श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः
एकोनसप्ततितमः सर्गः
ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः ।
राजा दशरथो हृष्टः सुमन्त्रमिदमब्रवीत् ।। 1.69.1 ।।
अथ दशरथस्य मिथिलागमनमेकोनसप्ततितमे–ततो रात्र्यामित्यादि ।। 1.69.1 ।।
अद्य सर्वे धनाध्यक्षा धनमादाय पुष्कलम् ।
व्रजन्त्वग्रे सुविहिता नानारत्नसमन्विताः ।। 1.69.2 ।।
धनाध्यक्षाः कोशरक्षाधिकृताः । पुष्कलं श्रेष्ठम् । “श्रेयान् श्रेष्ठः पुष्कलः स्यात्” इत्यमरः । सुविहिताः सुसम्पादितकल्याणोचितकर्माणः ।। 1.69.2 ।।
चतुरङ्गं बलं चापि शीघ्रं निर्यातु सर्वशः ।
ममाज्ञासमकालं च यानयुग्यमनुत्तमम् ।। 1.69.3 ।।
यानयुग्यमिति । यानं शिबिकान्दोलिकादि, युग्यं रथादि । सेनाङ्गत्वादेकवद्भावः ।। 1.69.3 ।।
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ।
मार्कण्डेयः सुदीर्घायुर्ऋषिः कात्यायनस्तथा ।। 1.69.4 ।।
एते द्विजाः प्रयान्त्वग्रे स्यन्दनं योजयस्व मे ।
यथा कालात्ययो न स्याद्दूता हि त्वरयन्ति माम् ।। 1.69.5 ।।
वचनात्तु नरेन्द्रस्य सा सेना चतुरङ्गिणी ।
राजानमृषिभिः सार्द्धं व्रजन्तं पृष्ठतो ऽन्वगात् ।। 1.69.6 ।।
यथा कालात्ययः कालातिक्रमः न स्यात्तथा प्रयान्त्विति योजना ।। 1.69.46 ।।
गत्वा चतुरहं मार्गं विदेहानभ्युपेयिवान् ।
राजा तु जनकः श्रीमान् श्रुत्वा पूजामकल्पयत् ।। 1.69.7 ।।
चतुरहं चतुर्ष्वहस्सु । श्रुत्वा दशरथमागतं श्रुत्वा । पूजाम् उपधाम् ।। 1.69.7 ।।
ततो राजानमासाद्य वृद्धं दशरथं नृपम् ।
जनको मुदितो राजा हर्षं च परमं ययौ ।
उवाच च नरश्रेष्ठो नरश्रेष्ठं मुदान्वितः ।। 1.69.8 ।।
राजानमासाद्य मुदितः विवाहः शीघ्रं भावीति हर्षं ययौ ।। 1.69.8 ।।
स्वागतं ते महाराज दिष्ट्या प्राप्तो ऽसि राघव ।
पुत्रयोरुभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम् ।। 1.69.9 ।।
वीर्यनिर्जितां पुत्रयोर्वीर्येण धनुर्भङ्गादिना सम्भूतामित्यर्थः ।। 1.69.9 ।।
दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवानृषिः ।
सह सर्वैर्द्विजश्रेष्ठैर्देवैरिव शतक्रतुः ।। 1.69.10 ।।
वसिष्ठस्य शतक्रतुसाम्यं पूर्णधर्मत्वेन ।। 1.69.10 ।।
दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम् ।
राघवैः सह सम्बन्धाद्वीर्यश्रेष्ठैर्महात्मभिः ।। 1.69.11 ।।
विघ्नाः कन्याप्रदानप्रतिबन्धकाः । पूजितत्वे हेतुमाह–राघवैरिति । यत इत्युपस्कार्यम् ।।
1.69.11 ।।
श्वः प्रभाते नरेन्द्रेन्द्र निर्वर्तयितुमर्हसि ।
यज्ञस्यान्ते नरश्रेष्ठ विवाहमृषिसम्मतम् ।। 1.69.12 ।।
इक्ष्वाकुप्रथमवंशत्वेन नरेन्द्राणामिन्द्रत्वम् । यज्ञस्यान्त इति, त्रिचतुरदिनानन्तरभाविनीति शेषः । ऋषिसम्मतं ब्राह्मं विवाहमित्यर्थः ।। 1.69.12 ।।
तस्य तद्वचनं श्रुत्या ऋषिमध्ये नराधिपः ।
वाक्यं वाक्यविदां श्रेष्ठः प्रत्युवाच महीपतिम् ।। 1.69.13 ।।
महीपतिं जनकम् ।। 1.69.13 ।।
प्रतिग्रहो दातृवशः श्रुतमेतन्मया पुरा ।
यथा वक्ष्यसि धर्मज्ञ तत्करिष्यामहे वयम् ।। 1.69.14 ।।
प्रतिग्रह इति । कन्यागवादीनां प्रतिग्रहो दातृवश एव, यदा दाता ददाति तदा प्रतिगृह्यते प्रतिग्रहीत्रेति वस्तुस्थितिः । एतत् युष्मदीयं वीर्यशुल्ककन्याप्रदानमपि पूर्वमेव श्रुतम्, अतःपरं कन्याप्रदस्त्वं यथा वक्ष्यसि तथा वयं करिष्यामः ।। 1.69.14 ।।
धर्मिष्ठं च यशस्यं च वचनं सत्यवादिनः ।
श्रुत्वा विदेहाधिपतिः परं विस्मयमागतः ।। 1.69.15 ।।
विस्मयमिति । प्रतिग्रहो दातृवश इत्यादि विनयोक्तेरिति भावः ।। 1.69.15 ।।
ततः सर्वे मुनिगणाः परस्परसमागमे ।
हर्षेण महता युक्तास्तां निशामवसन् सुखम् ।। 1.69.16 ।।
परस्परसमागमे सम्भूते सतीति शेषः ।। 1.69.16 ।।
राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः ।
उवास परमप्रीतो जनकेनाभिपूजितः ।। 1.69.17 ।।
निशाम्य दृष्ट्वा । “शमो दर्शने” इति मित्वनिषेधान्न ह्रस्वः ।। 1.69.17 ।।
जनको ऽपि महातेजाः क्रियां धर्मेण तत्त्ववित् ।
यज्ञस्य च सुताभ्यां च कृत्वारात्रिमुवास ह ।। 1.69.18 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनसप्ततितमःसर्गः ।। 69 ।।
जनको ऽपीति । यज्ञस्य क्रियाम् अवशिष्टक्रियाम् । सुताभ्यां पुत्र्योः । क्रियामङ्कुरार्पणादिकम् ।। 1.69.18 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने एकोनसप्ततितमः सर्गः ।। 69 ।।