श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः
पञ्चचत्वारिंशः सर्गः
विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः ।
विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत् ।। 1.45.1 ।।
एवं दशभिः सर्गैर्गङ्गागाङ्गेयसम्भ्ाववर्णनव्याजेन धातुमोक्षणगङ्गापूतत्वनिमित्तकं देवतान्तरावरत्वं दर्शितम् । अथ त्रिभिः सर्गैः महेन्द्रस्यावरत्वमुपपाद्यते–विश्वामित्रेत्यादि ।। 1.45.1 ।।
अत्यद्भुतमिदं ब्रह्मन् कथितं परमं त्वया ।
गङ्गावतरणं पुण्यं सागरस्यापि पूरणम् ।। 1.45.2 ।।
अत्यद्भुतमिति । पूरणं खननेनाभिवर्द्धनम् ।। 1.45.2 ।।
क्षणभूतेव नौ रात्रिः संवृत्तेयं महातपः ।
इमां चिन्तयतस्सर्वां निखिलेन कथां तव ।। 1.45.3 ।।
क्षणभूतेव नौ रात्रिरिति श्लोको गता भगवतीत्यर्धात्परमनुसन्धेयः ।। 1.45.3 ।।
तस्य सा शर्वरी सर्वा सह सौमित्रिणा तदा ।
जगाम चिन्तयानस्य विश्वामित्रकथां शुभाम् ।। 1.45.4 ।।
तस्येति । क्षणभूतेव जगामेत्यर्थः ।। 1.45.4 ।।
ततः प्रभाते विमले विश्वामित्रं महामुनिम् ।
उवाच राघवो वाक्यं कृताह्िनकमरिन्दमः ।। 1.45.5 ।।
तत इति । विमले प्रभाते सम्यक्प्रभात इत्यर्थः ।। 1.45.5 ।।
गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम् ।। 1.45.6 ।।
गतेत्यर्द्धत्रयम् । भगवती सत्कथायुक्तत्वात् पूज्या ।। 1.45.6 ।।
तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम् ।
नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम् ।
भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता ।। 1.45.7 ।।
तरामेति अर्द्धत्रयम् । ऋषीणां नौः ऋषितरणार्हा नौः ।। 1.45.7 ।।
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।
सन्तारं कारयामास सर्षिसङ्घः सराघवः ।। 1.45.8 ।।
तस्येति । स राघवः सर्षिसङ्घः । कारयामास अकरोत् । स्वार्थे णिच् ।। 1.45.8 ।।
उत्तरं तीरमासाद्य सम्पूज्यर्षिगणं तदा ।
गङ्गाकूले निविष्टास्ते विशालां ददृशुः पुरीम् ।। 1.45.9 ।।
उत्तरमिति । ऋषिगणं नौतारणार्थमागतं सम्पूज्य पूजापूर्वकं निवर्त्य । निविष्टाः क्षणं स्थिताः ।। 1.45.9 ।।
ततो मुनिवरस्तूर्णं जगाम सहराघवः ।
विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा ।। 1.45.10 ।।
तत इति । विशालां प्रतीति शेषः ।। 1.45.10 ।।
अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम् ।
पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम् ।। 1.45.11 ।।
अथेति । विशालां विशालामाहात्म्यम् ।। 1.45.11 ।।
कतरो राजवंशो ऽयं विशालायां महामुने ।
श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे ।। 1.45.12 ।।
विशालायां वर्तमानो राजवंशः कतर इति द्वितीयः प्रश्नः ।। 1.45.12 ।।
तस्य तद्वचनं श्रुत्वा रामस्य मुनिपुङ्गवः ।
आख्यातुं तत्समारेभे विशालस्य पुरातनम् ।। 1.45.13 ।।
तस्येति । विशालस्य विशालाख्यनगरस्य । पुरातनं कर्म प्रथमपृष्टं वैभवम् आख्यातुं समारेभे ।। 1.45.13 ।।
श्रूयतां राम शक्रस्य कथां कथयतः शुभाम् ।
अस्मिन् देशे तु यद्वृत्तं तदपि शृणु राघव ।। 1.45.14 ।।
श्रूयतामिति । अस्मिन्देशे यद्वृत्तं तच्छृणु । तच्छेषतया शक्रस्य कथां कथयतो मत्तः सा श्रूयताम् ।। 1.45.14 ।।
पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः ।
अदितेश्च महाभाग वीर्यवन्तः सुधार्मिकाः ।। 1.45.15 ।।
पूर्वमिति । पूर्वं कृतयुगे दितेः पुत्रा महाबला आसन् । अदितेः पुत्रा वीर्यवन्तो धार्मिकाश्चासन् ।। 1.45.15 ।।
ततस्तेषां नरश्रेष्ठ बुद्धिरासीन्महात्मनाम् ।
अमरा अजराश्चैव कथं स्याम निरामयाः ।। 1.45.16 ।।
तत इति । म्रियन्त इति मराः । पचाद्यच् । अमराः मरणरहिताः, अजराः जरारहिताः, तेषां देवासुराणाम् ।। 1.45.16 ।।
तेषां चिन्तयतां राम बुद्धिरासीन्महात्मनाम् ।
क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै ।। 1.45.17 ।।
तेषामिति । रसम् अमृतम् । तत्र क्षीरोदे ।। 1.45.17 ।।
ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम् ।
मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः ।। 1.45.18 ।।
तत इति । योक्त्रं मथनरज्जुं । मन्थानं मथनदण्डम् ।। 1.45.18 ।।
अथ वर्षसहस्रेण सदण्डः सकमण्डलुः ।
पूर्वं धन्वन्तरिर्नाम अप्सराश्च सुवर्चसः ।। 1.45.19 ।।
अथेति । धन्वन्तरिरुत्पपात । अप्सराश्च उत्पेतुरिति शेषः । आकारान्तत्वमार्षम् ।। 1.45.19 ।।
अप्सु निर्मथनादेव रसस्तस्माद्वरस्त्रियः ।
उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसो ऽभवन् ।। 1.45.20 ।।
अप्स्विति । अप्सरःशब्दं निर्वक्तिअत्राप्शब्देन तद्विकारभूतं क्षीरमुपलक्ष्यते । अप्सु यन्निर्मथनं तस्माद्यो रसस्तस्माद्रसाद्यत उत्पेतुस्तस्मादप्सरसो ऽभवन् । पृषोदरादित्वात्साधुः ।। 1.45.20 ।।
षष्टिः कोट्यो ऽभवंस्तासामप्सराणां सुवर्चसाम् ।
असङ्ख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः ।। 1.45.21 ।।
षष्टिरिति । तासां प्रधानभूतानाम् ।। 1.45.21 ।।
न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः ।
अप्रतिग्रहणादेव तेन साधारणाः स्मृताः ।। 1.45.22 ।।
न ताः स्मेति । न ताः स्म प्रतिगृह्णन्ति न साधारण्येन प्रतिगृह्णन्ति स्मेत्यर्थः । कुतः अप्रतिग्रहणात्, को वा मम पतिरिति मार्गणाकरणादित्यर्थः । तेनासाधारण्येन परिग्रहाकरणेन ।। 1.45.22 ।।
वरुणस्य ततः कन्या वारुणी रघुनन्दन ।
उत्पपात महाभागा मार्गमाणा परिग्रहम् ।। 1.45.23 ।।
वरुणस्येति । वरुणस्य समुद्राधिदेवतायाः । वारुणी सुराधिदेवता । परिग्रहं ममेयमिति परिग्रहस्य कर्तारम् ।। 1.45.23 ।।
दितेः पुत्रा न तां राम जगृहुर्वरुणात्मजाम् ।
अदितेस्तु सुता वीर जगृहुस्तामनिन्दिताम् ।। 1.45.24 ।।
दितेरिति । स्पष्टम् ।। 1.45.24 ।।
असुरास्तेन दैतेयाः सुरास्तेनादितेः सुताः ।
हृष्टाः प्रमुदिताश्चासन् वारुणीग्रहणात्सुराः ।। 1.45.25 ।।
प्रसङ्गात्सुरासुरशब्दौ निर्वक्ति–असुरा इति । तेन सुरायाः परिग्रहणेन सुराः । अर्श आदित्वादजन्तः । पिष्टादिविकृतिरेव सुरा निन्द्या । हृष्टाः पुलकिताः ।। 1.45.25 ।।
उच्चैश्श्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम् ।
उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम् ।। 1.45.26 ।।
उच्चैःश्रवा इति । उत्तमं पूर्वोत्पन्नेभ्यः श्रेष्ठम् ।। 1.45.26 ।।
अथ तस्य कृते राम महानासीत्कुलक्षयः ।
अदितेस्तु ततः पुत्रा दितेः पुत्रानसूदयन् ।। 1.45.27 ।।
अथेति । तस्य कृते, अमृतस्य ग्रहणार्थमित्यर्थः । कुलक्षयः उभयपक्षे ऽपि सङ्घातविनाशः । तदेवोपपादयति–अदितेरित्यादिना ।। 1.45.27 ।।
एकतो ऽभ्यागमन् सर्वे ह्यसुरा राक्षसैस्सह ।
युद्धमासीन्महाघोरं वीर त्रैलोक्यमोहनम् ।। 1.45.28 ।।
एकत इति । अनन्तरमसुरा एकतः एकतामभ्यागमन् बलवृद्धय इति भावः ।। 1.45.28 ।।
यदा क्षयं गतं सर्वं तदा विष्णुर्महाबलः ।
अमृतं सो ऽहरत्तूर्णं मायामास्थाय मोहिनीम् ।। 1.45.29 ।।
यदेति । मोहिनीं काममोहजननीम् । मायाम् आश्चर्यशक्तिम् । आस्थाय अवलम्ब्य । स्वमाययाद्भुतयोषिदाकृतिं परिगृह्य तद्रूपेण तान् वञ्चयित्वा तेभ्यो ऽमृतमहरदित्यर्थः । यद्वा सर्वमोहकरीमन्तर्द्धानशक्तिमास्थायामृतमाहरदित्यर्थः । पुराणान्तरवृत्तान्तः कल्पभेदेनेतिबोध्यम् ।। 1.45.29 ।।
ये गताभिमुखं विष्णुमक्षयं पुरुषोत्तमम् ।
सम्पिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना ।। 1.45.30 ।।
य इति । अत्र सन्धिरार्षः । ये असुराः अक्षयम् अस्ति जायते परिणमते विवर्द्धते अपक्षीयते विनश्यतीत्युक्तषड्भाव विकारैः शून्यम् । पुरुषोत्तमं सर्वपुरुषेषूत्तमम् । विष्णुमभिमुखं गताः अभिमुखतया प्रातिकूल्येन गताः । ते विष्णुना सम्पिष्टाः चूर्णिताः । संविष्टा इति पाठेये अमुमभिमुखं गताः शरणागताः देवास्ते युद्धे संविष्टाः आविष्टाः, आप्यायितबला आसन्नित्यर्थः ।। 1.45.30 ।।
अदितेरात्मजा वीरा दितेः पुत्रान्निजघ्िनरे ।
तस्मिन् युद्धे महाघोरे दैतेयादित्ययोर्भृशम् ।। 1.45.31 ।।
अदितिरिति । दितेः पुत्रान्, अवशिष्टानिति शेषः । यद्वा अदितेरात्मजा आप्यायितबलाः सन्तः तस्मिन् दैतेयादित्ययोर्देवासुरयोर्युद्धे असुरान्निजघ्निरे ।। 1.45.31 ।।
निहत्य दितिपुत्रांश्च राज्यं प्राप्य पुरन्दरः ।
शशास मुदितो लोकान् सर्षिसङ्घान् सचारणान् ।। 1.45.32 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चचत्वारिंशः सर्गः ।। 45 ।।
निहत्येति । चकारादमृतमपीत्यर्थः ।। 1.45.32 ।।
अस्मिन्सर्गे द्वात्रिंशत् श्लोकाः । अन्ये कल्पिताः । यद्यप्यत्र कालकूटाद्युत्पत्तिरपेक्षिता तथाप्युत्तरकथाशेषत्वेन सर्वासुरक्षय एव प्रधानतयोपात्त इति बोध्यम् ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने पञ्चचत्वारिंशः सर्गः ।। 45 ।।