श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः
त्रिषष्टितमः सर्गः
पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम् ।
अभ्यागच्छन् सुराः सर्वे तपःफलचिकीर्षवः ।। 1.63.1 ।।
पुत्रविषयक्रूरशापदानेन क्रोधनिर्जयाभावान्न ब्रह्मर्षित्वसिद्धिरित्याह त्रिषष्टितमे–पूर्ण इत्यादि । व्रतस्नातं व्रतान्ते स्नातम्, समाप्तपुरश्चरणमिति यावत् । तपःफलचिकीर्षवः तपःफलं दातुमिच्छवः ।। 1.63.1 ।।
अब्रवीत् सुमहातेजा ब्रह्मा सुरुचिरं वचः ।
ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः ।। 1.63.2 ।।
अब्रवीदिति । ऋषिस्त्वमसि पूर्वतपसा राजर्षिरसि इदानीमृषिरेवासि, अनेन राजपदाप्रयोगेण क्षत्रियत्वविश्लेषः कियान् कृत इति गम्यते ।। 1.63.2 ।।
तमेवमुक्त्वा देवेशस्त्रिदिवं पुनरभ्यगात् ।। 1.63.3 ।।
विश्वामित्रो महातेजा भूयस्तेपे महत्तपः ।। 1.63.4 ।।
विश्वामित्रो महातेजा भूयस्तेपे महत्तप इति । अत्र गायत्रीतृतीयाक्षरम् ।। 1.63.3,4 ।।
ततः कालेन महता मेनका परमाप्सराः ।
पुष्करेषु नरश्रेष्ठस्नातुं समुपचक्रमे ।। 1.63.5 ।।
अथास्य जितेन्द्रियत्वाभावख्यापनाय कथान्तरं प्रस्तौति–ततः कालेनेत्यादि । अप्सरश्शब्द एकवचनान्तोप्यस्ति । देवप्रेषितेति सिद्धम् ।। 1.63.5 ।।
तां ददर्श महातेजा मेनकां कुशिकात्मजः ।
रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा ।। 1.63.6 ।।
दृष्ट्वा कन्दर्पवशगो मुनिस्तामिदमब्रवीत् ।। 1.63.7 ।।
तामिति । तत्र सरसि स्नान्ती मेनका जलदमण्डलमध्यवर्तिनी विद्युदिव स्थितेति भावः ।।
1.63.6,7 ।।
अप्सरः स्वागतं ते ऽस्तु वस चेह ममाश्रमे ।
अनुगृह्णीष्व भद्रं ते मदनेन सुमोहितम् ।। 1.63.8 ।।
इत्युक्ता सा वरारोहा तत्र वासमथाकरोत् ।। 1.63.9 ।।
अनुगृह्णीष्व मत्कामतापं शमयेत्यर्थः ।। 1.63.8,9 ।।
तस्यां वसन्त्यां वर्षाणि पञ्चपञ्च च राघव ।
विश्वामित्राश्रमे राम सुखेन व्यतिचक्रमुः ।। 1.63.10 ।।
तस्यामिति । पञ्चपञ्चचेति दशेत्यर्थः । सुखेन वसन्त्यामित्यन्वयः ।। 1.63.10 ।।
अथ काले गते तस्मिन् विश्वामित्रो महामुनिः ।
सव्रीड इव संवृत्तश्चिन्ताशोकपरायणः ।। 1.63.11 ।।
अथेति । सव्रीड इवेत्यत्र इवशब्दो वाक्यालङ्कारे ।। 1.63.11 ।।
बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनन्दन ।
सर्वं सुराणां कर्मैतत्तपोपहरणं महत् ।। 1.63.12 ।।
अहोरात्रापदेशेन गताः संवत्सरा दश ।
काममोहाभिभूतस्य विघ्नो ऽयं प्रत्युपस्थितः ।। 1.63.13 ।।
बुद्धिरित्यादि द्विकम् । अहोरात्रापदेशेन अहोरात्रतुल्यतया । अन्ते इतिकरणमध्याहार्यम् । इति बुद्धिरुत्पन्नेत्यन्वयः ।। 1.63.12,13 ।।
विनिश्वसन् मुनिवरः पश्चात्तापेन दुःखितः ।
भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम् ।। 1.63.14 ।।
मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः ।
उत्तरं पर्वतं राम विश्वामित्रो जगाम ह ।। 1.63.15 ।।
विनिश्वसन्नित्यादि द्विकम् । वेपन्तीं वेपमानाम् । मधुरैः त्वया किं कृतम् ? कामपरतन्त्रस्य ममैवापराधो ऽयमित्येवंरूपैरित्यर्थः । उत्तरं पर्वतं हिमवन्तम् ।। 1.63.14,15 ।।
स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशाः ।
कौशिकीतीरमासाद्य तपस्तेपे सुदारुणम् ।। 1.63.16 ।।
तस्य वर्षसहस्रं तु घोरं तप उपासतः ।
उत्तरे पर्वते राम देवतानामभूद्भयम् ।। 1.63.17 ।।
आमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः ।
महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः ।। 1.63.18 ।।
देवतानां वचः श्रुत्वा सर्वलोकपितामहः ।
अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् ।। 1.63.19 ।।
स इति । नैष्ठिकीं व्रतसमापनपर्यन्ताम् । जेतुकामः इन्द्रियाणीति शेषः ।। 1.63.1619 ।।
महर्षे स्वागतं वत्स तपसोग्रेण तोषितः ।
महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक ।। 1.63.20 ।।
ब्रह्मणस्स वचः श्रुत्वा सर्वलोकेश्वरस्य ह ।
न विषण्णो न सन्तुष्टो विश्वामित्रस्तपोधनः ।। 1.63.21 ।।
प्राञ्जलिः प्रणतो भूत्वा सर्वलोकपितामहम् ।
प्रत्युवाच ततो वाचं विश्वामित्रो महामुनिः ।। 1.63.22 ।।
महत्त्वमित्यस्य विवरणम्–ऋषिमुख्यत्वमिति ।। 1.63.2022 ।।
महर्षिशब्दमतुलं स्वार्जितैः कर्मभिः शुभैः ।
यदि मे भगवानाह ततो ऽहं विजितेन्द्रियः ।। 1.63.23 ।।
ततो ऽहं विजितेन्द्रियः यदि महर्षित्वं भवता दत्तं ततो ऽहं विजितेन्द्रियश्चास्मीत्यर्थः ।। 1.63.23 ।।
तमुवाच ततो ब्रह्मा न तावत्त्वं जितेन्द्रियः ।
यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः ।। 1.63.24 ।।
विप्रस्िथतेषु देवेषु विश्वामित्रो महामुनिः ।
ऊर्द्ध्वबाहुर्निरालम्बो वायुभक्षस्तपश्चरन् ।। 1.63.25 ।।
न तावत्त्वं जितेन्द्रियः विकारहेतुसन्निधानेपि यावन्न विकरोषि तावन्तं कालं तव जितेन्द्रियत्वं नास्तीत्यर्थः ।। 1.63.24,25 ।।
घर्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः ।
शिशिरे सलिलस्थायी रात्र्यहानि तपोधनः ।। 1.63.26 ।।
एवं वर्षसहस्रं हि तपो घोरमुपागमत् ।। 1.63.27 ।।
आकाशसंश्रयः वर्षावरणरहितदेशस्थः ।। 1.63.26,27 ।।
तस्मिन् सन्तप्यमाने तु विश्वामित्रे महामुनौ ।
सम्भ्रमः सुमहानासीत् सुराणां वासवस्य च ।। 1.63.28 ।।
सम्भ्रमः किमस्मत्पदं काङ्क्षत इति अस्थाने भयशङ्का ।। 1.63.28 ।।
रम्भामप्सरसं शक्रस्सह सर्वैर्मरुद्गणैः ।
उवाचात्महितं वाक्यमहितं कौशिकस्य च ।। 1.63.29 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिषष्टितमः सर्गः ।। 63 ।।
अहितं कौशिकस्य चेत्यनेन तद्विषयवैरनिर्यातनार्थं च रम्भाप्रेरणमित्यपि गम्यते ।। 1.63.29 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने त्रिषष्टितमः सर्गः ।। 63 ।।