श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः
एकपञ्चाशः सर्गः
(विश्वामित्रवृन्तातः)
तस्य तद्वचनं श्रुत्वा विश्वामित्रस्य धीमतः ।
हृष्टरोमा महातेजाः शतानन्दो महातपाः ।। 1.51.1 ।।
गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः ।
रामसन्दर्शनादेव परं विस्मयमागतः ।। 1.51.2 ।।
अथाचार्यवैभवस्य ज्ञेयत्वाभिप्रायेण विश्वामित्रचरित्रं प्रस्तौति तस्य तद्वचनमित्यादिभिः पञ्चदशभिः सर्गैः । तस्येत्यादिद्वौ । हृष्टरोमा सञ्जातरोमाञ्चः । विस्मयमागतः, अहो महिमा रामस्य यन्मे माता कृतार्थीकृतेति विस्मयं प्राप्तो ऽभूदित्यर्थः ।। 1.51.1,2 ।।
स तौ निषण्णौ सम्प्रेक्ष्य सुखासीनौ नृपात्मजौ ।
शतानन्दो मुनिश्रेष्ठं विश्वामित्रमथाब्रवीत् ।। 1.51.3 ।।
स इति । निषण्णावित्यस्य विवरणं सुखासीनाविति ।। 1.51.3 ।।
अपि ते मुनिशार्दूल मम माता यशस्विनी ।
दर्शिता राजपुत्राय तपोदीर्घमुपागता ।। 1.51.4 ।।
स्वमातरि रामकृतानुग्रहस्य श्रुतस्य विस्मयावहतया पुनः पृच्छति–अपीत्यादि । अपिः प्रश्ने । ते त्वया । दीर्घं तप उपागता पूर्वोक्तभस्मशायित्वादिलक्षणं तपः प्राप्ता । अनेन पाषाणीभूयस्थितेति पक्षो न वाल्मीकेः ।। 1.51.4 ।।
अपि रामे महातेजा मम माता यशस्विनी ।
वन्यैरुपाहरत्पूजां पूजार्हे सर्वदेहिनाम् ।। 1.51.5 ।।
अपीति । रामे रामविषये । वन्यैः कन्दमूलफलादिभिः । अनेन पूर्वमपि वन्यैरेतस्य जीवनमिति गम्यते । सर्वदेहिनां पूजार्ह इत्यनेन परत्वं व्यञ्जितम् ।। 1.51.5 ।।
अपि रामाय कथितं यथावृत्तं पुरातनम् ।
मम मातुर्महातेजो दैवेन दुरनुष्ठितम् ।। 1.51.6 ।।
अपीति । हे महातेजः विश्वामित्र मम मातुर्विषये दैवेन इन्द्रेण विधिना वा । दुरनुष्ठितं दुरनुष्ठानरूपम् । पुरातनं वृत्तं चरितम् । यथा यथावत् । कथितं चापि कथितं किम् ।। 1.51.6 ।।
अपि कौशिक भद्रं ते गुरुणा मम सङ्गता ।
माता मम मुनिश्रेष्ठ रामसन्दर्शनादितः ।। 1.51.7 ।।
अपीति । गुरुणा पित्रा । इतः अस्मादुपस्थिताद्रामसन्दर्शनात् । यद्वा रामसन्दर्शनादितः रामसन्दर्शनादिना । तृतीयार्थे तसिः । पूजा अपिशब्दार्थः ।। 1.51.7 ।।
अपि मे गुरुणा रामः पूजितः कुशिकात्मज ।
इहागतो महातेजाः पूजां प्राप्तो महात्मनः ।। 1.51.8 ।।
अपीति । इह अस्मदाश्रमे । आगतः महातेजा गुरुः । महात्मनः रामात् पूजां अहल्यालाभरूपाम् ।
अपिप्राप्तः ।। 1.51.8 ।।
अपि शान्तेन मनसा गुरुर्मे कुशिकात्मज ।
इहागतेन रामेण प्रयतेनाभिवादितः ।। 1.51.9 ।।
अपीति । शान्तेन कोपरहितेन मनसोपलक्षितो गुरुः । इह अस्मदाश्रमे । आगतेन प्रयतेन मनःसक्तिरूपयत्नवता । रामेण अभिवादितः किम् ।। 1.51.9 ।।
तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः ।
प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम् ।। 1.51.10 ।।
तच्छ्रुत्वेति ।। 1.51.10 ।।
नातिक्रान्तं मुनिश्रेष्ठ यत्कर्तव्यं कृतं मया ।
सङ्गता मुनिना पत्नी भार्गवेणेव रेणुका ।। 1.51.11 ।।
नेति । नातिक्रान्तं मया समयातिक्रमो न कृतः । समये यत्कर्तव्यं तत्कृतम् । तदेवाह सङ्गतेति । नातिक्रान्तमित्यस्य विवरणं यत्कर्तव्यमिति । तस्य विवरणं सङ्गतेति । भार्गवेण जमदग्निना । रेणुका परशुराममातेवेति भावः ।। 1.51.11 ।।
तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः ।
शतानन्दो महातेजा रामं वचनमब्रवीत् ।। 1.51.12 ।।
तदिति ।। 1.51.12 ।।
स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तो ऽसि राघव ।
विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम् ।। 1.51.13 ।।
स्वागतमिति । दिष्ट्या दैवयोगेन ।। 1.51.13 ।।
अचिन्त्यकर्मा तपसा ब्रह्मर्षिरतुलप्रभः ।
विश्वामित्रो महातेजा वेत्स्येनं परमां गतिम् ।। 1.51.14 ।।
विश्वामित्रं स्तौति–अचिन्त्येत्यादि । तपसा ब्रह्मर्षिः तपसा प्राप्तब्रह्मर्षिभावः । परमां गतिं तव परमहितप्रदम् । वेत्सीत्यत्र काकुरनुसन्धेया ।। 1.51.14 ।।
नास्ति धन्यतरो राम त्वत्तो ऽन्यो भुवि कश्चन ।
गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः ।। 1.51.15 ।।
एतदेवाह–नास्तीति । धन्यत्वे हेतुः गोप्तेति । येन कुशिकपुत्रेण ।। 1.51.15 ।।
श्रूयतामभिधास्यामि कौशिकस्य महात्मनः ।
यथा बलं यथा वृत्तं तन्मे निगदतः शृणु ।। 1.51.16 ।।
श्रूयतामिति । बलं तपोबलम् । यथा यादृश्ाम्, वृत्तं चरित्रं च । यथा यादृशं तथा तत्सर्वं मे मत्तः
शृणु ।। 1.51.16 ।।
राजाभूदेष धर्मात्मा दीर्घकालमरिन्दमः ।
धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः ।। 1.51.17 ।।
राजेति ।। 1.51.17 ।।
प्रजापतिसुतस्त्वासीत् कुशो नाम महीपतिः ।
कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः ।। 1.51.18 ।।
कुशनाभसुतस्त्वासीद्गाधिरित्येव विश्रुतः ।
गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः ।। 1.51.19 ।।
विश्वामित्रो महातेजाः पालयामास मेदिनीम् ।
बहुवर्षसहस्राणि राजा राज्यमकारयत् ।। 1.51.20 ।।
कस्य राज्ञः पुत्र इत्यत्राह–प्रजापतीत्यादिश्लोकत्रयम् । पालयामासेत्यस्य विवरणं बह्विति ।। 1.51.1820 ।।
कदाचित्तु महातेजा योजयित्वा वरूथिनीम् ।
अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम् ।। 1.51.21 ।।
नगराणि च राष्ट्राणि सरितश्च तथा गिरीन् ।
आश्रमान् क्रमशो राम विचरन्नाजगाम ह ।। 1.51.22 ।।
वसिष्ठस्याश्रमपदं नानावृक्षसुमाकुलम् ।
नानामृगगणाकीर्णं सिद्धचारणसेवितम् ।। 1.51.23 ।।
देवदानवगन्धर्वैः किन्नरैरुपशोभितम् ।
प्रशान्तहरिणाकीर्णं द्विजसङ्घनिषेवितम् ।। 1.51.24 ।।
ब्रह्मर्षिगणसङ्कीर्णं देवर्षिगणसेवितम् ।
तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः ।। 1.51.25 ।।
अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा ।
फलमूलाशनैर्दान्तैर्जितरोषैर्जितेन्द्रियैः ।। 1.51.26 ।।
ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः ।
अन्यैर्वैखानसैश्चैव समन्तादुपशोभितम् ।। 1.51.27 ।।
वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम् ।
ददर्श जयतां श्रेष्ठो विश्वामित्रो महाबलः ।। 1.51.28 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकपञ्चाशः सर्गः ।। 51 ।।
कदाचिदित्याद्यष्टौ श्लोकाः । वरूथिनीं चतुरङ्गबलम् । योजयित्वा उपस्थाप्य । प्रशान्तत्वविशेषणाय पुनर्हरिणोपादानम् । अब्भक्षैः अम्मात्रभक्षैः । दान्तैर्नियतमनस्कैः । वालखिल्याः ब्रह्मणो वालजा ऋषयः । वैखानसास्तन्नखजाः, “ये नखास्ते वैखानसाः ये वालास्ते वालखिल्याः” इति श्रुतेः । वसिष्ठाश्रमवैभववर्णनम् एवम्भूतेनापि सम्मानितो विश्वामित्र इति तस्य वैभवकथनार्थम् ।। 1.51.2128 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने एकपञ्चाशः सर्गः ।। 51 ।।