श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः
अष्टपञ्चाशः सर्गः
ततस्त्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितम् ।
ऋषिपुत्रशतं राम राजानमिदमब्रवीत् ।। 1.58.1 ।।
गुरुत्यागिनां फलं दर्शयत्यष्टपञ्चाश्ो–ततस्त्रिशङ्कोरित्यादि । क्रोधसमन्वितमिति शतविशेषणम् ।। 1.58.1 ।।
प्रत्याख्यातो हि दुर्बुद्धे गुरुणा सत्यवादिना ।
तं कथं समतिक्रम्य शाखान्तरमुपेयिवान् ।। 1.58.2 ।।
प्रत्याख्यात इति । शाखान्तरम् आश्रयान्तरम् ।। 1.58.2 ।।
इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमो गुरुः ।
न चातिक्रमितुं शक्यं वचनं सत्यवादिनः ।। 1.58.3 ।।
इक्ष्वाकूणामिति । न शक्यं त्वया इक्ष्वाकुणेति शेषः । सत्यवादिनः, तस्येति शेषः ।। 1.58.3 ।।
अशक्यमिति चोवाच वसिष्ठो भगवानृषिः ।
तं वयं वै समाहर्तुं क्रतुं शक्ताः कथं तव ।। 1.58.4 ।।
अशक्यमिति । यं क्रतुमिति शेषः ।। 1.58.4 ।।
बालिशस्त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुनः ।
याजने भगवान् शक्तस्त्रैलोक्यस्यापि पार्थिव ।। 1.58.5 ।।
बालिश इति । बालिशः मूर्खः “मूर्खवैधेयबालिशाः” इत्यमरः ।। 1.58.5 ।।
अवमानं च तत्कर्तुं तस्य शक्ष्यामहे कथम् ।। 1.58.6 ।।
अवमानमित्यर्द्धम् । तत् असाध्यार्थसाधनरूपम् ।। 1.58.6 ।।
तेषां तद्वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम् ।
स राजा पुनरेवैतानिदं वचनमब्रवीत् ।। 1.58.7 ।।
प्रत्याख्यातो ऽस्मि गुरुणा गुरुपुत्रैस्तथैव च ।
अन्यां गतिं गमिष्यामि स्वस्ति वो ऽस्तु तपोधनाः ।। 1.58.8 ।।
तेषामिति द्वौ । अन्यां गतिं याजकान्तरम् ।। 1.58.7,8 ।।
ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम् ।
शेपुः परमसङ्क्रुद्धाश्चण्डालत्वं गमिष्यसि ।। 1.58.9 ।।
ऋषीति । घोराभिसंहितं साक्षात्कुलगुरुं ब्रह्मपुत्रं वसिष्ठमतिक्रम्य पुरोहितान्तराश्रयणरूपघोराभिप्राययुक्तमित्यर्थः । गमिष्यसीत्यनन्तरमितिकरणं द्रष्टव्यम् ।। 1.58.9 ।।
एवमुक्त्वा महात्मानो विविशुस्ते स्वमाश्रमम् ।। 1.58.10 ।।
एवमित्यर्द्धम् ।। 1.58.10 ।।
अथ रात्र्यां व्यतीतायां राजा चण्डालतां गतः ।
नीलवस्त्रधरो नीलः परुषो ध्वस्तमूर्द्धजः ।
चित्यमाल्यानुलेपश्च आयसाभरणो ऽभवत् ।। 1.58.11 ।।
अत्र चण्डालत्वं न तत्सादृश्यमात्रम्, किन्तु क्षत्रियत्वप्रहाणेन चण्डालत्वजातिप्राप्तिः । ब्राह्मणत्वादिजातेः कर्ममूलत्वेन तदपाये तदपायादित्याह–अथेत्यादि सार्द्धः । चण्डालतां गतः, वक्षःस्थं यज्ञोपवीतमेव वध्र्यीसीदित्यर्थः । नीलवस्त्रधरः कटिस्थपीताम्बरमेव चण्डालार्हनीलवस्त्रं जातमित्यर्थः । नीलः पूर्वं स्थितराजतेज एव नीलवर्णो ऽभवदित्यर्थः । एवमुत्तरत्रापि योज्यम् । परुषः रूक्षाङ्गः । ध्वस्तमूर्द्धजः ह्रस्वकेशः । चित्यमाल्यानुलेपः चिता श्मशानम्, तत्र भवं चित्यं तादृशं माल्यम् अनुलेपः चिताभस्मरूपो ऽङ्गरागश्च यस्य स तथा । आयसाभ्ारणः अयोविकाराभरणः ।। 1.58.11 ।।
तं दृष्ट्वा मन्त्रिणः सर्वे त्यज्य चण्डालरूपिणम् ।
प्राद्रवन् सहिता राम पौरा ये ऽस्यानुगामिनः ।। 1.58.12 ।।
तमिति । स्पष्टम् ।। 1.58.12 ।।
एको हि राजा काकुत्स्थ जगाम परमात्मवान् ।
दह्यमानो दिवारात्रं विश्वामित्रं तपोधनम् ।। 1.58.13 ।।
एव इति । परमात्मवान् परमधृतिमान् भूत्वा । दह्यमानः, दुःखेनेति शेषः । विश्वामित्रं वसिष्ठवैरिणं जगाम ।। 1.58.13 ।।
विश्वामित्रस्तु तं दृष्ट्वा राजानं विफलीकृतम् ।
चण्डालरूपिणं राम मुनिः कारुण्यमागतः ।। 1.58.14 ।।
विश्वामित्र इति । विफलीकृतं वासिष्ठविनाशितैहिकामुष्मिकसाधनमित्यर्थः ।। 1.58.14 ।।
कारुण्यात् स महातेजा वाक्यं परमधार्मिकः ।
इदं जगाद भद्रं ते राजानं घोररूपिणम् ।। 1.58.15 ।।
कारुण्यादिति । स्ववंशावमानप्रकटनेन रामस्य कोपो भविष्यतीति सान्त्वयति–भद्रं त इति ।। 1.58.15 ।।
किमागमनकार्यं ते राजपुत्र महाबल ।
अयोध्याधिपते वीर शापाच्चण्डालतां गतः ।। 1.58.16 ।।
किमिति । चण्डालतां गतः, केन हेतुनेति शेषः ।। 1.58.16 ।।
अथ तद्वाक्यमाज्ञाय राजा चण्डालतां गतः ।
अब्रवीत्प्राञ्जलिर्वाक्यं वाक्यज्ञो वाक्यकोविदम् ।। 1.58.17 ।।
अथेति । आज्ञाय श्रुत्वेत्यर्थः ।। 1.58.17 ।।
प्रत्याख्यातो ऽस्मि गुरुणा गुरुपुत्रैस्तथैव च ।
अनवाप्यैव तं कामं मया प्राप्तो विपर्ययः ।। 1.58.18 ।।
प्रत्याख्यात इति । तं कामम्, यमुद्दिश्य गुर्वाद्युपासनं कृतमित्यर्थः । विपर्ययः विपरीतप्रयोजनो हेतुविशेषः ।। 1.58.18 ।।
सशरीरो दिवं यायामिति मे सौम्य दर्शनम् ।
मया चेष्टं क्रतुशतं तच्च नावाप्यते फलम् ।। 1.58.19 ।।
कस्ते काम इत्यत्राह–सशरीर इति । सौम्येति सम्बुद्धिः । दर्शनं बुद्धिः । तच्च फलं क्रतुशतफलं सशरीरस्वर्गः ।। 1.58.19 ।।
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन ।
कृच्छ्रेष्वपि गतः सौम्य क्षत्रधर्मेण ते शपे ।। 1.58.20 ।।
वसिष्ठप्रत्याख्यानमूलं पापं मयि नास्तीत्याशयेनाह–अनृतमिति । यद्वा ‘यज्ञो ऽनृतेन क्षरति’ इति वचनात् क्रतुनाशकत्वेनावगतमनृतमपि मयि नास्तीत्याह । मे मया । क्षत्रधर्मेण तत्साक्षितयेत्यर्थः । कृच्छ्रेष्वपि गतः आपद्गतोपि ते पुरत इति शेषः ।। 1.58.20 ।।
यज्ञैर्बहुविधैरिष्टं प्रजा धर्मेण पालिताः ।
गुरवश्च महात्मानः शीलवृत्तेन तोषिताः ।। 1.58.21 ।।
यज्ञैरिति । पूर्वं सशरीरत्वसाधनक्रतुशतमुक्तम्, अत्र नित्यकर्मेति भिदा । यद्वा पूर्वं क्रतुशतम् इष्टम्, यष्टुमुपक्रान्तमित्यर्थः । तच्च नावाप्यते तादृशक्रत्वनुष्ठानमनोरथो नावाप्यत इत्यर्थः । शीलवृत्तेन शीलयुक्तवृत्तेन । शीलं सद्गुणः, वृत्तमाचारः ।। 1.58.21 ।।
धर्मे प्रयतमानस्य यज्ञं चाहर्तुमिच्छतः ।
परितोषं न गच्छन्ति गुरवो मुनिपुङ्गव ।। 1.58.22 ।।
धर्म इति । प्रयतमानस्येति सप्तम्यर्थे षष्ठी । ममेति शेषः ।। 1.58.22 ।।
दैवमेव परं मन्ये पौरुषं तु निरर्थकम् ।
दैवेनाक्रम्यते सर्वं दैवं हि परमा गतिः ।। 1.58.23 ।।
दैवमिति । अत इत्युपस्कार्यम् । दैवमत्र प्रारब्धफलमदृष्टम् । परं श्रेष्ठम्, पुरुषहिताहितप्रापकमित्यर्थः । पौरुषम् इदानीन्तनधर्मानुष्ठानम् । निरर्थकं प्रारब्धकर्मतिरस्कारानर्हमित्यर्थः । आक्रम्यते अभिभूयते । परमा गतिः, इतरतिरस्कारेणैहिकसुखदुःखादिप्रापकमित्यर्थः ।। 1.58.23 ।।
तस्य मे परमार्तस्य प्रसादमभिकाङ्क्षतः ।
कर्तुमर्हसि भद्रं ते दैवोपहतकर्मणः ।। 1.58.24 ।।
तस्येति । प्रसादं दैवानुकूल्यम् ।। 1.58.24 ।।
नान्यां गतिं गमिष्यामि नान्यः शरणमस्ति मे ।
दैवं पुरुषकारेण निवर्तयितुमर्हसि ।। 1.58.25 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टपञ्चाशः सर्गः ।। 58 ।।
नेति । गतिं शरणम् । वसिष्ठेन स्वयमाहूतश्चेत्किं करिष्यसीत्यत्राह–नान्यः शरणम् अस्तीति पुरुषकारेण त्वत्प्रसादरूपानुकूल्यकरणेन ।। 1.58.25 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने अष्टपञ्चाशः सर्गः ।। 58 ।।