्चापि वानराः ।
गृहीत्वा ऽभ्यगमन् क्रुद्धा यत्र ते कपिकुञ्जराः ।। 5.62.22 ।।
ते स्वामिवचनं वीरा हृदयेष्ववसज्य तत् ।
त्वरया ह्यभ्यधावन्त सालतालशिलायुधाः ।। 5.62.23 ।।
वृक्षस्थांश्च तलस्थांश्च वानरान् बलदर्पितान् ।
अभ्यक्रामंस्ततो वीराः पालास्तत्र सहस्रशः ।। 5.62.24 ।।
अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुङ्गवाः ।
अभ्यधावन्त वेगेन हनुमत्प्रमुखास्तदा ।। 5.62.25 ।।
तं सवृक्षं महाबाहुमापतन्तं महाबलम् ।
आर्यकं प्राहरत्तत्र बाहुभ्यां कुपितो ऽङ्गदः ।। 5.62.26 ।।
मदान्धश्च न वेदैनमार्यको ऽयं ममेति सः ।
अथैनं निष्पिपेषाशु वेगवद्वसुधातले ।। 5.62.27 ।।
स भग्नबाहूरुभुजो विह्वलः शोणितोक्षितः ।
मुमोह सहसा वीरो मुहूर्तं कपिकुञ्जरः ।। 5.62.28 ।।
स समाश्वस्य सहसा संक्रुद्धो राजमातुलः ।
वानरान् वारयामास दण्डेन मधुमोहितान् ।। 5.62.29 ।।
स कथंचिद्विमुक्तस्तैर्वानरैर्वानरर्षभः ।
उवाचैकान्तमाश्रित्य भृत्यान् स्वान् समुपागतान् ।। 5.62.30 ।।
एते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः ।
सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति ।। 5.62.31 ।।
सर्वं चैवाङ्गदे दोषं श्रावयिष्यामि पार्थिवे ।
अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान् ।। 5.62.32 ।।
इष्टं मधुवनं ह्येतत् सुग्रीवस्य महात्मनः ।
पितृपैतामहं दिव्यं देवैरपि दुरासदम् ।। 5.62.33 ।।
गच्छाम इति तैः साहित्येन बहुवचनम् । आत्मनि बहुवचनं वा ।। 5.62.1933।।
स वानरानिमान् सर्वान् मधुलुब्धान् गतायुषः ।
घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान् ।। 5.62.34 ।।
गतायुष इत्यधिक्षेपवचनम् ।। 5.62.34 ।।
वध्या ह्येते दुरात्मानो नृपाज्ञापरिभाविनः ।
अमर्षप्रभवो रोषः सफलो नो भविष्यति ।। 5.62.35 ।।
एवमुक्त्वा दधिमुखो वनपालान् महाबलः ।
जगाम सहसोत्पत्य वनपालैः समन्वितः ।। 5.62.36 ।।
वध्या ह्येत इति । अमर्षप्रभवः अक्षमाजन्यः । रोषस्य तज्जन्यत्वं च यो यस्मै न सहते तस्मै क्रुद्ध्यतीति प्रसिद्धम् ।। 5.62.35,36 ।।
निमेषान्तरमात्रेण स हि प्राप्तो वनालयः ।
सहस्रांशुसुतो धीमान् सुग्रीवो यत्र वानरः ।। 5.62.37 ।।
निमेषान्तरेति । निमेषान्तरमात्रेण निमेषावकाशमात्रेण । वनालयः वानरः ।। 5.62.37 ।।
रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च ।
समप्रतिष्ठां जगतीमाकाशान्निपपात ह ।। 5.62.38 ।।
सन्निपत्य महावीर्यः सर्वैस्तैः परिवारितः ।
हरिर्दधिमुखः पालैः पालानां परमेश्वरः ।। 5.62.39 ।।
रामं चेति । समप्रतिष्ठां समतलाम् । जगतीं भूमिम् ।। 5.62.38,39 ।।
स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम् ।
सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत् ।। 5.62.40 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्विषष्टितमः सर्गः ।। 5.62 ।।
अस्मिन्सर्गे चत्वारिंशच्छ्लोकाः ।। 5.62.40 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलके सुन्दरकाण्डव्याख्याने द्विषष्टितमः सर्गः ।। 5.62 ।।