श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तमः सर्गः
रामस्तु सहितो भ्रात्रा सीतया च परन्तपः ।
सुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः ।। 3.7.1 ।।
अथ सुतीक्ष्णाभ्यर्थनया मृगरूपमारीचादि दुष्टराक्षसनिरासः सप्तमे रामस्त्वित्यादि । आश्रमपदम् उद्दिश्येति शेषः । तौर्द्विजैः वैखनसादिभिः ।। 3.7.1 ।।
स गत्वा ऽदूरमध्वानं नदीस्तीर्त्वा बहूदकाः ।
ददर्श विपुलं शैलं महामेघमिवोन्नतम् ।। 3.7.2 ।।
स इति । अदूरमिति छेदः । पूर्वं शरभङ्गेण ‘इह राम महातेजाः’ इति सुतीक्ष्णाश्रमस्यादूरत्वोक्तेः । नदीरिति बहुवचनमेकस्या एव मन्दाकिन्याः बहुप्रदेशेष्वावृत्त्या । बहूदकाः विपुलोदकाः । नौतार्यत्वानुक्तेः । शैलं शैलसम्बन्धिवनं काननमित्यानुवादात् । तस्येदमित्यण् । महामेघमिवेति श्यामिकायामुपमा ।। 3.7.2 ।।
ततस्तदिक्ष्वाकुवरौ सन्ततं विविधैर्द्रुमैः ।
काननं तौ विविशतुस्सीतया सह राघवौ ।। 3.7.3 ।।
द्रुमैः सन्ततं व्याप्तम् । इक्ष्वाकुवरौ राघवावित्युभयथा धैर्यमूलोक्तिः ।। 3.7.3 ।।
प्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम् ।
ददर्शाश्रममेकान्ते चीरमालापरिष्कृतम् ।। 3.7.4 ।।
चीरमालया वल्कलपङ्क्त्या परिष्कृतं अलङ्कृतम् ।। 3.7.4 ।।
तत्र तापसमासीनं मलपङ्कजटाधरम् ।
रामस्सुतीक्ष्णं विधिवत्तपोवृद्धमभाषत ।। 3.7.5 ।।
मलङ्कजटाधरं नित्यमिश्चल तपोयोगेन वा वार्द्धकेन वा मलपङ्कजटानां धरम् । विधिवत् क्रमवद्यथा भवति तथा अभाषत । मीलितनयनत्वेन स्वाभिवादनापरिज्ञानात् भाषणम् ।। 3.7.5 ।।
रामो ऽहमस्मि भगवन् भवन्तं द्रष्टुमागतः ।
त्वं मा ऽभिवद धर्मज्ञ महर्षे सत्यविक्रम ।। 3.7.6 ।।
स निरीक्ष्य ततो वीरं रामं धर्मभृतां वरम् ।
समाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत् ।। 3.7.7 ।।
मा अभिवादयन्तं माम् । अभिवद प्रत्यभिवादनं कुरु । सत्यविक्रम अमोघतपःप्रभाव ।। 3.7.6,7 ।।
स्वागतं खलु ते वीर राम धर्मभृतां वर ।
आश्रमो ऽयं त्वयाक्रान्तः सनाथ इव साम्प्रतम् ।। 3.7.8 ।।
सनाथ इव सनाथ एव । यद्वा सर्वदा त्वया सनाथत्वेपि पामराणां सनाथत्वप्रतिभेदानीं जातेत्यर्थः ।। 3.7.8 ।।
प्रतीक्षमाणस्त्वामेव नारोहे ऽहं माहायशः ।
देवलोकमितो वीर देहं त्यक्त्वा महीतले ।। 3.7.9 ।।
स्वस्य मोक्षापेक्षां व्यञ्जयति प्रतीक्षमाण इति । त्वामेव प्रतीक्षमाणः प्रतिपालयन् त्वदागमनं काङ्क्षमाण इत्यर्थः । देवलोकं नारोहे “तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम्” इति तस्य मोक्षविरोधित्वादिति भावः ।। 3.7.9 ।।
चित्रकूटमुपादाय राज्यभ्रष्टो ऽसि मे श्रुतः ।। 3.7.10 ।।
मदागमनं कुतो ऽवगतम्? तत्राह चित्रकूटमिति । चित्रकूटमुपादाय चित्रकूटगमनमारभ्य । राज्याद्भ्रष्टः प्रच्युत इति मे मया श्रुतो ऽसि ।। 3.7.10 ।।
इहोपयातः काकुत्स्थ देवराजः शतक्रतुः ।
उपागम्य च मां देवो महादेवस्सुरेश्वरः ।
सर्वान् लोकान् जितानाह मम पुण्येन कर्मणा ।। 3.7.11 ।।
तेषु देवर्षिजुष्टेषु जितेषु तपसा मया ।
मत्प्रसादात्सभार्यस्त्वं विहरस्व सलक्ष्मणः ।। 3.7.12 ।।
तमुग्रतपसा युक्तं महर्षिं सत्यवादिनम् ।
प्रत्युवाचात्मवान् रामो ब्रह्माणमिव काश्यपः ।। 3.7.13 ।।
अहमेवाहरिष्यामि स्वयं लोकान्महामुने ।
आवासं त्वहमिच्छामि प्रदिष्टमिह कानने ।। 3.7.14 ।।
स्वर्गारोहणस्य कः प्रसङ्ग इत्यत्राह इहेति । उपयातः शरभङ्गार्थमागतः । मामुपागम्याह तर्हि तादृशमहाफलं किमिति त्यक्तवानसीत्युक्ते तारतम्यज्ञानादिति भावः ।। 3.7.1114 ।।
भवान् सर्वत्र कुशलस्सर्वभूतहिते रतः ।
आख्यातश्शरभङ्गेण गौतमेन महात्मना ।। 3.7.15 ।।
गौतमेन गौतमवंश्येन ।। 3.7.15 ।।
एवमुक्तस्तु रामेण महर्षिर्लोकर्विश्रुतः ।
अब्रवीन्मधुरं वाक्यं हर्षेण महताप्लुतः ।। 3.7.16 ।।
अयमोवाश्रमो राम गुणवान् रम्यतामिह ।
ऋषिसङ्घानुचरितस्सदा मूलफलान्वितः ।। 3.7.17 ।।
हर्षेण महताप्लुतः मोक्षानुग्रहेण परमानन्दभरितः ।। 3.7.16,17 ।।
इममाश्रममागम्य मृगसङ्घा महायशः ।
अटित्वा प्रतिगच्छन्ति लोभयित्वाकुतोभयाः ।
नान्यो दोषो भवेदत्र मृगेभ्यो ऽन्यत्र विद्धि वै ।। 3.7.18 ।।
गुणमुक्त्वा दोषमाह निरसनीयत्वाभिप्रायेण इममिति । आश्रमं तपोवनम् । अविद्यमानं कुतो ऽपि भयं येषां ते अकुतोभयाः सन्तः अटित्वा इतस्ततः परिप्लुत्य । लोभयित्वा समाधिभङ्गं जनयित्वा । विचित्रतरवेषैरिति शेषः । प्रतिगच्छन्ति प्रतियान्ति । अत्र वने । मृगेभ्यो ऽन्यत्र मृगान् विनान्यो दोषो न भवेदिति विद्धि, मृगप्रलोभनरूपदोषादन्यो दोषो ऽत्र नास्तीत्यवेहीत्यर्थः । इति वाक्यमब्रवीदिति पूर्वेण सम्बन्धः ।। 3.7.18 ।।
तच्छ्रुत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः ।
उवाच वचनं धीरो विकृष्य सशरं घनुः ।। 3.7.19 ।।
तत् मृगभयविषयकं वचनम् । विकृष्य सशरं धनुरिति स्वोत्साहप्रकटनम् ।। 3.7.19 ।।
तानहं सुमहाभाग मृगसङ्घान् समागतान् ।
हन्यां निशितधारेण शरेणाशनिवर्चसा ।। 3.7.20 ।।
हन्यामिति प्राप्तकाले लिङ् । वधकाले प्राप्ते सकलमृगहननं कुर्यामित्यर्थः । प्राप्तकालश्च तद्दर्शनकालः ।। 3.7.20 ।।
भवांस्तत्राभिषज्येत किं स्यात्कृच्छ्रतरं ततः ।
एतस्मिन्नाश्रमे वासं चिरं तु न समर्थये ।। 3.7.21 ।।
तच्च हननमिह स्थित्वा न कर्तुं शक्यमित्याह भवानिति । तत्र मृगसङ्घवधविषये । भवान् मया अभिषज्येत अभिभूयेत । अभिपूर्वात् षञ्जेः कर्मणि लिङ् । “अभिषङ्गः परिभवे सङ्गाक्रोशनयोरपि ” इति बाणः । तादृशमृगहनने मया त्वं कृतापराधो भवेः, आश्रमसम्बन्धित्वादिति भावः । ततः किमित्यत्राह किं स्यात्कृच्छ्रतरं तत इति । ततः भवदभितापात् कृच्छ्रतरं कष्टतरं किम्, न किमपीत्यर्थः । तस्मादेतस्मिन्नाश्रमे चिरं तद्दर्शनपर्यन्तं वासं न समर्थये नेच्छामि । इह वासे मृगसङ्घपीडां सोढ्वा स्थातव्यम् । हत्वावस्थाने स्वाश्रममृगाणां स्वसन्निधौ हनने तव वैमनस्यं स्यात् । तच्च ममानिष्टम्, अतो ऽन्यत्र त्वदसन्निधाने मृगान् हनिष्यामीत्यर्थः । इत्युवाचेति पूर्वेणान्वयः ।। 3.7.21 ।।
तमेवमुक्त्वा वरदं रामस्सन्ध्यामुपागमत् ।। 3.7.22 ।।
अन्वास्य पश्चिमां सन्ध्यां तत्र वासमकल्पयत् ।
सुतीक्ष्णस्याश्रमे रम्ये सीतया लक्ष्मणेन च ।। 3.7.23 ।।
वरदमित्यनेन मुनिस्तथैवानुज्ञातवानिति गम्यते । सन्ध्यामुपागमत् सन्ध्यामुद्दिश्य सरस्तीरं गतवानित्यर्थः । पश्चिमां सन्ध्यामन्वास्य । अत्यन्तसंयोगे द्वितीया । यावत्सन्ध्यां जलतीरे जपन् स्थित्वेत्यर्थः । तत्राश्रमे वासमकल्पयदित्यनेन प्रातर्जिगमिषा जातेति व्यज्यते । अन्यत्र गत्वा मृगनिरासश्च रावणं प्रति मारीचानुवादादवगन्तव्यः ।। 3.7.22,23 ।।
ततश्शुभं तापसभोज्यमन्नं स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम् ।
ताभ्यां सुसुत्कृत्य ददौ महात्मा सन्ध्यानिवृत्तौ रजनीमवेक्ष्य ।। 3.7.24 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तमः सर्गः ।। 7 ।।
शुभं भक्त्युपनीतत्वेन पावनम् । तापसभोज्यं फलमूलादि । अन्नं अदनीयम् । स्वयं नतु शिष्यमुखेन, सुसत्कृत्य अर्घ्यपाद्यादिना सम्पूज्य । महात्मा तत्र परमपुरुषत्वज्ञानवान् । सन्ध्यानिवृत्तौ सन्ध्याकर्मावसाने रजनीमवेक्ष्य ददौ, रजनीभक्ष्यानुसारं ददावित्यर्थः । सीता तु रामभुक्तशेषं भुक्तवतीत्याशयः ।। 3.7.24 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने सप्तमः सर्गः ।। 7 ।।