श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः त्रयोविंशः सर्गः
प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः ।
अभ्यभाषत काकुत्स्थौ शयानौ पर्णसंस्तरे ।। 1.23.1 ।।
अथैषामङ्गदेशप्राप्तिं पूर्ववृत्तकथनव्याजेन व्यञ्जयति त्रयोविंशे प्रभातायामित्यादि । पर्णसंस्तरे पर्णमयास्तरणे । पूर्वसर्गान्ते तृणशयनस्योक्तत्वादत्र तृणमिश्रपर्णशयने इति बोध्यम् ।। 1.23.1 ।।
कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्त्तव्यं दैवमाह्निकम् ।। 1.23.2 ।।
उभयप्रबोधनार्थमागतो विश्वामित्रो रामस्य “स मया बोधितः श्रीमान् सुखसुप्तः परन्तपः” इत्युक्तरीत्या निद्राकालिकीं श्रियमवलोक्य तदासक्तः सन् स्वागमनकार्यं विस्मृत्य इमं प्रसूतवती कौसल्या किं वा तपस्तप्तवतीति विस्मयते । कौसल्या सुप्रजाः बोधनकाले विस्मितमुखो मुनिरासीत् । शोभना प्रजा पुत्रो यस्याः सा सुप्रजाः । “नित्यमसिच् प्रजामेधयोः” इत्यसिच् । त्वज्जननी कौसल्या सुपुत्रा । यद्वा स्वगतवचनम् । एतज्जननी कौसल्या सुप्रजाः । “कौसल्या शुशुभे तेन पुत्रेणामिततेजसा” इतिवत् । यद्वा कौसल्यायाः सुप्रज इति सम्बोधनम् । कर्मधारये ऽप्यार्षो ऽसिच् “ढ्रलोपे पूर्वस्य दीर्घो ऽणः” इति दीर्घः । “सुपां सुलुक्” इत्यादिना पूर्वसवर्णदीर्घो वा । परशुरामव्यावृत्त्यर्थं विशेषणम् । कौसल्यादशरथयोरुभयोरपि तपःफलत्वेनावतीर्णत्वे ऽपि कथं कौसल्या सुप्रजा इत्युक्तिः ? उच्यते “माता पुत्रस्य भूयांसि कर्माण्यारभते” इत्युक्तरीत्या “मातृदेवो भव पितृदेवो भव” इतिवत् मातृप्राधान्योक्तेः । “पितुः शतगुणं माता” इति स्मृतेश्च । यद्वा कौसल्यादशरथयोर्महदन्तरमस्ति । दशरथो हि “अहं वेद्मि महात्मानम्” इति परत्वेन निवेद्यमाने ऽपि तदकिञ्चित्कृत्य “दुःखेनोत्पादितश्चायं न रामं नेतुमर्हसि” इति रामे केवलं पुत्रत्वं मन्वानो वसिष्ठसन्धुक्षितहृदयो रामं प्रेषितवान् । कौसल्या तु केवलवात्सल्यपरा ऽपि द्रुतं सादरं प्रेषितवती । तदिदं तारतम्यमवलोक्य मुदितहृदयो मुनिराह कौसल्या सुप्रजा इति । मातृवाक्यं पितृवाक्यं च पालनीयमित्यमुं धर्मं लोके प्रवर्तयितुं स्वयं तदनुष्ठातृत्वेन सुप्रजा इत्युक्तम् । अथ क्रमेण गुणान्तरावगाहान्नीस्तीर्य प्रबोधयति रामेत्यादि । रामेत्यनेन स्वापकालिकसौन्दर्यमुच्यते । पूर्वा सन्ध्या प्रवर्तते । पूर्वा सन्ध्या दिवाकरमिव रामदिवाकरं त्वां कौसल्या जनितवतीति भावः । यद्वा मातृवत्पूर्वसन्ध्यामप्युपलालयेति । यद्वा पूर्वा सन्ध्या प्रवर्तते आदित्यस्येव भवतो ऽयं विरोधिनिरसनारम्भसमय इति । यद्वा पूर्वा सन्ध्या प्रवर्तते अज्ञानान्धकारो गतः, भगवत्साक्षात्कारो मे जातः, अद्य मे सुप्रभातमिति । यद्वा जगतः सर्वस्य भगवदवतारोत्सवोद्रेककालो जातः । “अद्य मे सफलं जन्म सुप्रभाता च मे निशा । यदुन्निद्राब्जपत्राक्षं विष्णोर्द्रक्ष्याम्यहं मुखम् ।।” उत्तिष्ठ निद्राश्रीरवलोकिता, प्रबोधश्रियमप्यवलोकितुमिच्छामि। नरशार्दूल नरश्रेष्ठ, नरश्रेष्ठतया भवतापि सन्ध्योपास्या “यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः” इत्युक्तेः। उत्तिष्ठ नरशार्दूल आश्रितविरोधिनिरसनशीलस्य किं निद्रावकाशोप्यस्ति ? नरशार्दूल मद्यज्ञानिर्वाहक उत्थानप्रयोजनमाह कर्तव्यं दैवमाह्निकम्,देवेन सर्वेश्वरेण विहितं नित्यकर्म कर्तव्यम्। यद्वा देवशब्दो भवदर्थकः। भवदीयमाह्निकं भवदाज्ञारूपं कर्म मयाकर्तव्यम्, तत्स्वीकुर्वित्यर्थः। यद्वा दैवं देवाराधनभूतम् आह्निकम्, अह्ना निर्वर्त्यमेकसुत्यात्मकं कर्म यज्ञात्मकम्, कर्तव्यमित्यर्थः ।। 1.23.2 ।।
तस्यर्षेः परमोदारं वचः श्रुत्वा नरोत्तमौ ।
स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम् ।। 1.23.3 ।।
तस्येति । परमोदारम्, परमगम्भीरमित्यर्थः । कृतोदकौ कृतार्ध्यप्रक्षेपौ । यद्वा कृतदेवर्षितर्पणौ । जप्यत इति जपः तम् । गायत्रीमिति यावत् । तस्या एव परमत्वात् “न सावित्र्याः परं जप्यम्” इति वचनात् ।। 1.23.3 ।।
कृताह्निकौ महावीर्यौ विश्वामित्रं तपोधनम् ।
अभिवाद्याभिसंहृष्टौ गमनायाभितस्थतुः ।। 1.23.4 ।।
कृतेति । अह्नि भवमाह्निकम् । “कालाट्ठञ्” । कृतप्रातःकृत्यावित्यर्थः । सन्ध्योपासनब्रह्मयज्ञसमिदाधानानि प्रातः कृत्यानि । अभितस्थतुः अभिमुखं स्थितौ ।। 1.23.4 ।।
तौ प्रयातौ महावीर्यौ दिव्यां त्रिपथगां नदीम् ।
ददृशाते ततस्तत्र सरय्वाः सङ्गमे शुभे ।। 1.23.5 ।।
ताविति । ततः तस्माद्देशात् प्रयातौ । तत्र प्रसिद्धे सरय्वाः सङ्गमे । त्रिपथगां गङ्गां नदीं ददृशाते ।। 1.23.5 ।।
तत्राश्रमपदं पुण्यमृषीणामुग्रतेजसाम् ।
बहुवर्षसहस्राणि तप्यतां परमं तपः ।। 1.23.6 ।।
तत्रेति । तत्र गङ्गासरय्वोः सङ्गमे, ददृशाते इत्यनुषज्यते । तप्यतां तपताम्, कर्तरि यत् छान्दसः ।। 1.23.6 ।।
तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यमाश्रमम् ।
ऊचतुस्तं महात्मानं विश्वामित्रमिदं वचः ।। 1.23.7 ।।
तमिति स्पष्टम् ।। 1.23.7 ।।
कस्यायमाश्रमः पुण्यः को न्वस्मिन् वसते पुमान् ।
भगवन् श्रोतुमिच्छावः परं कौतूहलं हि नौ ।। 1.23.8 ।।
कस्येति । वसते वसति ।। 1.23.8 ।।
तयोस्तद्वचनं श्रुत्वा प्रहस्य मुनिपुङ्गवः ।
अब्रवीच्छ्रूयतां राम यस्यायं पूर्व आश्रमः ।। 1.23.9 ।।
तयोरिति । प्रश्नमाधुर्यात् प्रहासः । यद्वा मानुषभावनटनात् । यस्यायमाश्रमः स श्रूयतामिति योजना । रामेति सम्बोधनं प्राधान्यात् ।। 1.23.9 ।।
कन्दर्पो मूर्तिमानासीत् काम इत्युच्यते बुधैः ।। 1.23.10 ।।
कन्दर्प इति अर्द्धम् । यः काम इत्युच्यते स कन्दर्पः पुरा मूर्तिमानासीत् ।। 1.23.10 ।।
तपस्यन्तमिह स्थाणुं नियमेन समाहितम् ।
कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणम् ।
धर्षयामास दुर्मेधा हुङ्कृतश्च महात्मना ।। 1.23.11 ।।
तपस्यन्तमिति सार्द्धश्लोकः । तपस्यन्तं तपश्चरन्तम् । “कर्मणो रोमन्थतपोभ्यां वर्तिचरोः” इति क्यङ् । इह आश्रमे तपस्यन्तम् । नियमेन अविच्छेदेन । समाहितं समाधिमन्तम् । कृतोद्वाहं कृतपार्वतीपरिणयम्, गच्छन्तं शुश्रूषणार्थं पार्वतीं प्राप्नुवन्तम्, देवेशं स्थाणुं रुद्रम्, दुर्मेधाः कामो धर्षयामास । कृतोद्वाहमिति क्रियाविशेषणम्, यदा अयं कृतोद्वाहो भवति तदा तं पार्वत्यां साभिलाषचित्तमकरोदित्यर्थः । समरुद्गणमित्यपि क्रियाविशेषणम् । तदनुमतिपूर्वकमित्यर्थः । महात्मना हुङ्कृतश्चासीत् ।। 1.23.11 ।।
अवदग्धस्य रौद्रेण चक्षुषा रघुनन्दन ।
व्यशीर्य्यन्त शरीरात् स्वात् सर्वगात्राणि दुर्मतेः ।। 1.23.12 ।।
अवदग्धस्येति । व्यशीर्यन्त विशीर्णानि । “शृ़ हिंसायाम्” इत्यतः कर्तरि श्यन् ।। 1.23.12 ।।
तस्य गात्रं हतं तत्र निर्दग्धस्य महात्मना ।
अशरीरः कृतः कामः क्रोधाद्देवेश्वरेण हि ।। 1.23.13 ।।
तस्येति । तत्र तदा महात्मना निर्दग्धस्य शरीरं हतम्, अतः कामः अशरीरः कृतः ।। 1.23.13 ।।
अनङ्ग इति विख्यातस्तदाप्रभृति राघव ।
स चाङ्गविषयः श्रीमान् यत्राङ्गं प्रमुमोच ह ।। 1.23.14 ।।
अनङ्ग इति । कामस्तदाप्रभृति अनङ्ग इति विख्यातः । सो ऽङ्गविषयः अङ्गदेशश्च विख्यातः । तत्र हेतुमाह यत्रेति । यस्मात्कारणादत्र कामो ऽङ्गं मुमोच तस्मादयं देशो ऽङ्ग इत्युच्यत इत्यर्थः ।। 1.23.14 ।।
तस्यायमाश्रमः पुण्यस्तस्येमे मुनयः पुरा ।
शिष्या धर्मपरा नित्यं तेषां पापं न विद्यते ।। 1.23.15 ।।
तस्येति । तस्य कामस्य स्थाणोर्वा । अयमाश्रमः इमे मुनयः तस्य । पुरा पूर्वकालमारभ्य सन्तानपरम्परया शिष्याः, अत एव धर्मपराः, अत एव च तेषां पापं न विद्यते । पूर्वं रुद्रशिष्या अपि सम्प्रति तच्छिष्यत्वकृतपापं न विद्यत इत्यर्थः । एतेन प्रश्नद्वयस्याप्युत्तरमुक्तम् । हिमवति तपस्यन्तं कामो ऽधर्षयदित्युक्तिः पुराणान्तरे कल्पान्तरमपेक्ष्य ।। 1.23.15 ।।
इहाद्य रजनीं राम वसेम शुभदर्शन ।
पुण्ययोः सरितोर्मध्ये श्वस्तरिष्यामहे वयम् ।। 1.23.16 ।।
इहेति । इह अङ्गविषये । तरिष्यामहे, गङ्गामिति शेषः ।। 1.23.16 ।।
अभिगच्छामहे सर्वे शुचयः पुण्यमाश्रमम् ।
स्नाताश्च कृतजप्याश्च हुतहव्या नरोत्तम ।। 1.23.17 ।।
अभीति । स्नाताः अत एव शुचयो भूत्वा पुण्यमाश्रममभिगच्छामहे । व्यत्ययात्तङ् ।। 1.23.17 ।।
तेषां संवदतां तत्र तपोदीर्घेण चक्षुषा ।
विज्ञाय परमप्रीता मुनयो हर्षमागमन् ।। 1.23.18 ।।
तेषामिति । तेषां संवदतां तेषु संवदत्सु । तपसा दीर्घेण विप्रकृष्टार्थग्रहणसमर्थेन । चक्षुषा ज्ञानेन । विज्ञाय दृष्ट्वा, तेषामागमनं ताटकादिनिरासनिमित्तम्, तपोजन्यज्ञानेन विदित्वेत्यर्थः । हर्षं हर्षपुलकम् ।। 1.23.18 ।।
अर्घ्यं पाद्यं तथातिथ्यं निवेद्य कुशिकात्मजे ।
रामलक्ष्मणयोः पश्चादकुर्वन्नतिथिक्रियाम् ।। 1.23.19 ।।
अर्घ्यमिति । अर्घ्यं पूजार्थमुदकम्, पाद्यं पादार्थमुदकम्, “पादार्घाभ्यां च” इति यत्प्रत्ययः । आतिथ्यम् आचमनीयपूर्वकं भोज्यप्रदानम् । अतिथिक्रियाम् अतिथिपूजाम् ।। 1.23.19 ।।
सत्कारं समनुप्राप्य कथाभिरभिरञ्जयन् ।
यथार्हमजपन् सन्ध्यामृषयस्ते समाहिताः ।। 1.23.20 ।।
सत्कारमिति । सत्कारं कुशलप्रश्नादिकं विश्वामित्रात्समनुप्राप्य अभिरञ्जयन् अभ्यरञ्जयन् अतिथिभूतानिति शेषः । क्रमेण सायं सन्ध्यागमे सति, ते तद्वासिनो विश्वामित्रादयश्च । छत्रिन्यायेन ऋषय इत्युक्तम्, समाहिताः अनन्यपराः । सन्ध्याम् अहोरात्रयोः सन्धिम् । अत्यन्तसंयोगे द्वितीया । यथार्हं यथायोग्यम्, यथाशक्तीति यावत् । “सहस्रपरमां देवीं शतमध्यां दशावराम्” इति वचनात् । अजपन्, गायत्रीमिति शेषः ।। 1.23.20 ।।
तत्र वासिभिरानीता मुनिभिः सुव्रतैः सह ।
न्यवसन् सुसुखं तत्र कामाश्रमपदे तदा ।। 1.23.21 ।।
तत्रेति । आनीताः निद्रायै स्वाश्रमं प्रापिताः । कामाश्रमपदे कामदाहात्कामाश्रमनामकस्य पदे स्थाने ।। 1.23.21 ।।
कथाभिरभिरामाभिरभिरामौ नृपात्मजौ ।
रमयामास धर्मात्मा कौशिको मुनिपुङ्गवः ।। 1.23.22 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयोविंशः सर्गः ।। 23 ।।
कथाभिरिति । कथाभिः तदाश्रमवैभवपराभिः ।। 1.23.22 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने त्रयोविंशः सर्गः ।। 23 ।।