श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे तृतीयः सर्गः
अथोवाच पुनर्वाक्यं विराधः पूरयन् वनम् ।
आत्मानं पृच्छते ब्रूतं कौ युवां क्व गमिष्यथः ।। 3.3.1 ।।
अथ विराधानुग्रहाय तदाक्रमणं तृतीये अथोवाचेत्यादि । पूरयन्, शब्देनेति शेषः । आत्मानं युष्मत्स्वरूपं पृच्छते मह्यमिति शेषः । ब्रूतमिति लोण्मध्यमपुरुषद्विचनम् । प्रश्नप्रकारमाह काविति ।। 3.3.1 ।।
तमुवाच ततो रामो राक्षसं ज्वलिताननम् ।
पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलमात्मनः ।। 3.3.2 ।।
राक्षसत्वेन प्रकृत्या ज्वलिताननमिति भयहेतूक्तिः । आत्मनः सम्बन्धि इक्ष्वाकुकुलमुवाचेत्यन्वः । इश्वाकुवंश्यदशरथपुत्रावावां पितृवचवनाद्वनं गमिष्याव इत्युवाचेत्यर्थः ।। 3.3.2 ।।
क्षत्ित्रयौ वृत्तसम्पन्नौ विद्धि नौ वनगोचरौ ।
त्वां तु वेदितुमिच्छावः कस्त्वं चरसि दण्डकान् ।। 3.3.3 ।।
अधर्मचारिणौ पापाविति पूर्वोक्तविराधवचनस्योत्तरमाह क्षत्ित्रयौ वृत्तसम्पन्नाविति । त्वामिति कस्य पुत्रः किम्प्रभाव इति ज्ञातुमिच्छामीत्यर्थः । ‘अहं वनमिदं दुर्गं विरोधो राक्षसः’ इति नामजात्योः पूर्वमुक्तत्वान्न तद्विषयो ऽयं प्रश्नः ।। 3.3.3 ।।
तमुवाच विराधस्तु रामं सत्यपराक्रमम् ।
हन्त वक्ष्यामि ते राजन् निबोध मम राघव ।। 3.3.4 ।।
तमिति । हन्तेति स्वाभिप्रायकीर्तनोद्योगजगर्वेण । मम मत्तः मे स्वरूपमिति शेषः । निबोधेत्युवाचेत्यन्वयः ।। 3.3.4 ।।
पुत्रः किल जयस्याहं मम माता शतह्रदा ।
विराध इति मामाहुः पृथिव्यां सर्वराक्षसाः ।। 3.3.5 ।।
विराधः विगताराधनः दुराराध्य इत्यन्वर्थसञ्ज्ञः । राक्षसाः सजातीयाः, सजातीयैः कृतं नामेदं न तु मातापितृभ्यामिति भावः ।। 3.3.5 ।।
तपसा चापि मे प्राप्ता ब्रह्मणो हि प्रसादजा ।
शस्त्रेणावध्यता लोके ऽच्छेद्याभेद्यत्वमेव च ।। 3.3.6 ।।
चापि किञ्च । तपसा साधनेन ब्रह्मणः प्रसादजा शस्त्रेणावध्यता अमारणीयता प्राप्ता । अच्छेद्याभेद्यत्वं च प्राप्तम्, प्राणवियोजनहेतुखण्डनविदारणानर्हत्वं च प्रप्तमित्यर्थः ।। 3.3.6 ।।
उत्सृज्य प्रमदामेनामनपेक्षौ यथागतम् ।
त्वरमाणौ पलायेथां न वां जीवितमाददे ।। 3.3.7 ।।
अनपेक्षौ अपेक्षायां मरणं ध्रुवमिति भावः । त्वरमाणौ मन्दगमने मे मनश्चलेदिति भावः । न वां जीवितमाददे उत्तमप्रमदारत्नप्रापणादिति भावः ।। 3.3.7 ।।
तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः ।
राक्षसं विकृताकारं विराधं पापचेतसम् ।। 3.3.8 ।।
तम् एवं परूषं वदन्तम् । परुषवचनादेव हेतोः कोपसंरक्तलोचनः । विकृताकारं विकृताकारमपि पापे सीताहरणे चेतो यस्य तम् ।। 3.3.8 ।।
क्षुद्र धिक् त्वां तु हीनार्थं मृत्युमन्वेषसे ध्रुवम् ।
रणे सम्प्राप्स्यसे तिष्ठ न मे जीवन् गमिष्यति ।। 3.3.9 ।।
क्षुद्र हीनजाते धिक्कारे हेतुरयम् । हीनार्थम् उत्तमाङ्गनाभिलाषरूपहीनप्रयोजनमिति यावत् । मृत्युम् अन्वेषणहेतुं मरणं सम्प्राप्स्ये अन्वेषणं सफलं भविष्यतीत्यर्थः । तदा किञ्चिदुपेक्षया गन्तुमुद्युक्तं प्रत्याह तिष्ठति । गमनं च दुर्लभमित्याह नेति । मे पुरत इति शेषः ।। 3.3.9 ।।
ततः सज्यं धनुः कृत्वा रामः सुनिशितान् शरान् ।
सुशीघ्रमभिसन्धाय राक्षसं निजघान ह ।। 3.3.10 ।।
राक्षसं प्रति शरान् निजघान अमुञ्चत् । “हन हिंसागत्योः” इति धातुः ।। 3.3.10 ।।
धनुषा ज्यागुणवता सप्त बाणान् मुमोच ह ।
रुक्मपुङ्खान् महावेगान् सुपर्णानिलतुल्यगान् ।। 3.3.11 ।।
पुनः शरान् विशिंषन्नाह धनुषेति । ज्यारूपो गुणो रज्जुः तद्वता । महावेगान् अत एव सुपर्णानिलाभ्यां तुल्यं गच्छन्तीति तथोक्तान् ।। 3.3.11 ।।
ते शरीरं विराधस्य भित्त्वा बर्हिणवाससः ।
निपेतुः शोणितादिग्धा धरण्यां पावकोपमाः ।। 3.3.12 ।।
ब्रर्हिणवासस इति स्वार्थे इनच् । बर्हिणवाससः बर्हपत्त्रा इत्यर्थः । शोणितेन आदिग्धाः ईषल्लिप्ताः रक्तोद्गमात्पूर्वमेव शरीरान्निर्गमादितिः भावः । पावकोपमा इति भूस्थतृणादिदहनादग्निसाम्यसिद्धिः ।। 3.3.12 ।।
स विद्धो न्यस्य वैदेहीं शूलमुद्यम्य राक्षसः ।
अभ्यद्रवत्सुसङ्क्रुद्धस्तदा रामं सलक्ष्मणम् ।। 3.3.13 ।।
विद्धः बाणवेधजनितवेदनातिशयवान् । न्यस्य भूमौ निक्षिप्य ।। 3.3.13 ।।
स विनद्य महानादं शूलं शक्रध्वजोपमम् ।
प्रगृह्याशोभत तदा व्यात्तानन इवान्तकः ।। 3.3.14 ।।
महान् नादः प्रतिध्वनिर्यस्मिंस्तद्यथा भवति तथा विनद्य । शक्रध्वजोपमं तद्वदुन्नतम् । व्यात्ताननः विवृत्तास्यः । अनेन प्रसारितजिह्वत्वं लक्ष्यते । शूलोपमेयतालाभाय ।। 3.3.14 ।।
अथ तौ भ्रातरौ दीप्तं शरवर्षं ववर्षतुः ।
विराधे राक्षसे तस्मिन् कालान्तकयमोपमे ।। 3.3.15 ।।
अथ सीतानिक्षेपानन्तरम् । यथेष्टं बाणमोचनार्हत्वाद्दीप्तं पूर्वबाणेभ्यस्तेजस्विनम् । शरवर्षं शरसमूहम् । उभाभ्यामपि मोचनीयत्वे हेतवः राक्षस इत्यादिविशेषणानि । कालान्तकयमोपमे काले संहारकाले अन्तको नाशको यो यमस्तत्तुल्ये ।। 3.3.15 ।।
स प्रहस्य महारौद्रः स्थित्वाजृम्भत राक्षसः ।
जृम्भमाणस्य ते बाणाः कायान्निष्पेतुराशुगाः ।। 3.3.16 ।।
प्रहस्य किमेतैर्मशकप्रायैरिति हसित्वा । अजृम्भत गात्रविनाममकरोत् । बाणाः काये किञ्चिल्लग्नाः । आशु गच्छन्तीत्याशुगाः, आशुगा अपीत्यर्थः । निष्पेतुः जगलुः ।। 3.3.16 ।।
स्पर्शात्तु वरदानेन प्राणान् संरोध्य राक्षसः ।
विराधः शूलमुद्यम्य राघवावभ्यधावत ।। 3.3.17 ।।
वरदानेन स्पर्शात्सम्बन्धात् । प्राणान् प्राणवायून् । संरोध्य हृदये समूह्य, बलं कृत्वेत्यर्थः । 3.3.17 ।।
तच्छूलं वज्रसङ्काशं गगने ज्वलनोपमम् ।
द्वाभ्यां शराभ्यां चिच्छेद रामः शस्त्रभृतां वरः ।। 3.3.18 ।।
तत् हस्तस्थम् । गगने ज्वलनः आकाशस्थाग्निः तदुपममित्यभूतोपमा ।। 3.3.18 ।।
तद्रामविशिखच्छिन्नं शूलं तस्य कराद्भुवि ।
पपाताशनिना छिन्नं मेरोरिव शिलातलम् ।। 3.3.19 ।।
अशनिना वज्रेण ।। 3.3.19 ।।
तौ खङ्गौ क्षिप्रमुद्यम्य कृष्णसर्पोपमौ शुभौ ।
तूर्णमापततस्तस्य तदा प्रहरतां बलात् ।। 3.3.20 ।।
प्रहरतां प्राहरताम् ।। 3.3.20 ।।
स वध्यमानस्सुभृशं बाहुभ्यां परिरभ्य तौ ।
अप्रकम्प्यौ नरव्याघ्रौ रोद्रः प्रस्थातुमैच्छत ।। 3.3.21 ।।
अप्रकम्प्यौ चालयितुमप्यशक्यौ, किम्पुनः परिग्रहीतुमिति कविः परिहसति । रौद्रः रौद्राकृतिः । अप्रकम्प्यत्वे हेतुः नरव्याघ्राविति । नरव्याघ्रौ पुरुषोत्तमौ ।। 3.3.21 ।।
तस्याभिप्रायमाज्ञाय रामो लक्ष्मणमब्रवीत् ।
वहत्वयमलं तावत् पथानेन तु राक्षसः ।। 3.3.22 ।।
यथा चेच्छति सोमित्रे तथा वहतु राक्षसः ।
अयमेव हि नः पन्था येन याति निशाचरः ।। 3.3.23 ।।
अभिप्रायं वनान्तर्नयनेच्छाम् । वहतु नौ प्रापयतु, अनेन आवाभ्यां गन्तव्येन पथा वहतु अथवा यथेच्छति येन मार्गेण गन्तुमिच्छति तथा वहतु, उभयथापि न दोष इति भावः । तत्र हेतुमाह अयमिति । नः वनमध्यगमनच्छूनामस्माकम् ।। 3.3.22,23 ।।
स तु स्वबलवीर्येण समुत्क्षिप्य निशाचरः ।
बालाविव स्कन्धगतौ चकारातिबलौ ततः ।। 3.3.24 ।।
तावारोप्य ततः स्कन्धं राघवौ रजनीचरः ।
विराधो निनदन् घोरं जगामाभिमिखो वनम् ।। 3.3.25 ।।
अतिबलौ रामलक्ष्मणौ समुत्क्षिप्य बालाविव स्कन्धगतौ चकार, तयोरिच्छावशादिति भावः ।। 3.3.24,25 ।।
वनं महामेघनिभं प्रविष्टो द्रुमैर्महद्भिर्विविधैरुपेतम् ।
नानाविधैः पक्षिशतैर्विचित्रं शिवायुतं व्यालमृगैर्विकीर्णम् ।। 3.3.26 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे तृतीयः सर्गः ।। 3 ।।
इमावपि स्वाभीष्टवनं प्रविष्टावित्याशयेनाह वनमिति । शिवाः सृगालविशेषाः ताभिर्युतम् । व्यालमृगैः दुष्टमृगैः “दुष्टे द्विपे श्वापदे च व्यालः पुंसि शठे ऽपि च” इति बाणः । अत्र सर्गे भगवतः स्वायत्तसकलप्रवृत्तिकत्वं महाभयहेतावपि निर्भयत्वं च दर्शितम् । अस्मिन् सर्गे षड्विंशतिश्लोकाः ।। 3.3.26 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने तृतीयः सर्गः ।। 3 ।।