श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः
द्विषष्टितमः सर्गः
शुनःशेपं नरश्रेष्ठगृहीत्वा तु महायशाः ।
व्यश्राम्यत् पुष्करे राजा मध्याह्ने रघुनन्दन ।। 1.62.1 ।।
अथ शुनःशेपस्य शरणागतिरुच्यते द्विषष्टितमे–शुनःशेपमित्यादि ।। 1.62.1 ।।
तस्य विश्रममाणस्य शुनःशेपो महायशाः ।
पुष्करक्षेत्रमागम्य विश्वामित्रं ददर्श ह ।
तप्यन्तमृषिभिः सार्द्धं मातुलं परमातुरः ।। 1.62.2 ।।
तस्य विश्रममाणस्य तस्मिन्विश्राम्यति सति । आगम्येत्यत्र “वा ल्यपि” इत्यनुनासिकलोपाभावः पक्षे । मातुलं “ऋचीकाय कौशिकी प्रतिपादिता” इत्युक्तत्वात् ।। 1.62.2 ।।
विवर्णवदनो दीनस्तृष्णया च श्रमेण च ।
पपाताङ्के मुनेराशु वाक्यं चेदमुवाच ह ।। 1.62.3 ।।
तृष्णया पिपासया, प्राणपरित्राणलोभेन वा । श्रमेण अध्वश्रमेण । मातुलत्वादङ्कपतनम् ।। 1.62.3 ।।
न मे ऽस्ति माता न पिता ज्ञातयो बान्धवाः कुतः ।
त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुङ्गव ।। 1.62.4 ।।
नेति । नास्ति अरक्षकत्वादसत्प्राया इत्यर्थः । धर्मेण धर्मरूपप्रयोजनोद्देशेन ।। 1.62.4 ।।
त्राता त्वं हि मुनिश्रेष्ठ सर्वेषां त्वं हि भावनः ।। 1.62.5 ।।
त्रातेत्यर्द्धम् । भावनः हितप्रापकः ।। 1.62.5 ।।
राजा च कृतकार्यः स्यादहं दीर्घायुरव्ययः ।
स्वर्गलोकमुपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम् ।। 1.62.6 ।।
राजेति । यथा च राजा कृतकार्यः स्यात् अहं च अव्ययः अविनाशः दीर्घायुः अनुत्तमं तपस्तप्त्वा स्वर्गलोकमुपाश्नीयां तथा कुरुष्वेति शेषः ।। 1.62.6 ।।
त्वं मे नाथो ह्यनाथस्य भव भव्येन चेतसा ।
पितेव पुत्रं धर्मात्मंस्त्रातुमर्हसि किल्बिषात् ।। 1.62.7 ।।
त्वमिति । भव्येन शुभेन । किल्बिषात् तन्मूलकविपत्तेरित्यर्थः ।। 1.62.7 ।।
तस्य तद्वचनं श्रुत्वा विश्वामित्रो महातपाः ।
सान्त्वयित्वा बहुविधं पुत्रानिदमुवाच ह ।। 1.62.8 ।।
तस्येति स्पष्टम् ।। 1.62.8 ।।
यत्कृते पितरः पुत्रान् जनयन्ति शुभार्थिनः ।
परलोकहितार्थाय तस्य कालो ऽयमागतः ।। 1.62.9 ।।
यदिति । यस्य प्रयोजनस्य कृते यत्प्रयोजनाय । तादर्थ्ये ऽव्ययम् । पुत्रान् जनयन्ति । मम युष्माकं च परलोकहितार्थाय धर्माय, तस्य वाक्यकरणस्य । अयं काल आगतः । “जीवतोर्वाक्यकरणात्” इति स्मृतेः ।। 1.62.9 ।।
अयं मुनिसुतो बालो मत्तश्शरणमिच्छति ।
अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः ।। 1.62.10 ।।
अयमिति । शरणं रक्षणम् । जीवितमात्रेण जीवनप्रदानमात्रेण ।। 1.62.10 ।।
सर्वे सुकृतकर्माणः सर्वे धर्मपरायणाः ।
पशुभूता नरेन्द्रस्य तृप्तिमग्नेः प्रयच्छत ।। 1.62.11 ।।
स्वनियोगकरणार्थमुपश्लोकयति–सर्व इति । प्रयच्छतेति बहुवचनेन युष्मासु यः कश्चन भवत्विति सूच्यते ।। 1.62.11 ।।
नाथवांश्च शुनःशेपो यज्ञश्चाविघ्नितो भवेत् ।
देवतास्तर्पिताश्च स्युर्ममचापि कृतं वचः ।। 1.62.12 ।।
नाथवानिति । मया रक्षितो नाथवान् भवतु । कृतं स्यादिति शेषः ।। 1.62.12 ।।
मुनेस्तु वचनं श्रुत्वा मधुष्यन्दादयः सुताः ।
साभिमानं नरश्रेष्ठ सलीलमिदमब्रुवन् ।। 1.62.13 ।।
मुनेरिति । साभिमानं सगर्वम् । सलीलं सपरिहासम् ।। 1.62.13 ।।
कथमात्मसुतान् हित्वा त्रायसे ऽन्यसुतं विभो ।
अकार्यमिव पश्यामः श्वमांसमिव भोजने ।। 1.62.14 ।।
कथमिति । भोजने भोज्ये प्राप्ते तत्परित्यागेन श्वमांसभक्षणमिवाकार्यमित्यर्थः । द्वितीय इवशब्दो वाक्यालङ्कारे ।। 1.62.14 ।।
तेषां तद्वचनं श्रुत्वा पुत्राणां मुनिपुङ्गवः ।
क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे ।। 1.62.15 ।।
तेषामिति ।। 1.62.15 ।।
निस्साध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम् ।
अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम् ।। 1.62.16 ।।
निःसाध्वसं पितृप्रतिवचनभयरहितम् । धर्मात् जीवतोर्वाक्यकरणरूपधर्मात् । विगर्हितं भ्रष्टम् । इदमुभयं क्रियाविशेषणम् । दारुणं पितृभक्तिरहिततया परुषम् । अत एव रोमहर्षणं रोमाञ्चविकारकरम् ।। 1.62.16 ।।
श्वमांसभोजिनः सर्वे वासिष्ठा इव जातिषु ।
पूर्णं वर्षसहस्रं तु पृथिव्यामनुवत्स्यथ ।। 1.62.17 ।।
श्वमांसेत्यादि । अत्रादौ तस्मादित्युपस्कार्यम् । जातिषु मुष्टिकजातिषु ।। 1.62.17 ।।
कृत्वा शापसमायुक्तान् पुत्रान् मुनिवरस्तथा ।
शुनःशेपमुवाचार्तं कृत्वा रक्षां निरामयम् ।। 1.62.18 ।।
[इदमाह मुनिश्रेष्ठो विश्वामित्रो महातपाः ।]
कृत्वेति । निरामयं निर्भयं यथा भवति तथा । रक्षां मन्त्रितभस्मधूल्यादिप्रक्षेपरूपाम् ।। 1.62.18 ।।
पवित्रपाशैरासक्तो रक्तमाल्यानुलेपनः ।
वैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहर ।। 1.62.19 ।।
पवित्रेति । पाशैः दर्भरशनादिभिः । आसक्तः बद्धः । वैष्णवं विष्णुदेवताकम् “वैष्णवो वै देवतया यूपः” इति श्रुतेः । वाग्भिः वक्ष्यमाणगाथाद्वयरूपाभिः । अग्निं प्रत्युदाहर स्तुहि, अग्न्यभिमुखोभूत्वा इन्द्रमिन्द्रानुजं च स्तुहीत्यर्थः ।। 1.62.19 ।।
इमे तु गाथे द्वे दिव्ये गायेथा मुनिपुत्रक ।
अम्बरीषस्य यज्ञे ऽस्मिंस्ततः सिद्धिमवाप्स्यसि ।। 1.62.20 ।।
गाथे दर्शयति–इमे इति । गाथे इन्द्रोपेन्द्रविषये एका इन्द्रविषया, अन्या उपेन्द्रविषया । ततः गाथाभ्याम् । सिद्धिं जीवितसिद्धिम् ।। 1.62.20 ।।
शुनःशेपो गृहीत्वा ते द्वे गाथे सुसमाहितः ।
त्वरया राजसिंहं तमम्बरीषमुवाच ह ।। 1.62.21 ।।
शुनःशेप इत्यादि ।। 1.62.21 ।।
राजसिंह महासत्त्व शीघ्रं गच्छावहे सदः ।
निर्वर्तयस्व राजेन्द्र दीक्षां च समुपाविश ।। 1.62.22 ।।
तद्वाक्यमृषिपुत्रस्य श्रुत्वा हर्षसमुत्सुकः ।
जगाम नृपतिः शीघ्रं यज्ञवाटमतन्द्रितः ।। 1.62.23 ।।
सदः यज्ञवाटमित्यर्थः ।। 1.62.22,23 ।।
सदस्यानुमते राजा पवित्रकृतलक्षणम् ।
पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत् ।। 1.62.24 ।।
सदस्यानुमते सदस्यानाम् उपद्रष्टृप्रभृतीनाम् अनुमते अनुमतौ, स्थित इति शेषः । पवित्रैर्दर्भरज्जुभिः । कृतलक्षणं कृतलाञ्छनम् । कृतपशुत्वज्ञापनमित्यर्थः । पशुं कृत्वा उपाकरणादिसंस्कारसंस्कृतं कृत्वा ।। 1.62.24 ।।
स बद्धो वाग्भिरग्र्याभिरभितुष्टाव वै सुरौ ।
इन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रकः ।। 1.62.25 ।।
स इति । इन्द्रं पशुभोक्तारम् । इन्द्रानुजं यूपदेवं तुष्टाव । इन्द्रानुजं पुरुषकारीकृत्य फलप्रदमिन्द्रं स्तुतवानित्यर्थः ।। 1.62.25 ।।
ततः प्रीतः सहस्राक्षो रहस्यस्तुतितर्पितः ।
दीर्घमायुस्तदा प्रादाच्छुनःशेपाय राघव ।। 1.62.26 ।।
तत इन्द्रस्यैव फलप्रदत्वमाह–तत इति । प्रीतः स्वस्तुत्या तुष्टः । रहस्यस्तुतितर्पितः स्वस्वामिभूतविष्णुरहस्यस्तुत्या तोषितः ।। 1.62.26 ।।
स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान् ।
फलं बहुगुणं राम सहस्राक्षप्रसादजम् ।। 1.62.27 ।।
विश्वामित्रो ऽपि धर्मात्मा भूयस्तेपे महातपाः ।
पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च ।। 1.62.28 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विषष्टितमः सर्गः ।। 62 ।।
स चेति । समाप्तवान् प्राप्तवान् । ननु ‘हरिश्चन्द्रो ह वैधस ऐक्ष्वाको राजपुत्र आस’ इत्यादि बह्वृचब्राह्मणोक्तेतिहासविरुद्धो ऽयं कथमुपपद्यत इति चेत्, अम्बरीषस्यैव हरिश्चन्द्र इति सञ्ज्ञान्तरमित्यविरोधस्य नेयत्वात् ।। 1.62.27,28 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने द्विषष्टितमः सर्गः ।। 62 ।।