श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः
एकचत्वारिंशः सर्गः
पुत्रांश्चिरगतान् ज्ञात्वा सगरो रघुनन्दन ।
नप्तारमब्रवीद्राजा दीप्यमानं स्वतेजसा ।। 1.41.1 ।।
पुत्रानिति । नप्तारं पौत्रम् ।। 1.41.1 ।।
शूरश्च कृतविद्यश्च पूर्वैस्तुल्यो ऽसि तेजसा ।
पितृ़णां गतिमन्विच्छ येन चाश्वो ऽपवाहितः ।। 1.41.2 ।।
शूर इति । पूर्वैः पितृभिः । पितृ़णां कनिष्ठपितृ़णाम् । गतिं मार्गम् । अन्विच्छ अन्वेषय । अश्वो येनापवाहितस्तस्य च गतिमन्विच्छ ।। 1.41.2 ।।
अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च ।
तेषां त्वं प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम् ।। 1.41.3 ।।
अन्तरिति । अन्तर्भौमानि भूमेरन्तर्जातानि । भूबिलमाश्रितानीत्यर्थः । यानीति शेषः ।। 1.41.3 ।।
अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपि ।
सिद्धार्थस्सन्निवर्तस्व मम यज्ञस्य पारगः ।। 1.41.4 ।।
अभिवाद्येति । पारगः समाप्तिकरः ।। 1.41.4 ।।
एवमुक्तों ऽशुमान् सम्यक् सगरेण महात्मना ।
धनुरादाय खङ्गं च जगाम लघुविक्रमः ।। 1.41.5 ।।
एवमिति । लघुविक्रमः शीघ्रगमनः ।। 1.41.5 ।।
स खातं पितृभिर्मार्गमन्तर्भौमं महात्मभिः ।
प्रापद्यत नरश्रेष्ठस्तेन राज्ञा ऽभिचोदितः ।। 1.41.6 ।।
स इति । खातं क्लृप्तमित्यर्थः ।। 1.41.6 ।।
दैत्यदानवरक्षोभिः पिशाचपतगोरगैः ।
पूज्यमानं महातेजा दिशागजमपश्यत ।। 1.41.7 ।।
दैत्येति । अपश्यत अपश्यत् ।। 1.41.7 ।।
स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम् ।
पितृ़न् स परिपप्रच्छ वाजिहर्तारमेव च ।। 1.41.8 ।।
स इति । परिपप्रच्छ, क्वास्त इति शेषः ।। 1.41.8 ।।
दिशागजस्तु तच्छ्रुत्वा प्रत्याहांशुमतो वचः ।
आसमञ्ज कृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि ।। 1.41.9 ।।
दिशेति । आसमञ्ज असमञ्जपुत्र इञभाव आर्षः ।। 1.41.9 ।।
तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान् ।
यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे ।। 1.41.10 ।।
तस्येति । समुपचक्रम इति सविनयत्वप्रकटनम् ।। 1.41.10 ।।
तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः ।
पूजितः सहयश्चैव गन्तासीत्यभिचोदितः ।। 1.41.11 ।।
तैश्चेति । वक्तुमर्हं वाक्यं “ऋहलोर्ण्यत्” “चजोः कु घिण्ण्यतोः” इति कुत्वम् । वाक्यकोविदैः कालदेशोचितवक्तव्यार्थज्ञैः । यद्वा परवाक्याशयज्ञैः, स्वयं वाक्यप्रयोगकुशलैश्चेत्यर्थः । सहयः पितामहसमीपं गन्तासीत्यभिचोदितो ऽभूत् ।। 1.41.11 ।।
तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः ।
भस्मराशीकृता यत्र पितरस्तस्य सागराः ।। 1.41.12 ।।
तेषामिति । तस्य अंशुमतः । पितरो यत्र भस्मराशीकृतास्तं देशं जगाम ।। 1.41.12 ।।
स दुःखवशमापन्नस्त्वसमञ्जसुतस्तदा ।
चुक्रोश परमार्तस्तु वधात्तेषां सुदुःखितः ।। 1.41.13 ।।
स इति । पूर्वमदर्शनाद्दुःखवशमापन्नः, तेषां वधात् वधदर्शनात् । सुदुःखितः परमार्तः भृशं तप्तः । चुक्रोश रुरोद ।। 1.41.13 ।।
यज्ञीयं च हयं तत्र चरन्तमविदूरतः ।
ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः ।। 1.41.14 ।।
यज्ञीयमिति । शोकः विलापः ।। 1.41.14 ।।
स तेषां राजपुत्राणां कर्तुकामो जलक्रियाम् ।
सलिलार्थी महातेजा न चापश्यज्जलाशयम् ।। 1.41.15 ।।
स इति । जलक्रिया तर्पणम् ।। 1.41.15 ।।
विसार्य निपुणां दृष्टिं ततो ऽपश्यत् खगाधिपम् ।
पितृ़णां मातुलं राम सुपर्णमनिलोपमम् ।। 1.41.16 ।।
विसार्येति । विसार्य समन्तात्प्रसार्य । निपुणां दूरवीक्षणक्षमाम् । अनिलोपमम्, वेगेनेति शेषः ।। 1.41.16 ।।
स चैवमब्रवीद्वाक्यं वैनतेयो महाबलः ।
मा शुचः पुरुषव्याघ्र वधो ऽयं लोकसम्मतः ।। 1.41.17 ।।
स चेति । लोकसम्मतः लोकहितः ।। 1.41.17 ।।
कपिलेनाप्रमेयेन दग्धा हीमे महाबलाः ।
सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम् ।। 1.41.18 ।।
कपिलेनेति । हि यस्मात् कपिलेन हताः लौकिकं लोकतः प्राप्तम्, सलिलं दातुं नार्हसि । “चण्डालादुदकात्सर्पात् वैद्युताद्ब्राह्मादपि । दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मणाम् । उदकं पिण्डदानं च एतेभ्योयद्विधीयते । नोपतिष्ठति तत्सर्वमन्तरिक्षे विनश्यति ।।” इति स्मृतेः। कपिलो ब्राह्मणः ।। 1.41.18 ।।
गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ ।
तस्यां कुरु महाबोहो पितृ़णां तु जलक्रियाम् ।। 1.41.19 ।।
गङ्गेति । गङ्गा अस्तीति शेषः ।। 1.41.19 ।।
भस्मराशीकृतानेतान् प्लावयेल्लोकपावनी ।
तया क्लिन्नमिदं भस्म गङ्गया लोककान्तया ।
षष्टिं पुत्रसहस्राणि स्वर्गलोकं नयिष्यति ।। 1.41.20 ।।
न केवलं तत्र जलक्रिया, तया सेचनीयं चेत्याह–भस्मेति सार्द्धश्लोकः । यदि प्लावयेत्सेचयेत्
तदा तया क्लिन्नं सिक्तं भस्म नयिष्यति नेष्यति ।। 1.41.20 ।।
गच्छ चाश्वं महाभाग तं गृह्य पुरुषर्षभ ।
यज्ञं पैतामहं वीर संवर्तयितुमर्हसि ।। 1.41.21 ।।
गच्छेति । संवर्तयितुं समापयितुम् ।। 1.41.21 ।।
सुपर्णवचनं श्रुत्वा सों ऽशुमानति वीर्यवान् ।
त्वरितं हयमादाय पुनरायान्महायशाः ।। 1.41.22 ।।
सुपर्णेति । आयात् आगच्छत् ।। 1.41.22 ।।
ततो राजानमासाद्य दीक्षितं रघुनन्दन ।
न्यवेदयद्यथावृत्तं सुपर्णवचनं तथा ।। 1.41.23 ।।
तत इति । वृत्तं पितृवृत्तान्तं सुपर्णवचनं च यथा तथा न्यवेदयदित्यन्वयः ।। 1.41.23 ।।
तच्छ्रुत्वा घोरसङ्काशं वाक्यमंशुमतो नृपः ।
यज्ञं निर्वर्तयामास यथाकल्पं यथाविधि ।। 1.41.24 ।।
तच्छ्रुत्वेति । यथाकल्पं यथाक्रमम् ।। 1.41.24 ।।
स्वपुरं चागमच्छ्रीमानिष्टयज्ञो महीपतिः ।
गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत ।। 1.41.25 ।।
स्वेति । निश्चयम् उपायम् ।। 1.41.25 ।।
अकृत्वा निश्चयं राजा कालेन महता महान् ।
त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः ।। 1.41.26 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकचत्वारिंशः सर्गः ।। 41 ।।
अकृत्वेति । महता कालेन दिवं गत इत्यन्वयः ।। 1.41.26 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने एकचत्वारिंशः सर्गः ।। 41 ।।