श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः
सप्ततितमः सर्गः
ततः प्रभाते जनकः कृतकर्मा महर्षिभिः ।
उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम् ।। 1.70.1 ।।
अथ जनकेन सम्बन्धार्हत्वायेक्ष्वाकुसन्तानकीर्तनं सप्ततितमे–ततः प्रभात इत्यादि । कृतकर्मा समाप्तयज्ञादिक्रियः ।। 1.70.1 ।।
भ्राता मम महातेजा यवीयानतिधार्मिकः ।
कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम् ।। 1.70.2 ।।
वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम् ।
साङ्काश्यां पुण्यसङ्काशां विमानमिव पुष्पकम् ।। 1.70.3 ।।
भ्रातेत्यादि । अत्रत्यविशेषणानां शतानन्दपरिज्ञातानामप्युपदेशः परम्परया दशरथादिश्रोत्रं प्रापयितुम् । वार्याफलकपर्यन्तां दुर्गसंरक्षणार्थं परिखारूपेणावस्थितायाम् इक्षुमत्यां वारिणि आकीर्णाः निखाताः फलकाश्शूलानि येषु ते वार्याफलकाः तादृशाः पर्यन्तप्रदेशा यस्यास्ताम् । वार्यामलकपर्यन्तामितिपाठे–वार्यामलकाः आमलकविशेषास्तत्पर्यन्ताम् । पुण्यसङ्काशां पुण्यतुल्याम्, पुण्यवत्स्ववासिनां स्वत एवाभीष्टप्रदामित्यर्थः । पुष्पकं विमानमिव स्थितां साङ्काश्यां पुरीम् । इक्षुमतीं नदीं पिबन्, तज्जलं पिबन्नित्यर्थः । अध्यवसत् अधिवसति । “उपान्वध्याङ्वसः” इत्याधारस्य कर्मत्वम् ।। 1.70.2,3 ।।
तमहं द्रष्टुमिच्छामि यज्ञगोप्ता स मे मतः ।
प्रीतिं सो ऽपि महातेजा इमां भोक्ता मया सह ।। 1.70.4 ।।
यज्ञगोप्ता साङ्काश्ये स्थित्वा यज्ञसामग्रीप्रेषणादिनेति भावः । इमां विवाहकल्याणजाम् । भोक्तेति लुट् ।। 1.70.4 ।।
शासनात्तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः ।
समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा ।। 1.70.5 ।।
आज्ञयाथ नरेन्द्रस्य आजगाम कुशध्वजः ।
स ददर्श महात्मानं जनकं धर्मवत्सलम् ।। 1.70.6 ।।
नरेन्द्रस्य शासनात् शतानन्दवचनद्वारकादित्यर्थः । विष्णुम् उपेन्द्रम् ।। 1.70.5,6 ।।
सो ऽभिवाद्य शतानन्दं राजानं चापि धार्मिकम् ।
राजार्हं परमं दिव्यमासनं चाध्यरोहत ।। 1.70.7 ।।
उपविष्टाबुभौ तौ तु भ्रातरावतितेजसौ ।
प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं सुदामनम् ।। 1.70.8 ।।
गच्छ मन्त्रिपते शीघ्रमैक्ष्वाकममितप्रभम् ।
आत्मजैः सह दुर्द्धर्षमानयस्व समन्त्रिणम् ।। 1.70.9 ।।
अध्यरोहत पुरोहितराजानुज्ञयेत्यर्थः ।। 1.70.79 ।।
औपकार्य्यं स गत्वा तु रघूणां कुलवर्द्धनम् ।
ददर्श शिरसा चैनमभिवाद्येदमब्रवीत् ।। 1.70.10 ।।
अयोध्याधिपते वीर वैदेहो मिथिलाधिपः ।
स त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम् ।। 1.70.11 ।।
मन्त्रिश्रेष्ठवचः श्रुत्वा राजा सर्षिगणस्तदा ।
सबन्धुरगमत्तत्र जनको यत्र वर्तते ।। 1.70.12 ।।
स राजा मन्त्रिसहितः सोपाध्यायः सबान्धवः ।
वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत् ।। 1.70.13 ।।
औपकार्यं दशरथशिबिरनिवेशम् । उपकार्याशब्दात्स्वार्थे ष्यञ् ।। 1.70.1013 ।।
विदितं ते महाराज इक्ष्वाकुकुलदैवतम् ।
वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवानृषिः ।। 1.70.14 ।।
विदितमिति । “मतिबुद्धि–” इत्यादिना वर्तमाने क्तः । “क्तस्य च वर्तमाने” इति षष्ठी । त्वया विदितमित्यर्थः । दैवतं परमगुरुरित्यर्थः ।। 1.70.14 ।।
विश्वामित्राभ्यनुज्ञातः सह सर्वैर्महर्षिभिः ।
एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम् ।। 1.70.15 ।।
तूष्णीम्भूते दशरथे वसिष्ठो भगवानृषिः ।
उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोधसम् ।। 1.70.16 ।।
मे वक्ष्यति, कुलमिति शेषः । विश्वामित्रस्य कोपपरिहाराय विश्वामित्राभ्यनुज्ञात इत्युक्तम् । “दशपुरुषविख्यातात्” इति शास्त्रेण यौनसम्बन्धापेक्षितां वंशशुद्धिं वक्ष्यतीत्यर्थः ।। 1.70.15,16 ।।
अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ।
तस्मान्मरीचिः सञ्जज्ञे मरीचेः काश्यपः सुतः ।। 1.70.17 ।।
अव्यक्तं प्रत्यक्षाद्यगोचरं वस्तु प्रभवः कारणं यस्य सो ऽव्यक्तप्रभवः । अव्यक्तं किं नाम, वक्ष्यत्ययोध्याकाण्डे– “आकाशप्रभवो ब्रह्मा” इति । अथ को ऽयमाकाशो ऽपि, तमपि वक्ष्यत्युत्तरकाण्डे– “सङ्क्षिप्य हि पुरा लोकान् मायया स्वयमेव हि । महार्णवे शयानो ऽप्सु मां त्वं पूर्वमजीजनः । पद्मे दिव्ये ऽर्कसङ्काशे नाभ्यामुत्पाद्य मामपि । प्राजापत्यं त्वया कर्म मयि सर्वं निवेशितम् ।।” इत्यादिना। शाश्वतः बहुकालस्थायी। नित्यः द्विपरार्द्धकालं विनाशरहितः। अव्ययः प्रवाहरूपेण प्रतिकल्पमवस्थायी। अस्तीति शेषः ।। 1.70.17 ।।
विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वतः स्मृतः ।
मनुः प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः ।। 1.70.18 ।।
तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ।
इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरित्येव विश्रुतः ।। 1.70.19 ।।
कुक्षेरथात्मजः श्रीमान् विकुक्षिरुदपद्यत ।
विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान् ।। 1.70.20 ।।
बाणस्य तु महातेजा अनरण्यः प्रतापवान् ।
अनरण्यात्पृथुर्जज्ञे त्रिशङ्कुस्तु पृथोः सुतः ।। 1.70.21 ।।
वैवस्वतः विवस्वत्पुत्रः प्रजापतिः राजा, आसीदिति शेषः ।। 1.70.1821 ।।
त्रिशङ्कोरभवत् पुत्रो धुन्धुमारो महायशाः ।
यौवनाश्वसुतस्त्वासीन्मान्धाता पृथिवीपतिः ।। 1.70.22 ।।
मान्धातुस्तु सुतः श्रीमान् सुसन्धिरुदपद्यत ।
सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित् ।। 1.70.23 ।।
धुन्धुमारः युवनाश्वापरनामधेयः ।। 1.70.22,23 ।।
यशस्वी ध्रुवसन्धेस्तु भरतो नाम नामतः ।
भरतात्तु महातेजा असितो नाम जातवान् ।। 1.70.24 ।।
मध्ये असितवृत्तान्तकथनं सगरवैभवातिशयप्रकटनाय ।। 1.70.24 ।।
यस्यैते प्रतिराजान उदपद्यन्त शत्रवः ।
हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दवः ।। 1.70.25 ।।
प्रतिराजानः प्रतिपक्षाः । शत्रवः शातयितारः । प्रतिराजानेव तान् विशेषयति हैहया इत्यादि ।। 1.70.25 ।।
तांस्तु स प्रतियुद्ध्यन् वै युद्धे राजा प्रवासितः ।। 1.70.26 ।।
प्रतियुद्ध्यन् अभिमुखतया युद्धं कुर्वन् । प्रवासितः राज्याद्भ्रंशितः ।। 1.70.26 ।।
हिमवन्तमुपागम्य भृगुप्रस्रवणे ऽवसत् ।
असितो ऽल्पबलो राजा मन्त्रिभिः सहितस्तदा ।। 1.70.27 ।।
भृगुप्रस्रवणे भृगुमहामुनिसान्निध्यवन्निर्झरोपान्तप्रदेशे । इदमेव पूर्वं भृगुतुन्द इत्युक्तम् ।। 1.70.27 ।।
द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतम् ।
एका गर्भविनाशाय सपत्न्यै सगरं ददौ ।। 1.70.28 ।।
सगरं गरं विषं तत्सहितं भक्ष्यमित्यर्थः ।। 1.70.28 ।।
ततः शैलवरं रम्यं बभूवाभिरतो मुनिः ।
भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः ।। 1.70.29 ।।
तत्रैका तु महाभागा भार्गवं देववर्चसम् ।
ववन्दे पद्मपत्राक्षी काङ्क्षन्तीं सुतमात्मनः ।। 1.70.30 ।।
तत इति । अभिरतः प्रीतः सन् हिमवन्तमुपाश्रितो ऽभूत् स्वदेशवासाभिमानेन प्रीतः सन्
तद्वरप्रदानाय सन्निहितो ऽभूदित्यर्थः ।। 1.70.29,30 ।।
तमृषिं साभ्युपागम्य कालिन्दी चाभ्यवादयत् ।। 1.70.31 ।।
कालिन्दीति सगरमुपयुक्तवत्या नाम । उपागम्य शरणं गत्वा । अभ्यवादयत् शुश्रूषते स्म ।। 1.70.31 ।।
स तामभ्यवदद्विप्रः पुत्रेप्सुं पुत्रजन्मनि ।। 1.70.32 ।।
सः पुत्रेप्सुम् अप्रतिबन्धपुत्रेप्सुम् । पुत्रजन्मनि पुत्रोत्पत्तिविषये ।। 1.70.32 ।।
तव कुक्षौ महाभागे सुपुत्रः सुमहाबलः ।
महावीर्यो महातेजा अचिरात् सञ्जनिष्यति ।
गरेण सहितः श्रीमान् मा शुचः कमलेक्षणे ।। 1.70.33 ।।
गरेण सपत्नीप्रयुक्तेन । मा शुचः गरप्रयोगनिमित्तं शोकं मा कुर्वित्यर्थः ।। 1.70.33 ।।
च्यवनं तु नमस्कृत्य राजपुत्री पतिव्रता ।
पतिशोकातुरा तस्मात् पुत्रं देवी व्यजायत ।। 1.70.34 ।।
पतिशोकेति । अनेन तदनन्तरमेव दैवात् पतिर्मृत इति गम्यते । तस्मात् च्यवनानुग्रहात् ।। 1.70.34 ।।
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ।
सह तेन गरेणैव जातः स सगरो ऽभवत् ।। 1.70.35 ।।
सगरस्यासमञ्जस्तु असमञ्जात्तथांशुमान् ।
दिलीपों ऽशुमतः पुत्रो दिलीपस्य भगीरथः ।। 1.70.36 ।।
सपन्त्येति । अत्र य इत्यनुसन्धेयम् । जात इत्यनन्तरं तेनेत्यनुसन्धेयम् ।। 1.70.35,36 ।।
भगीरथात्ककुत्स्थश्च ककुत्स्थस्य रघुस्सुतः ।। 1.70.37 ।।
रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः ।
कल्माषपादो ह्यभवत्तस्माज्जातश्च श्ाङ्खणः ।। 1.70.38 ।।
सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात् ।
शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरुः सुतः ।
मरोः प्रशुश्रुकस्त्वासीदम्बरीषः पशुश्रुकात् ।। 1.70.39 ।।
प्रवृद्ध इति । पूर्वं प्रवृद्धाख्यः ततो वसिष्ठशापात् पुरुषादकः राक्षसभूतः, ततः वसिष्ठं प्रतिशापायोद्धृतजलस्य स्वभार्यानुनयात् स्वपदप्रक्षेपेण कल्माषपादाख्यः ।। 1.70.3739 ।।
अम्बरीषस्य पुत्रो ऽभून्नहुषः पृथिवीपतिः ।
नहुषस्य ययातिश्च नाभागस्तु ययातिजः ।। 1.70.40 ।।
नाभागस्य बभूवाज अजाद्दशरथो ऽभवत् ।
अस्माद्दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ ।। 1.70.41 ।।
नहुषययाती चन्द्रवंश्याभ्यामन्यौ । अत्र पुराणे क्रमवैषम्यं कल्पभेदादिति ज्ञेयम् ।। 1.70.40,41 ।।
आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम् ।
इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम् ।। 1.70.42 ।।
आदिवंशविशुद्धानाम्, आदित आरम्य वंशेन विशुद्धानाम् । राज्ञामिति सम्बन्धे षष्ठी ।। 1.70.42 ।।
रामलक्ष्मणयोरर्थे त्वत्सुते वरये नृप ।
सदृशाभ्यां नरश्रेष्ठ सदृशे दातुमर्हसि ।। 1.70.43 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्ततितमः सर्गः ।। 70 ।।
वरय इति । वरणस्य पुरोहितकृत्यत्वादिति भावः । सदृशे इति ङीबभाव आर्षः ।। 1.70.43 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने सप्ततितमः सर्गः ।। 70 ।।