श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः
अष्टात्रिंशः सर्गः
तां कथां कौशिको रामे निवेद्य कुशिकात्मजः ।
पुनरेवापरं वाक्यं काकुत्स्थमिदमब्रवीत् ।। 1.38.1 ।।
एवं दिव्यसम्भवं विस्तरं प्रतिपाद्यमानुषलोकसम्भवविस्तरं वक्तुमुपक्रमते ऽष्टात्रिंशे–तामित्यादि । रामे रामाय । कौशिकशब्दार्थमाह कुशिकात्मज इति ।। 1.38.1 ।।
अयोध्याधिपतिः शूरः पूर्वमासीन्नराधिपः ।
सगरो नाम धर्मात्मा प्रजाकामः स चाप्रजः ।। 1.38.2 ।।
अयोध्येति । अप्रजः अत एव प्रजाकामः ।। 1.38.2 ।।
वैदर्भदुहिता राम केशिनी(?) नाम नामतः ।
ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी ।। 1.38.3 ।।
वैदर्भेति । या वैदर्भदुहिता सा ज्येष्ठपत्न्यासीत् ।। 1.38.3 ।।
अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ।
द्वितीया सगरस्यासीत् पत्नी सुमतिसञ्ज्ञिता ।। 1.38.4 ।।
अरिष्टेति । अरिष्टनेमिः कश्यपः ।। 1.38.4 ।।
ताभ्यां सह तथा राजा पत्नीभ्यां तप्तवांस्तपः ।
हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ ।। 1.38.5 ।।
ताभ्यामिति । भृग्वधिष्ठितं प्रस्रवणं वारिप्रवाहो यस्मिंस्तथा । गिरौ पर्यन्तपर्वते ।। 1.38.5 ।।
अथ वर्षशते पूर्णे तपसाराधितो मुनिः ।
सगराय वरं प्रादाद्भृगुः सत्यवतां वरः ।। 1.38.6 ।।
अथेति । वर्षशते पूर्णे, तपस्यत इति शेषः ।। 1.38.6 ।।
अपत्यलाभः सुमहान् भविष्यति तवानघ ।
कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ ।। 1.38.7 ।।
अपत्येति । सुबह्वपत्यविषयत्वात्सुमहत्त्वम् । कीर्तिमिति तेनेति शेषः ।। 1.38.7 ।।
एका जनयिता तात पुत्रं वंशकरं तव ।
षष्टिं पुत्रसहस्राणि अपरा जनयिष्यति ।। 1.38.8 ।।
एकेति । जनयितेति लुट् । तातेत्युपलालने ।। 1.38.8 ।।
भाषमाणं महात्मानं राजपुत्र्यौ प्रसाद्य तम् ।
ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा ।। 1.38.9 ।।
भाषमाण्ामिति । राजपुत्र्याविति छत्रिन्यायादुक्तम् । सुमतेः कश्यपपुत्रीत्वात् ।। 1.38.9 ।।
एकः कस्यास्सुतो ब्रह्मन् का बहून् जनयिष्यति ।
श्रोतुमिच्छावहे ब्रह्मन् सत्यमस्तु वचस्तव ।। 1.38.10 ।।
एक इति । तव वचः सत्यमस्तु, यस्या एकमिच्छसि तस्या एकः । यस्या बहूनिच्छसि तस्या बहवः सन्त्वित्यर्थः ।। 1.38.10 ।।
तयोस्तद्वचनं श्रुत्वा भृगुः परमधार्मिकः ।
उवाच परमां वाणीं स्वच्छन्दो ऽत्र विधीयताम् ।। 1.38.11 ।।
तयोरिति । अत्र पुत्रविषये । स्वच्छन्दः स्वेच्छा । विधीयतां ज्ञाप्यताम् ।। 1.38.11 ।।
एको वंशकरो वा ऽस्तु बहवो वा महाबलाः ।
कीर्तिमन्तो महोत्साहाः का वा कं वरमिच्छति ।। 1.38.12 ।।
तदेव विवृणोति–एक इति ।। 1.38.12 ।।
मुनेस्तु वचनं श्रुत्वा कैशिनी(?) रघुनन्दन ।
पुत्रं वंशकरं राम जग्राह नृपसन्निधौ ।। 1.38.13 ।।
मुनेरिति । जग्राह वरयामास ।। 1.38.13 ।।
षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तदा ।
महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् ।। 1.38.14 ।।
षष्टिमिति । सुपर्णभगिनी गरुडभगिनी ।। 1.38.14 ।।
प्रदक्षिणमृषिं कृत्वा शिरसाभिप्रणम्य च ।
जगाम स्वपुरं राजा सभार्यो रघुनन्दन ।। 1.38.15 ।।
प्रदक्षिणमिति । ऋषिं भृगुम् ।। 1.38.15 ।।
अथ काले गते तस्मिन् ज्येष्ठा पुत्रं व्यजायत ।
असमञ्ज इति ख्यातं केशिनी सगरात्मजम् ।। 1.38.16 ।।
अथेति । व्यजायत प्रसूतवती ।। 1.38.16 ।।
सुमतिस्तु नरव्याघ्र गर्भतुम्बं व्यजायत ।
षष्टिः पुत्राः सहस्राणि तुम्बभेदाद्विनिःसृताः ।। 1.38.17 ।।
सुमतिरिति । गर्भतुम्बम्, वृत्ताकारं गर्भपिण्डम् । कथं ततः पुत्रोदय इत्यत आह षष्टिरिति । तुम्बभेदात्, न तु गान्धार्या इव पश्चाद्विभजनीय इत्यर्थः ।। 1.38.17 ।।
घृतपूर्णेषु कुम्भेषु धात्र्यस्तान् समवर्द्धयन् ।
कालेन महता सर्वे यौवनं प्रतिपेदिरे ।। 1.38.18 ।।
घृतेति । धात्र्यः उपमातरः । तान् विभक्ततुम्बान् ।। 1.38.18 ।।
अथ दीर्घेण कालेन रूपयौवनशालिनः ।
षष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा ।। 1.38.19 ।।
अथेति । दीर्घेण कालेनेति यौवनशालित्वे हेतुत्वात्तृतीया । यौवनशालिन इति पुँल्लिङ्गत्वमार्षम् ।। 1.38.19 ।।
स च ज्येष्ठो नरश्रेष्ठस्सगरस्यात्मसम्भवः ।
बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन ।
प्रक्षिप्य प्रहसन्नित्यं मज्जतस्तान् समीक्ष्य वै ।। 1.38.20 ।।
स चेति अर्द्धत्रयम् । ज्येष्ठः असमञ्जः । प्रहसन्, स्थित इति शेषः ।। 1.38.20 ।।
एवं पापसमाचारः सज्जनप्रतिबाधकः ।
पौराणामहिते युक्तः पुत्रो निर्वासितः पुरात् ।। 1.38.21 ।।
एवमिति । निर्वासितः विवास्यते स्म ।। 1.38.21 ।।
तस्य पुत्रों ऽशुमान्नाम असमञ्जस्य वीर्यवान् ।
सम्मतः सर्वलोकस्य सर्वस्यापि प्रियंवदः ।। 1.38.22 ।।
तस्येति । अंशुमान्नाम, आसीदिति शेषः ।। 1.38.22 ।।
ततः कालेन महता मतिः समभिजायत ।
सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता ।। 1.38.23 ।।
तत इति । यजेयमिति निश्चिता मतिः । समभिजायत समभ्यजायत ।। 1.38.23 ।।
स कृत्वा निश्चयं राम सोपाध्यायगणस्तदा ।
यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे ।। 1.38.24 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टात्रिंशः सर्गः ।। 38 ।।
स इति । यज्ञकर्मणि निश्चयं कृत्वा यष्टुं समुपचक्रमे ।। 1.38.24 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने अष्टात्रिंशः सर्गः ।। 38 ।।