श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः पञ्चमः सर्गः
सर्वापूर्वमियं येषामासीत्कृत्स्ना वसुन्धरा ।
प्रजापतिमुपादाय नृपाणां जयशालिनाम् ।। 1.5.1 ।।
अथ परमकारुणिको भगवान् वाल्मीकिः रामायणाख्यं काव्यमारभमाणः प्रारिप्सितप्रबन्धस्य निर्विघ्नपरिसमाप्त्यर्थं प्रचयगमनार्थं च “आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्” इत्युक्तरीत्या काव्यमुखत्वेनादौ कर्तव्यं वस्तुनिर्देशं कुर्वन् अर्थाद्विषयप्रयोजने च दर्शयन् कर्तव्यं प्रतिजानानः सत्परिग्रहमर्थयते सर्वापूर्वमित्यादिश्लोकचतुष्टयेन । सर्वेति । कृत्स्ना सप्तद्वीपात्मिका इयं वसुन्धरा भूमिः । जयेन शालन्ते भासन्त इति जयशालिनः तेषाम् । येषां नृपाणां प्रजापतिं मनुम् “मनुः प्रजापतिः
पूर्वमिक्ष्वाकुस्तु मनोः सुतः ।” इति वक्ष्यमाणत्वात् । उपादाय आरभ्य सर्वापूर्वं सर्वेषामितरेषां राज्ञामपूर्वं दुर्लभं यथा भवति तथा आसीत् स्वमासीदित्यर्थः ।। 1.5.1 ।।
येषां स सगरो नाम सागरो येन खानितः ।
षष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन् ।। 1.5.2 ।।
जयशालित्वं कुत्रचिदुदाहृत्य दर्शयति येषामिति । येषां नृपाणां मध्ये सः प्रसिद्धः सगरः । प्रसिद्धिमेवाह सागरस्समुद्रः स्वनामाङ्कितः येन सगरेण खानितः षष्ट्या पुत्रसहस्रैरवदारितः । नाम प्रसिद्धौ । किञ्च यान्तं दण्डयात्रया गच्छन्तं यं षष्टिः पुत्रसहस्राणि पर्यवारयन् परितो ऽगच्छन् । इक्ष्वाकुप्रभृतिषु विद्यमानेषु सगरमात्रकीर्तनं तेनाखिलायाः भूमेः पुनरुद्धृतत्वात् । षष्टिरिति पङ्क्तिसूत्रे निपातितः । अत एकवचनस्यापि बहुवचनविशेषणत्वम् ।। 1.5.2 ।।
इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् ।
महदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ।। 1.5.3 ।।
इक्ष्वाकूणामिति । महात्मनां महाप्रभावानाम् इक्ष्वाकूणामिक्ष्वाकुवंश्यानाम् । “तद्राजस्य बहुषु तेनैवास्त्रियाम्” इति तद्राजप्रत्ययस्य बह्वर्थत्वाल्लुक् । तेषां राज्ञां वंशे वंश्ये रामे विषये रामायणमिति श्रुतं प्रसिद्धं महत् पूजनीयम् इदमाख्यानं कथाप्रबन्धः उत्पन्नम्, ब्रह्मणः प्रसादादिति शेषः । तत्र निमित्तमात्रमहमिति विनयोक्तिः । अत्र वर्णनीयस्य नायकस्य सर्वापूर्वमित्यनेन महाभाग्यत्वं नाम गुण उक्तः । येषामित्यादिश्लोकद्वयेन महाकुलीनत्वम् ।। 1.5.3 ।।
तदिदं वर्तयिष्यामि सर्वं निखिलमादितः ।
धर्मकामार्थसहितं श्रोतव्यमनसूयया ।। 1.5.4 ।।
ब्रह्मप्रसादादेवोत्पन्नत्वे तव किं कृत्यम् ? तत्राह तदिति । तत् ब्रह्मप्रसादोत्पन्नम्, इदं रामायणं वर्तयिष्यामि प्रवर्त्तयिष्यामि । धर्मकामार्थसहितं तत्प्रतिपादकं तत्फलकं वा सर्वं रामायणम् आदितः तदवतारदेशात्प्रभृति निखिलमन्यूनं यथा भवति तथा । अनसूयया असूयाभिन्नया, श्रद्धयेत्यर्थः । श्रोतव्यं न तु स्वयं लिखितपाठेन निरीक्षितव्यम् । ब्रह्मण एवोत्पन्नमिदम्, मम तु तत्प्रवर्तन एवाधिकारः । अतः प्रेक्षावद्भिरत्रासूया न कर्तव्या, किन्तु भक्त्येव श्रोतव्यमिति भावः । अत्र तेषां वंश इत्यनेन विषय उक्तः, धर्मकामार्थसहितमित्यनेन प्रयोजनमुक्तम्, अनसूययेत्यनेन अनसूयवो ऽधिकारिणः, कार्यकारणभावः सम्बन्ध इत्यादि बोध्यम् । अत्र मोक्षस्यापि प्रयोजनत्वं सिद्धम्, “सर्वपापैः प्रमुच्यते” इत्युक्तत्वात् ।। 1.5.4 ।।
कोसलो नाम मुदितः स्फीतो जनपदो महान् ।
निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ।। 1.5.5 ।।
अथ रामचरित्रं प्रतिज्ञातं वक्तुं तदवतरणयोग्यदेशवैभवं दर्शयति कोसल इति । मुदितः सन्तुष्टजनः । ‘मञ्चाः क्रोशन्ति’ इतिवल्लक्षणा । स्फीतः समृद्धः । “स्फायः स्फी निष्ठायाम्” इति स्फीभावः । प्रभूतानि बहूनि च तानि धनधान्यानि च तद्वान् । कर्मधारयादपि मत्वर्थीयो दृष्टः । यथा “कोकप्रीतिचकोरपारणपटुज्योतिष्मती लोचने” इत्यादि । प्रभूतधनश्चासौ धान्यवांश्चेति कर्मधारयो वा । अत्र धनधान्यसमृद्धेरुक्तत्वात् स्फीत इति जनसमृद्धिरुच्यते । कोसलो नाम कोसल इति प्रसिद्धः । महान् विस्तीर्णः जनपदो देशः । “नीवृज्जनपदो देशविषयौ” इत्यमरः । सरयूतीरे सरयूनामकनद्या उभयतीरे निविष्टः स्थितः ।। 1.5.5 ।।
अयोध्या नाम नगरी तत्रासील्लोकविश्रुता ।
मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ।। 1.5.6 ।।
तत्रावतारयोग्यनगरं वर्णयति अयोध्येति, श्लोकत्रयमेकं वाक्यम् । अयोध्येति नगरी तत्र कोसले आसीत् अस्ति । लकारव्यत्ययः । लोके विश्रुता प्रसिद्धा या पुरी मानवानां मनुष्याणाम् इन्द्रेण स्वामिना मनुना स्वयं स्वसङ्कल्पेन निर्मिता नाम ।। 1.5.6 ।।
आयता दश च द्वे च योजनानि महापुरी ।
श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा ।। 1.5.7 ।।
आयतेति । दश च द्वे च योजनानि द्वादश योजनानि । अत्यन्तसंयोगे द्वितीया । आयता दीर्घा । मण्डलप्रमाणमिदम् । महापुरी मूलनगरम्, उपनगरसाहित्ये त्वनेकयोजनास्तीति भावः । श्रीमती
कान्तिमती । त्रीणि योजनानि विस्तीर्णा योजनत्रयवैपुल्यवती । सुष्ठु विभक्ताः उभयपार्श्ववृक्षावलीमत्तया क्लृप्ताः महापथाः नानाजनपदगामिमार्गाः यस्यास्सा ।। 1.5.7 ।।
राजमार्गेण महता सुविभक्तेन शोभिता ।
मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः ।। 1.5.8 ।।
राजमार्गेणेति । महता आनगरान्तेन सुविभक्तेन ऋजुतया क्लृप्तेन, मुक्तपुष्पावकीर्णेन मुक्तैः असूत्रग्रथितैः पुष्पैरवकीर्णेन । नित्यशः सर्वकाले ऽपि । सप्तम्यर्थे शस्प्रत्ययः । जलसिक्तेन वर्षासु स्वत एव, अन्यदा मनुष्यैः । राजमार्गेण राजगृहद्वारात् प्रवृत्तेन मार्गेण शोभिता ।। 1.5.8 ।।
तां तु राजा दशरथो महाराष्ट्रविवर्द्धनः ।
पुरीमावासयामास दिवं देवपतिर्यथा ।। 1.5.9 ।।
अथ नगर्या महाराजाधिष्ठितत्वरूपं गुणमाह तां त्विति । महच्च तद्राष्ट्रं च महाराष्ट्रम् । “आन्महतः ” इत्यात्वम् । तद्विवर्द्धयति धर्मेण पालयतीति महाराष्ट्रविवर्द्धनः । कर्तरि ल्युट् । महांश्चासौ राष्ट्रविवर्द्धनश्चेति वा । पूर्वराजभ्यो ऽधिक इत्यर्थः । दशरथाख्यो राजा दिवं स्वर्गम्, अमरावतीं देवपतिर्यथा इन्द्र इव तां पुरीम् । तु पूर्वनृपवैलक्षण्येन, आवासयामास स्थापयामास । “हेतुमति च” इति णिच् ।। 1.5.9 ।।
कवाटतोरणवतीं सुविभक्तान्तरापणाम् ।
सर्वयन्त्रायुधवतीमुपेतां सर्वशिल्पिभिः ।। 1.5.10 ।।
वैलक्षण्यमेव दर्शयन्नयोध्यां वर्णयति सर्गशेषेण कवाटेति । तोरणो बहिर्द्वारालङ्कारदारुबन्धः । प्रशस्तकवाटतोरणयुक्ताम् । प्रशंसायां मतुप् । सुविभक्तं परस्परासंश्लिष्टम् अन्तरं मध्यप्रदेशो येषां तादृशा आपणाः निषद्याः यस्यां सा ताम् । “आपणस्तु निषद्यायाम्” इत्यमरः । सर्वाणि सर्वविधानि यन्त्राणि शिलाक्षेपणीप्रभृतीनि, आयुधानि बाणादयः, लोके यानि यानि यन्त्रायुधानि सन्ति तद्वतीमित्यर्थः । शिल्पिभिश्चित्रकारप्रभृतिभिः उपेतां युक्ताम् ।। 1.5.10 ।।
सूतमागधसम्बाधां श्रीमतीमतुलप्रभाम् ।
उच्चाट्टालध्वजवतीं शतघ्नीशतसङ्कुलाम् ।। 1.5.11 ।।
सूतेति । सूताः बन्दिनः । “सूतो ना तक्ष्णि सारथौ । क्षत्राद्विप्रासुते व्यासशिष्ये पारदबन्दिनोः ।।” इति भास्करः। मागधाः राजप्रबोधकाः। “मागधः स्याद्वाग्ग्मी राजप्रबोधकः” इति यादवः। तैः सम्बाधां निरन्तरां श्रीमतीं धनधान्यसमृद्धिमतीम् अतुलप्रभां निरुपमकान्तिम्। अट्टाट्टालशब्दौ पर्यायौ। “स्यादट्टः क्षौममस्त्रियाम्” इत्यमरः। मण्डपोपरिनिर्मितगृहाणीत्यर्थः। उन्नतैरट्टालध्वजैर्युताम्। शतघ्नी प्राकारस्थयन्त्रविशेषः। “शतघ्नी तु चतुस्ताला लोहकण्टकसञ्चिता” इति यादवः। शतशब्दोऽनन्तवचनः। “शतं सहस्रमयुतं सर्वमानन्त्यवाचकम्” इत्युक्तेः। अनेकशतघ्नीसंवृताम् ।। 1.5.11 ।।
वधूनाटकसङ्घैश्च संयुक्तां सर्वतः पुरीम् ।
उद्यानाम्रवणोपेतां महतीं सालमेखलाम् ।। 1.5.12 ।।
वध्विति । सर्वतः पुरीमिति “उभसर्वतसोः ” इति द्वितीया । सर्वत्र पुर्यां वधूनां ये नाटकाः नर्तयितारस्तत्सङ्घैः संयुक्ताम् । आम्राणां चूतानां वनमाम्रवणम् । “प्रनिरन्तः ” इत्यादिना णत्वम्, आहिताग्न्यादित्वात्परनिपातः । आम्रवणरूपोद्यानोपेताम् । सालः प्राकारः, मेखला मेखलावदावरणभूता यस्यास्ताम् । “प्राकारो वरणः सालः” इत्यमरः । महतीमिति सालद्वारा नगरविशेषणम् ।। 1.5.12 ।।
दुर्गगम्भीरपरिघां दुर्गामन्यैर्दुरासदाम् ।
वाजिवारणसम्पूर्णां गोभिरुष्ट्रैः खरैस्तथा ।। 1.5.13 ।।
दुर्गेति । अत्र दुर्गशब्देन विशालतोच्यते । विशालागाधपरिघां दुर्गां स्थलदुर्गभूताम्, अत एवान्यैः शत्रुभिः दुरासदां दुराक्रमाम् । वाजिभिर्वारणैश्च सम्पन्नां समृद्धाम्, गोभिरुष्ट्रैः खरैः खरविशेषैश्च तथा, सम्पन्नामित्यर्थः ।। 1.5.13 ।।
सामन्तराजसङ्घैश्च बलिकर्मभिरावृताम् ।
नानादेशनिवासैश्च वणिग्भिरुपशोभिताम् ।। 1.5.14 ।।
सामन्तराजसङ्घैरिति । समन्ताद्भवाः सामन्ताः । “सामन्ता राज्यसन्धिस्थाः” इति वैजयन्ती ।
तादृशराजसङ्घैः । कीदृशैः ? बलिकर्मभिः बलिः करः, “भागधेयः करो बलिः” इत्यमरः । बलिशब्देन बलिप्रदानमुच्यते तत्कर्म येषां तैः । नानादेशनिवासैः क्रयविक्रयार्थमागतैः वणिग्भिश्च उपशोभिताम् ।। 1.5.14 ।।
प्रासादै रत्नविकृतैः पर्वतैरुपशोभिताम् ।
कूटागारैश्च सम्पूर्णामिन्द्रस्येवामरावतीम् ।। 1.5.15 ।।
प्रासादैरिति । रत्नविकृतैः रत्नैः विकृतैः विशेषेण कृतैः । प्रासादैः राजगृहैः, पर्वतैः क्रीडापर्वतैः, कूटागारैः वलभिभिः । “कूटागारं तु वलभिः” इत्यमरः । सम्पूर्णां अत एव इन्द्रस्येवामरावतीम्, इन्द्रपालिताममरावतीमिव स्थितामित्यर्थः ।। 1.5.15 ।।
चित्रामष्टापदाकारां वरनारीगणैर्युताम् ।
सर्वरत्नसमाकीर्णां विमानगृहशोभिताम् ।। 1.5.16 ।।
चित्रामिति । चित्रां नानाराजगृहवतीम् । अष्टौ पदानि स्थानानि यस्य तदष्टापदम्, “अष्टनः सञ्ज्ञायाम्” इति दीर्घः । “अष्टापदं शारिफलम्” इत्यमरः । तदाकाराम्, तत्सदृशसंस्थानामित्यर्थः । मध्ये राजगृहं चतुर्दिक्षु राजवीथयः तन्मध्येष्ववकाशाश्चेत्येवंविधसंस्थानामित्यर्थः । वरनारीगणैः सुन्दरस्त्रीगणैः युतां संयुक्ताम् । सर्वरत्नैः समाकीर्णां व्याप्ताम् । तानि तु “गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः । शोणरत्नं रोहितकं पद्मरागो ऽरुणोपलः । विद्रुमो ना प्रवालो ऽस्त्री वज्रो ऽस्त्री हीरकः पुमान् । इन्द्रनीलं महानीलं वैडूर्यं वालवायजम् । कुरुविन्दास्तु कल्माषा रत्नभेदास्तु मौक्तिकम् । माणिक्यं पौष्यकं शङ्खः” इत्यादिनिघण्टुपर्यायोक्तानि । विमानाख्यगृहैः शोभिताम् । “विमानो ऽस्त्री देवयाने सार्वभौमिकसद्मनि” इति भास्करः ।। 1.5.16 ।।
गृहगाढामविच्छिद्रां समभूमौ निवेशिताम् ।
शालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदकाम् ।। 1.5.17 ।।
गृहगाढामिति । गृहैः कुटुम्बिगृहैः गाढां निबिडाम्, अविच्छिद्रां निर्दूषणाम्, “छिद्रं रन्ध्रे दूषणे ऽपि” इति भास्करः । समभूमौ अनिम्नोन्नतप्रदेशे निवेशितां निर्मिताम् । शालयः श्वेततण्डुला व्रीहयः । “शालयः श्वेततण्डुलाः” इति वैजयन्ती । तेषां तण्डुलैः सम्पूर्णाम् । इक्षुकाण्डस्य इक्षुदण्डस्य
यो रसस्तत्तुल्यमुदकं यस्यां ताम् ।। 1.5.17 ।।
दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा ।
नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ।। 1.5.18 ।।
दुन्दुभीभिरिति । दुन्दुभीभिर्भेरीभिः । ईकारान्तत्वमार्षम् । मृदङ्गैः मृत् अङ्गं येषां तैः, पणवैः मर्द्दलैः । तथेति समुच्चये । भृशं नादिताम्, पृथिव्याम् अत्यर्थमनुत्तमां श्रेष्ठां तां प्रसिद्धाम् ।। 1.5.18 ।।
विमानमिव सिद्धानां तपसाधिगतं दिवि ।
सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् ।। 1.5.19 ।।
विमानमिति । सिद्धानां तपःसिद्धानां पुरुषाणाम्, दिवि स्वर्गे तपसाधिगतं लब्धम्, विमानमिव देवयानसमूहमिव स्थिताम् । जतावेकवचनम् । सुनिवेशिताः सुष्ठु निर्मिताः वेश्मान्ताः गृहप्रान्ता यस्यां सा । सर्वतः सम्यक्निर्मितगृहामित्यर्थः । नरोत्तमैः विद्वद्भिः समावृताम् ।। 1.5.19 ।।
ये च बाणैर्न विध्यन्ति विविक्तमपरापरम् ।
शब्दवेध्यं च विततं लघुहस्ता विशारदाः ।। 1.5.20 ।।
ये चेति, श्लोकत्रयमेकान्वयम् । लघुहस्ताः शिक्षितास्त्राः । “लघुहस्तः सुहस्तश्च कृतास्त्रः कृतपुङ्खकः” इति वैजयन्ती । विशारदाः समर्थाः, उपायज्ञा इति यावत् । तथाभूता अपि ये राजानः विविक्तं विजनम्, असहायमिति यावत् । “विविक्तौ पूतविजनौ” इत्यमरः । अपरापरम् अविद्यमानपरापरम् । परे पित्रादयः ।, अपरे पुत्रादयः तैर्हीनम्, वंशस्यैकतन्तुमिति यावत् । शब्दवेध्यं शब्देन लक्ष्येण वेध्यम्, एतेन प्रच्छन्नवेधनमुपलक्ष्यते । विततं पलायितं च बाणैश्च न विध्यन्ति न प्रहरन्ति, किंपुनर्यन्त्रादिभिरिति भावः ।। 1.5.20 ।।
सिंहव्याघ्रवराहाणां मत्तानां नर्दतां वने ।
हन्तारो निशितैः शस्त्रैर्बलाद्बाहुबलैरपि ।। 1.5.21 ।।
सिंहेति । मत्तानां वने स्वदेशे नर्दतां गर्वेण गर्जताम्, सिंहव्याघ्रवराहाणां बलात् मनोबलेन बाहुबलैरपि सहकारिभिः निशितैस्तीक्ष्णैः शस्त्रैरायुधैः करणैर्हन्तारः । “शस्त्रमायुधलोहयोः” इत्यमरः ।। 1.5.21 ।।
तादृशानां सहस्रैस्तामभिपूर्णां महारथैः ।
पुरीमावासयामास राजा दशरथस्तदा ।। 1.5.22 ।।
तादृशानामिति । महारथैः “आत्मानं सारथिं चाश्वान् रक्षन् युद्ध्येत यो नरः । स महारथसञ्ज्ञः स्यात्” इत्युक्तलक्षणैः । तादृशानां तेषां सहस्रैः अभिपूर्णां तां तथात्वेन प्रसिद्धां पुरीम् आवासयामास ।। 1.5.22 ।।
तामग्निमद्भिर्गुणवद्भिरावृतां द्विजोत्तमैर्वेदषडङ्गपारगैः ।
सहस्रदैः सत्यरतैर्महात्मभिर्महर्षिकल्पैर्ऋषिभिश्च केवलैः ।। 1.5.23 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चमः सर्गः ।। 5 ।।
तामिति । अग्निमद्भिः आहिताग्निभिः । गुणवद्भिः शमदमादिगुणवद्भिः । वेदानां षडङ्गानां च पारमन्तमध्ययनेन गच्छन्तीति तथा । “अन्तात्यन्त ” इत्यादिना डप्रत्ययः । सहस्रदैः बहुप्रदैः । सत्ये सत्यवचने रतैः निरतैः । महात्मभिः महामतिभिः । केवलैः ऋषिभिरपि । महर्षिकल्पैः वसिष्ठादिमहर्षितुल्यैः । ईषदसमाप्तौ कल्पप्प्रत्ययः । द्विजोत्तमैः आवृतां ताम्, आवासयामासेत्यनुषज्यते । अत्र वंशस्थवृत्ते प्रथमचरणे जगणाभावेनोपजातिवृत्तमिति बोध्यम् । आचार्याः प्राहुः “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन” इति श्रुतिरनेनोपबृंह्यते । द्विजोत्तमैः “अष्टवर्षं ब्राह्मणमुपनयीत” इत्युक्तरीत्या कृतोपनयनैः, वेदषडङ्गपारगैः अधीतसाङ्गसशिरस्कवेदैः, अग्निमद्भिरनुष्ठितयज्ञैः, सहस्रदैः यथाशक्तिब्राह्मणसात्कृतद्रव्यैः, महात्मभिः महायत्नैः, कृततपस्कैरित्यर्थः । गुणवद्भिः शमदमाद्युपेतैः “शान्तो दान्त उपरतस्तितिक्षुस्समाहितो भूत्वा” इत्युक्तशमदमादिमद्भिः । सत्यरतैः “सत्यस्य सत्यम्” इत्युक्ते ब्रह्मणि भक्तिरूपापन्नज्ञानवद्भिः, केवलैः “तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्” इत्युक्तरीत्यानाविष्कृतस्वरूपैः । ऋषिभिः “बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः” इत्युक्तस्वरूपैः । महर्षिकल्पैः “यत्रर्षयः प्रथमजा ये पुराणाः” इत्युक्तरीत्या सूरिसदृशैः, आवृताम् अवतरिष्यति भगवानत्रेति समागम्य संसेवितां तामावासयामास । यद्वा हे केवलपरिशुद्धचित्त ऐः त्वमपि वासाय गच्छेति कविराह, तदुपगतेतिवत् ।। 1.5.23 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने पञ्चमः सर्गः ।। 5 ।।