।। अरण्यकाण्डः ।।।। श्लोकसहितव्याख्यानम् ।।
(1सर्गतः 16सर्गपर्यन्तम्)
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे प्रथमः सर्गः
वात्स्यश्रीशठकोपदेशिकवरश्रीपादरेण्वञ्जनैः
दृष्ट्या निर्मलया निरीक्ष्य बहुधा वल्मीकजन्माशयम् ।
श्रीमत्कौशिकवंशसागरमणिर्गोविन्दराजाह्वयो
व्याचक्षे ऽहमरण्यकाण्डमधुना पश्यन्तु निर्मत्सराः ।।
श्रीरामायणराजस्य दत्त्वा पीताम्बरं महत् ।
अर्पये परया लक्ष्म्या राजन्तीं रत्नमेखलाम् ।।
प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान् ।
ददर्श रामो दुर्धर्षस्तापसाश्रममण्डलम् ।। 3.1.1 ।।
।। श्रीरङ्गेशाय नमः ।।
एवं पूर्वस्मिन् काण्डे जगज्जन्मादिकारणस्य वेदान्तवेद्यस्य ब्रह्मणो निरस्तसमस्ताविद्यत्वं नित्यानन्दपरिपूर्णत्वं निखिलान्तर्यामित्वं निरतिशयौज्जवल्यं निरुपमधर्मप्रवर्तकत्वमित्याद्यनन्तकल्याण गुणजातमुपवर्णितम् । सम्प्रति सज्जनसंरक्षणरूपं धर्मविशेषमभिधातुमारण्यकाण्ड आरम्भते । यद्वा पूर्वकाण्डे पितृवचनपरिपालनरूपो धर्मः सद्भिरनुष्ठातव्य इति प्राधान्येन दर्शितम् । अथ सज्जनसंरक्षणरूपं धर्मविशेषं प्रतिपादयितुमारण्यकाण्ड आरभ्यते प्रविश्येत्यादि । तुशब्दः पूर्वरण्यवैलक्षण्यं द्योतयति । महारण्यम् इतरदुरवगाहम् । दण्डकारण्यं दण्डकस्य राज्ञो ऽरण्यं शुक्रशापादरण्यभूतं जनपदम् । प्रविश्य आत्मवान् धैर्यवान्, दुरवगाहमहागहनप्रवेशे ऽप्यजनितभयलेश इत्यर्थः । तत्र हेतुमाह दुर्धर्ष इति । हिंस्रादिभिरप्रधृष्य इत्यर्थः । रामः तापसानां तपस्विनाम् । आश्रममण्डलम् आश्रमसमूहम् । “तपोवने मठे ब्रह्मचर्यादावाश्रमो ऽस्त्रियाम्” इति बाणः । ददर्श ।। 3.1.1 ।।
कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृत्तम् ।
यथा प्रदीप्तं दुर्दर्शं गगने सूर्यमण्डलम् ।। 3.1.2 ।।
अभिगम्यत्वायाश्रममण्डलं वर्णयति कुशेत्यादिभिः सार्धसप्तश्लोकैः । कुशैः यज्ञार्थमादृतैः चीरैः स्नानानन्तरमातपे परिशोषणार्थं क्षिप्तैर्वल्कलैश्च परिक्षिप्तं व्याप्तम् । ब्रह्म वेदः तत्सम्बन्धिनी वेदाध्ययनतदर्थानुष्ठानजन्येत्यर्थः । तया लक्ष्म्या श्रिया समावृतं समन्तादावृतम् अत एव गगने प्रदीप्तं, गगनमध्यस्थमित्यर्थः । दुर्दर्शं सूर्यमण्डलं यथा तथावस्थितमित्यर्थः तद्वद्रक्षोभिरभिभवनीयम् । उदयास्तमययोर्हि सूर्यस्य मन्देहाख्यरक्षोभिराक्रमणम् नतु मध्याह्ने ।। 3.1.2 ।।
शरण्यं सर्वभूतानां सुसंमृष्टाजिरं तथा ।
मृगैर्बहुभिराकीर्णं पक्षिसङ्घैः समावृतम् ।। 3.1.3 ।।
अत एव शरण्यं शरणार्हम् “तदर्हति” इति यत्प्रत्ययः । सहजवैरप्रयुक्तवध्यघातुकभावाभावेन सर्वप्राणिनां वरीणीयमित्यर्थः । रक्षोभ्यो भीतानां वासार्हं वा । “शरणं गृहरक्षित्रोः” इत्यमरः । सदा सुसंमृष्टाजिरं सदा सम्यक् संमृष्टाङ्गणम् । “अङ्गणं चत्वराजिरे” इत्यमरः । सर्वभूतशरण्यत्वं प्रपञ्चयति मृगैरिति ।। 3.1.3 ।।
पूजितं च प्रनृत्तं च नित्यमप्सरसां गणैः ।
विशालैरग्निशरणैः स्रुग्भाण्डैरजिनैः कुशैः ।। 3.1.4 ।।
प्रनृत्तं प्रकृष्टनृत्तवत् । अर्श आद्यच् । बहुव्रीहिर्वा । अतिरमणीयप्रदेशत्वाद्देवतासान्निध्याद्वा नर्तनम् अत एव पूजितम् । अग्निशरणैः अग्निहोत्रगृहैः । स्रुङ्मुखानि भाण्डानि यज्ञपात्राणि स्रुग्भाण्डानि “स्फ्यश्च कपालानि च” इत्याद्याम्नातानि तैः । “वणिङ्मूलधने पात्रे भाण्डम्” इति वैजयन्ती । कुशैः परिस्तरणार्थैः । कुशचीरेत्यत्र सङ्गृहीतकुशोक्तिः ।। 3.1.4 ।।
समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम् ।
आरण्यैश्च महावृक्षैः पुण्यैः स्वादुफलैर्वृतम् ।। 3.1.5 ।।
अरण्ये भवैः आरण्यैः ।। 3.1.5 ।।
बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम् ।
पुष्पैर्वन्यैः परिक्षिप्तं पद्मिन्या च सपद्मया ।। 3.1.6 ।।
बलिभिः भूतबलिप्रभृतिभिः होमैर्वैश्वदेवादिहोमैश्च अर्चितं सत्कृतम् । ब्रह्म घोषैर्वेदघोषैः निनादितं सञ्जातनिनादम् । पुष्पैः देवपूजार्थमुपक्षिप्तैः । सपद्मया पद्मिन्या सरस्या ।। 3.1.6 ।।
फलमूलाशनैर्दान्तश्चीरकृष्णाजिनाम्बरैः ।
सूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्वृतम् ।। 3.1.7 ।।
मुनिषु तारतम्यप्रदर्शनार्थं सूर्यवैश्वानराभेरित्युपमानद्वयम् । पुराणैर्वृद्धैः ।। 3.1.7 ।।
पुण्यैश्च नियताहारैः शोभितं परमर्षिभिः ।
तद्ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम् ।
ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम् ।। 3.1.8 ।।
परमर्षिभिः उक्तमुनीनामपि पूजनीयैः । तत् प्रसिद्धं ब्रह्मभवनप्रख्यं ब्रह्मलोकतुल्यप्रसिद्धिकम् । ब्रह्मघौषैः कर्मकालिकवेदमन्त्रघौषैः निनादितम् । ब्रह्मविद्भिः परब्रह्मज्ञानिभिः । महाभाग्यैः । “भागो रूपार्थके प्रोक्तो भागधेयैकदेशयोः” इति विश्वः ।
एतादृशं तापसाश्रममण्डलं ददर्शेति पूर्वेणान्वयः ।। 3.1.8 ।।
स दृष्ट्वा राघवः श्रीमान् तापसाश्रममण्डलम् ।
अभ्यगच्छन्महातेजा विज्यं कृत्वा महद्धनुः ।। 3.1.9 ।।
स इति । विज्यं विसृष्टमौर्वीकं कृत्वा विनीतवेषप्रवेश्यत्वादाश्रमाणामाश्रममृगपक्ष्यादिभयनिवृत्त्यर्थं च विज्यकरणम् । अभ्यगच्छत् अभिमुखीभूय गतः ।। 3.1.9 ।।
दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयः ।
अभ्यगच्छंस्तथा प्रीता वैदेहीं च यशस्विनीम् ।। 3.1.10 ।।
दिव्येति । दिव्यं लोकविलक्षणं ज्ञानं तेन उवपपन्ना युक्ताः, अतीतानागतज्ञानवन्त इत्यर्थः । रामो ऽयं रावणवधार्थमवतीर्णो विष्णुः, सीता लक्ष्मीः, लक्ष्मणश्च तदंश इति विज्ञाततदवताररहस्या इति यावत् ।। 3.1.10 ।।
ते तं सोममिवोद्यन्तं दृष्ट्वा वै धर्मचारिणः ।
लक्ष्मणं चैव दृष्ट्वा तु वैदेहीं च यशस्विनीम् ।
मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन् दृढव्रताः ।। 3.1.11 ।।
ते तमित्यादिसार्धश्लोक एकान्वयः । ते त्रिकालज्ञाः । तं राक्षसनिरासायावकतीर्णं रामम् । उद्यन्तं सोममिव स्थितम् अन्धकारनिवर्तनप्रवृत्तं चन्द्रमिव स्थितम् । यद्वा उद्यन्तं सोममिव प्रतिपच्चन्द्रमिवार्चनीयम् । यद्वा वनराज्यन्तःप्रादुर्भवत्तया मेघावृतमिन्दुमिव स्थितम् । धर्मचारिणो दृष्ट्वा स्वाचर्यमाणधर्माराध्यं साक्षात्कृत्य । यद्वा इतः पूर्वं धर्मवीर्येण पश्यन्ति सम्प्रति चक्षुषा साक्षात्कुर्वन्तीत्यर्थः । तथा लक्ष्मणं च वैदेहीं च दृष्ट्वा मङ्गलानि प्रयुञ्जानाः स्वापेक्षितरक्षाभ्यर्थनात् प्रागेव मङ्गलानि प्रयुञ्जानाः । रामस्य सौन्दर्यसौकुमार्यादिकं दृष्ट्वा रक्षोभूयिष्ठे ऽत्र वने किं भविष्यतीति व्याकुलहृदयतया तस्मै विरोधिनिरसनवचनानि प्रयुञ्जानाः । दृढव्रताः अशिथिलतद्रक्ष्यत्वनियमाः सन्तः । प्रत्यगृह्णन् प्रतिगृहीतवन्तः । प्रत्युत्थानफलप्रदानाद्युपचारमकुर्वन्नित्यर्थः ।। 3.1.11 ।। रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम् ।
ददृशुर्विस्मिताकारा रामस्य वनवासिनः ।। 3.1.12 ।।
मङ्गलाशासननिमित्तं सौन्दर्यसौकुमार्यादिकमाह रुपेति । रूपस्य शरीरस्य संहननं ‘समः समविभक्ताङ्गः’ इत्युक्तावयवसंस्थानविशेषम् । लक्ष्मीं समुदायशोभाम् । सौकुमार्यं पुष्पहासतुल्यकोमलताम् । सुवेषतां शोभनलावण्यवत्ताम् । लावण्यस्वरूपमुक्तम् “मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु लावणयं तदिहोच्यते ।।” इति। विस्मितानामाकारा इवाकारा येषां ते विस्मिताकाराः, विस्मयावेदकस्वमुखप्रसादफुल्लनेत्रत्वादियुक्ता इत्यर्थः। वनवासिनः विकारहेतौ
सत्यप्यविकृतचित्ता इत्यर्थः । वनवासिनो ऽपि विस्मिताकाराः सन्तः रामस्य रूपसंहननादिकं ददृशुः । अभेदेन प्रत्ययद्योतनार्थं चकाराप्रयोगः । यद्वा अभूषणेति भूषितवद्भासमानत्वं रूपम् । तथोक्तम् “अङ्गान्यभूषितान्येव वलयाद्यैर्विभूषणैः । येन भूषितवद्भाति तद्रूपमिति कथ्यते ।। ” इति । संहननं सौन्दर्यम् । तदप्यक्तम् “अङ्गप्रत्यङ्गकानां यः सन्निवेशो यथोचितः । सुश्लिष्टसन्धिबन्धः स्यात्तत्सौन्दर्यमिहोच्यते ।।” इति। लक्ष्मीं लावण्यम्, त़च्चोक्तं पूर्वमेव सौकुमार्यमप्युक्तमेव। सुवेषताम् उचितशृङ्गारसम्पन्नत्वम् ।। 3.1.12 ।।
वैदेहीं लक्ष्मणं रामं नेत्रैरनिमिषैरिव ।
आश्चर्यभूतान् ददृशुः सर्वे ते वनचारिणः ।। 3.1.13 ।।
एतं न्यायं सीतालक्ष्मणयोरप्यतिदेष्टुमाह वैदेहीमिति । सर्वे वनचारिणः । आश्चर्यभूतान् अदृष्टपूर्वतया आश्चर्यावहान् । वैदेहीं लक्ष्मणं रामं च दिव्यरूपदर्शनजनितानन्दभङ्गभीरूतया विस्मयविस्फारितेक्षणतया च सर्वथा निर्निमेषैरिव स्थितैर्नेत्रैरुपलक्षिताः सन्तः ददृशुः । अनेन पूर्वश्लोके विस्मिताकारा इत्येतद्विवृतम् ।। 3.1.13 ।।
अत्रैनं हि महाभागाः सर्वभूतहिते रतम् ।
अतिथिं पर्णशालायां राघवं सन्न्यवेशयन् ।। 3.1.14 ।।
अत्रेति । अत्र आश्रममण्डले । महाभागाः महाभाग्याः ऋषयः । सर्वभूतहिते रतम् अतिथिं न्यायतः पूजार्हम् । एनं राघवं पर्णशालायां स्वस्वपर्णशालायां सन्न्यवेशयन् स्थापयामासुः ।। 3.1.14 ।।
ततो रामस्य सत्कृत्य विधिना पावकोपमाः ।
आजह्रुस्ते महाभागास्सलिलं धर्मचारिणः ।। 3.1.15 ।।
तत इति । रामस्य सत्कृत्येति षष्ठ्यार्षी । “न लोकाव्यायनिष्ठा” इत्यादिना निषेधात् । सत्कृत्य सत्कारं कृत्वा, कुशलप्रश्नादिकं कृत्वेत्यर्थः । पावकोपमा इत्यनेन रामस्य पवित्राणां पवित्रत्वमुक्तम् । धर्मचारिण इत्यनेन सत्कारस्य धर्माचरणफलत्वमुक्तम् । महाभागा इति सुकृतपरिपाक उच्यते । सलिलम् अर्ध्याद्युचितम् आजह्रुः ।। 3.1.15 ।।
मूलं पुष्पं फलं वन्यमाश्रमं च महात्मनः ।
निवेदयित्वा धर्मज्ञास्ततः प्राञ्जलयो ऽब्रुवन् ।। 3.1.16 ।।
मूलमिति । धर्मज्ञाः शेषिणि शेषवृत्तिरूपधर्मज्ञाः । प्राञ्जलयः प्रकृष्टाञ्जलयः, मूर्ध्नि कृता़ञ्जलय इत्यर्थः । महात्मनः शेषिणो रामस्य । वन्यं मूलादिकमाश्रमं च निवेदयित्वा इमानि भवदीयानि यथेष्टं विनियुङ्क्ष्वेति निवेद्य ततो ऽब्रुवन् ।। 3.1.16 ।।
धर्मपालो जनस्यास्य शरण्यस्त्वं महायशाः ।
पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः ।। 3.1.17 ।।
धर्मपालः इति । धर्मपालः वर्णाश्रमधर्मपालकः । अस्य आर्त्तस्य मुनिजनस्य शरण्यः शरणार्हः । पूजनीयश्च देवताबुद्ध्या अर्चनार्हः । मान्यः राजबुद्ध्या बहुमानार्हः । मान्यत्वे हेतुः राजा दण्डधर इति । दण्डस्य निग्रहस्य धरः कर्ता । पूजनीयत्वे हेतुर्गुरुरिति ।। 3.1.17 ।।
इन्द्रस्येह चतुर्भागः प्रजा रक्षति राघव ।
राजा तस्माद्वरान् भोगान् भुङ्क्ते लोकनमस्कृतः ।। 3.1.18 ।।
पूज्यत्वे हेत्वन्तरमाह इन्द्रस्येहेति । इह भूस्वर्गे । इन्द्रस्य चतुर्भागः चतुर्थांशः राजा प्रजा तस्माद्धेतोः वरान् श्रेष्ठान् भोगान् भुङ्क्ते अनुभवति । इन्द्रस्येति लोकपालान्तराणामुपलक्षणम् । “अष्टाभिर्लोकपालानां मात्राभिः कल्पिततो नृपः” इति वचनात् । वस्तुतस्तु इन्द्रशब्दो ऽयं परमात्मपरः । “इदि परमैश्वर्ये ” इति धातोस्तत्रैव मुख्यवृत्तत्वात् “इन्द्रो मायाभिः पुरुरूप ईयते” इति श्रौतप्रयोगाच्च । इन्द्रस्य परमात्मनः चतुर्भागः चतुर्थांशः तदवतारभूते व्यक्तिचतुष्टये एकव्यक्तिभूतः भवान् भोगान् भुङ्क्त इत्यर्थः । पूर्वापरश्लोकानुगुण्याच्चायमेवार्थः, नह्यन्यस्मै ऋषयः प्रा़ञ्जलयो भवन्ति न चाश्रमं निवेदयन्ति नापि गर्भभूतत्वं वदन्ति ।। 3.1.18 ।।
ते वयं भवता रक्ष्या भवद्विषयवासिनः ।
नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः ।। 3.1.19 ।।
भवता रक्ष्यत्वे त्वद्देशवासित्वमेव निष्प्रमादो हेतुः, नोपासनादिकमित्याहुः ते वयमिति । ते वयम् आर्त्ता वयम् । भवता रक्ष्याः आर्तरक्षणदीक्षितेन त्वाया रक्षितुमर्हाः । किमुपासनबलेनैवमुच्यते? नेत्याहुः भवद्विषयवासिन इति । भवद्देशवासित्वमेव भवद्रक्ष्यत्वे हेतुः, नान्यः । तत्र प्रमादादिसम्भवात् देशवासित्वे तदभावादिति भावः । भवतु तथैव रक्षिष्यामः यदा रक्षणप्रदेशे स्थास्याम इत्यत्राहुः नगरस्थ इति । नगरस्थः सिहासनस्थो वा । वनस्थः तद्रहितो वा । त्वं स्वतः सिद्धसर्वशक्तिकः निरुपाधिकसर्वशेषी च त्वम् । नः अस्माकं राजा रक्षकः । तत्र हेतुमाह जनेश्वर इति । निरुपाधिकसर्वशेषीत्यर्थः ।। 3.1.19 ।।
न्यस्तदण्डा वयं राजन् जितक्रोधा जितेन्द्रियाः ।
रक्षितव्यास्त्वया शश्वद्गर्भभूतास्तपोधनाः ।। 3.1.20 ।।
हेतुः जितक्रोधा इति । तपोनाशभीत्या त्यक्तक्रोधा इत्यर्थः । तत्रापि हेतुः जितेन्द्रिया इति । इन्द्रियजयेन कामाद्यभिष्वङ्गाभावात्तन्मूलक्रोधरहिता इत्यर्थः । वस्तुतस्तु स्वसामर्थ्ये सत्यपि स्वरूपविरोधान्नास्माभिरस्मद्रक्षणमुचितमित्याहुः । त्वया रक्षितव्या इति अनन्यार्हशरणा इत्यर्थः । गर्भभूताः प्रजातुल्याः,
अनेनानन्यार्हशेषत्वमुक्तम् । शश्वदिति काकाक्षिन्यायेनोभयत्राप्यन्वेति, तेनानन्यार्हशेषत्वानन्यशरणत्वयोः स्वाभाविकत्वमुक्तम् । तथापि साधनं विना रक्षणे ऽतिप्रसङ्गः स्यादित्यत्राहुः तपोधना इति । तपो ऽत्र न्यासनिक्षेपापरपर्यायः । “तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः” इति श्रुतेः । प्रपत्त्येकधना वयमित्यर्थः । अस्मत्कृतां प्रपत्तिं व्याजीकृत्यास्मान् रक्षेत्यर्थः । रक्षणमत्र मोक्षप्रापणमेव । खरादिभ्यस्त्राणस्य शरभङ्गाश्रमवासिभिर्वक्ष्यमाणत्वात् । इमे तु मुनयो मोक्षैकपराः ।। 3.1.20 ।।
एवमुक्त्वा फलैर्मूलैः पुष्पैर्वन्यैश्च राघवम् ।
अन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन् ।। 3.1.21 ।।
अतस्तेषां प्रपन्नानां यथोचितकैङ्कर्यप्रवृत्तिं दर्शयति एवमित्यादि । ऋषयः एवमुक्त्वासलक्ष्मणं राघवं वन्यैः पुष्पैः फलादिभिश्चापूजयन् । राघवमित्यनेन सीतापूजनमप्यर्थसिद्धम् । मिथुनशेषित्वस्यैव स्वरूपत्वात् प्रभाप्रभावन्न्यायेन तयोरपृथग्भावात् । अन्यैः सङ्कल्पसिद्धैः । विविधाहारैः मृष्टान्नादिभिः ।। 3.1.21 ।।
तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः ।
न्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम् ।। 3.1.22 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे प्रथमः सर्गः ।। 1 ।।
तथान्य इति । सिद्धाः सिद्धसाधननिष्ठाः । न्यायवृत्ताः न्यायानुगुणव्यापाराः, स्वरूपानुरूपकैङ्कर्यवृत्तय इत्यर्थः । वैश्वानरोपमाः अस्पृष्टविरोधिनः स्वरूपविरुद्धनिषिद्धकाम्यकर्मान्तरत्यागिन इत्यर्थः । अन्ये पूर्वेभ्यो विलक्षणाः । तापसाः कायिककैङ्कर्याशक्ता इत्यर्थः । ईश्वरं परमशेषिणं रामं यथान्यायं यथोचितं स्तुतिप्रणामादिभिस्तर्पयामासुरित्यर्थः ।। 3.1.22 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने प्रथमः सर्गः ।। 1 ।।