श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः
त्रिपञ्चाशः सर्गः
एवमुक्ता वसिष्ठेन शबला शत्रुसूदन ।
विदधे कामधुक्कामान् यस्य यस्य यथेप्सितम् ।। 1.53.1 ।।
कामध्ोनुप्रार्थनं त्रिपञ्चाशे–एवमुक्तेत्यादि । यस्य यस्य यथेप्सितं तथा कामान् काङ्क्षितान् विदधे ।। 1.53.1 ।।
इक्षून् मधूंस्तथा लाजान् मैरेयांश्च वरासवान् ।
पानानि च महार्हाणि भक्ष्यांश्चोच्चावचांस्तथा ।। 1.53.2 ।।
उक्तमेव प्रपञ्चयति–इक्षूनित्यादि । मधूनिति पुँल्लिङ्गत्वमार्षम् । मैरेयाः मद्यविशेषाः
मैरेयाख्यानित्यर्थः । “मैरेयमासवो धात्रीधातकीगुडवारिभिः” इति वैजयन्ती । अत्र कृतमिति शेषः । पानानि पानकादीनि, भक्ष्यान् अपूपविशेषान्, उच्चावचान् नानाप्रकारान् । “उच्चावचं नैकभेदम्” इत्यमरः । विदध इत्यनुषज्यते ।। 1.53.2 ।।
उष्णाढ्यस्यौदनस्यात्र राशयः पर्वतोपमाः ।
मृष्टान्नानि च सूपाश्च दधिकुल्यास्तथैव च ।। 1.53.3 ।।
उष्णेति । आसन्निति शेषः । मृष्टान्नानि इष्टान्नानि, पायसभेदा इति यावत् ।। 1.53.3 ।।
नानास्वादुरसानां च षाडवानां तथैव च ।
भाजनानि सुपूर्णानि गौडानि च सहस्रशः ।। 1.53.4 ।।
नानेति । नानाविधाः स्वादवो रुच्या रसाः माधुर्यादयो येषां तेषाम् । षाडवाः षड्रसविकृताः भक्ष्यविशेषाः । शैषिको ऽण् । तेषां पूर्णानि तैः पूर्णानीत्यर्थः । “पूरणगुण–” इत्यादिना तृतीयार्थे षष्ठी । गौडानि गुडविकाराः । अत्राप्यासन्निति शेषः ।। 1.53.4 ।।
सर्वमासीत्सुसन्तुष्टं हृष्टपुष्टजनायुतम् ।
विश्वामित्रबलं राम वसिष्ठेनातितर्पितम् ।। 1.53.5 ।।
सर्वमिति । पूर्वमेव हृष्टपुष्टजनायुतं विश्वामित्रबलं सर्वं सुसन्तुष्टमासीदित्यन्वयः ।। 1.53.5 ।।
विश्वामित्रो ऽपि राजर्षिर्हृष्टः पुष्टस्तदाभवत् ।
सान्तःपुरवरो राजा सब्राह्मणपुरोहितः ।। 1.53.6 ।।
विश्वामित्र इति । हृष्टः आदरेण, पुष्टः भोजनादिना ।। 1.53.6 ।।
सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदा ।
युक्तः परमहर्षेण वसिष्ठमिदमब्रवीत् ।। 1.53.7 ।।
सामात्य इति । अमात्याः कर्मणि सहायाः । मन्त्रिणः मन्त्रसहायाः ।। 1.53.7 ।।
पूजितो ऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः ।
श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद ।। 1.53.8 ।।
पूजित इति । पूजार्हेण अस्मदादिभिरिति शेषः । पूजितः बहूकृतः । सुसत्कृतः आतिथ्येन सत्कृतः ।। 1.53.8 ।।
गवां शतसहस्रेण दीयतां शबला मम ।। 1.53.9 ।।
गवामिति । शतसहस्रेण निष्क्रयभूतेन । अर्द्धम् ।। 1.53.9 ।।
रत्नं हि भगवन्नेतद्रत्नहारी च पार्थिवः ।
तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज ।। 1.53.10 ।।
रत्नं हीति । हि यस्मात् एतत् रत्नं स्वजातिश्रेष्ठम् । “रत्नं स्वजातिश्रेष्ठे ऽपि” इत्यमरः । यतः पार्थिवो रत्नहारी तस्माद्धर्मतः न्यायतः ममैषा मे देहीत्यन्वयः ।। 1.53.10 ।।
एवमुक्तस्तु भगवान् वसिष्ठो मुनिसत्तमः ।
विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम् ।। 1.53.11 ।।
नाहं शतसहस्रेण नापि कोटिशतैर्गवाम् ।
राजन् दास्यामि शबलां राशिभी रजतस्य वा ।। 1.53.12 ।।
न परित्यागमर्हेयं मत्सकाशादरिन्दम ।
शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा ।। 1.53.13 ।।
एवमित्यादि षट् । परित्यागं विश्लेषम् प्राप्तुं नार्हा । आत्मवतः मनस्विनः । कीर्तिरिव । मह्यं मम । शबला शाश्वती नित्यसम्बन्धा ।। 1.53.1113 ।।
अस्यां हव्यं च कव्यं प्राणयात्रा तथैव च ।
आयत्तमग्निहोत्रं च बलिर्होमस्तथैव च ।। 1.53.14 ।।
हव्यं देवार्थम् । कव्यं पित्रर्थम् । प्राणयात्रा प्राणाग्निहोत्रम् । अग्निहोत्रं सायं प्रातः कर्तव्यो होमविशेषः । बलिः भूतबलिः । होमः दर्शपूर्णमासादिः । एतत्सर्वम् अस्याम् आयत्तम् एतदधीनम् ।। 1.53.14 ।।
स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा ।
आयत्तमत्र राजर्षे सर्वमेतन्न संशयः ।। 1.53.15 ।।
स्वाहाकारः स्वाहेति मन्त्रः, वषट्कारो वषडिति मन्त्रः । विविधाः विद्याः वेदाद्याश्च अस्यामायत्ताः । एतत्पय आदिप्राशनेन चित्तशुद्धेः प्राणतृप्तेर्देहबलादेश्च साध्यत्वात्तदेकमूलत्वम् । अत्रार्थे न संशयः ।। 1.53.15 ।।
सर्वस्वमेतत्सत्येन मम तुष्टिकरी सदा ।
कारणैर्बहुभी राजन्न दास्ये शबलां तव ।। 1.53.16 ।।
सत्येन वदामीत्यर्थः । कारणैरुक्तैरनुक्तैश्च ।। 1.53.16 ।।
वसिष्ठेनैवमुक्तस्तु विश्वामित्रो ऽब्रवीत्ततः ।
संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः ।। 1.53.17 ।।
वसिष्ठेनेति । संरब्धतरम् अत्यन्ताभिनिवेशयुक्तम् ।। 1.53.17 ।।
हैरण्यकक्ष्याग्रैवेयान् सुवर्णाङ्कुशभूषितान् ।
ददामि कुञ्जराणां ते सहस्राणि चतुर्दश ।। 1.53.18 ।।
हैरण्येति । हैरण्यानि हिरण्मयानि कक्ष्या ग्रैवेयाणियेषां ते । कक्ष्या मध्यबन्धनार्था रज्जुः । “कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने” इत्यमरः । ग्रैवेयाणि ग्रीवाबन्धनरज्जवः । “ग्रीवाभ्यो ऽण् च” इति चाड्ढञ् । सहस्राणीत्यस्य पुँल्लिङ्गविशेषणमार्षम् ।। 1.53.18 ।।
हैरण्यानां रथानां ते श्वेताश्वानां चतुर्युजाम् ।
ददामि ते शतान्यष्टौ किङ्किणीकविभूषितान् ।। 1.53.19 ।।
हैरण्यानामिति । चतुर्युजां चतुर्भिरश्वैर्युक्तानाम् । गमकत्वात्समासः । सङ्ख्यानियमपरत्वान्नपुनरुक्तिः । किङ्किणीकैर्विभूषितान् ।। 1.53.19 ।।
हयानां देशजातानां कुलजानां महौजसाम् ।
सहस्रमेकं दश च ददामि तव सुव्रत ।। 1.53.20 ।।
हयानामिति । देशाः काम्भोजबाह्लीकादयः । कुलजानां गन्धर्वकुलजातानाम् “गन्धर्वकुलजातस्त्वम्” इति पुराणवचनात् ।। 1.53.20 ।।
नानावर्णविभक्तानां वयःस्थानां तथैव च ।
ददाम्येकां गवां कोटिं शबला दीयतां मम ।। 1.53.21 ।।
नानेति । नानावर्णैः विभक्तानामन्योन्यविलक्षणानाम् ।। 1.53.21 ।।
यावदिच्छसि रत्नं वा हिरण्यं वा द्विजोत्तम ।
तावद्ददामि तत्सर्वं शबला दीयतां मम ।। 1.53.22 ।।
यावदिति । यावत्प्रमाणमिच्छसि तावत्प्रमाणं सर्वं ददामि ।। 1.53.22 ।।
एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता ।
न दास्यामीति शबलां प्राह राजन् कथञ्चन ।। 1.53.23 ।।
एवमिति । हे राजन् शबलां न दास्यामीत्यन्वयः ।। 1.53.23 ।।
एतदेव हि मे रत्नमेतदेव हि मे धनम् ।
एतदेव हि सर्वस्वमेतदेव हि जीवितम् ।। 1.53.24 ।।
दर्शश्च पूर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः ।
एतदेव हि मे राजन् विविधाश्च क्रियास्तथा ।। 1.53.25 ।।
अदोमूलाः क्रियाः सर्वा मम राजन्न संशयः ।
बहुना किं प्रलापेन न दास्ये कामदोहिनीम् ।। 1.53.26 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिपञ्चाशः सर्गः ।। 53 ।।
एतदित्यादित्रयम् । अदोमूलाः एतन्मूलाः । प्रलापेन, भवत इति शेषः । कामान् दोग्धुं शीलमस्त्यस्या इति कामदोहिनीम् । “सुप्यजातौ णिनिस्ताच्छील्ये” इति णिनिः ।। 1.53.2426 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने त्रिपञ्चाशः सर्गः ।। 53 ।।