श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः
द्विसप्ततितमः सर्गः
तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनिः ।
उवाच वचनं वीरं वसिष्ठसहितो नृपम् ।। 1.72.1 ।।
अथ विश्वामित्रेण भरतशत्रुघ्नार्थे कुशध्वजसुतावरणं गोदानकरणं च द्विसप्ततितमे–तमुक्तवन्तमित्यादि । नृपं जनकम् ।। 1.72.1 ।।
अचिन्त्यान्यप्रमेयानि कुलानि नरपुङ्गव ।
इक्ष्वाकूणां विदेहानां नैषां तुल्यो ऽस्ति कश्चन ।। 1.72.2 ।।
अचिन्त्यानीत्यादि । अचिन्त्यानि आश्चर्यभूतानि । अप्रमेयानि अपरिच्छेद्यमहिमानि । एषाम् इक्ष्वाकुविदेहानाम् । तुल्यः कश्चन नास्ति यतः अतःकारणादचिन्त्यत्वमप्रमेयत्वं चेति भावः ।। 1.72.2 ।।
सदृशो धर्मसम्बन्धः सदृशो रूपसम्पदा ।
रामलक्ष्मणयो राजन् सीता चोर्मिलया सह ।। 1.72.3 ।।
सदृश इति । सीता ऊर्मिलया सह रामलक्ष्मणयोर्दीयते इति यत् । अयं धर्मसम्बन्धः धर्मेण सम्बन्धः, यौनसम्बन्ध इति यावत् । सदृशः रूपसम्पदा च सदृशः । यद्वा अयं करिष्यमाणो धर्मसम्बन्धः सदृशः उभयकुलसदृशः रूपसम्पदा च सदृशः तुल्यरूपयोर्विवाह इत्यर्थः । अत्र हेतुमाह रामेति । सीता ऊर्मिलया सह रामलक्ष्मणयोः यतः सदृशीत्यनुषङ्गः । यद्वा सीता ऊर्मिलया सह रामलक्ष्मणयोः चकाराद्रामलक्ष्मणौ च सीतोर्मिलयोः रूपसम्पदा सदृशः । शकारान्ते बहुवचनम् । अतः सदृशो धर्मसम्बन्ध इत्यर्थः ।। 1.72.3 ।।
वक्तव्यं च नरश्रेष्ठ श्रूयतां वचनं मम ।। 1.72.4 ।।
भ्राता यवीयान् धर्मज्ञ एष राजा कुशध्वजः ।
अस्य धर्मात्मनो राजन् रूपेणाप्रतिमं भुवि ।
सुताद्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे ।। 1.72.5 ।।
वक्तव्यञ्चेति । अन्यद्वक्तव्यं किञ्चिदस्ति तदपि श्रूयतामित्यर्थः ।। 1.72.4,5 ।।
भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः ।
वरयामस्सुते राजंस्तयोरर्थे महात्मनोः ।। 1.72.6 ।।
पुत्रा दशरथस्येमे रूपयौवनशालिनः ।
लोकपालोपमाः सर्वे देवतुल्यपराक्रमाः ।। 1.72.7 ।।
पत्न्यर्थमित्युक्तं कयोरित्याकाङ्क्षायां तदुपपादयन्नाह–भरतस्येति । भरतस्य शत्रुघ्नस्य च तयोरुभयोरर्थ इत्यन्वयः ।। 1.72.6,7 ।।
उभयोरपि राजेन्द्र सम्बन्धेनानुबध्यताम् ।
इक्ष्वाकोः कुलमव्यग्रं भवतः पुण्यकर्मणः ।। 1.72.8 ।।
उभयोरिति । उभयोर्युवयोः सम्बन्धेन कुलद्वयमप्यनुबध्यतामित्यर्थः । भवतः कुलमित्यनुकर्षः । अव्यग्रं निर्दोषम् । अन्योन्यसम्बन्धेनान्योन्यमुत्कर्षं प्राप्नुयादित्यर्थः ।। 1.72.8 ।।
विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा ।
जनकः प्राञ्जलिर्वाक्यमुवाच मुनिपुङ्गवौ ।। 1.72.9 ।।
वसिष्ठस्य मतेवसिष्ठानुमत इत्यर्थः ।। 1.72.9 ।।
कुलं धन्यमिदं मन्ये येषां नो मुनिपुङ्गवौ ।
सदृशं कुलसम्बन्धं यदाज्ञापयथस्स्वयम् ।। 1.72.10 ।।
कुलमिति । यद्यस्मात् । मुनिपुङ्गवौ युवां येषां नः कुलसम्बन्धम् इक्ष्वाकुवंशेन यौनसम्बन्धम् । स्वयं शिष्यमुखं विना आज्ञापयथः, तस्मात्तेषां नः इदं कुलं धन्यं भाग्यशालीति मन्ये ।। 1.72.10 ।।
एवं भवतु भद्रं वः कुशध्वजसुते इमे ।
पत्न्यौ भजेतां सहितौ शत्रुघ्नभरतावुभौ ।। 1.72.11 ।।
पत्न्यौ भजेतां पत्नीत्वेन भजेताम् । सहितौ सदा सहचरौ ।। 1.72.11 ।।
एकाह्ना राजपुत्रीणां चतसृ़णां महामुने ।
पाणीन् गृह्णन्तु चत्वारो राजपुत्रा महाबलाः ।। 1.72.12 ।।
एकाह्नेति । एकाह्नेत्यजभाव आर्षः । सप्तम्यर्थे तृतीया । चतसृ़णामिति “छन्दस्युभयथा” इति पक्षे दीर्घः ।। 1.72.12 ।।
उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्यां मनीषिणः ।
वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः ।। 1.72.13 ।।
उत्तरे फल्गुनीभ्यामुपलक्षितयोर्दिवसयोरुत्तरस्मिन् दिवसे, उत्तरफल्गुन्यामित्यर्थः । यद्वा फल्गुनीभ्यामिति सप्तम्यर्थे चतुर्थी । फल्गुन्यामुत्तरे फल्गुन्याख्ये उत्तरनक्षत्र इत्यर्थः । प्रशस्ततायां हेतुः भग इति । भगः प्रजापतिः । प्रजोत्पत्तिस्थानयोनिलिङ्गाधिष्ठाता देवता । ननु– “एकस्मिंस्तु गृहे कुर्यादेकामेव शुभक्रियाम् । अनेकां यस्तु कुरुते स नाशमधिगच्छति ।।” इति ज्योतिश्शास्त्रे एकगृहे अनेकोत्सवनिषेधो दृश्यत इति चेत्, मतान्तरे एकगृहे भ्रातृ़णामेकदोत्सवस्य विहितत्वात्। उक्तं हि दैवज्ञविलासे “भिन्नोदरोदयवतामुद्वाहे कल्पयेत् पृथग्वेदिम्। एकगृहे जगुरार्या मण्डपमेकं पराशरेणोक्तम् ।।” इति । नन्वेवमपि लक्ष्मणशत्रुघ्नयोः कथमेकदा विवाहः? “एकमातृप्रसूतानामेकस्मिन्नेव वत्सरे । विवाहं मौञ्जिबन्धं च चूडाकर्म न कारयेत् ।।” इति निषेधादिति चेत् सत्यम्। एकस्मिन् दिने तु कर्तव्य एव। उक्तं हि दैवज्ञविलासे “भ्रातृद्वये स्वसृयुगे भ्रातृस्वसृयुगे तथा। समानाश्च क्रियाः कुर्युर्मातृभेदे तथैव च। एकस्मिन् दिवसे त्वेकलग्ने भिन्नांशके तयोः। एकगर्भोदयवतोर्विवाहः शुभकृद्भवेत् ।।” इति एकोदरयोरप्येकगृहे विवाहकरणवचनं द्रष्टव्यम् ।। 1.72.13 ।।
एवमुक्त्वा वचः सौम्यं प्रत्युत्थाय कृताञ्जलिः ।
उभौ मुनिवरौ राजा जनको वाक्यमब्रवीत् ।। 1.72.14 ।।
प्रत्युत्थाय आदरातिशयेनेति भावः ।। 1.72.14 ।।
परो धर्मः कृतो मह्यं शिष्यो ऽस्मि भवतोः सदा ।। 1.72.15 ।।
परो धर्मः कन्याप्रदानरूपः ।। 1.72.15 ।।
इमान्यासनमुख्यानि आसातां मुनिपुङ्गवौ ।
यथा दशरथस्येयं तथायोध्या पुरी मम ।
प्रभुत्वे नास्ति सन्देहो यथार्हं कर्तुमर्हथ ।। 1.72.16 ।।
इमानीति सार्द्धश्लोक एकान्वयः । मद्भ्रातुर्मम दशरथस्य च यान्यासनमुख्यानि सिंहासनानि तानि युवामासाताम् । पुरुषव्यत्यय आर्षः । विनयाय प्रथमपुरुषो वा । राज्यत्रयमपि युष्मदीयमित्यर्थः । ननु दशरथसिंहासनं कथं त्वया शक्यं दातुम् ? तत्राह यथेति । इयं मिथिला यथा दशरथस्येष्टविनियोगार्हा तथा अयोध्या च मम, तथा च युवयोः प्रभुत्वे सन्देहो नास्ति । अतो यथार्हं यथोचितम्, प्रभुत्वं कर्तुमर्हथ । पूजायां बहुवचनम् । वयं सर्वे भवदधीनाः यूयमेवास्माकं त्रयाणां हितमुपदिश्य यथोचितं प्रकृतकार्यं कर्तुमर्हथेत्यर्थः ।। 1.72.16 ।।
तथा ब्रुवति वैदेहे जनके रघुनन्दनः ।
राजा दशरथो हृष्टः प्रत्युवाच महीपतिम् ।। 1.72.17 ।।
युवामसङ्ख्येयगुणौ भ्रातरौ मिथिलेश्वरौ ।
ऋषयो राजसङ्घाश्च भवद्भ्यामभिपूजिताः ।। 1.72.18 ।।
स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामि स्वमालयम् ।
श्राद्धकर्माणि सर्वाणि विधास्यामीति चाब्रवीत् ।। 1.72.19 ।।
तमापृष्ट्वा नरपतिं राजा दशरथस्तदा ।
मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः ।। 1.72.20 ।।
हृष्ट इति । एवमेकवाक्यवादेनेति शेषः ।। 1.72.1720 ।।
स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः ।
प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम् ।। 1.72.21 ।।
काल्यं काले कर्तव्यं गोदानं समावर्तनम् ।। 1.72.21 ।।
गवां शतसहस्राणि ब्राह्मणेभ्यो नराधिपः ।
एकैकशो ददौ राजा पुत्रानुद्दिश्य धर्मतः ।। 1.72.22 ।।
तदङ्गदानान्याह–गवामित्यादि ।। 1.72.22 ।।
सुवर्णशृङ्गाः सम्पन्नाः सवत्साः कांस्यदोहनाः ।
गवां शतसहस्राणि चत्वारि पुरुषर्षभः ।। 1.72.23 ।।
वित्तमन्यच्च सुबहुद्विजेभ्यो रघुनन्दनः ।
ददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सलः ।। 1.72.24 ।।
सम्पन्नाः । क्षीरसम्पन्नाः । कांस्यदोहनाः कांस्यमयदोहनपात्राः । सुबहु अन्यद्वित्तं च ।।
1.72.23,24 ।।
ससुतैः कृतगोदानैर्वृतस्तु नृपतिस्तदा ।
लोकपालैरिवाभाति वृतः सौम्यः प्रजापतिः ।। 1.72.25 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विसप्ततितमः सर्गः ।। 72 ।।
सौम्यः सुप्रसन्नचित्तः ।। 1.72.25 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने द्विसप्ततितमः सर्गः ।। 72 ।।