[highlight_content]

06 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रामदारण्यकाण्डे षष्ठः सर्गः

शरभङ्गे दिवं याते मिनिसङ्घाः समागताः ।

अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसम् ।। 3.6.1 ।।

एवं खरवधार्थिमुनिजनशरणागतिं वक्तुं तदुपयोगितया रामस्य समर्थकारुणिकत्वमुक्त्वा अथ तच्छरणागतिं वक्तुमुपक्रमते शरभङ्ग इत्यादि । शरभङ्गे दिवं यात इति कालप्रदर्शनं सुतीक्ष्णादीनां विद्यमानत्वात् । समागताः सम्मलिताः ।। 3.6.1 ।।

वैखानसा वालखिल्यास्सम्प्रक्षाला मरीचिपाः ।

अश्मकुट्टाश्च बहवः पत्त्राहाराश्च धार्मिकाः ।। 3.6.2 ।।

वैखानसा इत्यादि । “ये नखास्ते वैखानसाः ये वालास्ते वालखिल्याः” इत्युक्तरीत्या भगवन्नखरोमजाता ऋषयः । सदा शरीरं सम्प्रक्षालयन्तीति सम्प्रक्षालाः । मरीचींश्चन्द्रसूर्यादिकिरणान् सदा पिबन्तीति मरीचिपाः । सदान्तः किरणान् प्रवेशयन्तो विवृतास्या इत्यर्थः । अश्मभिरात्मशरीराणि कुट्टन्तीत्यश्मकुट्टाः । पत्त्राहाराः पर्णाशनाः ।। 3.6.2 ।।

दन्तोलूखलिनश्चैव तथैवोन्मज्जकाः परे ।

गात्रशय्या अशय्याश्चट तथैवाभ्रावकाशकाः ।। 3.6.3 ।।

दन्ता एवोलूखलं तदेषामस्तीति दन्तोलूखलिनः, दन्तैरेव व्रीह्यादितुषनिर्मोकं कृत्वा भक्षयन्त इत्यर्थः । उन्मज्जकाः शिरोमात्रमुद्धृत्य सदा जलावगाढाः । गात्रमेव शय्या येषां ते गात्रशय्याः । उरसि पृष्ठें ऽसयोर्वा शिरः कृत्वा शयाना इत्यर्थः । अतो न स्थण्डिलशायिन इत्यनेन पुनरुक्तिः । अशय्याः अनम्रगात्रा इत्यर्थः । अभ्रावकाशकाः वर्षवातातपादिष्वप्यनावृतदेश एव वर्तमानाः ।। 3.6.3 ।।

मुनयः सलिलाहारा वायुभक्षास्तथापरे ।

आकाशनिलयाश्चैव तथा स्थण्डिलशायिनः ।। 3.6.4 ।।

सलिलाहाराः सलिलमात्राहाराः । वायुभक्षाः वायुमात्रभक्षाः । आकाशे वृक्षाग्रादौ निलीयन्ते इत्याकाशनिलयाः । स्थण्डिले कुशाद्यास्तृतभूतले शेरत इति स्थण्डिलशायिनः ।। 3.6.4 ।।

व्रतोपवासिनो दान्तास्तथार्द्रपटवाससः ।

सजपाश्च तपोनित्यास्तथा पञ्चतपोन्विताः ।। 3.6.5 ।।

व्रतोपवासिनः व्रतोपवासनिरताः, सर्वाहारशून्या इत्यर्थः । आर्द्रपटवाससः आर्द्रपटवसनशीलाः । सजपाः सदा जपशीलाः । तपोनित्याः “स्वाध्यायमधीते तप एव तत्तप्यते तपो हि स्वाध्यायः” इत्युक्तसदास्वाध्यायपारायणरूपतपोनिष्ठाः । पञ्चतपोन्विताः ग्रीष्मे पञ्चाग्निमध्यस्थाः ।। 3.6.5 ।।

सर्वे ब्राह्म्या श्रिया जुष्टा दृढयोगास्समाहिताः ।

शरभङ्गाश्रमे राममभिजग्मुश्च तापसाः ।। 3.6.6 ।।

अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम् ।

ऊचुः परमधर्मज्ञमृषिसङ्घास्समाहिताः ।। 3.6.7 ।।

ब्राह्म्या श्रिया ब्रह्मविद्यानुष्ठानजनितब्रह्मवर्चसेन दृढः परिपक्वः योगो यमनियमाद्यष्टाङ्गयोगो येषां ते दृढयोगाः । समाहिताः योगैकाग्रचित्ताः एवम्भूतास्तापसा राममभिजग्मुरित्यन्वयः । मुनिवैविध्योक्तिर्दर्शनीयत्वाय । अत्राभिजग्मुरित्यनेन शरणागतिरुक्ता ।। 3.6.6,7 ।।

त्वमिक्ष्वाकुकुलस्यास्य पृथिव्याश्च महारथ ।

प्रधानश्चासि नाथश्च देवानां मघवानिव ।। 3.6.8 ।।

इक्ष्वाकुकुलस्य प्रधानः पृथिव्याश्च नाथः । प्रथमे दृष्टान्तः देवानामिति । यथा देवेन्द्र इति शक्रस्य नाम तथा रघुपतिरिति तव नामेत्यर्थः ।। 3.6.8 ।।

विश्रुतस्त्रिषु लोकेषु यशसा विक्रमेण च ।

पितृभक्तिश्च सत्यं च त्वयि धर्मश्च पुष्कलः ।। 3.6.9 ।।

यशसा शरभङ्गानुग्रहकीर्त्या । विक्रमेण विराधनिरसनेन च त्रिषु लोकेषु भूर्भुवस्सुवर्लोकेषु विश्रुतः प्रसिद्धः । पितृभक्तिस्त्वयि पुष्कला तद्वचनेन लब्धस्यापि राज्यस्य त्यागात् । सत्यं सत्यवचनं च त्वयि पुष्कलं भरतप्रार्थनयापि प्रतिज्ञातस्याभज्जनात् । धर्मश्च त्वयि पुष्कलः शरभङ्गानुग्रहात् । 3.6.9 ।।

त्वामासाद्य महात्मानं धर्मज्ञं धर्मवत्सलम् ।

अर्थित्वान्नाथ वक्ष्यामस्तच्च नः क्षन्तुमर्हसि ।। 3.6.10 ।।

धर्मज्ञं धर्मवत्सलमित्युक्तानुवादः । अर्थिनो याचकास्तेषां भावो ऽर्थित्वं याच्ञेत्यर्थः । सा च रक्षोनिरसनविषया तया त्वां किञ्चिद्वक्ष्यामः तत् क्षन्तुमर्हसि आर्ततया त्वदग्रगमनमेव कार्यसाधनम्, आर्त्यतिशयेन विज्ञापनं तु क्षमस्वेत्यर्थः । एतेन उपायत्वाध्यवसाय एव चेतनस्य कृत्यम्, प्रार्थनं तु न कर्तव्यम् । हठात् कृते ऽपि क्षमापणं कर्तव्यमित्युक्तं भवति ।। 3.6.10 ।।

अधर्मस्तु महांस्तात भवेत्तस्य महीपतेः ।

योहरेद्बलिषड्भागं न च रक्षति पुत्रवत् ।। 3.6.11 ।।

स्वविषये रामेण रक्षणं स्वाभाविकमिति दर्शयिष्यन्तः औपाधिकलौकिकराजरक्षणप्रकारं दर्शयन्ति अधर्मस्त्वित्यादिना । यः प्रजाभ्यो बलिषड्भागं हरति हृत्वा च ताः न रक्षति तस्य महान् अधर्मः । बलिः करः । “भागधेयः करो बलिः” इत्यमरः । षष्ठो भागः षड्भागः । लुप्तपूरणो निर्दिशः । बलिश्चासौ षड्भागश्च बलिषड्भागः ।। 3.6.11 ।।

युञ्जानः स्वानिव प्राणान् प्राणैरिष्टान् सुतानिव ।

नित्ययुक्तस्सदा रक्षन् सर्वान् विषयवासिनः ।। 3.6.12 ।।

प्राप्नोति शाश्वतीं राम कीर्तिं स बहुवार्षिकीम् ।

ब्रह्मणः स्थानमासाद्य तत्र चापि महीयते ।। 3.6.13 ।।

एवमरक्षणे प्रत्यवायमुक्त्वा रक्षणेभ्युदयमाहुः युञ्जान इति । युञ्जनो यतमानः । नित्ययुक्तो नित्यावहितः । सर्वान् स्वविषयवासिनः स्वकीयान् प्राणानिव प्राणैः प्राणेभ्यो ऽपि इष्टान् सुतानिव च यो रक्षति स महीपतिः बहुवार्षिकीं बहुकालस्थायिनीं शाश्वतीम् अनुवृत्ताम् । “मुहुः पुनः पुनः शश्वत्” इति बाणः । भवार्थे ऽण् ततो ङीप् । कीर्तिं प्राप्नोति । ब्रह्मणः स्थानमासाद्य तत्र ब्रह्मणा महीयते पूज्यते च ।। 3.6.12,13 ।।

यत्करोति परं धर्मं मुनिर्मूलफलाशनः ।

तत्र राज्ञश्चतुर्भागः प्रजा धर्मेण रक्षतः ।। 3.6.14 ।।

यस्तु करप्रदानासमर्थो मुनिजनस्तद्रक्षणं कुत इत्यत्राह यदिति । यद्धर्मं तत्र धर्मे राज्ञः चतुर्थांशो भवति ।। 3.6.14 ।।

सो ऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान् ।

त्वन्नाथो ऽनाथवद्राम राक्षसैर्बाध्यते भृशम् ।। 3.6.15 ।।

एवं धर्माय प्रजारक्षकस्य फलमुक्त्वा धर्मानपेक्षे रामे शरणागितरेव रक्षणहेतुरित्याहुः सो ऽयमित्यादिना । स पूर्वोक्तवैखानसादिरूपः । ब्राह्मणः भूयिष्ठाः अधिकाः यस्मिन् स ब्राह्मणभूयिष्ठः । क्षत्ित्रयवैश्यवानप्रस्थसम्भवात् । ब्राह्मणभूयिष्ठ इत्युक्तम् । यद्वा ब्राह्मणः ब्रह्मविदः । “तदधीते तद्वेद” इत्यण् । वानप्रस्थानां तृतीयाश्रमिणां गणः त्वं नाथो यस्यासौ त्वन्नाथः । अनाथवद्बाध्यते ।। 3.6.15 ।।

एहि पश्य शरीराणि मुनीनां भावितात्मनाम् ।

हतानां राक्षसैर्घोरैर्बहूनां बहुधा वने ।। 3.6.16 ।।

बाधामेव दर्शयन्ति एहीत्यादिना । दूरे सम्यङ् न दृश्यत इत्यत एहि पश्येत्युक्तम् । भावितात्मनां ध्यातात्मनाम् । बहुधा छेदनभेदनभक्षणादिभिः ।। 3.6.16 ।।

पम्पानदीनिवासानामनुमन्दाकिनीमपि ।

चित्रकूटालयानां च क्रियते कदनं महत् ।। 3.6.17 ।।

हतानां बहूनामित्युक्तं विवृणेति पम्पेति । अनुमन्दाकिनीमपीति “अनुर्लक्षणे” कर्मप्रवचनीयः । मन्दाकीनीं शरभङ्गाश्रमवाहिनीं मन्दाकिन्यास्तटवासिनामित्यर्थः । कदनं हिंसा ।। 3.6.17 ।।

एवं वयं न मृष्यामो विप्रकारं तपस्विनाम् ।

क्रियमाणं वने घोरं रक्षोभिर्भीमकर्मभिः ।। 3.6.18 ।।

शरीराण्युपेक्ष्य तपस्यतां किं हिंसाभयेनेत्याश्ङक्य न वयं स्वशरीरपीडातो भीताः किन्तु महत्सु गरीयस्सु क्रियमाणं कदनं न मृष्याम इत्याहुः एवमिति । विप्रकारं निकारम् । “निकारो विप्रकारः स्यात् ” इत्यमरः । स्वजनपीडा दुःसहेति भावः ।। 3.6.18 ।।

ततस्त्वां शरणार्थं च शरण्यं समुपस्थिताः ।

परिपालय नो राम वध्यमानान्निशाचरैः ।। 3.6.19 ।।

तत इति । शरणार्थं रक्षणार्थम् । समुपस्थिताः प्रपन्नाः । “गत्यर्थाकर्मक” इत्यादिना कर्तरि क्तः ।। 3.6.19 ।।

परा त्वत्तो गतिर्विर पृथिव्यां नोपपद्यते ।

परिपालय नः सर्वान् राक्षसेभ्यो नृपात्मज ।। 3.6.20 ।।

परेति । त्वत्तः परा अन्या गतिः उपायः नोपपद्यते । पृथिव्यामिति सर्वभुवनोपलक्षणम् । तथा च श्रुतिः “नान्यः पन्था अयनाय विद्यते ” इति । इत्यूचुरिति पूर्वेणान्वयः ।। 3.6.20 ।।

एतच्छ्रुच्वा तु काकुत्स्थस्तापसानां तपस्विनाम् ।

इदं प्रोवाच धर्मात्मा सर्वानेव तपस्विनः ।। 3.6.21 ।।

तपस्विनां प्रशस्ततपसाम् । तापसानां मुनीनाम् ।। 3.6.21 ।।

नैवमर्हथ मां वक्तुमाज्ञप्तो ऽहं तपस्विनाम् ।

केवलेनात्मकार्येण प्रवेष्टव्यं मया वनम् ।। 3.6.22 ।।

शरणागत्यैवाज्ञप्तो ऽहं परिपालयेत्यादिकं वक्तुं नार्हथ, केवलेनात्मकार्येण केवलात्मप्रयोजनत्वेन । राक्षसैः क्रियमाणं भवतामिमं विप्रकारम् अपाक्रष्टुं निवर्तयितुं मया वनं प्रवेष्टम् । “तयोरेव कृत्यक्तखलर्थाः ” इति कर्मणि तव्यप्रत्ययः । स्वतो मत्प्रयोजनरूपं भवद्विरोधिनिरसनं कर्तुमेवेदं वनं प्रविष्टो ऽस्मीत्यर्थः । शेषभूतरक्षणस्य शेषिप्रयोजनत्वादिति भावः ।। 3.6.22 ।।

विप्रकारमपाक्रष्टुं राक्षसैर्भावितामिमाम् ।

पितुस्तु निर्देशकरः प्रविष्टो ऽहमिदं वनम् ।

भवतामर्थसिद्ध्यर्थमागतो ऽहं यदृच्छया ।। 3.6.23 ।।

अहं भवतामर्थसिद्ध्यर्थमागतो ऽस्मि, यदृच्छया दैवगत्या पितुर्निर्देशकरः वनमिदं प्रविष्टो ऽस्मि । पितृवाक्यकरणव्याजेन भवदर्थसिद्ध्यर्थमेवागतो ऽस्मीति भावः ।। 3.6.23 ।।

तस्य मे ऽयं वने वासो भविष्यति महाफलः ।। 3.6.24 ।।

भवत्कार्यार्थमेवागतस्य मे वने वासो महाफलो भविष्यति ।। 3.6.24 ।।

तपस्विनां रणे शत्रून् हन्तुमिच्छामि राक्षसान् ।

पश्यन्तु वीर्यमृषयः सभ्रातुर्मे तपोधनाः ।। 3.6.25 ।।

तदेव फलमाह तपस्विनामिति । तपस्विनां शूत्रून् रणे हन्तुमिच्छामि इतीदं प्रोवाचेत्यन्वयः ।। 3.6.25 ।।

दत्त्वा ऽभयं चापि तपोधनानां धर्मे धृतात्मा सह लक्ष्मणेन ।

तपोधनैश्चापि सभाज्यवृत्तः सुतीक्ष्णमेवाभिजगाम वीरः ।। 3.6.26 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रामदारण्यकाण्डे षष्ठः सर्गः ।। 6 ।।

दत्त्वेति । अभयमिति छेदः । धृतात्मा निश्चलमनाः । तपोधनैः ऋषिभिश्च सभाज्यवृत्तः पूज्याचारः ।। 3.6.26 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने षष्ठः सर्गः ।। 6 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.