श्रीमद्वाल्मीकीयरामायणम् बालकाण्डःसप्तमः सर्गः
तस्यामात्या गुणैरासन्निक्ष्वाकोस्तु महात्मनः ।
मन्त्रज्ञाश्चेङ्गितज्ञाश्च नित्यं प्रियहिते रताः ।। 1.7.1 ।।
अथोक्तगुणसम्पन्नस्य दशरथस्य धर्मानुष्ठानसहायसाधिष्ठसचिवसम्पत्तिं दर्शयति सप्तमे तस्येत्यादि । महात्मनः महामतेः तस्य इक्ष्वाकोः, दशरथस्य तद्वंशजत्वात्तच्छब्दः । मन्त्रज्ञाः कार्यविचारज्ञाः । इङ्गितं पराभिप्रायः तं मुखविकाससङ्कोचव्यङ्ग्यवचनादिभिर्जानन्तीति इङ्गितज्ञाः । अमात्याः अमा राज्ञः सर्वराज्यव्यापारेषु सह भवन्तीत्यमात्याः । “अव्ययात्त्यप्” । गुणैः वक्ष्यमाणमन्त्रिगुणैः उपेता आसन् ।। 1.7.1 ।।
अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः ।
शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः ।। 1.7.2 ।।
“मन्त्रिणः सप्त वाष्टौ वा प्रकुर्वीत परीक्षितान्” इति मनुनोक्तरीत्याह अष्टाविति । शुचयः सर्वात्मना स्वामिद्रोहचिन्तारहिताः, नित्यशः राजकृत्येषु तदनुष्ठानेषु अनुरक्ताः तत्पराः, अष्टावमात्या बभूवुः ।। 1.7.2 ।।
धृष्टिर्जयन्तो विजयः सिद्धार्थोह्यर्थसाधकः ।
अशोको मन्त्रपालश्च सुमन्त्रश्चाष्टमो ऽभवत् ।। 1.7.3 ।।
तेषां नामानि दर्शयति धृष्टिरिति । धृष्टिः प्रथमो ऽभवत् जयन्तो द्वितीयो ऽभूत् इति क्रमेण योजयित्वा सुमन्त्रो ऽष्टमो ऽभवदिति योज्यम् ।। 1.7.3 ।।
ऋत्विजौ द्वावभिमतौ तस्यास्तामृषिसत्तमौ ।
वसिष्ठो वामदेवश्च मन्त्रिणश्च तथा ऽपरे ।। 1.7.4 ।।
ऋत्विजाविति । वसिष्ठः वामदेवश्च द्वौ ऋषिसत्तमौ ऋत्विजौ पुरोहितौ अभिमतौ प्रधानौ आस्ताम्, तथा अभिमताः अपरे मन्त्रिणः ऋत्विजः जाबालिप्रभृतयश्चासन् ।। 1.7.4 ।।
विद्याविनीता ह्रीमन्तः कुशला नियतेन्द्रियाः ।
श्रीमन्तश्च महात्मानः शास्त्रज्ञा दृढविक्रमाः ।। 1.7.5 ।।
अथ मन्त्रिगुणान् प्रपञ्चयति सर्गशेषेण विद्येति । विद्यासु आन्वीक्षिकीप्रभृतिषु विनीताः शिक्षिताः, ह्रीमन्तः अकृत्यकरणेषु लज्जावन्तः, कुशलाः नीतौ समर्थाः, नियतेन्द्रियाः अविहितविषयेभ्यो निवृत्ताः, श्रीमन्तः लक्ष्मीसमृद्धाः, महात्मानः महाबुद्धयः, शास्त्रज्ञाः नीतिशास्त्रज्ञाः, दृढविक्रमाः अप्रतिहतपराक्रमाः ।। 1.7.5 ।।
कीर्तिमन्तः प्रणिहिता यथावचनकारिणः ।
तेजःक्षमायशःप्राप्ताः स्मितपूर्वाभिभाषिणः ।
क्रोधात्कामार्थहेतोर्वा न ब्रूयुरनृतं वचः ।। 1.7.6 ।।
कीर्तिमन्त इति । प्रणिहिताः राजकृत्येष्वप्रमत्ताः, यथावचनकारिणः यथोक्तवन्तस्तथैव कुर्वन्ति, न तु “मनस्यन्यद्वचस्यन्यत् कर्मण्यन्यत्” इति न्यायत इति भावः । तेजःक्षमायशांसि प्राप्ताः । “द्वितीया श्रित ” इत्यादिना समासः । अत्र यशः प्रतापक्षमाजन्या प्रथा । कीर्तिमन्त इत्यत्र कीर्तिस्तु मन्त्रज्ञताकृता प्रथा । स्मितपूर्वाभिभाषिण इत्यनेन निर्मत्सरत्वमुच्यते । आसन्, मन्त्रिण इति श्लोकद्वयशेषः । क्रोधादिति अर्द्धमेकान्वयम् । क्रोधाद्वा कामहेतोरर्थहेतोर्वा अनृतमसत्यं वचो न ब्रूयुः ।। 1.7.6 ।।
तेषामविदितं किञ्चित् स्वेषु नास्ति परेषु वा ।
क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् ।। 1.7.7 ।।
तेषामिति । तेषां मन्त्रिणां स्वेषु स्वराष्ट्रीयवृत्तान्तेषु परेषु परराष्ट्रीयवृत्तान्तेषु च, कृतं क्रियमाणम्, चिकीर्षितं कर्त्तुमिष्टम्, करिष्यमाणमिति यावत् । यत्किञ्चिदपि वा वृत्तं चारेण चारमुखेन अविदितं नास्ति, सर्वो ऽपि स्वराष्ट्रपरराष्ट्रवृत्तान्तभेदस्तैर्ज्ञात इत्यर्थः ।। 1.7.7 ।।
कुशला व्यवहारेषु सौहृदेषु परीक्षिताः ।
प्राप्तकालं तु ते दण्डं धारयेयुः सुतेष्वपि ।। 1.7.8 ।।
कुशला इति । व्यवहारेषु निश्चितार्थप्रतिपादनेषु कुशलाः समर्थाः । सौहृदेषु विषयेषु परीक्षिताः राज्ञा बहुधा परीक्षितास्ते मन्त्रिणः सुतेष्वपि प्राप्तकालं प्राप्तसापराधत्वलक्षणकालम्, दण्डं धारयेयुः प्रवर्त्तयेयुः ।। 1.7.8 ।।
कोशसङ्ग्रहणे युक्ता बलस्य च परिग्रहे ।
अहितं वापि पुरुषं न विहिंस्युरदूषकम् ।। 1.7.9 ।।
कोशेति । कोशस्य अर्थनिचयस्य, सङ्ग्रहणे सम्पादने । बलस्य चतुर्विधसैन्यस्य । परिग्रहे अर्थप्रदानेन संरक्षणे च युक्ता अवहितास्सन्तः अहितं शत्रुमपि, अदूषकम् अनपराधिनं न विहिंस्युः न पीडयेयुः । शकि लङ् ।। 1.7.9 ।।
वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः ।
शुचीनां रक्षितारश्च नित्यं विषयवासिनाम् ।। 1.7.10 ।।
वीराश्चेति । वीराः शत्रुनिवारणक्षमाः । नियतोत्साहाः शत्रुजये नित्योत्साहाः । राजशास्त्रं नीतिशास्त्रम् अनुष्ठिताः अनुष्ठितवन्तः, अत एव विषयवासिनां स्वराज्यवासिनाम्, शुचीनां साधूनां नित्यं रक्षितारः, अशुचीनां तु निहन्तार इति च सिद्धम् । ते आसन्नित्यनुषज्यते ।। 1.7.10 ।।
ब्रह्मक्षत्रमहिंसन्तस्ते कोशं समपूरयन् ।
सुतीक्ष्णदण्डाः सम्प्रेक्ष्य पुरुषस्य बलाबलम् ।। 1.7.11 ।।
ब्रह्मेति । ब्रह्म ब्राह्मणान् क्षत्रं क्षत्रियांश्च अहिंसन्तः विनापराधं तत्स्वमनपहरन्तः । सत्यप्यपराधे पुरुषस्य अपराधिनः, बलाबलम् अपराधतारतम्यं शक्तितारतम्यं वा सम्प्रेक्ष्य अपराधगुरुत्वे सुतीक्ष्णदण्डाः, अपराधाल्पत्वे मृदु दण्डाश्च । शक्तत्वे सुतीक्ष्णदण्डाः अशक्तत्वे मृदुदण्डाश्च कोशं समपूरयन् ।। 1.7.11 ।।
शुचीनामेकबुद्धीनां सर्वेषां सम्प्रजानताम् ।
नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्वचित् ।। 1.7.12 ।।
अथ मन्त्रिगुणसम्पत्तिफलं दर्शयति शुचीनामित्यादिश्लोकद्वयेन् । शुचीनाम् एकरूपकरणत्रयवताम् । एकबुद्धीनाम् एककण्ठानां सर्वेषां मन्त्रिणां सम्प्रजानतां राज्यतन्त्रं विचारयताम् । भावलक्षणसप्तम्यर्थे षष्ठी । “षष्ठीचानादरे” इत्यत्र योगविभागेन । सर्वेषु मन्त्रिषु राज्यतन्त्रं विचारयत्स्वित्यर्थः । पुरे वा राष्ट्रे वा क्वचित्कोणे ऽपि मृषावादी असत्यवादी नरो नासीत् ।। 1.7.12 ।।
कश्चिन्न दुष्टस्तत्रासीत् परदाररतो नरः ।
प्रशान्तं सर्वमेवासीद्राष्ट्रं पुरवरं च तत् ।। 1.7.13 ।।
कश्चिदिति । किञ्च तत्र पुरराष्ट्रेषु कश्चिन्नरः दुष्टः कुटिलः परदाररतश्च नासीत्, प्रत्युत यद्राष्ट्रं पुरवरं च तत् सर्वं प्रशान्तमेव आसीत् । नगरजनपदवासिनः सर्वे ऽप्यन्यायाधर्मरहिता एवासन् इत्यर्थः ।। 1.7.13 ।।
सुवाससः सुवेषाश्च ते च सर्वे सुशीलिनः ।
हितार्थं च नरेन्द्रस्य जाग्रतो नयचक्षुषा ।। 1.7.14 ।।
पुनस्तान्विशेषयति सुवासस इत्यादिना सार्द्धश्लोकत्रयेण । सुवाससः शुभ्रवाससः, सुवेषाः शोभनालङ्काराः, सुशीलिनः सुसद्वृत्ताः, नरेन्द्रस्य स्वामिनः हितार्थं नयचक्षुषा जाग्रतः जागरूकाः, सर्वदा नीतिषु दत्तावधाना इत्यर्थः ।। 1.7.14 ।।
गुरौ गुणगृहीताश्च प्रख्याताश्च पराक्रमे ।
विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयात् ।। 1.7.15 ।।
गुराविति । गुरौ गुरुषु । जात्येकवचनम् । गुणगृहीताः गृहीतगुणाः, गुणमात्रग्राहिणो दोषमपश्यन्त इत्यर्थः । पराक्रमे विषये प्रख्याताः, विदेशेषु देशान्तरेष्वपि सर्वतः सर्वत्रातीतानागतविषयेषु, बुद्धिनिश्चयात् निश्चयरूपबुद्धेर्हेतोः विज्ञाताः विख्याताः ।। 1.7.15 ।।
सन्धिविग्रहतत्त्वज्ञाः प्रकृत्या सम्पदान्विताः ।
मन्त्रसंवरणे शक्ताः श्लक्ष्णास्सूक्ष्मासु बुद्धिषु ।। 1.7.16 ।।
सन्धीति । सन्धिः सामन्तैः समाधानम्, विग्रहः तैः कलहः, तयोस्तत्त्वं देशकालाद्युचितत्वम्, तज्जानन्तीति तथा । उक्तं च मनुना “यदा त्वेवाल्पिका पीडा तदा सन्धिं समाश्रयेत् । अभ्युच्छ्रयो यदात्मानं तथा मन्येत विग्रहम् ।।” इति। प्रकृत्या स्वभावेन, सम्पदा ऐश्वर्येण अन्विताः, सम्पदभावे तच्चापलेनान्यथा कुर्युरिति भावः। मन्त्रो राष्ट्रकार्यचिन्ता, तस्य संवरणे बहिरप्रकटने शक्ताः, सम्पत्कार्यमिदम्। सूक्ष्मासु बुद्धिषु सूक्ष्मार्थविशेषविचारेषु श्लक्ष्णाः अपरुषाः, सद्यःप्रतिभावन्त इत्यर्थः ।। 1.7.16 ।।
नीतिशास्त्रविशेषज्ञाः सततं प्रियवादिनः ।। 1.7.17 ।।
नीतिशास्त्रेति । नीतिशास्त्रविशेषज्ञाः नीत्या शासनविशेषज्ञाः “ग्रन्थशासनयोः शास्त्रम्” इति भास्करः । सततं राज्ञः प्रियवादिनः, हितवचनस्यैव राज्ञः प्रियत्वात् । आसन्निति पूरणीयम् ।। 1.7.17 ।।
ईदृशैस्तैरमात्यैश्च राजा दशरथो ऽनघः ।
उपपन्नो गुणोपेतैरन्वशासद्वसुन्धराम् ।। 1.7.18 ।।
ईदृशैरिति । ईदृशैः उक्तगुणविशिष्टैः गुणोपेतैः उक्तगुणातिरिक्तगुणोपेतैः तैः अमात्यैः उपपन्नः । अनघः व्यसनरहितः । उक्तं मनुना “दश कामसमुत्थानि तथाष्टौ क्रोधजानि च । व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत् ।।” इति। व्यसनस्वरूपं चोक्तम् “मृगयाक्षो दिवास्वापः परिवादः स्त्रियो मदः।
तौर्यत्रिकं वृथाट्यं च कामजो दशको गुणः ।। पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणे । वाग्दण्डनं च पारुष्यं क्रोधजो ऽपि गुणो ऽष्टकः ।।” इति। दशरथो राजा वसुन्धरा भूमिम्। अन्वशासदिति लुङ्। “सर्तिशास्त्यर्तिभ्यश्च” इत्यङ् ।। 1.7.18 ।।
अवेक्षमाणश्चारेण प्रजा धर्मेण रञ्जयन् ।
प्रजानां पालनं कुर्वन्नधर्मं परिवर्जयन् ।। 1.7.19 ।।
विश्रुतस्त्रिषु लोकेषु वदान्यः सत्यसङ्गरः ।
स तत्र पुरुषव्याघ्रः शशास पृथिवीमिमाम् ।। 1.7.20 ।।
अवेक्षमाण इति श्लोकद्वयमेकान्वयम् । चारेण चक्षुःस्थानीयेन अवेक्षमाणः स्वपरराष्ट्रवृत्तान्तान् पश्यन् । जात्येकवचनमिदम्, अनेकचारैर्ज्ञेयत्ववचनात् । यथाह मनुः “वने वनचराः कार्याः श्रमणाटविकादयः । परप्रवृत्तिज्ञानार्थं शीघ्राश्चारपरम्पराः ।।”इति। धर्मेण दण्ड्यदण्डनादिना प्रजा रञ्जयन् आह्लादयन्, पालनमनिष्टनिवृत्तिपूर्वकेष्टप्रापणम्। अधर्मम् अदण्ड्यदण्डनादि, विश्रुतः दानविक्रमादिभिः प्रसिद्धः। वदान्यः दानशीलः। सत्यसङ्गरः सत्यप्रतिज्ञः। “सङ्गरो ना क्रियाकाले प्रतिज्ञाविपदोर्युधि।” इति यादवः। सः पुरुषव्याघ्रः पुरुषश्रेष्ठः। तत्र अयोध्यायाम्, वसन्निति शेषः ।। 1.7.19,20 ।।
नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः ।
मित्रवान्नतसामन्तः प्रतापहतकण्टकः ।
स शशास जगद्राजा दिवं देवपतिर्यथा ।। 1.7.21 ।।
नाध्यगच्छदिति । विशिष्टमधिकं तुल्यं वा आत्मनः शत्रुं नाध्यगच्छत् न ज्ञातवान् । तत्र हेतुमाह मित्रवान् नतसामन्तः पादानतसमानसीमाधिपतिकः । प्रतापेन हताः कण्टकाः शत्रवो यस्य स तथा । “वेणौ द्रुमाङ्गे रोमाञ्चे क्षुद्रशत्रौ च कण्टकः ।” इति यादवः । स इति शेषः । उक्तमर्थं सदृष्टान्तमाह स इति अर्द्धमेकम् ।। 1.7.21 ।।
तैर्मन्त्रिभिर्मन्त्रहिते नियुक्तैर्वृतो ऽनुरक्तैः कुशलैः समर्थैः ।
स पार्थिवो दीप्तिमवाप युक्तस्तेजोमयैर्गोभिरिवोदितो ऽर्कः ।। 1.7.22 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तमः सर्गः ।। 7 ।।
सर्गार्थं सङ्ग्रहेण दर्शयति तैरिति । मन्त्रहिते मन्त्रे हिते च नियुक्तैः, कुशलैः बुद्धिकुशलैः, समर्थैः कार्यकरणसमर्थैः मन्त्रिभिर्वृतः नृपः । तेजोमयैः, स्वार्थे मयट् । गोभिः किरणैर्युक्तः उदितो ऽर्कः बालसूर्य इव दीप्तिमवाप । त्रिष्टुबुपजातिवृत्तम् ।। 1.7.22 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने सप्तमः सर्गः ।। 7 ।।