श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः चतुर्य: सर्गः
प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः ।
चकार चरितं कृत्स्नं विचित्रपदमात्मवान् ।। 1.4.1 ।।
पूर्वस्मिन् सर्गे प्रतिपाद्यवैलक्षण्यमुक्तम्, सम्प्रति प्रबन्धवैलक्षण्यं कथ्यते । प्रबन्धस्य वैलक्षण्यं नाम परमाप्तप्रणीतत्वं पुण्यश्लोकविषयत्वं महाजनपरिगृहीतत्वं प्रबन्धनायकश्लाघितत्वमित्यादि । परमाप्तप्रणीतत्वं पुण्यश्लोकविषयत्वं चानेनोच्यते । प्राप्तराज्यस्य स्वीकृतराजभावस्य । पुरोहितादित्वाद्यक्प्रत्ययः । लोकरक्षणाय रघुकुले ऽवतीर्णस्येत्यर्थः । रामस्य सकलगुणाभिरामस्य, अनेन प्रतिपाद्यमहिम्ना काव्यस्य आदरणीयतातिशय उक्तः । तदुक्तं भामहेन “उपश्लोक्यस्य माहात्म्यादुज्ज्वलाः काव्यसम्पदः” इति । विचित्रपदं आश्चर्यपदसन्निवेशम् । अनेन काव्यस्यात्मभूता रीतिरुक्ता । तदुक्तं वामनेन “रीतिरात्मा काव्यस्य । विशिष्टपदरचना रीतिः । समग्रैरोजःप्रसादप्रभृतिभिर्गुणैरुदिता वैदर्भी नाम रीतिः” इत्यादिना । यद्वा विविधानां विचित्राणां शब्दार्थालङ्काराणां पदं स्थानं कृत्स्नं चरितं प्रतिपादकग्रन्थसन्दर्भम्, अनेन विज्ञानाद्यनेकफलसुपुरुषचरित्रत्वमुक्तम् । तथोक्तम् “परिवढ्ढइ विण्णाणं सम्भाविज्जइ जसो विसप्पन्दि गुणा । सुव्वइ सुपुरिसचरिअं किंतज्जेण ण हरन्ति कव्वालावा ।। छा0 परिवर्द्धते विज्ञानं सम्भाव्यते यशो विसर्पन्ति गुणाः । श्रूयते सुपुरुषचरितं किं तद्येन न हरन्ति काव्यालापाः ।।” इति। भगवान् ब्रह्मप्रसादलब्धदिव्यज्ञानवान्। आत्मवान् प्रबन्धरचनानुकूलयत्नवान्। ऋषिः “नानृषिः कुरुते काव्यम्” इत्युक्तरीत्या काव्यनिर्माणपटुः वाल्मीकिः, चकार परोपकाराय कृतवान्। उदारधीरिति पूर्वमुक्तम्। प्राप्तराज्यस्येत्यनेन रामराज्यकरणकाले रामायणकरणमिति गम्यते। एतज्ज्ञापनायैव पुनरारम्भः ।। 1.4.1 ।।
चतुर्विंशत्सहस्राणि श्लोकानामुक्तवानृषिः ।
तथा सर्गशतान् पञ्च षट्काण्डानि तथोत्तरम् ।। 1.4.2 ।।
अथ प्रक्षेपभ्रंशसम्भावनापरिहाराय नातिसङ्कोचविस्तरश्लोकसर्गकाण्डवत्तयात्यन्तादरणीयत्वाय चाह चतुर्विंशदिति । ऋषिर्वाल्मीकिः तपःस्वाध्यायेत्यारभ्य तद्ब्रह्माप्यनवमन्यतेत्यन्तेन चिकीर्षिते रामायणाख्ये प्रबन्धे श्लोकानां चतुर्विंशत्सहस्राण्युक्तवान् । इकारलोपश्छान्दसः । “पङ्क्तिविंशति ” इति सूत्रे विंशतीत्येव निपातनात् । “आदशतः सङ्ख्याः सङ्ख्येये वर्तन्ते, ततः परं सङ्ख्याने सङ्ख्येये च वर्तन्ते” इति नियमात् । सहस्रशब्दोत्र सङ्ख्यापरः । चतुर्विंशतिसहस्रसङ्ख्याकश्लोकांश्चकारेत्यर्थः । तथेति समुच्चये । पञ्चसर्गशतांश्च कृतवान् । “शतायुतप्रयुताः पुंसि च” इति लिङ्गानुशासनवचनात् पुँल्लिङ्गत्वम् । सर्गशतं पञ्चेति पाठे शतमित्येतत् “पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्” इति सूत्रे शतमिति बहुत्वे निपातनात्साधु । षट्काण्डानि उत्तरं च षड्भ्यः उत्तरं सप्तकाण्डं च कृतवान्, परत्वमोक्षप्रदत्वादीनां व्यक्ततया प्रतिपादनेन सर्वोत्तरत्वादुत्तरमिति पृथगुक्तिः । यद्यप्याधुनिके पाठे श्लोकानां सर्गाणां च विपर्यासो दृश्यते तथापि बहुचतुर्युगान्तरितत्वेन विप्लवो युक्तः । यद्वा सङ्कल्पमात्रपरो ऽयं श्लोकः । कृतवान् कर्त्तुमुद्युक्त इत्यर्थः । ग्रन्थसमाप्तिदशायां कापि वृद्धिरुपजातेति न को ऽपि विरोधः । यद्वा अन्यूनाभिप्रायमिदं वचनम्, पञ्चशतसर्गेषु चतुर्विंशतिसहस्रश्लोकेषु च न न्यूनतेत्यर्थः । यद्वा अल्पीयसीमधिकसङ्ख्यामनादृत्य प्रकृष्टसङ्ख्यया व्यपदेशो ऽयम् । यथा “मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः” इत्यमरः । “चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते ।” इत्युक्तब्रह्मदिनस्य
चतुर्दशमन्वनुसारेण चतुर्दशधा विभागे मन्वन्तरस्यैकसप्तत्याधिक्यात् । वर्तमानसङ्ख्या तु “बालकाण्डे तु सर्गाणां सप्तसप्ततिरीरिता । अयोध्याकाण्डगास्सर्गाश्शतंचैकोनविंशतिः । आरण्यकाण्डे सर्गाणां पञ्चसप्ततिरीरिता । किष्किन्धाकाण्डगास्सर्गास्सप्तषष्टिरुदीरिताः । सर्गाणां सुन्दरे काण्डे त्वष्टषष्टिरुदीरिता । एकत्रिंशच्छतं सर्गा दृश्न्ते युद्धकाण्डगाः । दशोत्तरशतं सर्गा उत्तरे काण्ड ईरिताः । 647 ।। अत्र सर्गशतान् पञ्च इत्येतत् षट्काण्डानामेव, न तु सोत्तराणाम्, षट्काण्डानीत्येतत्प्रत्यासत्तेः । चतुर्विंशतिसहस्रश्लोकात्मकता तु सप्तकाण्डापेक्षयेत्यप्याहुः ।” बालकाण्डगताः श्लोकाश्चमरारिप्रकीर्तिताः (2256) । अयोध्याकाण्डगाः श्लोकाश्शुकभावाः प्रभाषिताः (4415) । आरण्यकाण्डगाः श्लोकाः खगसाराः प्रदर्शिताः (2732) । किष्किन्धाकाण्डगाः श्लोका नीरचाराः प्रकीर्तिताः (2620) । श्लोकास्तु सुन्दरे काण्डे ताननागाः प्रभाषिताः (3006) । युद्धकाण्डगताः श्लोका निधिधीशाः प्रवेदिताः (5990) । श्लोकाः स्युरुत्तरे काण्डे वलरागाः प्रभाषिताः (3234) । श्लोकाः 24253 । तत्रैवमवधातव्यम् बालकाण्डे त्रिंशे सर्गे “स तेन परमास्त्रेण मानवेन समाहतः” इत्यतः पूर्वमेकं सहस्रम् । त्रिषष्टितमे “विश्वामित्रो महातेजा भूयस्तेपे महत्तपः” इत्यतः पूर्वं द्वे सहस्रे । अयोध्याकाण्डे चतुर्दशे “चतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम्” इत्यतः पूर्वं त्रीणिसहस्राणि । चतुश्चत्वारिंशे “वर्तते चोत्तमां वृत्तिं लक्ष्मणो ऽस्य सदानघः” इत्यतः पूर्वं चत्वारिसहस्राणि । एकसप्ततितमे “द्वारेण वैजयन्तेन प्राविशच्छ्रान्तवाहनः” इत्यतः पूर्वं पञ्चसहस्राणि । एकोनशततमे “उटजे राममासीनं जटामण्डलधारिणम्” इत्यतः पूर्वं षट्सहस्राणि । आरण्यकाण्डे द्वादशे “ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात्” इत्यतः पूर्वं सप्तसहस्राणि । सप्तचत्वारिंशे “मम भर्ता महातेजा वयसा पञ्चविंशकः” इत्यतः पूर्वं चाष्टौ सहस्राणि । किष्किन्धाकाण्डे चतुर्थे “ततः परमसंहृष्टो हनूमान् प्लवगर्षभः” इत्यतः पूर्वं नवसहस्राणि । एकत्रिंशे “नरेन्द्रसूनुर्नरदेवपुत्रं रामानुजः पूर्वजमित्युवाच” इत्यतः पूर्वं दशसहस्राणि । किष्किन्धाकाण्डसमाप्तावेकादशसहस्राणि । सुन्दरकाण्डे सप्तविंशे “ततस्तस्य नगस्याग्रे” इत्यतः पूर्वं द्वादशसहस्राणि । षट्चत्वारिंशे “नावमान्यो भवद्भिश्च हरिर्धीरपराक्रमः” इत्यतः पूर्वं त्रयोदशसहस्राणि । सुन्दरकाण्डसमाप्तौ चतुर्दशसहस्राणि । युद्धकाण्डे अष्टाविंशे “रक्षोगणपरिक्षिप्तो राजा ह्येष विभीषणः” इत्यतः प्राक् पञ्चदशसहस्राणि । पञ्चाशे “प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणं तयोः” इत्यतः प्राक् षोडशसहस्राणि । उत्तरभागारम्भे “कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना” इत्यतः प्राक् सप्तदशसहस्राणि । अशीत्यन्तेन अष्टादशसहस्राणि । द्वादशशततमे “मरणान्तानि वैराणि” इत्यतः प्राक् एकोनविंशतिस्सहस्राणि । युद्धकाण्डसमाप्तौ विंशतिस्सहस्राणि । उत्तरकाण्डे द्वाविंशे “ततः प्राचोदयत्सूतस्तान् हयान्रुचिरप्रभान्” इत्यतः पूर्वं एकविंशतिस्सहस्राणि । चत्वारिंशत्समाप्त्या द्वाविंशतिस्सहस्राणि । षट्सप्ततितमे “ब्राह्मणस्य च धर्मेण त्वया वै रक्षितस्सुतः” इत्यतः पूर्वं त्रयोविंशतिस्सहस्राणि । ततः प्रबन्धसमाप्त्या चतुर्विंशतिस्सहस्राणीत्याहुः ।। 1.4.2 ।।
कृत्वापि तन्महाप्राज्ञः सभविष्यं सहोत्तरम् ।
चिन्तयामास को न्वेतत्प्रयुञ्जीयादिति प्रभुः ।। 1.4.3 ।।
अथास्य काव्यस्य महाजनपरिग्रहं वक्तुं पीठिकामारचयति कृत्वेति । महाप्राज्ञः प्रकर्षेण जानातीति प्रज्ञः । “प्रज्ञादिभ्यश्च” इति स्वार्थे ऽण् प्रत्ययः । यद्वा प्रज्ञा धीः, “धीः प्रज्ञा शेमुषी मतिः” इत्यमरः । सास्यास्तीति प्राज्ञः “प्रज्ञाश्रद्धार्चाभ्यो णः” इति मत्वर्थीयो णप्रत्ययः । महांश्चासौ प्राज्ञश्चेति महाप्राज्ञः, निरतिशयज्ञानसंयुतो वाल्मीकिः सहोत्तरं रामाभिषेकादुत्तरेण वृत्तान्तेन सहितम् । विकल्पात्
सहशब्दस्य स भावाभावः । सभविष्यमश्वमेधोत्तरभाविवृत्तान्तसहितम्, अश्वमेधपूर्वकाले अस्य काव्यस्य प्रवृत्तत्वात् । तत्काव्यं कृत्वापि एतत्काव्यं प्रभुः समर्थः । “प्रभुः शक्ताधिपौ” इति भास्करः । कः पुरुषः प्रयुञ्जीयात् वाग्विधेयं कुर्यात् इति चिन्तयामास । प्रयुञ्जीयादित्यत्रात्मनेपदाभावो ऽनित्यत्वात् । सभविष्यमित्यत्र औणादिके स्यप्रत्यये इण्निमित्तं षत्वम् ।। 1.4.3 ।।
तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः ।
अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ ।। 1.4.4 ।।
तस्येति । ततः वाल्मीकिचिन्तानन्तरम्, मुनिवेषौ वस्तुतो राजकुमारौ, कुशीलवौ कुशलवौ । ईकारश्छान्दसः । चिन्तयमानस्य भावितात्मनश्चिन्तितपरमात्मनः, तदनुकूलशिष्यलाभाय कृतपरमात्मनमस्कारस्येत्यर्थः । तस्य महर्षेः पादौ अगृह्णीताम्, रामायणग्रहणार्थमन्ववर्तेतामित्यर्थः ।। 1.4.4 ।।
कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ ।
भ्रातरौ स्वरसम्पन्नौ ददर्शाश्रमवासिनौ ।। 1.4.5 ।।
कुशीलवाविति । धर्मज्ञौ गुरुशुश्रूषाधर्मज्ञौ, राजपुत्रौ आसमाप्तेः वीर्यवन्तौ, यशस्विनौ विद्यान्तराभ्यासजकीर्तियुक्तौ, भ्रातरौ तुल्यस्वरौ, स्वरसम्पन्नौ शारीरवन्तौ, आश्रमवासिनौ स्वाश्रमवासित्वेन स्नेहविषयभूतौ, कुशीलवौ कुशलवौ ददर्श । उपदेशयोग्यावाकलयाञ्चकारेत्यर्थः । अनेन रामाभिषेकानन्तरकाले रामायणकरणं “प्राप्तराज्यस्य रामस्य” इति सर्गादावुक्तम् । अनन्तरं कुशलवोत्पत्तिरिति सूचितम्, एतज्ज्ञात्वैव वाल्मीक्याश्रमे सीता त्यक्ता रामेण ।। 1.4.5 ।।
स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ ।
वेदोपबृंहणार्थाय तावग्राहयत प्रभुः ।। 1.4.6 ।।
स त्विति । वेदेषु ऋग्यजुःसामाथर्वणलक्षणेषु चतुर्षु विषये, मेधाविनौ मेधा धारणक्षमा बुद्धिः । “मेधा धीर्धारणक्षमा” इति यादवः । तद्वन्तौ “अस्मायामेधास्रजो विनिः” इति मत्वर्थीयो विनिप्रत्ययः । अनेनाक्षरराशिग्रहणफलमध्ययनमुक्तम् । परितो निष्ठा परिनिष्ठा साङ्गाध्ययनं सा ऽनयोः सञ्जातेति परिनिष्ठितौ । तारकादित्वादितच् । अनेन विशेषणद्वयेनाधीतसाङ्गवेदत्वादापातप्रतिपन्नवेदार्थत्वाच्च तदुपबृंहणापेक्षित्वमुक्तम् । तौ कुशलवौ । प्रभुः स्वतन्त्रो वाल्मीकिः वेदोपबृंहणार्थाय वेदोपबृंहणरूपप्रयोजनाय, वेदोपबृंहणरूपस्वग्रन्थपठनायेत्यर्थः । उपबृंहणं नाम नानाशाखानुसारेण निर्णीतवेदार्थप्रतिपादको ग्रन्थः । अग्राहयत अगृह्णात् । स्वार्थे णिच् ।। 1.4.6 ।।
काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत् ।
पौलस्त्यवधमित्येव चकार चरितव्रतः ।। 1.4.7 ।।
काव्यमिति । चरितव्रतः चरितव्रतत्वेन निरतिशयज्ञानो वाल्मीकिः । काव्यं कवेः कर्म । कवयते
वर्णयतीति कविः । “कवि वर्णने” इत्यस्माद्धातोरौणादिक इप्रत्ययः । लोकोत्तरवर्णननिपुण इत्यर्थः । यद्यपि “इगन्ताच्च लघुपूर्वात्” इति अणा भवितव्यम्, तथापि “ब्राह्मणादित्वात् ष्यञ्” इति काशिकाकारः । यद्वा तस्मादेव धातोः “ऋहलोर्ण्यत्” इति ण्यत्प्रत्यये आदिवृद्धौ च काव्यमिति रूपम् । दोषवर्जितं गुणालङ्कारसहितम्, शब्दार्थयुगलमित्यर्थः । तदुक्तं काव्यप्रकाशे “तददोषौ शब्दार्थौ
सगुणावनलङ्कृती पुनः क्वापि” इति । वेदोपबृंहणत्वे ऽपि कान्तासम्मितत्वादस्य काव्यत्वव्यपदेशः । तथाहि त्रिविधः सन्दर्भः, प्रभुसम्मितः सुहृत्सम्मितः कान्तासम्मितश्चेति । शब्दप्रधानो वेदः प्रभुसम्मितः, अर्थप्रधान इतिहासादिः सुहृत्सम्मितः, व्यङ्ग्यप्रधानं काव्यं कान्तासम्मितम् । महदिति काव्यविशेषणम् । तस्य महत्त्वमुत्तमकाव्यत्वम् । तदप्युक्तं तत्रैव “इदमुत्तममतिशायिनि व्यङ्ग्ये वाच्याद्ध्वनिर्बुधैः कथितः” इति । यद्वा महत्काव्यं महाकाव्यम् । तल्लक्षणमुक्तं दण्डिना “सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम्” इत्यादिना । ननु काव्यं नारम्भणीयं “काव्यालापांश्च वर्जयेत्” इति निषेधादित्याशङ्क्याह रामायणमिति । रमयतीति रामः । “रामो रमयतां वरः” इत्यार्षनिर्वचनात् । यद्वा रमन्ते ऽस्मिन् सर्वे जना इति रामः । “अकर्तरि च कारके संज्ञायाम्” इति घञ् । सः अय्यते प्रतिपाद्यते अनेनेति रामायणम् “अय गतौ” इति धातोः कर्मणि ल्युट् । “पूर्वपदात् सञ्ज्ञायामगः” इति णत्वम् । समस्तगुणसम्पन्नरामविषयत्वान्नास्य निषिद्धत्वम्, किन्तूपादेयत्वमेवेत्यर्थः । तदुक्तं भामहेन “उपश्लोक्यस्य माहात्म्यादुत्तमाः काव्यसम्पदः” इति । प्रतिपादितं चोद्भटेन “गुणालङ्कारचारुत्वयुक्तमप्यधिकोज्ज्वलम् । काव्यमाश्रयसम्पत्त्या मेरुणेवामरद्रुमः ।।” इति। रुद्रटेनाप्युक्तम् “उदारचरितनिबन्धनात् प्रबन्धप्रतिष्ठा” इति। निषेधस्त्वसत्काव्यविषय इति भावः। इदं च रामचरितप्रतिपादनमप्राधान्येन, प्राधान्येन तु सीताचरितमेव प्रतिपाद्यत इत्याह कृत्स्नं सीतायाश्चरितमिति। कृत्स्नं रामायणं सीताचरितपरम्। अत एवोक्तं श्रीगुणरत्नकोशे “श्रीमद्रामायणमपि परं प्राणिति त्वच्चरित्रे” इति। आभाणकश्च “प्रातर्द्यूतप्रसङ्गेन मध्याह्ने स्त्रीप्रसङ्गतः। रात्रौ चोरप्रसङ्गेन कालो गच्छति धीमताम् ।।” इति । उपायपुरुषकारयोर्मध्ये उपायस्वरूपं भारते दर्शितम्, पुरुषकारस्वरूपं श्रीरामायणे इति रहस्यपदवी । अत एव “कृपावानविकत्थनः” इत्याद्युक्तलक्षणधीरोदात्तरूपो रामः कुशलवाभ्यां रामायणं श्रुतवान् । रामायणस्य रामैकपरत्वे स्वेनैव सदसि श्रवणं न सङ्गच्छते, सीतापरत्वे तु सङ्गच्छते विरहिणः कामिनीकथा(चरित)श्रवणस्य स्वाभाव्यात् । एवं व्यञ्जनावृत्त्या सीतारामयोः प्रतिपादनमुक्त्वा शब्दवृत्त्या सिद्धमितिवृत्तमाह पौलस्त्येति । पुलस्त्यस्य गोत्रापत्यं पौलस्त्यः । गर्गादित्वाद्यञ् । तस्य वधः, वधस्य फलत्वात्तेन व्यपदेशः । पौलस्त्यवधमधिकृत्य कृतो ग्रन्थः पौलस्त्यवधः । “अधिकृत्य कृते ग्रन्थे” इत्यण् । “लुबाख्यायिकाभ्यः प्रत्ययस्य बहुलम्” इति तस्प लुप् । यद्वा ऽणि पुनरादिवृद्धौ तदेव रूपम् । वधप्रधानत्वादितिवृत्तस्य फलेन व्यपदेशः । तथाहि पञ्च काव्यप्रतिपाद्यानि । तदुक्तम् “बीजबिन्दुपताकाख्याः प्रकरीकार्यमित्यपि । अर्थप्रकृतयः पञ्च पञ्चावस्थासमन्विताः ।।” इति। “आरम्भयत्नप्राप्त्याशानियताप्तिः फलागमः” इति पञ्चावस्थाः। तत्र “स्वल्पोद्दिष्टः कार्यहेतुर्बीजं विस्तार्यते तथा।” तच्च बालकाण्डोक्तं विष्ण्ववतरणसीतापरिणयादि। “वस्तुनः सति विच्छेदे बिन्दुरच्छेदकारणम्” इति। यथा अयोध्याकाण्डे अभिषेकवृत्तान्तेन रावणवधरूपकार्यविच्छेदे प्राप्ते वनवासकरणमच्छेदकारणम्। “यदन्तरानुवृत्तं स्यात्सा पताकेति कीर्त्यते।” यथा सुग्रीववृत्तान्तः। “कथान्तरप्रसङ्गेन प्रकरी स्यात् प्रदेशभाक्” यथा विभीषणादिवृत्तान्तः। “समग्रफलसम्पत्तिः फलयोगो यथोचितः।” यथा रावणवधः। एवंफलत्वात्पौलस्त्यवधमिति निर्देशः। इत्येवेत्यस्यायमर्थः पौलस्त्यवधव्याजेनाप्रधानरामचरितं प्रधानसीताचरितं कृतवानिति। यच्चकार तद्गोपयामासेति योजना, उत्तरश्लोके अगायतामित्यनुवादात् ।। 1.4.7 ।।
पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम् ।
जातिभिः सप्तभिर्बद्धं तन्त्रीलयसमन्वितम् ।। 1.4.8 ।।
यथोपदेशमगायतामित्याह पाठ्येत्यादिश्लोकद्वयेन । पाठ्यं पाठः । भावे ण्यत् । केवलोच्चारणविशेषः । तदुक्तं भरतेन “षडलङ्कारसंयुक्तं कलाकालसमन्वितम् । यत्पठ्यते नाटकादौ तत्पाठ्यमभिधीयते ।।” इति। गेयं स्वरविशेषसमन्वितं गानम्। भावे यत्। तत्रोभयत्र। मधुरं श्राव्यम्, लोके कानिचित् पद्यानि पाठदशायां मधुराणि, न गानदशायाम्। अपराणि पुनर्गानदशायामेव, न पाठदशायाम्, इदं तूभयत्रापीत्यर्थः। इतः परं त्रीणि क्रियाविशेषणानि। त्रिभिः प्रमाणैर्गानध्वनिपरिच्छेदकैः त्र्यश्रचतुरश्रमिश्र(सञ्ज्ञिकैः)? द्रुतमध्यविलम्बितैर्वान्वितं विशिष्टम्। सप्तभिर्जातिभिर्बद्धम् शुद्धविकृतसङ्कीर्णादिष्वष्टादशसु जातिषु प्रधानभूताभिः सप्तभिर्बद्धम्। तदुक्तं शाण्डिल्येन “सर्वगीतसमाधारो जातिरित्यभिधीयते। षाड्जी चैवाथ नैषादी धैवती पाञ्चमी तथा। माध्यमी चैव गान्धारी सप्तमी त्वार्षभी मता ।।” इति । तन्त्रीलयसमन्वितम्, तन्त्रीशब्देन तन्त्रीयुक्तवीणा लक्ष्यते, लयशब्देन तालवेणुमृदङ्गादीनामेककालविराम उच्यते, ताभ्यां समन्वितम् ।। 1.4.8 ।।
रसैः शृङ्गारकारुण्यहास्यवीरभयानकैः ।
रौद्रादिभिश्च संयुक्तं काव्यमेतदगायताम् ।। 1.4.9 ।।
पुनः काव्यविशेषणमाह रसैरिति । आदिशब्दने बीभत्साद्भुतशान्ता गृह्यन्ते । रसो नाम स्थायीभावरूपचित्तवृत्त्यभिव्यक्तिः । स्थायीभावश्च नवविधः । तदुक्तम् “रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्साविस्मयशमाः स्थायीभावाः प्रकीर्तिताः ।।” इति। तदभिव्यक्तिश्च विभावादिभिः। तदुक्तम् “विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः। आनीयमानः स्वादुत्वं स्थायीभावो रसः स्मृतः ।।” इति विभावादिस्वरूपं सङ्ग्रहेणोक्तम् “कारणान्यथ कार्याणि सहकारीणि यानि च । रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः ।। विभावा अनुभावाश्च कथ्यन्ते व्यभिचारिणः । व्यक्तः शतैर्विभावाद्यैः स्थायीभावो रसः स्मृतः ।।” इति। तत्र शृङ्गारो द्विविधः। सम्भोगो विप्रलम्भश्चेति। “संयुक्तयोस्तु सम्भागो विप्रलम्भो वियुक्तयोः” इत्युक्तेः। अस्य शृङ्गारादिसर्वरससंयुक्तत्वं प्रदर्श्यते। तत्र “रामस्तु सीतया सार्द्धम्” इत्यारभ्य सीतापहरणवृत्तान्तपर्य्यन्तेन सम्भोगो दर्शितः। ततःपरेण विप्रलम्भः। विकृताचारवाक्याङ्गविकारवेषैर्धूर्तप्रलापैश्च हास्यरसो व्यज्यते, स च शूर्पणखादिवृत्तान्तेन सुगमः। इष्टवियोगादनिष्टसम्बन्धाद्वा करुणः, स च दशरथादिवृत्तान्ते। व्यवसायाविषादासम्मोहादिभिर्वीरः, यथा लक्ष्मणादिवृत्तान्ते। पाटनताडनादिभी रौद्रः, यथा रावणादिवृत्तान्ते। विकृतक्रूरदर्शनादिभिर्भयानकः, यथा मारीचादिवृत्तान्ते। कुत्सितदर्शनादिभिर्बीभत्सः, यथा विराधकबन्धादिवृत्तान्ते। विचित्रशिल्पवाक्यादिभिरद्भुतः, यथा रामरावणयुद्धादिषु। शान्तरसः श्रमणीवृत्तान्तादौ। अलं विस्तरेण। अत्र केचित् “शोकः श्लोकत्वमागतः” इत्युक्त्याऽस्मिन्प्रबन्धे शोकरस एव प्राधान्येनोच्यते, अन्ये तदङ्गतयेत्याहुः। अन्ये तु वीर एव प्रधानभूतः “पौलस्त्यवधः” इति काव्यनामकरणात् इत्याहुः। वयं तु ब्रूमः शृङ्गार एव प्रधानरसः, “सीतायाश्चरितं महत्” इत्युक्तेः। तथोक्तम् “एको रसो भवेदङ्गी वीरशृङ्गारयोर्द्वयोः। अङ्गान्यन्ये रसाः सर्वे तस्य निर्वहणोद्यताः ।।” इति ।। 1.4.9 ।।
तौ तु गान्धर्वतत्त्वज्ञौ मूर्च्छनास्थानकोविदौ ।
भ्रातरौ स्वरसम्पन्नौ गन्धर्वाविव रूपिणौ ।। 1.4.10 ।।
रूपलक्षणसम्पन्नौ मधुरस्वरभाषिणौ ।
बिम्बादिवोत्थितौ बिम्बौ रामदेहात्तथापरौ ।। 1.4.11 ।।
अथ कुशलवयोर्गानसामर्थ्यमाह तौ त्वित्यादिश्लोकद्वयेन । अस्यागायतामिति पूर्वेण सम्बन्धः । गान्धर्वं गानशास्त्रम् । “गान्धर्वं गानशासनम्” इति वैजयन्ती । तस्य तत्त्वं तात्पर्यार्थः, तत् जानीत इति गान्धर्वतत्त्वज्ञौ । मूर्छना वीणादिवादनम् । “वादने मूर्छनानना” इति वैजयन्ती । स्थानानि मन्द्रमध्यताररूपस्वरत्रयोत्पत्तिस्थानानि । यथोक्तं शाण्डिल्येन “यदूर्ध्वं हृदयग्रन्थेः कपालफलकादधः । प्राणसञ्चरणस्थानं स्थानमित्यभिधीयते । उरः कण्ठश्शिरश्चेति तत्स्वरास्त्रिविधाः स्मृताः । मन्द्रं मध्यं च
तारं च नाम तेषां यथाक्रमम् ।।” इति तेषु कोविदौ तद्विषयसमीचीनज्ञानयुक्तौ, एतेन गानशास्त्रज्ञानतदनुगुणवीणादिवादनतदनुगुणोच्चारणनिपुणाविति दर्शितम्। भ्रातरावित्यनेन श्राव्यताहेतुसमस्वरत्वमुक्तम्। स्वरसम्पन्नौ शारीरसंयुक्तौ, अत एव रूपिणौ मनुष्यवेषधारिणौ गन्धर्वाविव स्थितौ। रूपलक्षणसम्पन्नौ नाटकलक्षणज्ञौ। गत्यर्था ज्ञानार्थाः। “रूपं स्वभावे शुक्लादौ सौन्दर्ये नाटके पशौ” इति भास्करः। गानकालिकाभिनयप्रकारज्ञावित्यर्थः। मधुरस्वरं यथा भवति तथा भाषितुं शीलमनयोरिति मधुरस्वरभाषिणौ। ताच्छील्ये णिनिः। केवलभाषणकालेऽपि मधुरस्वरौ, किमुत गानकाल इति भावः। उक्तसकलगुणसम्पत्तिमूलं रामपुत्रत्वमाह बिम्बादिति। रामदेहरूपात् बिम्बात् तथा उत्थितौ उद्भूतौ बिम्बौ प्रतिबिम्बाविव स्थितौ। यद्वा प्रतिमानिर्माणार्थं चातुर्येण निर्मिता प्रतिकृतिर्बिम्बः, रामदेहाख्यात् तस्मात् तथा उत्थितौ उत्कीर्णौ अपरौ बिम्बाविव स्थितौ। “प्रतिबिम्बे तत्कृतौ च प्रतिकृत्यां च मण्डले। लाञ्छनेऽपि च बिम्बोऽस्त्री” इति भास्करः। एवम्भूतौ। कुशलवावेतत्काव्यमगायतामिति सम्बन्धः ।। 1.4.10,11 ।।
तौ राजपुत्रौ कार्त्स्न्येन धर्म्यमाख्यानमुत्तमम् ।
वाचोविधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ ।। 1.4.12 ।।
ऋषीणां च द्विजातीनां साधूनां च समागमे ।
यथोपदेशं तत्त्वज्ञौ जगतुस्तौ समाहितौ ।
महात्मानौ महाभागौ सर्वलक्षणलक्षितौ ।। 1.4.13 ।।
न केवलं तस्याध्ययनं धारणं प्रकाशनं च कृतमित्याह तावित्यादि सार्द्धश्लोकद्वयमेकान्वयम् । क्रियाभेदात्तच्छब्दावृत्तिः । यद्वा राजपुत्रौ सन्तौ तौ मुनिपुत्रौ, मुनिपुत्रवेषधरावित्यर्थः । अनिन्दितौ यथोपदेशं गानेन निन्दानर्हौ । यथोपदेशं गुरूपदेशमनतिक्रम्य तत्त्वज्ञौ पाठशुद्धिज्ञौ । समाहितौ सावधानौ, कुत्राप्यंशे विस्मृतिरहितावित्यर्थः । महात्मानौ महाबुद्धी । महाभागौ एतादृशगुणहेतुभूतमहाभाग्यौ । “भागा भाग्यांशतुल्यांशाः” इति वैजयन्ती । सर्वलक्षणलक्षितौ लक्षितसर्वलक्षणौ, ज्ञातसर्वशब्दलक्षणावित्यर्थः । तौ कुशलवौ कार्त्स्न्येन धर्म्यं धार्मादनपेतम् उत्तममाख्यानं पुरावृत्तकथनरूपं तद्रामायणाख्यं सर्वं काव्यं वाचोविधेयम् आवृत्तिबाहुल्येन वाग्वशवर्ति कृत्वा, ऋषीणां च साधूनां द्विजातीनां च समागमे सदसि जगतुः ।। 1.4.12,13 ।।
तौ कदाचित्समेतानामृषीणां भावितात्मनाम् ।
आसीनानां समीपस्थाविदं काव्यमगायताम् ।। 1.4.14 ।।
अथ तस्य काव्यस्य महाजनपरिगृहीतत्वं दर्शयितुमाह तावित्यादि । तौ कुशलवौ कदाचित् रामाश्वमेधकाले । भावितात्मनां निश्चितधियाम् । समेतानाम् अश्वमेधे सम्मिलितानाम् । आसीनानां
क्रियाकलापावसाने सुखमासीनानाम् ऋषीणां समीपस्थौ सन्तौ इदं काव्यमगायताम् ।। 1.4.14 ।।
तच्छ्रुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः ।
साधु साध्विति तावूचुः परं विस्मयमागताः ।। 1.4.15 ।।
सामान्यतः काव्यप्रशंसामाह तदिति । तत्काव्यं श्रुत्वा परं विस्मयमागताः बाष्पपर्याकुलेक्षणाः सर्वे मुनयस्तौ साधु साध्विति ऊचुः, प्रशशंसुरित्यर्थः ।। 1.4.15 ।।
ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः ।
प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ ।। 1.4.16 ।।
गातृप्रशंसामाह त इति । धर्मवत्सलाः, निर्मत्सरा इत्यर्थः । ते सर्वे मुनयः प्रीतमनसः सन्तः गायमानौ अत एव प्रशस्तव्यौ प्रशंसितुमर्हौ कुशलवौ प्रशशंसुः ।। 1.4.16 ।।
अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः ।
चिरनिर्वृत्तमप्येतत्प्रत्यक्षमिव दर्शितम् ।। 1.4.17 ।।
काव्यप्रशंसाप्रकारमाह अहो इति । गीतस्य गानस्य माधुर्यमहो आश्चर्यम् । श्लोकानां तु माधुर्यं विशेषतः अहो आश्चर्यम्, गानतो ऽपि श्लोकमाधुर्यम् अतिशयितमित्यर्थः । तमेव विशेषमाह चिरेति । एतत्काव्यप्रतिपाद्यं कथाशरीरं चिरनिर्वृत्तमपि बहुकालान्निष्पन्नमपि, प्रत्यक्षमिव प्रत्यक्षतयानुभूयमानमिव, दर्शितम् अनेन काव्येन बोधितम् । पाकविशेषात्सद्यः सर्वार्थं विशदतरमवगमयतीदं काव्यमित्यर्थः ।। 1.4.17 ।।
प्रविश्य तावुभौ सुष्ठु तदा भावमगायताम् ।
सहितौ मधुरं रक्तं सम्पन्नं स्वरसम्पदा ।। 1.4.18 ।।
गातृप्रशंसाप्रकारमाह प्रविश्येति । सहितौ समलयादियुक्तावित्यर्थः । तावुभौ कुशीलवौ । तदा मुनिजनश्रवणकाले, भावं सुष्ठु प्रविश्य, रतिहासादिभावो यथा प्रकाशितो भवति तथावगाह्येत्यर्थः । स्वरसम्पदा षड्जादिस्वरसम्पदा सम्पन्नम् अत एव मधुरं रमणीयं रक्तं रागयुक्तं च यथा भवति तथा अगायताम् ।। 1.4.18 ।।
एवं प्रशस्यमानौ तौ तपःश्लाघ्यैर्महात्मभिः ।
संरक्ततरमत्यर्थं मधुरं तावगायताम् ।। 1.4.19 ।।
प्रशंसाजनितोत्साहौ पुनरतिशयेनागायतामित्याह एवमिति । तपःश्लाघ्यैः श्लाघ्यतपस्कैः, अनसूयकैरिति यावत् । महात्मभिः महाबुद्धिभिः, विशेषज्ञैरिति भावः । तादृशैरेवमुक्तरीत्या प्रशस्यमानौ श्लाघ्यमानौ तौ संरक्ततरम् अतिशयेन समीचीनरागयुक्तम् अत्यर्थं भृशं मधुरं च यथा भवति तथा तावगायताम् । क्रियाभेदात्तच्छब्दावृत्तिः ।। 1.4.19 ।।
प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ ।
प्रसन्नो वल्कले कश्चिद्ददौ ताभ्यां महायशाः ।। 1.4.20 ।।
अथ प्रीतिकारितयथोचितपारितोषिकप्रदानमाह प्रीत इति । संस्थितः उत्थितः । “संस्था स्थितौ
व्यवस्थायाम्” इति भास्करः । कलशं जलाहरणपात्रम्, प्रीत्यतिशयेनोत्थाय ददावित्यर्थः । महायशाः गानशास्त्रविषयकीर्तिमान्, गीतितारतम्यज्ञ इत्यर्थः ।। 1.4.20 ।।
आश्चर्यमिदमाख्यानं मुनिना सम्प्रकीर्तितम् ।
परं कवीनामाधारं समाप्तं च यथाक्रमम् ।। 1.4.21 ।।
एवं मुनिजनप्रशंसामुक्त्वा तदितरसकलजनप्रशंसामाह आश्चर्यमित्यादिना, श्लोकत्रयमेकं वाक्यम् । आख्यानं प्रबन्धविशेषः । “कथा त्वाख्यायिकाख्यानम्” इति यादवः । इतिहास इत्यर्थः । मुनिना वाल्मीकिना सम्प्रकीर्तितं सम्यक् लक्षणवत्तया प्रकर्षेण विस्तरेण कीर्तितं कथितम् । कवीनां परमाधारम् “काव्यं काव्यस्य लक्षणम्” इत्युक्तरीत्या कवीनां काव्यनिर्माणमूलमित्यर्थः । यथाक्रमं क्रममनतिक्रम्य समाप्तम्, मध्ये ऽविच्छिन्नमित्यर्थः । यथाकृतमिति पाठे यथा कर्तुमारब्धं तथा समाप्तमित्यर्थः । इदमाश्चर्यमाश्चर्यावहमित्यर्थः ।। 1.4.21 ।।
अभिगीतमिदं गीतं सर्वगीतेषु कोविदौ ।
आयुष्यं पुष्टिजनकं सर्वश्रुतिमनोहरम् ।। 1.4.22 ।।
प्रबन्धं प्रशस्य गातारौ प्रशंसति अभिगीतमिति । हे सर्वगीतेषु कोविदौ समर्थौ युवाभ्याम् आयुष्यं आयुर्वर्द्धकम्, पुष्टिजनकं सत्यपि आयुषि कार्श्ये तस्याकिञ्चित्करत्वात् पुष्टिकरम्, सर्वाभिः श्रुतिभिः स्वरारम्भकावयवैर्मनोहरम् । तदुक्तम् “प्रथमश्रवणाच्छब्दः श्रूयते यः स्वमात्रतः । सा श्रुतिः सम्परिज्ञेया स्वरावयवलक्षणा ।।” इति। इदं गीतम् अभिगीतं शोभनं गीतम्। अभिः पूजायाम्। यद्वा इदं गीतं सर्वगीतेषु अभिगीतमित्यन्वयः ।। 1.4.22 ।।
प्रशस्यमानौ सर्वत्र कदाचित्तत्र गायकौ ।
रथ्यासु राजमार्गेषु ददर्श भरताग्रजः ।। 1.4.23 ।।
प्रशस्यमानाविति । अस्यादावितिशब्दो ऽध्याहार्यः । तत्र यज्ञवाटे रथ्यासु राजमार्गेषु च सर्वत्रेत्थं प्रशस्यमानौ तौ कदाचिद्भरताग्रजो रामो ददर्श, भरतमुखेन ददर्शेत्यर्थः ।। 1.4.23 ।।
स्ववेश्म चानीय ततो भ्रातरौ च कुशीलवौ ।
पूजयामास पूजार्हौ रामः शत्रुनिबर्हणः ।। 1.4.24 ।।
स्वेति । ततो दर्शनानन्तरं शत्रुनिबर्हणो रामः पूजार्हौ स्वप्रबन्धगातृत्वेन श्लाघार्हौ भ्रातरौ कुशीलवौ । तुल्यवयोरूपादिमत्त्वेनाश्चर्यकरौ । स्ववेश्म स्वशालागृहमानीय । नयतिर्द्विकर्मकः । पूजयामास श्लाघयामास ।। 1.4.24 ।।
आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः ।
उपोपविष्टः सचिवैर्भ्रातृभिश्च परन्तपः ।। 1.4.25 ।।
दृष्ट्वा तु रूपसम्पन्नौ तावुभौ नियतस्तदा ।
उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा ।। 1.4.26 ।।
अथास्य प्रबन्धस्य प्रबन्धनायकभूतमहापुरुषपरिग्रहमाह आसीन इत्यादिना, द्वयोरेकान्वयः । प्रभुः स्वामी । तदनुरूपतया काञ्चने सौवर्णे दिव्ये स्वर्गाद्दशरथेनानीते सिंहासने आसीनः । सचिवैः
मन्त्रिभिर्भ्रातृभिश्च उपोपविष्टः, परिवृत इत्यर्थः । “प्रसमुपोदः पादपूरणे” इति द्विरुक्तिः । परं शत्रुं तापयतीति परन्तपः । “द्विषत्परयोस्तापेः” इति खच् । “खचि ह्रस्वः” इत्युपधाह्रस्वः । “अरुर्द्विषदजन्तस्य मुम्” इति मुमागमः । अनेन व्यासङ्गरहितत्वं सूचितम् । नियतः अश्वमेधे दीक्षितः स रामः रूपसम्पन्नौ भ्रातरौ दृष्ट्वा लक्ष्मणादीनुवाच ।। 1.4.25,26 ।।
श्रूयतामिदमाख्यानमनयोर्देववर्चसोः ।
विचित्रार्थपदं सम्यग्गायिनौ तावचोदयत् ।। 1.4.27 ।।
श्रूयतामिति । देववर्चसोः देवतुल्यतेजसोः, रूपसम्पत्तिरपि गीतिरस्यतासामग्रीति भावः । अनयोः कुशीलवयोः सम्बन्धि विचित्रार्थपदम् । इदमाख्यानं श्रूयतामित्युक्त्वेत्युपस्कार्यम् । सम्यग्गायिनौ तावचोदयत्, गानाय प्रेरयामासेत्यर्थः ।। 1.4.27 ।।
तौ चापि मधुरं रक्तं स्वञ्चितायतनिःस्वनम् ।
तन्त्रीलयवदत्यर्थं विश्रुतार्थमगायताम् ।। 1.4.28 ।।
ताविति । सर्वाणि क्रियाविशेषणानि । मधुरं पाठतो गानतश्च मनोहरम् । रक्तं रागवत् । स्वञ्चितः सुतरां पूजितः आयतो दीर्घः निस्वन आलापो यस्मिन् । तन्त्रीलयवत् तन्त्र्यारोपलयाभ्यां युक्तमत्यर्थं भृशं विश्रुतार्थं विस्पष्टार्थम् ।। 1.4.28 ।।
ह्लादयत् सर्वगात्राणि मनांसि हृदयानि च ।
श्रोत्राश्रयसुखं गेयं तद्बभौ जनसंसदि ।। 1.4.29 ।।
ह्लादयदिति । सर्वगात्राणि सर्वावयवान् हृदयानि गात्रान्तरवर्तीनि मनोधिष्ठानानि मनांसि च ह्लादयत् सुखयत् । श्रोत्राश्रयसुखम् श्रोत्रं कर्णशष्कुली, तदाश्रयं श्रोत्रेन्द्रियं तत्सुखं तत्सुखकरम् । तत्कुशलवकृतं गेयं गानम् । भावे यत् । जनसंसदि सभायाम् । जनशब्दो मण्डपव्यावृत्त्यर्थः । बभौ प्रचकाशे, अजृम्भतेत्यर्थः ।। 1.4.29 ।।
इमौ मुनी पार्थिवलक्षणान्वितौ कुशीलवौ चैव महातपस्विनौ ।
ममापि तद् भूतिकरं प्रवक्ष्यते महानुभावं चरितं निबोधत ।। 1.4.30 ।।
उक्तमेवार्थं वृत्तान्तरेण सर्गान्ते सङ्गृह्णाति इमावित्यादिश्लोकद्वयेन । इमौ मुनिवेषावपि पार्थिवलक्षणान्वितौ । कुशीलवावपि गायकावपि महातपस्विनौ महान्तौ तपस्विनौ भवतः । तत्तस्मात् ममापि प्रियाविरहकृशस्यापि, भूतिकरं श्रेयस्करम्, धारकमित्यर्थः । महाननुभावो यस्य तत् महानुभावं चरितम् सीताचरित्रमित्यर्थः । प्रवक्ष्यते आभ्यां व्यक्तं पठिष्यते, तन्निबोधत तच्छृणुतेत्यर्थः । अत्र पौराणिकाः वक्तारौ महात्मानौ वक्ष्यमाणं च मच्चरितं महानुभावम् अतस्तन्निबोधतेत्याहुः । एवं ह्यात्मप्रशंसा स्यात् सा च न युक्ता, अयं हि रामो धीरोदात्तः । तस्य चाविकत्थन इति लक्षणम् । तस्य च स्वविषयप्रबन्धश्रवणं महानुभावत्वोक्तिश्च न कथमप्युपपन्नम् । लोके हि क्षुद्रो ऽपि कश्चित्स्वविषयप्रबन्धश्रवणे लज्जते । अतो ऽन्यथा योजयन्त्याचार्याः नायं प्रबन्धो रामचरित्रपरः, किन्तु सीताचरित्रपरः ‘सीतायाश्चरितं महत्’ इति पूर्वमुक्तत्वात् । “श्रीमद्रामायणमपि परं प्राणिति त्वच्चरित्रे” इत्यभियुक्तवचनात् । स्त्रीप्रसङ्ग इत्याभाणकश्च । तद्विषयस्तु प्रबन्धो रामेण श्राव्य एव । विरहिणो हि कान्ताचरित्रगाथाः शृण्वन्ति श्रावयन्ति च । अत एव ‘ममापि भूतिकरम्’ इत्युक्तम् । विरहिणो ऽपि मे
सत्ताप्रदमित्यर्थः । यद्वा “अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा” इत्युक्तरीत्या ममाप्यतिशयावहमित्यर्थः । महानुभावमित्यस्य च प्रणयिन्यसन्निधानदशायामपि धारकमित्यर्थः । यद्वा महानुभावम् “लघुतरा रामस्य गोष्ठी कृता” इत्युक्तरीत्या स्वविषये निरवधिकापराधकारिराक्षसीरक्षणेन स्वस्मादप्यतिशयितवैभवमित्यर्थः । यद्वा “दोषो यद्यपि तस्य स्यात्सतामेतदगर्हितम्” इति मयोक्तम् । अनया तु “न कश्चिन्नापराध्यति” इति । अतो मत्तो ऽप्युत्कृष्टचरितमित्यर्थः । यद्वा स्वचरणे निगडं बद्ध्वा देवस्त्रीचरणनिगडविच्छेदकारितया मत्तो ऽप्याश्रितरक्षणे ऽतिशयितत्वरायुक्तमित्यर्थः । यद्वा पितृत्वप्रयुक्तहितपरतया मयि सापराधविषये कलुषधियि मातृत्वप्रयुक्तवात्सल्येन मामपि क्षमापयन्त्याश्चरितत्वेन महानुभावमित्यर्थः ।। 1.4.30 ।।
ततस्तु तौ रामवचः प्रचोदितावगायतां मार्गविधानसम्पदा ।
स चापि रामः परिषद्गतः शनैर्बुभूषयासक्तमना बभूव ह ।। 1.4.31 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्थः सर्गः ।। 4 ।।
तत इति । ततः श्रोतृप्रोत्साहनानन्तरं रामस्य वचसा प्रचोदितौ न तु चेष्टयेत्यादरातिशयोक्तिः । तौ कुशीलवौ । मार्गविधानसम्पदा देशी मार्गश्चेति द्वौ गानप्रकारौ । तत्र मार्गः सार्वत्रिकः, देशी क्वाचित्कः । तयोर्मध्ये मार्गनिर्वाहसामग्र्या अगायताम् । स रामो ऽपि शनैः परिषद्गतः झटित्युत्थाय गमने परिषदो ऽप्युत्थानाद्रसभङ्गो भविष्यतीति मन्दं मन्दं सिंहासनादवतीर्य परिषदं प्राप्तः । “एकः स्वादु न भुञ्जीत” इति न्यायादुन्नतसिंहासनावस्थानेन स्वात्मानमेकाकिनं मन्यमानः सभामध्यगतः । बुभूषया अनुबुभूषया, श्रोत्रसुखानुभवेच्छयेत्यर्थः । यद्वा बुभूषया भवितुमिच्छया, कान्ताकथाश्रवणेन स्वसत्तालाभेच्छयेत्यर्थः । सक्तमनाः गानश्रवणासक्तचित्तः बभूव ह । स्वशिष्योक्तप्रबन्धश्रवणे रामः स्वयमेव सादरं प्रसक्त इति मुनिस्तुष्यति । अत्र श्लोकद्वये वंशस्थवृत्तम् । “जतौ तु वंशस्थमुदीरितं जरौ” इति लक्षणात् ।। 1.4.31 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने चतुर्थः सर्गः ।। 4 ।।
इदं च तपःस्वाध्यायेत्यारभ्य सर्गचतुष्टयं महत्परिग्रहसिद्धये उक्तवैलक्षण्यत्रयप्रतिपादनपरत्वेन प्रबन्धोपोद्घातत्वात् श्रीरामायणान्तर्गतं कथाशरीरानुप्रविष्टप्रस्तावनाग्रन्थवत् । ननु रामायणनिर्माणानन्तरभाविनः कथाशरीरस्यास्य कथं तत्पूर्वभावः ? इति चेत् न अनन्तरभावित्वे ऽपि त्रिकालज्ञेन महर्षिणा प्रथमं तन्निर्माणसम्भवात् । नन्वात्मप्रशंसापरमिदं सर्गत्रयं कथमृषिः स्वयमेष वक्तुमर्हति ? इति चेत् न अन्यापरिज्ञातस्यैतस्य वृत्तान्तस्य प्रेक्षावत्प्रवृत्त्यर्थमादाववश्यं वक्तव्यत्वात् । यद्वा सर्गत्रयमिदं केनचित् वाल्मीकिशिष्येण रामायणनिर्वृत्त्यनन्तरं निर्माय वैभवप्रकटनाय सङ्गमितम्, यथा याज्ञवल्क्यस्मृत्यादौ तथैव तत्र विज्ञानेश्वरेण व्याकृतम् । नन्वेतस्य सर्गत्रयस्य रामायणादित्वे कुशलवाभ्यां एतद्गाने प्रथमं क्रियमाणे तौ रामेणादावेव स्वपुत्राविति परिज्ञातौ स्याताम्, तथा च तदैव सीतानयनापत्तिः । “बिम्बादिवोत्थितौ बिम्बौ रामदेहात्तथापरौ । तौ राजपुत्रौ” इत्यादिना हि रामपुत्रत्वमनयोः सूच्यते । तस्मादिदमसङ्गतमिति चेन्न सीतापुत्रत्वादेरत्राकथनात् । रामसादृश्यमात्रस्य राजपुत्रान्तरेष्वपि सम्भवात् । अयं च प्रबन्धो वेदोपबृंहणरूपो वेदान्तार्थमुपबृंहयति । “प्रायेण पूर्वभागार्थो धर्मशास्त्रेण कथ्यते । इतिहासपुराणाभ्यां वेदान्तार्थः प्रकाश्यते” इति वचनात् । तत्र “यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्म” इति श्रुतम् । तत्किं जगज्जन्मादिकारणं ब्रह्म विष्णुः उत ब्रह्मरुद्रादिष्वन्यतमः ? इत्यपेक्षायां
रामत्वेनावतीर्णो विष्णुरेव वेदान्तवेद्यं परब्रह्मेत्युच्यते । “उपक्रमोपसंहारावभ्यासो ऽपूर्वताफलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ।।” इत्युक्तषड्विधतात्पर्यलिङ्गसम्भवात्। तथाहि, उपक्रमे तावत् “कोन्वस्मिन्” इत्यादिना वेदान्तोदितसकलगुणसम्पन्नः किं विष्णुरुतान्यो ब्रह्मादिष्वन्यतम इति वाल्मीकिना पृष्टे “इक्ष्वाकुवंशप्रभवो रामः” इत्यादिना रामत्वेनावतीर्णो विष्णुरेवेति नारदेनोक्तम्। उपसंहारे च चतुर्मुखः प्राह “तवाहं पूर्वके भावे पुत्रः परपुरञ्जय। सङ्क्षिप्य च पुरा लोकान् मायया स्वयमेव हि ।। महार्णवे शयानो ऽप्सु मां त्वं पूर्वमजीजनः । पद्मे दिव्ये ऽर्कसङ्काशे नाभ्यामुत्पाद्य मामपि । प्राजापत्यं त्वया कर्म मयि सर्वं निवेशितम् ।।” इत्यादिना सर्वजगत्कारणप्रजापतिजनकत्वेन सकलजगत्कारणं ब्रह्म विष्णुरेवेत्युक्तम्। अभ्यासश्च तस्यैव दृश्यते। बालकाण्डे “एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः। शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः ।।” इति जगत्कारणत्वमुक्तम् । तत उत्तरत्र देवाः “त्वं गतिः परमा देव सर्वेषां नः परन्तप ।” इत्याहुः, तेन परत्वासाधारणं सर्वशरण्यत्वमुक्तम् । तत उत्तरत्र “ततो देवर्षिगन्धर्वाः सरुद्राः साप्सरोगणाः । स्तुतिभिर्दिव्यरूपाभिस्तुष्टुवुर्मधुसूदनम् ।।” इति सर्वस्तुत्यत्वमुक्तम्। ततो विश्वामित्रः “अहं वेद्मि महात्मानं रामं सत्यपराक्रमम्। वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिताः ।।” इति । “वेदाहमेतं पुरुषं महान्तम् । तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा नाशकेन” इति श्रुत्युक्तरीत्या महापुरुषत्वं तपोबलं विना तस्य दुर्ज्ञेयत्वं चाह । सीताविवाहे वसिष्ठो ऽपि “अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः । तस्मान्मरीचिः सञ्जज्ञे मरीचेः काश्यपः सुतः ।।” इति सर्वमूलकारणत्वं प्राचीकशत्। परशुरामोऽपि “अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तदा ।।” इति सर्वाधिकत्वं निदर्शितवान् । अयोध्याकाण्डे “स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः । अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ।।” इति सनातनत्वमुक्तम्। उत्तरत्र “आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः।” इत्याकाशशब्देन स्वयम्प्रकाशत्वं व्यापकत्वं चाह। आरण्यकाण्डे मारीचेन “अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा” इति परिच्छेदातीतमहिमत्त्वमुक्तम्। किष्किन्धाकाण्डे तारावचनम् “त्वमप्रमेयश्च दुरासदश्च जितेन्द्रियश्चोत्तमधार्मिकश्च। अक्षय्यकीर्तिश्च विचक्षणश्च क्षितिक्षमावान् क्षतजोपमाक्षः ।। निवासवृक्षः साधूनामापन्नानां परा गतिः । आर्त्तानां संश्रयश्चैव यशसश्चैकभाजनम् ।। ज्ञानविज्ञानसम्पन्नो निदेशे निरतः पितुः । धातूनामिव शैलेन्द्रो गुणानामाकरो महान् ।।” इति। अनेन च ज्ञानानन्दादिसमस्तकल्याणगुणाकरत्वमुक्तम्। सुन्दरकाण्डे “ब्रह्मा स्वयम्भूश्चतुराननो वा रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा। इन्द्रो महेन्द्रः सुरनायको वा त्रातुं न शक्ता युधि रामवध्यम् ।।” इति सर्वसंहर्तृत्वं द्योतितम् । उत्तरत्र “किं वैष्णवं वा कपिरूपमेत्य रक्षोविनाशाय परं सुतेजः । अनन्तमव्यक्तमचिन्त्यरूपं स्वमायया साम्प्रतमागतं वा ।।” द्वितीयो वाकारोऽवधारणार्थः। अनेनानन्तरूपत्वमुक्तम्। युद्धकाण्डे विष्णुरेव कथं जगत्कारणम् ? अन्येषामपि “हिरण्यगर्भस्समवर्तताग्रे” “यदा तमस्तन्न दिवा न रात्रिर्न सन्न चासच्छिव एव केवलः।” “इन्द्रो मायाभिः पुरुरूप ईयते” इत्यादिना तत्त्वश्रवणात् इत्याशङ्क्य तेभ्यः सर्वेभ्यः श्रेष्ठत्वप्रतिपादनाद्धिरण्यगर्भशिवेन्द्रादिशब्दाः सद्ब्रह्मात्मशब्दवद्विष्णुपरा एवेत्याशयेनोच्यते “व्यक्तमेष महायोगी परमात्मा सनातनः। अनादिमध्यनिधनो महतः परमो महान् ।। तमसः परमो धाता शङ्खचक्रगदाधरः । श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः ।।” इति। अनेन च परमात्मत्वश्रियःपतित्वादिकमुक्तम्। उत्तरत्र ब्रह्मा “भवान्नारायणो देवः श्रीमांश्चक्रायुधो विभुः। एकशृङ्गो वराहस्त्वं भूतभव्यसपत्नजित् ।।” इत्यादि । अनेन तस्य नारायणशब्दवाच्यत्वमुक्तम् । अपूर्वता च प्रमाणान्तराप्राप्तिः, न हि परतत्त्वस्य विष्णुत्वं प्रमाणान्तरादवगन्तुं शक्यम् । फलं च
भगवत्सालोक्यादिकमित्यन्ते सुव्यक्तम् । अर्थवादोपपत्ती च बालकाण्डे दर्शिते । “इमे द्वे धनुषी श्रेष्ठे” इत्यादिनार्थवादमुक्त्वा “जृम्भितं तद्धनुर्दृष्ट्वा शैवं विष्णुपराक्रमैः । अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तदा ।।” इत्यादिना ब्रह्मप्रमुखैस्सर्षिगणैर्देवैर्मीमांसापूर्वकं विष्णुरुद्रयोर्मध्ये विष्णोराधिक्यनिर्णयोक्तेरुपपत्तिरुक्ता। न च वाच्यम् “मेनिरे” इति वचनात् “महाशूरतरस्तथा” इति वरदानकृतमिदमाधिक्यमिति। तथात्वे तस्य रोषानुपपत्तेः। “धनू रुद्रस्य सङ्क्रुद्धः” इति ह्युक्तम्। किं चागस्त्याश्रमे “स तत्र ब्रह्मणः स्थानं विष्णोः स्थानं तथैव च। अग्नेः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः। सोमस्थानं भगस्थानं स्थानं कौबेरमेव च ।।” इत्यादिना ब्रह्मादीनाम् अगस्त्योपास्यत्वमुक्त्वा रुद्रस्य तदकथनादपूज्यत्वमुच्यते । न चेमान्यगस्त्यपूजकब्रह्मादिस्थानानीति वाच्यम्, असम्भवात् । “अत्र देवाः सगन्धर्वास्सिद्धाश्च परमर्षयः । अगस्त्यं नियताहारं सततं पर्युपासते ।।” इति वचनं ब्रह्मादिव्यतिरिक्तकेवलदेवविषयम्। किञ्च यथा गृहस्थस्य गृहे देवगृहसत्त्वे गृहस्थस्यैव पूजकत्वं स्वरसतः प्रतीयते, एवमेवात्रापि नापलापावकाशः। किञ्च दक्षयज्ञवधे “यस्माद्भागार्थिनो भागः कल्पितो नैव मे सुराः। वराङ्गानि महार्हाणि धनुषा शातयामि वः ।।” इति रुद्रस्य यज्ञभागाकल्पनादपूज्यत्वादत्र तस्य स्थानानिर्देशः । ननु यदि विष्णुः परा देवता कथं तर्हि तस्य रामत्वेन जन्म ? इति चेन्न “अजायमानो बहुधा विजायते” इत्युक्तरीत्या लोकानुजिघृक्षाकृतं तदिति चोद्यानवकाशात् । मोक्षप्रदत्वं च परदेवतासाधारणम् । अत्रोच्यते “या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः । अपरावर्तिनां या च या च भूमिप्रदायिनाम् । मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान् ।।” इति अत्रापरावर्तित्वं पुनरावृत्तिशून्यत्वम्, मुक्तिरिति यावत्। “न च पुनरावर्तते” इति श्रुतेः। न च रणादपलायनमुच्यत इति वक्तुं शक्यते, तस्य स्वतः सिद्धत्वेन तत्फलस्याननुग्राह्यत्वात्। तथा च यज्ञादिफलावधिभूतां मुक्तिं प्राप्नुहीत्यर्थः। अत एव नृसिंहपुराणे “मत्कृते निधनं यस्मात्त्वया प्राप्तं द्विजोत्तम। तस्मात्त्वं मत्प्रसादेन विष्णुलोकमवाप्स्यसि” इति। एवमुपक्रमादिषड्विधतात्पर्यलिङ्गैर्वेदान्तवेद्यं परतत्त्वं विष्णुरेवेति श्रीरामायणेनोपबृंह्यते। एवमेवान्ते ब्रह्माप्याह “अस्याः परिषदो मध्ये यद्ब्रवीमि निबोध तत्। एतदेव हि काव्यं ते काव्यानामुत्तमं श्रुतम् ।। सर्वं विस्तरतो राजन् व्याख्यास्यति न संशयः । आदिकाव्यमिदं राम त्वयि सर्वं प्रतिष्ठितम् । न ह्यन्यो ऽर्हति काव्यानां यशोभाग्राघवादृते ।।” इति। एवं स्थिते यत्केनचिन्नवीनेन जल्पितं व्यञ्जनावृत्त्या शिवपरं रामायणमिति तदपहास्यमेव, न ह्यन्योऽर्हतीति प्रतिषिद्धरुद्रस्य प्रतिपाद्यकोट्यन्तर्भाववचनस्य केवलबालिशप्रलपितत्वात्। यच्च रामेणादित्योपस्थानादिकं कृतं तत्सर्वं विश्वामित्राद्युपासनवन्मनुष्यभावनानुसारेणेति विज्ञेयम्। विशेषतश्च तत्र तत्र वक्ष्यामः। “श्रीविष्णोः प्रथमे काण्डे जगज्जननहेतुता। द्वितीये स्थितिहेतुत्वं तृतीये मोक्षदायिता। चतुर्थे गुणसम्पत्तिः पञ्चमे सर्वहन्तृता। षष्ठे वेदान्तवेद्यत्वं सप्तमे स्रष्टृहेतुता। एवं विष्णुः परं तत्त्वं रामात्मेति सुनिश्चितम् ।। श्रीशैलपूर्णाद्यतिशेखरेण श्रुतान् पुराष्टादशधा प्रभिन्नान् । रामायणार्थान् क्रमशः करोमि व्यक्ताञ्छठारातिगुरूपदिष्टान् ।।” गत एकोऽर्थः ।। 1 ।।
द्वितीयस्तु एवम्भूतं परतत्त्वं केन प्राप्यत इत्याकाङ्क्षायां तत्प्राप्त्युपायभूतां शरणागतिं “यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै । तँह देवमात्मबुद्धिप्रसादं मुमुक्षुर्वै शरणमहं प्रपद्ये” इति श्रुतिमुपबृंहयन् वाल्मीकिर्ह्यस्मिन् रामायणे उपक्रमप्रभृत्युपसंहारान्तमनेकाधिकारिफलविशेषादिप्रदर्शनमुखेनाखिलफलसाधनतया प्रतिपादयति । तथाहि उपक्रमे तावत् “एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः । शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः ।।” इति सर्वशेषी सर्वेश्वरो रक्षापेक्षाप्रतीक्षो रक्षणसमयो लब्ध इति समुद्भूतौज्ज्वल्यो
रक्षणोपकरणैः सह सन्नद्धो ऽभ्येत्य तस्थौ, तदा “देवगन्धर्वयक्षाश्च ततस्त्वां शरणं गताः” इति रावणवधरूपफलार्थं ब्रह्मरुद्रादिदेवगणशरणागतिरुक्ता । ततस्त्रिशङ्कुशुनःशेफादिवृत्तान्तेषु विश्वामित्रादिव्यापादविशेषानुदीर्य शरणागतरक्षणं परमो धर्मः समर्थकारुणिकविषया शरणागतिः फलाविनाभूतेति प्रदर्शितम् । ततश्च “स भ्रातुश्चरणौ गाढं निपीड्य रघुनन्दनः । सीतामुवाचातियशा राघवं च महाव्रतम् ।।” इति पुरुषकारपुरस्करणपुरःसरा शरणागतिः कार्येत्युदीरितम्। ततो भरतः “शेष्ये पुरस्ताच्छालाया यावन्मे न प्रसीदति” इति रामाभिषेकफलाय शरणवरणमकरोत्। अत्र रावणवधाय कृतदेवगणप्रपत्तिफलदानाय निर्गमनात् तदानीं रामस्स्वप्रतिनिधिभूतपादुकाप्रदानेन तत्सफलं कृत्वा पश्चात् देवगणमनोरथपूरणानन्तरमात्मानमभ्यषिञ्चत् अतो न शरणागतिवैफल्यं चोद्यम्। अथ दण्डकारण्यवासिभिर्विरोधिनिरसनाय शरणागतिरनुष्ठिता, “ते वयं भवता रक्ष्या भवद्विषयवासिनः। नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वर ।।” इति । अत्र कोसलजनपदवासिनामिव भगवद्विषयवास एव शरणागतिः । तदनन्तरं “स पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः । त्रीन् लोकान् सम्परिक्रम्य तमेव शरणं गतः ।। स तं निपतितं भूमौ शरण्यः शरणागतम् । वधार्हमपि काकुत्स्थः कृपया पर्यपालयत् ।।” इति काकवृत्तान्तेनाग्रतः पतनमेव शरणागतिरित्यदर्शि। तदनु सुग्रीववृत्तान्तेन “कृतापराधस्य हि ते नान्यत् पश्याम्यहं क्षमम्। अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात् ।।” इति शरणागतिरञ्जलिरूपोक्ता । अथ सीतावचनेन “मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता । वधं चानिच्छता घोरं त्वयासौ पुरुषर्षभः ।। विदितः स हि धर्मज्ञः शरणागतवत्सलः । तेन मैत्री भवतु ते यदि जीवितुमिच्छसि ।।” इत्यनेनानुकूल्यमेव शरणागतिरित्यबोधि। उपरि “सोऽहं परुषितस्तेन दासवच्चावमानितः। त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः ।।” इति विभीषणशरणागत्या विरोधिपरित्यागपूर्वकत्वमुक्तम् । “ततः सागरवेलायां दर्भानास्तीर्य राघवः । अञ्जलिं प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः ।।” इति रामशरणागत्या योग्यस्य नायोग्यतान्वेष्टव्या, अयोग्यस्य च न योग्यतेत्युक्तम्। अशुचिभूतलङ्कानिर्गतमात्र एव हि विभीषणश्शरणमवृणोत्। रामशरणागतेः फलाभावः समर्थकारुणिकविषयत्वाभावादित्याहुः। उत्तरत्र “अभियाचाम वैदेहीमेतद्धि मम रोचते। राघवाद्धि भयं घोरं राक्षसानामुपस्थितम् ।।” इति त्रिजटावचनानुमतिमात्रेण हनुमद्भयात् सर्वासां रक्षितत्वकथनादन्यविषये ऽन्येनापि कृता शरणागतिः फलवतीति निदर्शितम् । विभीषणशरणागत्यैव तत्सचिवानां रक्षणात् शरणागतसम्बन्धिनो ऽपि भगवत्कटाक्षपात्रभूता एवेति निरणायि । एवमन्यत्रापि द्रष्टव्यम् । एवमुपक्रमप्रभृत्योपसंहारात् प्रतिपादिता शरणागतिरेव सर्वफलप्रदा सैव मुक्तेरपि हेतुरित्युक्तम् । विशेषस्तु तत्र प्रकरणे प्रपञ्चयिष्यते ।। 2 ।।
अस्य चोपायस्य प्राप्यं भगवत्प्राप्तिपूर्वकं तत्कैङ्कर्यमेवेति रामायणेन प्रतिपाद्यते । तथाहि उपक्रमे देवजातीयशरणागते रामकैङ्कर्यं प्रधानफलमित्युच्यते, अप्सरःप्रभृतिष्ववतीर्य तैस्तदनुवर्तनोपदेशात् । रावणवधस्त्वानुषङ्गिकः । लक्ष्मणो ऽपि प्रपद्याह “अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते । भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते ।।” इति। तेन सर्वदेशसर्वकालसर्वावस्थोचितसर्वकैङ्कर्यफलमिति व्यञ्जितम्। भरतोऽपि रामकैङ्कर्यायैव तदभिषेकं प्रार्थ्य पादुकाविषयकैङ्कर्यक्रमेण मनीषितमलभत। दण्डकारण्यवासिनां शरणागतेरपि वाचिकादिरूपमेव कैङ्कर्यं फलमित्यवगम्यते। “ते तं सोममिवोद्यन्तं दृष्ट्वा वै धर्मचारिणः। मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन् दृढव्रताः ।।” इत्युक्तेः । सुग्रीवविभीषणादिप्रपत्तेरपि मुख्यं फलं कैङ्कर्यम् अन्यदानुषङ्गिकमिति स्पष्टम् “अथ हरिवरनाथः प्राप्य सङ्ग्रामकीर्तिं निशिचरपतिमाजौ
योजयित्वा श्रमेण । गगनमतिविशालं लङ्घयित्वार्कसूनुर्हरिवरगणमध्ये रामपार्श्वं जगाम ।।” “परित्यक्ता मया लङ्का मित्राणि च धनानि च। भवद्गतं मे राज्यं च जीवितं च सुखानि च ।।” इत्यादिना । एवं प्राणार्थिनः काकस्य प्राणप्रदानेन तत्प्रपत्तिः सफला । असत्प्रकृतेरस्य पुनरप्येवं दुरितप्रवृत्तिर्माभूदिति शिक्षणरूपानुग्रहायैकाक्षिनिरसनेनास्त्रं निवर्तयामास यथा परशुरामं प्रति प्रयुक्तमस्त्रं तस्मिन् प्रातिकूल्यान्निवृत्ते तन्मनीषितविरोधिसुकृतेषु प्रायुङ्क्त, यथा च समुद्रं प्रत्युपात्तमस्त्रं तस्मिन् सानुतापे शरणागते द्विषत्सु आश्रितानां पापकृत्या प्रवेशनन्यायेन तद्विरोध्यसुरेषु प्रयुयुजे । रामप्रपत्तिस्त्वाकिञ्चन्यानन्यगतित्वरूपाधिकाररहितेन कृतत्वादल्पज्ञाल्पशक्तिकविषयत्वाच्च विफलेति ध्येयम् । “समुद्रं राघवो राजा शरणं गन्तुमर्हति” इति विभीषणोक्तिस्तु स्वप्रपत्तेः फलदर्शनकृता । तस्मादनेन प्रकारेण शरणागतेर्देशकालाधिकारिफलनियमाभावे ऽपि विषयनियमो ऽस्तीत्युक्तम् । इयं च प्रपत्तिरस्मिन् प्रबन्धे प्रधानतया प्रतिपाद्यते । अत एव “श्रीरामायणं दीर्घशरणागतिः” इत्याभाणकः । तदुपयुक्ततयेतरेषामर्थानां प्रतिपादनम् । तथाहि, समर्थकारुणिकसुशीलविषयिणी शरणागतिः फलदायिनी । तत्र रौद्रधनुर्भङ्गपरशुरामजयसालभेदन समुद्रबन्धनादिभिरुक्तपरत्वप्रतिपादनैश्च सामर्थ्यं सर्वज्ञत्वादिकं चोक्तम् । सीतावियोगकालिकवृत्तान्तविशेषैः परमकारुणिकत्वम्, गुहशबरीसुग्रीवादिभिर्नीरन्ध्रसंश्लेषेण सौशील्यम्, विश्वामित्राध्वरत्राणदण्डकारण्यवासिमुनिजनरक्षणरावणबाधितेन्द्रादिसकलदेवगणपरिपालनैः निजजनपदजनानामात्मसौन्दर्यशीलादिभिः प्रीतिमुत्पाद्य स्वपदप्राप्तिरूपसाक्षादवतारप्रयोजनभूतमोक्षप्रदानैश्च सर्वरक्षकत्वम्, अतः समर्थपरमकारुणिकसुशीलभगवत्प्रपत्तेः सकलफलसाधनत्वे ऽपि अधिकारिविशेषानुष्ठितायास्तस्या भगवत्प्राप्तिपूर्वकतत्कैङ्कर्यरूपमोक्ष एव मुख्यं फलम्, आनुषङ्गिकं फलान्तरमिति सुस्पष्टम् । एवं सर्वत्र द्रष्टव्यम् ।। 3 ।।
इयं च प्रपत्तिः पुरुषकारेण विना न फलाय भवतीत्यर्थो ऽस्मिन्प्रबन्धे प्रधानतया प्रतिपाद्यते । “सीतायाश्चरितं महत्” इति ह्युक्तम् । तस्याश्च विश्लेषत्रयेण कृपापारतन्त्र्यानन्यार्हत्वरूपपुरुषकारधर्मप्रतिपादनात् । तत्सन्निधानेन काकः शिरो लेभे, तदभावान्न रावणः । विभीषणो ऽपि “निवेदयत मां क्षिप्रं विभीषणमुपस्थितम्” इति घटकमुखेनैव रामं शरणमवृणुत । रामो ऽपि “आनयैनं हरिश्रेष्ठ” इति घटकमुखेनैव विभीषणं विषयीचकार । एवं सुग्रीवो ऽपि रामभक्तहनुमन्मुखेन रामं शरणं ययौ, इत्येवं ज्ञातव्यम् ।। 4 ।।
एवम्भूतोपायाधिकारिस्वरूपं शेषत्वं पारतन्त्र्यं च । तत्र शेषत्वं लक्ष्मणाचारेण प्राचीकशत् “अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः । कुरुष्व मामनुचरं वैधर्म्यं नेह विद्यते । कृतार्थो ऽहं भविष्यामि तव चार्थः प्रकल्पते ।।” इत्यादिना ।। 5 ।।
भरतमुखेन पारतन्त्र्यं प्रकटीकृतम् “विललाप सभामध्ये जगर्हे च पुरोहितम् । राज्यं चाहं च रामस्य धर्मं वक्तुमिहार्हसि ।।” इत्यादिना “सर्वात्मना पर्य्यनुनीयमानो यदा न सौमित्रिरुपैति योगम्। नियुज्यमानो भुवि यौवराज्ये ततोऽभ्यषिञ्चद्भरतं महात्मा ।।” इत्यन्तेन ।। 6 ।।
श्रीशत्रुघ्नव्यापारेण भागवतपारतन्त्र्यं प्राचीकशत् “गच्छता मातुलकुलं भरतेन तदानघः ।
शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ।।” इत्यादिना ।। 7 ।।
अस्य चाधिकारिणो ज्ञातव्यमर्थपञ्चकमत्रोच्यते । तथोक्तम् “प्राप्यस्य ब्रह्मणो रूपं प्राप्तुश्च प्रत्यगात्मनः । प्राप्त्युपायं फलं प्राप्तेस्तथा प्राप्तिविरोधि च ।। वदन्ति सकला वेदाः
सेतिहासपुराणकाः । मुनयश्च महात्मानो वेदवेदाङ्गपारगाः ।।” इति। तत्र रामप्रस्तावेन परस्वरूपम्, लक्ष्मणादिवृत्तान्तेन प्रत्यगात्मस्वरूपम्, शरणागतिवर्णनेनोपायस्वरूपम्, विभीषणादिकथया भगवत्कैङ्कर्यरूपफलस्वरूपम्, रावणादिवृत्तान्तेन विरोधिस्वरूपं चोक्तमिति ज्ञेयम् ।। 8 ।।
अस्याधिकारिण आकिञ्चन्यम् अनन्यगतित्वं चापेक्षितमिति वक्तुं ब्रह्मरुद्रादिदत्तवरस्य रावणस्य वधेन ब्रह्मरुद्रादिदेवतान्तराणाम्, दशरथचरितेन पितुः, कैकेय्यादि(काकादि)वृत्तान्तेन मात्रादेः, विभीषणमेघनादादि वृत्तान्तेन भ्रातृपुत्रादेश्चारक्षकत्वोक्तिः ।। 9 ।।
अस्य च भगवज्ज्ञानलाभ आचार्यमूल इति हनुमच्चरितेन दर्शितम् । तदेव सुन्दरकाण्डे वक्ष्यामः ।। 10 ।।
अनेन चाधिकारिणा “कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम्” इत्युक्तरीत्या शरीरपातावधिकालः प्रतीक्षणीय इति सीताध्यवसायेनोच्यते । “शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः । मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ।।” इति ह्युक्तम्। लङ्कानाम शरीरम्, रावणकुम्भकर्णावहङ्कारममकारौ, इन्द्रजिदादयः कामक्रोधादयः, विभीषणो विवेकः, तत्र रुद्धा सीता चेतनः, तस्य च भगवज्ज्ञानं हनुमता आचार्येण, तादृशशरीरध्वंसपूर्वकं तदन्तर्निरुद्धचेतनोद्धरणं भगवतैवेति विस्तरो भविष्यति ।। 11 ।।
अस्य च यावच्छरीरं कर्तव्यविषये रामादिवद्वर्तितव्यम्, न रावणादिवदित्युपदेशश्च यथायोगं क्रियते ।।
12 ।।
अस्य च वासयोग्यो देशो भगवत्सन्निधिमान् देश एवेति कोसलजनपदस्थजनवृत्तान्तेनोक्तम् ।।
13 ।।
अस्य च कालक्षेपो ऽपि रामायणेनैव, द्वयविवरणरूपत्वात् । अत एव “रामायणं दीर्घशरणागतिः” इत्यभियुक्तैरुक्तम् । “द्वयमर्थानुसन्धानेन सह सदैवं वक्ता” इति च भाष्यकारः । तत्र बालकाण्डेन श्रीमच्छब्दार्थ उक्तः, अयोध्याकाण्डेन नारायणशब्दार्थः, कल्याणगुणानामुपवर्णनात् । आरण्यकाण्डेन “ते तं सोममिवोद्यन्तम्” इत्यादिना दिव्यमङ्गलविग्रहवर्णनाच्चरणशब्दार्थः । किष्किन्धाकाण्डसुन्दरकाण्डाभ्यां शरणशब्दार्थः । युद्धकाण्डेन प्रपद्य इत्यस्यार्थः । उत्तरकाण्डेन मुक्तिफलकीर्तनादुत्तरखण्डार्थः ।। 14 ।।
अस्य चाधिकारिणः सदा जप्यं रामायणमेवेति दर्शयितुं गायत्र्यर्थो ऽत्रप्रतिपाद्यते । तथाहि बालकाण्डे वेदप्रसिद्धजगत्प्रसूतिहेतुभूतभगवत्स्वरूपवर्णनात् तत्सवितृशब्दार्थः । अयोध्याकाण्डकिष्किन्धाकाण्डयोः गुणगणवर्णनात् वरेण्यशब्दार्थः । आरण्यकाण्डे तेजोमयशरीरवर्णनात् भर्गश्शब्दार्थः । सुन्दरकाण्डे दिव्यमङ्गलविग्रहलक्षणवर्णनात् देवशब्दार्थः । युद्धकाण्डे धीमहिशब्दार्थः शरणागत्युक्तेः । उत्तरकाण्डे मुक्तिफलकीर्तनात्तृतीयपादार्थ इति ।। 15 ।।
एतेन चाधिकारिणा चार्वाकबौद्धादिदर्शनाद्यसच्छास्त्रस्पर्शो ऽपि न कार्य इति जाबालिलक्ष्मणवचनतत्प्रत्यादेशादिना निर्णीयते ।। 16 ।।
महतामपि व्यसनं भवति, अतः संसारे जिहासा कार्येति वैराग्यसम्पत्तये नागपाशब्रह्मास्त्रबन्धसीतापहरणराज्यभ्रंशादिना व्यक्तमुक्तम् । विस्तरस्तु तत्र तत्र प्रदर्शयिष्यते, दिङ्मात्रमत्र प्रदर्शितम् ।। 17 ।।
लोकव्यवहाराय चतुःषष्टिकलार्थो ऽपि सङ्ग्रहेणात्र प्रतिपाद्यते, “यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ” इति न्यायात् । तथाहि प्रतिपादितया दिशा वेदार्थो दर्शितः । हनुमद्वचनश्लाघायां
“अनया चित्रया वाचा त्रिस्थानव्यञ्जनस्थया” इत्यादौ शीक्षार्थः । अश्वमेधादिप्रकरणे कल्पसूत्रार्थः । “नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम्” इत्यादौ व्याकरणार्थः । एवमन्यत्सर्वमत्र सूक्ष्मबुद्ध्या ज्ञातव्यम् । एवमेते ऽष्टादशार्था आचार्योपादिष्टाः ।। 18 ।।
तत्र प्रथमं रावणनिबर्हणफलां गीर्वाणगणशरणागतिं दर्शयितुं पीठिकामारचयति वाजिमेधपर्यन्तवृत्तान्तेन । अग्निपुरुषोत्थानमारभ्य रावणवधपर्यन्तो वृत्तान्तस्तत्फलम् । उत्तरकाण्डे स्वावतारप्रयोजनं धर्मस्थापनं मुक्तिप्रदानं च ।। ‘वक्तव्यमन्यत्तात्पर्यं तत्र तत्राभिधीयते । सन्तो ऽत्युक्तमनुक्तं च समाधातुमिहार्हथ ।। नमः शठारिगुरवे नमो वल्मीकजन्मने । नमो नारायणायेदं नमो रामाय विष्णवे ।।’
इत्थं सङ्क्षेपेण “आचार्यवान् पुरुषो वेद । आचार्याद्ध्येव विद्या विदिता साधिष्ठं प्रापत्” इति श्रुत्युक्तरीत्या आचार्यादेव विद्या प्राप्तव्येत्यमुमर्थमभिव्यञ्जयन् स्वेन नारदाद्विदितमर्थं प्राचीकशत् । अथ सर्गत्रयेणाचार्यप्रसादकार्यं सर्ववस्तुसाक्षात्कारस्तद्विषयप्रबन्धनिर्माणचातुर्यं चाभिहितम् ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने चतुर्य: सर्गः ।। 4 ।।