श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः त्रिंशः सर्गः
अथ तौ देशकालज्ञौ राजपुत्रावरिन्दमौ ।
देशे काले च वाक्यज्ञावब्रूतां कौशिकं वचः ।। 1.30.1 ।।
सुबाहुमारीचप्रभृतिदुष्टनिग्रहस्त्रिंशे अथ तावित्यादि । देशकालज्ञाविति हेतुगर्भम् । देशकालज्ञत्वादुचिते देशे उचिते काले चाब्रूताम् ।। 1.30.1 ।।
भगवन् श्रोतुमिच्छावो यस्मिन् काले निशाचरौ ।
संरक्षणीयौ तौ ब्रह्मन्नातिवर्तेत तत्क्षणम् ।। 1.30.2 ।।
भगवन्निति । संरक्षणीयौ निवारणीयौ । धातूनामनेकार्थत्वात् विपरीतलक्षणा वा । यद्वा इष्टप्राप्तिरनिष्टनिवृत्तिश्च रक्षणम् । अत्र अनिष्टनिवृत्तिः तत्क्षणं स कालः । नातिवर्तेत अज्ञातो नातिक्रामेत् ।। 1.30.2 ।।
एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया ।
सर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ ।। 1.30.3 ।।
एवमिति । युयुत्सया योद्धुमिच्छया । प्रशशंसुः प्रोचुः ।। 1.30.3 ।।
अद्यप्रभृति षड्रात्रं रक्षतं राघवौ युवाम् ।
दीक्षां गतो ह्येष मुनिर्मौनित्वं च गमिष्यति ।। 1.30.4 ।।
अद्येति । रक्षतमिति लोण्मध्यमपुरुषद्विवचनम् । एतद्दिनमारभ्य षड्रात्रपर्यन्तं मुनिर्मौनित्वं गमिष्यति, अतो वयं वदाम इत्यर्थः ।। 1.30.4 ।।
तौ च तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौ ।
अनिद्रौ षडहोरात्रं तपोवनमरक्षताम् ।। 1.30.5 ।।
ताविति । षडहोरात्रं षण्णामहोरात्राणां समाहारः षडहोरात्रम् तत् ।। 1.30.5 ।।
उपासाञ्चक्रतुर्वीरौ यत्तौ परमधन्विनौ ।
ररक्षतुर्मुनिवरं विश्वामित्रमरिन्दमौ ।। 1.30.6 ।।
उपासाञ्चक्रतुरिति । उपासाञ्चक्रतुः ऊषतुः । यत्तौ सन्नद्धौ । परमं धनुर्ययोस्तौ परमधन्विनौ । व्रीह्यादित्वादिनिः ।। 1.30.6 ।।
अथ काले गते तस्मिन् षष्ठे ऽहनि समागते ।
सौमित्रिमब्रवीद्रामो यत्तो भव समाहितः ।। 1.30.7 ।।
अथेति । काले पञ्चदिनात्मके गते । तस्मिन् प्रधाने अहनि सुत्यादिने । समाहितः एकाग्रचित्तः । अत्राद्यप्रभृति षड्रात्रमित्युक्त्या पूर्वसर्गे तत्पूर्वदिने दीक्षाप्रवेशोक्त्या च सप्तरात्रनिर्वर्त्यः सत्रविशेषो ऽयमिति गम्यते ।। 1.30.7 ।।
रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया ।
प्रजज्वाल ततो वेदिस्सोपाध्यायपुरोहिता ।। 1.30.8 ।।
रामस्येति । वेदिप्रज्वलनमुत्पातो राक्षसागमसूचकः । उपाध्यायः विश्वामित्रः । पुरोहिता ऋत्विजः ।। 1.30.8 ।।
सदर्भचमसस्रुक्का ससमित्कुसुमोच्चया ।
विश्वामित्रेण सहिता वेदिर्जज्वाल सर्त्विजा ।। 1.30.9 ।।
एतद्विवृणोति सदर्भेति । चमसं नाम पानपात्रम् । स्रुक् होमपात्रम् । उच्चयः समूहः । कुसुमोच्चयो ऽलङ्कारार्थः ।। 1.30.9 ।।
मन्त्रवच्च यथान्यायं यज्ञो ऽसौ सम्प्रवर्तते ।
आकाशे च महान् शब्दः प्रादुरासीद्भयानकः ।। 1.30.10 ।।
मन्त्रवदिति । ननु रक्षोघ्नमन्त्रजपे क्रियमाणे कथं राक्षसागमनप्रसक्तिः ? न कथञ्चित्, किन्तु दूरत एवाकाशे मेघवद्रुधिरं ववर्षुः । तदिदमाह आकाश इति । भयानकः भयङ्करः ।। 1.30.10 ।।
आवार्य गगनं मेघो यथा प्रावृषि निर्गतः ।
तथा मायां विकुर्वाणौ राक्षसावभ्यधावताम् ।। 1.30.11 ।।
आवार्येति । प्रावृषि वर्षाकाले निर्गतो मेघो यथातथाभ्यधावताम् ।। 1.30.11 ।।
मारीचश्च सुबाहुश्च तयोरनुचराश्च ये ।
आगम्य भीमसङ्काशा रुधिरौघमवासृजन् ।। 1.30.12 ।।
मारीच इति । भीमसङ्काशाः भयङ्कराः ।। 1.30.12 ।।
सा तेन रुधिरौघेण वेदिर्जज्वाल मण्डिता ।
सहसा ऽभिद्रुतो रामस्तानपश्यत्ततो दिवि ।। 1.30.13 ।।
सेति । अभिद्रुतः अभिमुखं धावन् ।। 1.30.13 ।।
तावापतन्तौ सहसा दृष्ट्वा राजीवलोचनः ।
लक्ष्मणं त्वभिसम्प्रेक्ष्य रामो वचनमब्रवीत् ।। 1.30.14 ।।
ताविति स्वष्टम् ।। 1.30.14 ।।
पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशिताशनान् ।
मानवास्त्रसमाधूताननिलेन यथा घनान् ।। 1.30.15 ।।
पश्येति । पिशिताशनान् मांसभक्षकान् । एतद्विधूननार्थं मानवास्रं प्रयोक्ष्य इति भावः ।। 1.30.15 ।।
मानवं परमोदारमस्त्रं परमभास्वरम् ।
चिक्षेप परमक्रुद्धो मारीचोरसि राघवः ।। 1.30.16 ।।
मानवमिति । अत्रादावित्युक्त्वेत्युपस्कार्यम् । ननु सर्वराक्षसेष्वस्त्रप्रयोगं प्रतिज्ञाय मारीचोरसि तत्प्रयोगः कथमिति चेन्न पूर्वश्लोके राक्षसशब्दस्य मारीचमात्रपरत्वात् ।। 1.30.16 ।।
स तेन परमास्त्रेण मानवेन समाहतः ।
सम्पूर्णं योजनशतं क्षिप्तः सागरसम्प्लवे ।। 1.30.17 ।।
स इति । सागरसम्प्लवे समुद्रपूरे । अत्र गायत्रीद्वितीयाक्षरं सः ।। 1.30.17 ।।
विचेतनं विघूर्णन्तं शीतेषु बलताडितम् ।
निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत् ।। 1.30.18 ।।
विचेतनमिति । शीतेषु शब्दो ऽवयववृत्त्या मानवास्त्रे वर्तते । दृश्य दृष्ट्वा । मारीचस्य प्राणरक्षणं भाविकार्यान्तरसाधनाय ।। 1.30.18 ।।
इमानपि वधिष्यामि निर्घृणान् दुष्टचारिणः ।
राक्षसान् पापकर्मस्थान् यज्ञघ्नान् रुधिराशनान् ।। 1.30.19 ।।
इमानिति । वधप्रयोजकानि निर्घृणत्वादीनि ।। 1.30.19 ।।
सङ्गृह्यास्त्रं ततो रामो दिव्यमाग्नेयमद्भुतम् ।
सुबाहूरसि चिक्षेप स विद्धः प्रापतद्भुवि ।। 1.30.20 ।।
सङ्गृह्येति । अद्भुतं यथातथा चिक्षेप ।। 1.30.20 ।।
शेषान् वायव्यमादाय निजघान महायशाः ।
राघवः परमोदारो मुनीनां मुदमावहन् ।। 1.30.21 ।।
शेषानिति । निजघान हिंसितवान् ।। 1.30.21 ।।
स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः ।
ऋषिभिः पूजितस्तत्र यथेन्द्रो विजये पुरा ।। 1.30.22 ।।
स इति । पुरा विजये असुरविजये ।। 1.30.22 ।।
अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः ।
निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत् ।। 1.30.23 ।।
अथेति । निरीतिकाः निर्बाधाः ।। 1.30.23 ।।
कृतार्थो ऽस्मि महाबाहो कृतं गुरुवचस्त्वया ।
सिद्धाश्रममिदं सत्यं कृतं राम महायशः ।। 1.30.24 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिंशः सर्गः ।। 30 ।।
कृतार्थ इति । गुरुवचः पितृवचः ।। 1.30.24 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने त्रिंशः सर्गः ।। 30 ।।