श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः
द्वात्रिंशः सर्गः
ब्रह्मयोनिर्महानासीत् कुशो नाम महातपाः ।
अक्लिष्टव्रतधर्मज्ञः सज्जनप्रतिपूजकः ।। 1.32.1 ।।
एवं शोणकूलदेशवैभवे पृष्टे अयं मद्वंश्यानां देश इति विवक्षन् स्वान्वयं प्रदर्शयति द्वात्रिंशे ब्रह्मयोनिरित्यादि । ब्रह्मा योनिः कारणं यस्य सः ब्रह्मयोनिः अयोनिजो ब्रह्मपुत्रः । महान्
ज्ञानशौर्यादिभिरितरब्रह्मपुत्रविलक्षणः । कौ भूमौ शेत इति कुशः । नारदादिवत् ब्रह्मलोके ऽनवस्थाय प्रजापालने दत्तादरतया भूमाववस्थानात् कुश इत्यस्य नाम, अत एव क्षत्रियव्यापारात् क्षत्रियो ऽयम् । अक्लिष्टं निर्बाधं व्रतं यस्य सो ऽक्लिष्टव्रतः अक्लिष्टव्रतश्चासौ धर्मज्ञश्चेति कर्मधारयः ।। 1.32.1 ।।
स महात्मा कुलीनायां युक्तायां सुगुणोल्बणान् ।
वैदर्भ्यां जनयामास सदृशांश्चतुरः सुतान् ।
कुशाम्बं कुशनाभं च आधूर्तरजसं वसुम् ।। 1.32.2 ।।
स इति सार्द्धश्लोकः । युक्तायाम् अनुरूपायाम् ।। 1.32.2 ।।
दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया ।
तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः ।। 1.32.3 ।।
दीप्तीति सार्द्धश्लोकः । क्षत्रधर्मः प्रजापालनम् । पुष्कलं समग्रम् ।। 1.32.3 ।।
क्रियतां पालनं पुत्रा धर्मं प्राप्स्यथ पुष्कलम् ।
ऋषेस्तु वचनं श्रुत्वा चत्वारो लोकसम्मताः ।
निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा ।। 1.32.4 ।।
ऋषेः कुशस्य निवेशं सन्निवेशम् ।। 1.32.4 ।।
कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत्पुरीम् ।
कुशनाभस्तु धर्मात्मा पुरं चक्रे महोदयम् ।। 1.32.5 ।।
आधूर्तरजसो राम धर्मारण्यं महीपतिः ।
चक्रे पुरवरं राजा वसुश्चक्रे गिरिव्रजम् ।। 1.32.6 ।।
कुशाम्ब इत्यादिश्लोकद्वयम् ।। 1.32.5,6 ।।
एषा वसुमती राम वसोस्तस्य महात्मनः ।
एते शैलवराः पञ्च प्रकाशन्ते समन्ततः ।। 1.32.7 ।।
एषेति । एषा शोणकूलस्था । शैलवराः गिरिव्रजसञ्ज्ञामूलाः ।। 1.32.7 ।।
सुमागधी नदी रम्या मगधान् विश्रुता ययौ ।
पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते ।। 1.32.8 ।।
सुमागधीति । मगधदेशादागता मागधीति शोण एवोच्यते । आययावितिच्छेदः ।। 1.32.8 ।।
सैषा हि मागधी राम वसोस्तस्य महात्मनः ।
पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी ।। 1.32.9 ।।
सैषेति । पूर्वाभिचरिता पूर्वदेशात् प्रत्यङ्मुखवाहिनी । सुक्षेत्रा उभयपार्श्वत इति शेषः ।। 1.32.9 ।।
कुशनाभस्तु राजर्षिः कन्याशतमनुत्तमम् ।
जनयामास धर्मात्मा घृताच्यां रघुनन्दन ।। 1.32.10 ।।
कुशनाभ इत्यादि । घृतवत्पुरुषं दृष्ट्वा द्रवती सत्यञ्चतीति घृताची । कुशनाभभार्या घृतवत्पुरुषं कृत्वाञ्चतीति वा । अप्सरसः ।। 1.32.10 ।।
तास्तु यौवनशालिन्यो रूपवत्यः स्वलङ्कृताः ।
उद्यानभूमिमागम्य प्रावृषीव शतह्रदाः ।। 1.32.11 ।।
गायन्त्यो नृत्यमानाश्च वादयन्त्यश्च सर्वशः ।
आमोदं परमं जग्मुर्वराभरणभूषिताः ।। 1.32.12 ।।
तास्त्विति श्लोकद्वयम् । उद्यानभूमिमागम्य शतह्रदा इव स्थिताः । शतह्रदाः विद्युतः । नृत्यमानाः नृत्यन्त्यः वादयन्त्यः, वीणा इति शेषः । आमोदं सन्तोषम् । स्वलङ्कृताः, कुसुमचन्दनतिलकादिभिः ।। 1.32.11,12 ।।
अथ ताश्चारुसर्वाङ्ग्यो रूपेणाप्रतिमा भुवि ।
उद्यानभूमिमागम्य तारा इव घनान्तरे ।। 1.32.13 ।।
अथेति । तारा इव बभुरिति शेषः ।। 1.32.13 ।।
ताः सर्वगुणसम्पन्ना रूपयौवनसंयुताः ।
दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत् ।। 1.32.14 ।।
ता इति । सर्वगुणसम्पन्नाः सर्वालङ्कारसम्पन्नाः । सर्वत्र आत्मा स्वरूपं यस्य सः सर्वात्मकः, सर्वत्र सञ्चारीत्यर्थः ।। 1.32.14 ।।
अहं वः कामये सर्वा भार्या मम भविष्यथ ।
मानुषस्त्यज्यतां भावो दीर्घमायुरवाप्स्यथ ।। 1.32.15 ।।
अहमिति । वः भवतीः । मानुषे भवो मानुषः । भावः अनुरागः । त्यज्यतां तथा सति दीर्घमायुरवाप्स्यथ ।। 1.32.15 ।।
चलं हि यौवनं नित्यं मानुषेषु विशेषतः ।
अक्षयं यौवनं प्राप्ता अमर्यश्च भविष्यथ ।। 1.32.16 ।।
चलमिति । नित्यं सर्वदा अक्षयमिति मद्भार्यात्व इति शेषः ।। 1.32.16 ।।
तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मणः ।
अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत् ।। 1.32.17 ।।
तस्येति । अक्लिष्टकर्मणः अप्रतिहतकर्मणः । ततः तद्वाक्यश्रवणेन । अपहास्य अथाब्रवीत् ।। 1.32.17 ।।
अन्तश्चरसि भूतानां सर्वेषां त्वं सुरोत्तम ।
प्रभावज्ञाः स्म ते सर्वाः किमस्मानवमन्यसे ।। 1.32.18 ।।
अन्तरिति । अन्तश्चरसि प्राणरूपेण । भूतानां प्राणिनां प्रभावज्ञाः एवंविधप्रभावज्ञाः । अस्मान् ज्ञातभवत्प्रभावान् ।। 1.32.18 ।।
कुशनाभसुताः सर्वाः समर्थास्त्वां सुरोत्तम ।
स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम् ।। 1.32.19 ।।
कुशेति । स्थानात् अधिकारात् । देवं भवन्तम् ।। 1.32.19 ।।
माभूत्स कालो दुर्मेधः पितरं सत्यवादिनम् ।
नावमन्यस्व धर्मेण स्वयं वरमुपास्महे ।। 1.32.20 ।।
माभूदिति । सः नः पिता ते कालः मृत्युः माभूत् । हे दुर्मेधः दुर्बुद्धे पितरं नावमन्यस्व । धर्मेण पितृप्रदानरूपेण । वरं स्वयमुपास्महे प्रतीक्षामहे, पिता स्वयं यस्मै दास्यति तं प्रतीक्षामह इत्यर्थः ।। 1.32.20 ।।
पिता हि प्रभुरस्माकं दैवतं परमं हि नः ।
यस्य नो दास्यति पिता स नो भर्ता भविष्यति ।। 1.32.21 ।।
उक्तं विवृणोति पितेति ।। 1.32.21 ।।
तासां तद्वचनं श्रुत्वा वायुः परमकोपनः ।
प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः ।। 1.32.22 ।।
तासामिति । बभञ्ज कुब्जीचकार ।। 1.32.22 ।।
ताः कन्याः वायुना भग्ना विविशुर्नृपतेर्गृहम् ।
प्रापतन् भुवि सम्भ्रान्ताः सलज्जाः साश्रुलोचनाः ।। 1.32.23 ।।
ता इति । सलज्जाः शरीरवैरूप्यादिति भावः ।। 1.32.23 ।।
स च ता दयिता दीनाः कन्याः परमशोभनाः ।
दृष्ट्वा भग्नास्तदा राजा सम्भ्रान्त इदमब्रवीत् ।। 1.32.24 ।।
स चेति । सम्भ्रान्तः पर्याकुलचित्तः ।। 1.32.24 ।।
किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते ।
कुब्जाः केन कृताः सर्वा वेष्टन्त्यो नाभिभाषथ ।। 1.32.25 ।।
किमिति । को धर्ममवमन्यते, बलात्कारं करोतीत्यर्थः । कुब्जाः वक्रशरीराः ।। 1.32.25 ।।
एवं राजा विनिश्वस्य समाधिं सन्दधे ततः ।। 1.32.26 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वात्रिंशः सर्गः ।। 32 ।।
एवमिति । पृष्ट्वेति शेषः । विनिश्वस्य व्यथित्वा । समाधिं किंवक्ष्यन्तीति तद्वचनश्रवणावधानम् ।।
1.32.26 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने द्वात्रिंशः सर्गः ।। 32 ।।