[highlight_content]

56 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः

षट्पञ्ाशः सर्गः

एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः ।

आग्नेयमस्त्रमुत्क्षिप्य तिष्ठ तिष्ठेति ाब्रवीत् ।। 1.56.1 ।।

अथ सर्वास्त्रबलसम्पूर्णक्षत्रवीर्यादपि ब्रह्मबलं बलीय इत्याह षट्पञ्ाशे–एवमुक्त इत्यादि । तिष्ठ तिष्ठेति भयजननार्थोक्तिः ।। 1.56.1 ।।

ब्रह्मदण्डं समुत्क्षिप्य कालदण्डमिवापरम् ।

वसिष्ठो भगवान् क्रोधादिदं वनमब्रवीत् ।। 1.56.2 ।।

ब्रह्मदण्डमित्यादि त्रयोविंशतिः । ब्रह्मदण्डमिति । ब्रह्मदण्डं ब्राह्मणासाधारणं दण्डम् ।। 1.56.2 ।।

क्षत्रबन्धो स्थितो ऽस्म्येष यद्वलं तद्विदर्शय ।

नाशयाम्यद्य ते दर्पं शस्त्रस्य तव गाधिज ।। 1.56.3 ।।

क्व ते क्षत्रियबलं क्व ब्रह्मबलं महत् ।

पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन ।। 1.56.4 ।।

तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुद्यतम् ।

ब्रह्मदण्डेन त्छान्तमग्नेर्वेग इवाम्भसा ।। 1.56.5 ।।

वारुणं ैव रौद्रं ऐन्द्रं पाशुपतं तथा ।

ऐषीकं ापि िक्षेप कुपितो गाधिनन्दनः ।। 1.56.6 ।।

मानवं मोहनं ैव गान्धर्वं स्वापनं तथा ।

जृम्भणं मादनं ैव सन्तापनविलापने ।। 1.56.7 ।।

शोषणं दारणं ैव वज्रमस्त्रं सुदुर्जयम् ।

ब्रह्मपाशं कालपाशं वारुणं पाशमेव ।। 1.56.8 ।।

पैनाकास्त्रं दयितं शुष्कार्द्रे अशनी उभे ।

दण्डास्त्रमथ पैशां क्रौञ्मस्त्रं तथैव ।। 1.56.9 ।।

धर्मक्रं कालक्रं विष्णुक्रं तथैवव

वायव्यं मथनं ैव अस्त्रं हयशिरस्तथा ।। 1.56.10 ।।

शक्तिद्वयं िक्षेप कङ्कालं मुसलं तथा ।

वैद्याधरं महास्त्रं कालास्त्रमथ दारुणम् ।। 1.56.11 ।।

त्रिशूलमस्त्रं घोरं कापालमथ कङ्कणम् ।

एतान्यस्त्राणि िक्षेप सर्वाणि रघुनन्दन ।। 1.56.12 ।।

क्षत्रबन्धो क्षत्रियाधम ते दर्पं तव शस्त्रस्य दर्पं नाशयामीत्यन्वयः । क्षत्रियपांसनेत्यनन्तरं वसिष्ठो ऽब्रवीदिति अनुकृष्यते ।। 1.56.312 ।।

वसिष्ठे जपतां श्रेष्ठे तदद्भुतमिवाभवत् ।। 1.56.13 ।।

वसिष्ठे जपतां श्रेष्ठ इत्यनेन जपवैभवमिदं ग्रसनमिति द्योतितम् । तत् अस्त्रक्षेपणम् । अद्भुतमिवाभवत् कार्यलेशस्याप्यदर्शनादिति भावः ।। 1.56.13 ।।

तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः ।। 1.56.14 ।।

तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनन्दनः ।। 1.56.15 ।।

अद्भुतमेवाह–तानीति । ग्रसते अग्रसत ।। 1.56.14,15 ।।

तदस्त्रमुद्यतं दृष्ट्वा देवाः साग्निपुरोगमाः ।

देवर्षयश् सम्भ्रान्ता गन्धर्वाः समहोरगाः ।। 1.56.16 ।।

सम्भ्रान्ता आसन्निति शेषः ।। 1.56.16 ।।

त्रैलोक्यमासीत् सन्त्रस्तं ब्रह्मास्त्रे समुदीरिते ।। 1.56.17 ।।

समुदीरिते प्रयुक्ते ।। 1.56.17 ।।

तदप्यस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा ।

वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव ।। 1.56.18 ।।

ब्राह्मेण तेजसा ब्रह्मविद्याभ्यासजनिततेजसा । उपबृंहितेन ब्रह्मदण्डेनेत्यर्थः । अत्र ग्रासक्रियायां न दण्डस्यान्वयः । पुत्रैर्गर्दभी भारं वहतीतिवत् । अतो न वक्ष्यमाणेन विरोधः ।। 1.56.18 ।।

ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः ।

त्रैलोक्यमोहनं रौद्रं रूपमासीत् सुदारुणम् ।। 1.56.19 ।।

त्रैलोक्यस्य मोहनं भयान्मूर््छाजनकम् । रौद्रं स्मरणे ऽपि भयङ्करम् । सुदारुणं दुर्दर्शम् ।। 1.56.19 ।।

रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः ।

मरी्य इव निष्पेतुरग्नेर्धूमाकुलार्िषः ।। 1.56.20 ।।

एतदेवाह–रोमेति । अग्नेरिव मरीयो विस्फुलिङ्गा निष्पेतुरिति योजना ।। 1.56.20 ।।

प्राज्वलद् ब्रह्मदण्डश् वसिष्ठस्य करोद्यतः ।

विधूम इव कालाग्निर्यमदण्ड इवापरः ।। 1.56.21 ।।

दण्डश् प्राज्वलत्, पूर्वास्त्रग्रासेनेति शेषः ।। 1.56.21 ।।

ततो ऽस्तुवन् मुनिगणा वसिष्ठं जपतां वरम् ।

अमोघं ते बलं ब्रह्मन् तेजो धारय तेजसा ।। 1.56.22 ।।

निगृहीतस्त्वया ब्रह्मन् विश्वामित्रो महातपाः ।

प्रसीद जपातां श्रेष्ठ लोकाः सन्तु गतव्यथाः ।। 1.56.23 ।।

तेजः ब्रह्मास्त्रतेजः । तेजसा महिम्ना । धारय उपशमय ।। 1.56.22,23 ।।

एवमुक्तो महातेजाः शमं क्रे महातपाः ।। 1.56.24 ।।

शमं कोपशान्तिम् ।। 1.56.24 ।।

विश्वामित्रो ऽपि निकृतो विनिःश्वस्येदमब्रवीत् ।। 1.56.25 ।।

निकृतः अपकृतः । तिरस्कृत इति यावत् ।। 1.56.25 ।।

धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् ।

एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे ।। 1.56.26 ।।

धिगिति । क्षत्रियबलं बलं धिक् निन्द्यं बलमित्यर्थः । “धिगुपर्यादिषु” इति द्वितीया । ब्रह्मतेजसः ब्राह्मण्यरूपतेजसः बलं बलम्, तदेव प्रशस्तमितियावत् । सर्वास्त्राणि ब्रह्मास्त्रभिन्नानि ।। 1.56.26 ।।

तदेतत् समवेक्ष्याहं प्रसन्नेन्द्रियमानसः ।

तपो महत् समास्थास्ये यद्वै ब्रह्मत्वकारणम् ।। 1.56.27 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्पञ्ाशः सर्गः ।। 56 ।।

ब्रह्मत्वकारणं ब्राह्मण्यापादकम् । प्रसन्नेन्द्रियमानसः परित्यक्तक्षत्ररोष इत्यर्थः ।। 1.56.27 ।।

इति श्रीगोविन्दराजविरिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने षट्पञ्ाशः सर्गः ।। 56 ।। 

Languages

Related Parts

error: Content is protected !!