श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः
षट्षष्टितमः सर्गः
ततः प्रभाते विमले कृतकर्मा नराधिपः ।
विश्वामित्रं महात्मानमाजुहाव सराघवम् ।। 1.66.1 ।।
एवं स्वमातृशापमोचनघटकत्वकृतोपकारस्मृत्या शतानन्दप्रतिपादितेन प्रासङ्गिकेन विश्वामित्रचरित्रेण उपकारकगुरुवैभवो ज्ञेयः, कामक्रोधौ सर्वदा दुर्निरोधौ, जितकामक्रोध एव ब्राह्मणोत्तमः, ब्राह्मण्यं च न सुलभम्, ब्रह्मविदपचारः सर्वारम्भनिरोधकः इत्यादिव्यञ्जितमिति प्रबन्धगतवस्तुना वस्तुध्वनिः । अथ स्वयमेव समस्तजनरक्षणावसरप्रतीक्षो भगवान् देवशरणागतिं व्याजीकृत्य रावणवघायावतीर्णस्तदवान्तरोपायभूतां वेदवत्यवतारे स्वतः कृतसङ्कल्पां लक्ष्मीं तुल्यशीलवयोवृत्ताभिजनैव कन्या वरणीयेत्यमुमर्थविशेषं प्रवर्तयिष्यन् जनककुले ऽवतार्य तत्परिणयनाय प्रवृत्तस्तत्प्रीणनाय ताटकाताटकेयादिदुष्टवधं कौशिकाध्वरत्राणाहल्याशापमोक्षादिरूपं शिष्टपरिपालनं च विधाय साक्षात्सीतालाभोपायाय यतत इत्याह–ततः प्रभात इत्यादिना सर्गद्वयेन ।। 1.66.1 ।।
तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा ।
राघवौ च महात्मानौ तदा वाक्यमुवाच ह ।। 1.66.2 ।।
भगवन् स्वागतं ते ऽस्तु किं करोमि तवानघ ।
भवानाज्ञापयतु मामाज्ञाप्यो भवता ह्यहम् ।। 1.66.3 ।।
एवमुक्तस्तु धर्मात्मा जनकेन महात्मना ।
प्रत्युवाच मुनिर्वीरं वाक्यं वाक्यविशारदः ।। 1.66.4 ।।
तमिति । राघवौ चार्चयित्वेत्यन्वयः । कर्मणा अर्घ्यप्रदानादिना ।। 1.66.24 ।।
पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ ।
द्रष्टुकामौ धनुःश्रेष्ठं यदेतत्त्वयि तिष्ठति ।। 1.66.5 ।।
द्रष्टुकामौ, भवत इति शेषः ।। 1.66.5 ।।
एतद्दर्शय भद्रं ते कृतकामौ नृपात्मजौ ।
दर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः ।। 1.66.6 ।।
एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम् ।। 1.66.7 ।।
अस्य दर्शनादेव कृतकामौ भूत्वा प्रतियास्यत इत्यन्वयः ।। 1.66.6,7 ।।
श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति ।। 1.66.8 ।।
श्रूयतामिति । धनुः यदर्थं यत्प्रयोजनाय । इह अस्मद्गृहे, तिष्ठति । अस्य धनुषः तत्प्रयोजनं श्रूयतामित्यर्थः ।। 1.66.8 ।।
देवरात इति ख्यातो निमेष्षष्ठो महीपतिः ।
न्यासो ऽयं तस्य भगवन् हस्ते दत्तो महात्मना ।। 1.66.9 ।।
निमेः जनककूटस्थस्य । न्यासः निक्षेपरूपम् ।। 1.66.9 ।।
दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान् ।
रुद्रस्तु त्रिदशान् रोषात् सलीलमिदमब्रवीत् ।। 1.66.10 ।।
उक्तमर्थं विवृणोति–दक्षेत्यादिना । आयम्य आकृष्य ।। 1.66.10 ।।
यस्माद्भागार्थिनो भागान्नाकल्पयत मे सुराः ।
वराङ्गाणि महार्हाणि धनुषा शातयामि वः ।। 1.66.11 ।।
भागार्थिनः स्विष्टकृदादिभागार्थिनः । मे ममेत्यन्वयः । वराङ्गाणि शिरांसि । अत्र तस्मादित्युपस्कार्यम् । शातयामि छिनद्मि ।। 1.66.11 ।।
ततो विमनसः सर्वे देवा वै मुनिपुङ्गव ।
प्रसादयन्ति देवेशं तेषां प्रीतो ऽभवद्भवः ।। 1.66.12 ।।
विमनसः दीनाः । भवः रुद्रः ।। 1.66.12 ।।
प्रीतियुक्तः स सर्वेषां ददौ तेषां महात्मनाम् ।
तदेतद्देवदेवस्य धनूरत्नं महात्मनः ।
न्यासभूतं तदा न्यस्तमस्माकं पूर्वके विभो ।। 1.66.13 ।।
ददौ धनुरिति शेषः । धनूरत्नं धनुःश्रेष्ठम् । पूर्वके देवराते । न्यासभूतं न्यस्तम्, देवैरिति शेषः ।। 1.66.13 ।।
अथ मे कृषतः क्षेत्रं लाङ्गलादुत्थिता मया ।
क्षेत्रं शोधयता लब्धा नाम्ना सीतेति विश्रुता ।। 1.66.14 ।।
अथेति । अथ वृत्तान्तान्तरारम्भे । क्षेत्रं यागभूमिम् । मे कृषतः मयि कर्षतीत्यर्थः । चयनार्थमिति शेषः । ‘लाङ्गलं पवीरवमिति द्वाभ्यामृषभेण कृषति’ इत्यादिशास्त्रात् । लाङ्गलात् लाङ्गलपद्धतेरित्यर्थः । उत्थितेति, कन्येति शेषः । सा च क्षेत्रं शोधयता मया लब्धेति हेतोर्नाम्ना सीतेति विश्रुता आसीत् । सीता लाङ्गलपद्धतिः । सीतायां जातत्वात्सीतेत्युच्यते ।। 1.66.14 ।।
भूतलादुत्थिता सा तु व्यवर्द्धत ममात्मजा ।
वीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा ।। 1.66.15 ।।
भूतला दुत्थितां तां तु वर्द्धमानां ममात्मजाम् ।
वरयामासुरागम्य राजानो मुनिपुङ्गव ।। 1.66.16 ।।
तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम् ।
वीर्यशुल्केति भगवन् न ददामि सुतामहम् ।। 1.66.17 ।।
व्यवर्द्धत मत्कृतपोषणादिति शेषः । अतो ममात्मजा । वीर्यं धनुरारोपणं तदेव शुल्कं मूल्यं यस्याः सा वीर्यशुल्का । इति हेतौ । वीर्यशुल्कत्वात्स्थापिता न कस्मैचिद्दत्तेति भावः ।। 1.66.1517 ।।
ततः सर्वे नृपतयः समेत्य मुनिपुङ्गव ।
मिथिलामभ्युपागम्य वीर्यजिज्ञासवस्तदा ।। 1.66.18 ।।
वीर्यजिज्ञासवः धनुःसारजिज्ञासवः । अभवन्निति शेषः ।। 1.66.18 ।।
तेषां जिज्ञासमानानां वीर्यं धनुरुपाहृतम् ।
न शेकुर्ग्रहणे तस्य धनुषस्तोलने ऽपि वा ।। 1.66.19 ।।
तेषामिति । वीर्यं जिज्ञासमानानां तेषां कृते धनुः उपाहृतं आनीतम् । ग्रहणे धारणे । तोलने भारपरीक्षार्थं हस्तेन चालने ।। 1.66.19 ।।
तेषां वीर्यवतां वीर्यमल्पं ज्ञात्वा महामुने ।
प्रत्याख्याता नृपतयस्तन्निबोध तपोधन ।। 1.66.20 ।।
तेषामिति । तन्निबोधेति तदित्यव्ययम् । तस्मात्कारणात् अनन्तरं यद्वृत्तं तन्निबोधेत्यर्थः ।। 1.66.20 ।।
ततः परमकोपेन राजानो नृपपुङ्गव ।
न्यरुन्धन् मिथिलां सर्वे वीर्यसन्देहमागताः ।। 1.66.21 ।।
वीर्यसन्देहं वीर्यशैथिल्यम् ।। 1.66.21 ।।
आत्मानमवधूतं ते विज्ञाय नृपपुङ्गवाः ।
रोषेण महताविष्टाः पीडयन् मिथिलां पुरीम् ।। 1.66.22 ।।
मिथिलावरोधे निमित्तान्तरमाह–आत्मानमिति । ते नृपाः । आत्मानं स्वात्मानम् । मया अवधूतं वीर्यशुल्ककरणेन तिरस्कृतं विज्ञाय, पीडयन् अपीडयन् ।। 1.66.22 ।।
ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः ।
साधनानि मुनिश्रेष्ठ ततो ऽहं भृशदुःखितः ।। 1.66.23 ।।
साधनानि दुर्गरक्षण साधनानि ।। 1.66.23 ।।
ततो देवगणान् सर्वान् तपसा ऽहं प्रसादयम् ।
ददुश्च परमप्रीताश्चतुरङ्गबलं सुराः ।। 1.66.24 ।।
प्रसादयं प्रासादयम् ।। 1.66.24 ।।
ततो भग्ना नृपतयो हन्यमाना दिशो ययुः ।
अवीर्या वीर्यसन्दिग्धाः सामात्याः पापकर्मणः ।। 1.66.25 ।।
तदेतन्मुनिशार्दूल धनुः परमभास्वरम् ।
रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत ।। 1.66.26 ।।
यद्यस्य धनुषो रामः कुर्यादारोपणं मुने ।
सुतामयोनिजां सीतां दद्यां दाशरथेरहम् ।। 1.66.27 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्षष्टितमः सर्गः ।। 66 ।।
वीर्यसन्दिग्धाः सन्दिग्धवीर्याः । पापकर्मणः पापकर्माणः ।। 1.66.2527 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने
षट्षष्टितमः सर्गः ।। 66 ।।