श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः षोडशः सर्गः
ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः ।
जानन्नपि सुरानेवं श्लक्ष्णं वचनमबव्रीत् ।। 1.16.1 ।।
एवं मनुष्यलोके दशरथपुत्रत्वेनावतीर्य रावणवधः कर्तव्य इत्युक्तम्, तत्र किं मया उपेन्द्रादिवत् स्वस्वरूपेण स्थातव्यम्, उत प्रकारान्तरेणेति भगवान् बहुमानार्थं पृच्छति तत इत्यादि । न रिष्यन्ति न नश्यन्तीति नराः, नित्यवस्तूनि । “अन्येभ्यो ऽपि दृश्यते” इति डप्रत्ययः । सुप्सुपेति नगनैकादिवत् समासः । नराणां समूहो नारम् । “तस्य समूहः” इत्यण् । नारमयनं वासस्थानं यस्यासौ नारायणः । “पूर्वपदात्सञ्ज्ञायामगः” इति णत्वम् । सर्वान्तर्यामीत्यर्थः । यद्वा नाराणामयनं नारायणः । इध्मव्रश्चनः पलाशशातन इत्यादिवल्ल्युडन्तस्यापि पुँल्लिङ्गत्वम्, एवं सर्वस्मात्परो ऽपि सुरसत्तमैः नियुक्त इत्याश्रितपारतन्त्र्यमुच्यते । तादृशो विष्णुः जानन्नपि उत्तरनिश्चयज्ञो ऽपि सम्मानार्थं श्लक्ष्णं मधुरं वचनमब्रवीत् ।। 1.16.1 ।।
उपायः को वधे तस्य राक्षसाधिपतेस्सुराः ।
यमहं तं समास्थाय निहन्यामृषिकण्टकम् ।। 1.16.2 ।।
उपाय इति । आस्थाय स्वीकृत्य यमुपायमास्थाय तं निहन्यां स उपायः क इत्यन्वयः ।। 1.16.2 ।।
एवमुक्ताः सुराः सर्वे प्रत्यूचुर्विष्णुमव्ययम् ।
मानुषीं तनुमास्थाय रावणं जहि संयुगे ।। 1.16.3 ।।
एवमिति । मानुषीं न तु दैवीम् ।। 1.16.3 ।।
स हि तेपे तपस्तीव्रं दीर्घकालमरिन्दम ।
येन तुष्टो ऽभवद्ब्रह्मा लोककृल्लोकपूर्वजः ।। 1.16.4 ।।
तत्र हेतुमाह स हीति । लोककृत्वे हेतुः लोकपूर्वज इति । लोकशब्दो ऽत्र देवादिजनपरः ।। 1.16.4 ।।
सन्तुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः ।
नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात् ।। 1.16.5 ।।
सन्तुष्ट इति । मानुषादन्यत्र मानुषं विना । नानाविधेभ्यो भूतेभ्यो भयं नेति वरं प्रददावित्यन्वयः ।। 1.16.5 ।।
अवज्ञाताः पुरा तेन वरदाने हि मानवाः ।। 1.16.6 ।।
अभयं कुतो न दत्तं मानुषेभ्य इत्यत्राह अवज्ञाता इति ।। 1.16.6 ।।
एवं पितामहात्तस्माद्वरं प्राप्य स दर्पितः ।
उत्सादयति लोकाँस्त्रीन् स्त्रियश्चाप्यवकर्षति ।। 1.16.7 ।।
एवमिति । दर्पितः सञ्जातदर्पः ।। 1.16.7 ।।
तस्मात्तस्य वधो दृष्टो मानुमेभ्यः परन्तप ।
इत्येतद्वचनं श्रुत्वा सुराणां विष्णुरात्मवान् ।
पितरं रोचयामास तदा दशरथं नृपम् ।। 1.16.8 ।।
प्रकृतमुपसंहरति तस्मादिति । इतीति । पितरमिति मनुष्यरूपेणावतरितुमिति शेषः ।। 1.16.8 ।।
स चाप्यपुत्रो नृपतिस्तस्मिन् काले महाद्युतिः ।
अयजत्पुत्रियामिष्टिं पुत्रेप्सुररिसूदनः ।। 1.16.9 ।।
स चापीति । तस्मिन् काले भगवदवतितीर्षाकाले । पुत्रियामित्यत्र ह्रस्व आर्षः ।। 1.16.9 ।।
स कृत्वा निश्चयं विष्णुरामन्त्र्य च पितामहम् ।
अन्तर्धानं गतो देवैः पूज्यमानो महर्षिभिः ।। 1.16.10 ।।
स इति । निश्चयं मनुष्यभूत एवावतरिष्यामीति निश्चयम् । आमन्त्र्य साधयामीत्युक्त्वा ।। 1.16.10 ।।
ततो वै यजमानस्य पावकादतुलप्रभम् ।
प्रादुर्भूतं महद्भूतं महावीर्यं महाबलम् ।। 1.16.11 ।।
कृष्णरक्ताम्बरधरं रक्ताक्षं दुन्दुभिस्वनम् ।
स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्द्धजम् ।। 1.16.12 ।।
शुभलक्षणसम्पन्नं दिव्याभरणभूषितम् ।
शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम् ।। 1.16.13 ।।
दिवाकरसमाकारं दीप्तानलशिखोपमम् ।
तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम् ।। 1.16.14 ।।
दिव्यपायससम्पूर्णां पात्रीं पत्नीमिव प्रियाम् ।
प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव ।। 1.16.15 ।।
अथ पुत्रकामेष्टिफलं भगवतश्चतुर्धावतारं सूचयन् प्रजापतिप्रेरितपुरुषेण पायसप्रदानं दर्शयति ततो वा इति, श्लोकपञ्चकमेकान्वयम् । ततः विष्णोरन्तर्द्धानानन्तरम् । यजमानस्येति वर्तमाननिर्देशेन द्रव्यत्यागकाल एव प्रादुर्भावः सूचितः । पावकात् आहवनीयात् । भूतं पुरुषविशेषः । स्निग्धाः चिक्कणा हर्यक्षस्येव तनुजाः लोमानि श्मश्रुप्रवरा मूर्द्धजाः केशाश्च यस्य तत्तथा । समुत्सेधः उन्नतिः । दृप्तशार्दूलविक्रमं तद्वद्भयङ्करम् । प्रभामण्डलवत्तया दिवाकरसमाकारम्, तैक्ष्ण्यातिशयेन दीप्तानलशिखोपमम् । तप्तजाम्बूनदमयीं द्रुतकनकमयीम् । राजतः रजतविकारः अन्ते उपरि परिच्छदः पिधानपात्रं यस्यास्ताम् । पात्र्यास्स्त्रीलिङ्गत्वेन पत्नीसाम्यम् । मायामयीमिव असम्भावितत्वेनाश्चर्यावहामित्यर्थः । स्वयं प्रगृह्य प्रादुर्भूतमित्यन्वयः । विपुलतरत्वेन हस्तमात्रेण गृहीतुमशक्यत्वात् बाहुभ्यामित्युक्तम् ।। 1.16.11 15 ।।
समवेक्ष्याब्रवीद्वाक्यमिदं दशरथं नृपम् ।
प्राजापत्यं नरं विद्धिमामिहाभ्यागतं नृप ।। 1.16.16 ।।
समवेक्ष्येति । दशरथं समवेक्ष्येदमबव्रीत् । कथम् ? इहागतं मां प्राजापत्यं प्रजापतेरागतम् । “दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः” इति प्राग्दीव्यतीयो ण्यप्रत्ययः । नरं विद्धि ।। 1.16.16 ।।
ततः परं तदा राजा प्रत्युवाच कृताञ्जलिः ।
भगवन् स्वागतं ते ऽस्तु किमहं करवाणि ते ।। 1.16.17 ।।
ततः परमिति । ततःपरम्, तदनन्तरमिति यावत् । ‘प्राजापत्यं च मां विद्धि’ इत्युक्त्यनन्तरमित्यर्थः । तदा तदैव ।। 1.16.17 ।।
अथो पुनरिदं वाक्यं प्राजापत्यो नरो ऽब्रवीत् ।
राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया ।। 1.16.18 ।।
अथो इति । अथो अथेति पर्यायौ । अर्चयता, अश्वमेधपुत्रकामेष्टिभ्यामिति शेषः ।। 1.16.18 ।।
इदं तु नरशार्दूल पायसं देवनिर्मितम् ।
प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्द्धनम् ।। 1.16.19 ।।
इदंशब्दार्थमाह इदं त्विति । देवनिर्मितं देवेन विष्णुना निर्मितम् । धन्यं धनकरम् । स्वर्गादित्वाद्यत् ।। 1.16.19 ।।
भार्याणामनुरूपाणामश्नीतेति प्रयच्छ वै ।
तासु त्वं लप्स्यसे पुत्रान् यदर्थं यजसे नृप ।। 1.16.20 ।।
भार्याणामिति । अनुरूपाणाम् सवर्णानामित्यर्थः । चतुर्थ्यर्थे षष्ठी ।। 1.16.20 ।।
तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम् ।
पात्रीं देवान्नसम्पूर्णां देवदत्तां हिरण्मयीम् ।। 1.16.21 ।।
तथेति । देवान्नं देवनिर्मितान्नम् । देवदत्तां देवप्रेरिताम् ।। 1.16.21 ।।
अभिवाद्य च तद्भूतमद्भुतं प्रियदर्शनम् ।
मुदा परमया युक्तश्चकाराभिप्रदक्षिणम् ।। 1.16.22 ।।
अभिवाद्येति । अभितः प्रदक्षिणमभिप्रदक्षिणम् ।। 1.16.22 ।।
ततो दशरथः प्राप्य पायसं देवनिर्मितम् ।
बभूव परमप्रीतः प्राप्य वित्तमिवाधनः ।। 1.16.23 ।।
तत इति । प्राप्य लब्ध्वा ।। 1.16.23 ।।
ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम् ।
संवर्तयित्वा तत्कर्म तत्रैवान्तरधीयत ।। 1.16.24 ।।
तत इति । अद्भुतप्रख्यं अद्भुताकारम् । संवर्तयित्वा समाप्य । तत्कर्म पायसप्रदानरूपं कर्म ।
तत्र अग्नौ ।। 1.16.24 ।।
हर्षरश्मिभिरुद्योतं तस्यान्तःपुरमाबभौ ।
शारदस्याभिरामस्य चन्द्रस्येव नभों ऽशुमिः ।। 1.16.25 ।।
हर्षेति । हर्षरश्मिभिः हर्षकृतकान्तिभिः । उद्योतम् उद्भूतप्रकाशम् । अन्तःपुरम् अन्तःपुरस्त्रियः । शारदस्य शरदि भवस्य । अभिरामस्य निष्कलङ्कस्य । अयं हर्षः पायसप्रदानकृतः ।। 1.16.25 ।।
सो ऽन्तः पुरं प्रविश्यैव कौसल्यामिदमब्रवीत् ।
पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः ।। 1.16.26 ।।
स इति । पुत्रीयं पुत्रोत्पत्तिनिमित्तम् ।। 1.16.26 ।।
कौसल्यायै नरपतिः पायसार्द्धं ददौ तदा ।
अर्द्धादर्द्धं ददौ चापि सुमित्रायै नराधिपः ।
कैकेय्यै चावशिष्टार्द्धं ददौ पुत्रार्थकारणात् ।। 1.16.27 ।।
अथ राज्ञः पत्नीभ्यो विभज्य पायसप्रदानमाह त्रिभिः कौसल्याया इत्यादि । पायसस्यार्द्धं पायसार्द्धम् । अर्द्धशब्दो ऽत्र समांशवचनः । “अर्द्धं समें ऽशके” इत्यमरः । ददौ ज्येष्ठपत्नीत्वादिति भावः । अर्द्धात् पृथक्कृत्य अर्द्धं सुमित्रायै द्वितीयमहिष्यै ददौ, चतुर्थांशमित्यर्थः । अवशिष्टस्य पायसस्यार्द्धमवशिष्टार्द्धम्, अष्टमांशमित्यर्थः । कैकेय्यै तृतीयमहिष्यै ददौ । पुत्रार्थकारणात् पुत्ररूपप्रयोजननिमित्तात् । इदं त्रिष्वपि दानेष्वन्वेति ।। 1.16.27 ।।
प्रददौ चावशिष्टार्द्धं पायसस्यामृतोपमम् ।
अनुचिन्त्य सुमित्रायै पुनरेव महीपतिः ।। 1.16.28 ।।
प्रददाविति । अनुचिन्त्य कैकेय्यपेक्षया सुमित्रायाः अधिकांशभाक्त्वं भवेदिति विचार्येत्यर्थः । तस्यापि हि कैकेय्यै दाने कैकेयीसुमित्रयोः समांशता स्यात् । तन्न युक्तम् । अन्यथा ज्येष्ठाकनिष्ठावैषम्यं न स्यात् । कैकेयी हि कनिष्ठा “न ते ऽम्बा मध्यमा तात गर्हितव्या कथञ्चन” इत्यत्रेतरपत्न्यपेक्षया मध्यमात्वमुक्तम् । वल्लभायामपि कैकेय्यां सम्भोगविषये पक्षपातः, न तु धर्म्यसंविभागे । अतो बहुमानाय ज्यैष्ठ्यक्रमात् भागतारतम्यं कृतम्, अत एव “सम्मानं मेनिरे” इति वक्ष्यति । ततो ऽनेन भागेन रामो विष्णोरर्द्धांशः, लक्ष्मणः पादांशः, भरतशत्रुघ्नौ पादस्यार्द्धांशौ । नन्वेवं सति कथमुत्तरत्र भरतः साक्षाद्विष्णोश्चतुर्भागः, लक्ष्मणशत्रुघ्नौ विष्णोरर्द्धसमन्वितावित्युच्यते ? सत्यम्, ‘साक्षाद्विष्णोश्चतुर्भागः’ इत्यत्र साक्षाद्विष्णोः विष्णोरर्द्धस्य रामांशस्य चतुर्थो भाग इत्यर्थः । यद्वा चतुर्थस्य भागश्चतुर्भागः, अष्टमांश इत्यर्थः । अर्द्धसमन्वितावित्यत्राप्यर्द्धशब्द एकदेशवाची । “भित्तं श कलखण्डे वा पुंस्यर्द्धोर्द्धं समें ऽशके” इत्येकदेशे ऽपि पुँल्लिङ्गार्द्धशब्दस्यानुशासनात् । अत्र प्राशनादिक्रमवशात् भरतस्य लक्ष्मणशत्रुघ्नाभ्यां ज्येष्ठ्यम् । ननु लक्ष्मणस्य भरतात् ज्यैष्ठ्यमंशाधिक्यात् प्रथमप्राशनाच्च । अत एव वक्ष्यति “ततो लक्ष्मणमासाद्य वैदेहीं च परन्तपः । अभ्यवादयत प्रीतो भरतो नामचाब्रवीत् ।।” इति। मैवम्, कैकेय्या एव प्रथमप्राशनं सुमित्राया द्वितीयांशग्रहणविलम्बेन प्राशनविलम्बात्, उत्पत्तिक्रमे तथोक्तेः। ‘न सङ्ख्ये भरतानुजः’ इत्युक्तत्वात्। अभिवादनं तु सीतायामेवान्वेति। लक्ष्मणमासाद्य आलिङ्ग्येत्यर्थः। रामानुजत्वव्यवहार
आसक्त्याधिक्यात् । एवं सति क्वचित् भरतस्य लक्ष्मणानुजत्वोक्तिः बहुव्रीहिसमासेन समाधेया । भरतानुज इति लक्ष्मणस्याभिधानात् सर्वप्राशनानन्तरमेव सुमित्रया भुक्तमिति । पुराणान्तरविरोधः कल्पभेदेन परिहार्यः । रामादिमूर्तयश्च पायसपरिणामाः, नतु शुक्रशोणितपरिणामाः । तत्प्राशनानन्तरं गर्भधारणवचनात् “न तस्य प्राकृता मूर्तिः” “न भूतसङ्घसंस्थानो देहो ऽस्य परमात्मनः ।” इत्यादिस्मरणात् । पायसं च भगवतः षाड्गुण्यविग्रह एव । तद्वृद्धिश्च नान्नपानादि कृता, किन्त्विच्छाकृतेत्यादिकं सर्वमवसेयम् ।। 1.16.28 ।।
एवं तासां ददौ राजा भार्याणां पायसं पृथक् ।। 1.16.29 ।।
उपसंहरति एवमिति ।। 1.16.29 ।।
तास्त्वेतत्पायसं प्राप्य नरेन्द्रस्योत्तमाः स्त्रियः ।
सम्मानं मेनिरे सर्वाः प्रहर्षोदितचेतसः ।। 1.16.30 ।।
ता इति । सम्मानं राजकृतपायसप्रदानक्रमरूपं बहुमानम् । मेनिरे अनुमेनिरे । प्रहर्षोदितचेतसः उदितप्रहर्षमनसः । तारतम्येन दानं पौर्वापर्यं च ज्येष्ठानुक्रमकृतत्वेन सर्वासां सम्मतमेवासीदिति भावः ।। 1.16.30 ।।
ततस्तु ताः प्राश्य तदुत्तमस्त्रियो महीपतेरुत्तमपायसं पृथक् ।
हुताशनादित्य समानतेजसो ऽचिरेण गर्भान् प्रतिपेदिरे तदा ।। 1.16.31 ।।
वक्तव्ये ऽपि यज्ञवृत्तान्तशेषे प्रसङ्गात् सौकर्याय नगरप्रवेशानन्तरभाविकथाशेषं सङ्ग्रहेण दर्शयति तत इति । तत् पायसमित्यन्वयः । हुताशनादित्यशब्दौ तत्तेजःपरौ ।। 1.16.31 ।।
ततस्तु राजा प्रतिवीक्ष्य ताः स्त्रियः प्ररूढगर्भाः प्रतिलब्धमानसः ।
बभूव हृष्टस्त्रिदिवे यथा हरिस्सुरेन्द्रसिद्धर्षिगणाभिपूजितः ।। 1.16.32 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षोडशः सर्गः ।। 16 ।।
तत इति । प्रतिलब्धमानसः स्वस्थचित्तः ।। 1.16.32 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने षोडशः सर्गः।।16।।